TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
सप्तषष्टितमोऽध्यायः

श्री नारदीयमहापुराणम् - सप्तषष्टितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सप्तषष्टितमोऽध्यायः
सनत्कुमार उवाच ॥
अथ वक्ष्ये देवपूजां साधकभीष्टसिद्धिदाम् ॥ त्रिकोणं चतुरस्त्रं वा वामभागे प्रकल्प्य च ॥१॥
सम्पूज्या स्त्रेण संक्षाल्य ह्रदाधारं निधाय च ॥ तत्राग्निमण्डलं चेद्वा पात्रं संक्षाल्य चास्त्रतः ॥२॥
आधारे नमसं स्थाप्य तत्र चेद्रविमंडलम् ॥ विलोममातृकामूलमुच्चरन्पूरशेज्जलैः ॥३॥
तत्रेंदुमांप्राच्यताथान्यावाह्य पूर्ववत् ॥ गोमुद्रयामृतीकृत्य कवचेनागुंठ्येत् ॥४॥
संक्षालास्त्रेण प्रणवं तदुपर्यष्टधा जपेत् ॥ सामान्याघमिंद प्रोक्तं सर्वसिद्धिकरं नृणाम् ॥५॥
तज्जलं किंचिदुद्‌धृत्य प्रोक्षिण्यां साधकोत्तमः ॥आत्मानं यागवस्तूनि तेन संप्रोक्षयेत्पृथक् ॥६॥
आत्मवामाग्रतः कुर्यात्षटोणांतस्त्रिकोणकम् ॥ चतुरस्त्रेण संवेष्टय संक्षाल्यार्घोदकेन च ॥७॥
ततस्तु साधकश्रेष्ठः स्तंभयेच्छंखमुद्रया ॥ आग्नेयादिषु कोणेषु ह्रदाद्यंगचतुष्टयम् ॥८॥
नेत्रं मध्ये दिक्षु चास्त्रं त्रिकोणे पूजयेत्ततः ॥ मूलखंडत्रयेनाथा घारशक्तिं तु मध्यगाम् ॥९॥
एवं सपूज्य विधिवदस्त्रसंक्षालितं त्द्ददा ॥ प्रतिष्ठाप्य त्रिपदिकां पूजयेन्मनुनामुना ॥१०॥
मं वह्रिमण्डला येति ततो दशकलात्मने ॥ असुकार्द्ध्येति पात्रांते सनापह्रदयोंऽतिमे ॥११॥
चतुर्विशतिवर्णोऽयमाधरस्यार्चने मनुः ॥ स्वमंत्रक्षालितं शंखं संस्थाप्याथ समर्चयेत् ॥१२॥
तारः कार्म्ममहांस्ते तु ततो जलचराय च ॥ वर्म फटू ह्रदयं पांचजन्याय त्द्ददयं मनुः ॥१३॥
तत्रार्कमण्डलायेति द्वादशांते कलासाने ॥ असुकार्घ्येति पात्रांते नमोंतस्त्र्याक्षिवर्णवान् ॥१४॥
सम्पूज्य तेन तत्रार्चेद्दादशार्ककलाः क्रमात् ॥ ततः शुद्धजलैर्मूलं विलोममातृकां पठन् ॥१५॥
शङ्खमापूरयेतस्मिन्पूजयेन्मनुनामुना ॥ ॐ सोममण्डललायेति षोडशांते कलात्मने ॥१६॥
असुका र्घ्यामृतायेति हन्मनुश्वार्घ्यपूजने ॥ तत्र षोडसंख्याका यजेच्चंद्रमसः कलाः ॥१७॥
ततस्तु तीर्थान्यावाह्य गङे चेत्यादिपूर्ववत् ॥ गोमुद्रयामृती कृत्याच्छादयेन्मत्स्यमुद्रया ॥१८॥
कवचेनावगुंठ्याथ रक्षेदस्त्रेण तत्पुनः ॥ चिंतायित्वेष्टदेवं च ततो मुद्राः प्रदर्शयेत् ॥१९॥
शङ्खमौ शलचक्राख्याः परमीकरण्म ततः ॥ महामुद्रां योनिमुद्रां दर्शयेत्क्रमतः सुधीः ॥२०॥
गारुडी गालिनी चैव मुख्ये मुद्रे प्रकीर्तीते ॥ गन्धपुष्पादिभि स्त पूजयेद्देवतां स्मरन् ॥२१॥
अष्टकृत्वो जपेन्मूलं प्रणवं चाष्टधा तथा ॥ शंखाद्दक्षिणदिग्भागे प्रोक्षणीपात्रमादिशेत् ॥२२॥
प्रोक्षण्यां तज्जलं किंचित्कृत्वात्त्मानं त्रिधा ततः ॥ आत्मतत्त्वात्मने हच्च विद्यात्त्वामने नमः ॥२३॥
शिवतत्त्वात्मने हच्च इत्येतैर्मनुभिस्त्रिभिः ॥ प्रोक्षेत्पुष्पाक्ष तैश्वापि मण्डलं विधिवत्सुधीः ॥२४॥
अथवा मूलगायत्र्या पूजाद्रव्याणि प्रोक्षयेत् ॥ पाद्यार्घ्यचमनीयार्थं मधुपर्कार्थमप्युत ॥२५॥
पात्राण्याधा स्युक्तानि स्थापयेद्विधिना पुरः ॥ पाद्यं श्यामाकदूर्वाब्जविष्णुक्रांतजलैः स्मृतम् ॥२६॥
अर्घ्यं पुष्पाक्षतयवैः कुशाग्रतिलर्सर्षपैः ॥ गंधदूर्वादलैः प्रोक्तं ततश्वाचमनीयकम् ॥२७॥
जातीफलं च कंकोलं लवंगं च जलान्वितम् ॥ क्षौंद्राज्यदधिसंमिश्रं मधुपर्कसमीरितम् ॥२८॥
एकस्मिन्नथवा पात्रे पाद्यादिनि प्रकल्पयेत् ॥ शंकरार्कार्चने शंखमयेनैव प्रशस्यते ॥२९॥
श्वेताकृष्णारुणापीताश्मामारक्तासितासिताः ॥ रक्तांबराभयकरा ध्येयास्स्युः पीठशक्तयः ॥३०॥     
स्वर्णादिलिखेत यंत्रे शालग्रामे मणौ तथा ॥ विधिना स्थापिताया वा प्रतिमायां प्रपूजयेत् ॥३१॥
अंगुष्ठा दिवितत्यंतमाना स्वर्णादिधातुभिः ॥ निर्मिता शुभदा गेहे पूजनाय दिने दिने ॥३२॥
वक्रां द्ग्धां खंडितां च भिन्नमूर्द्धदृशं पुनः ॥ स्पृष्टां वाप्य न्त्यजाडौभ प्रतिमा नैव पूजयेत् ॥३३॥
बाणादिलिंगे वाभ्यर्चेत्सर्वलक्षणलक्षिते ॥ मूलेन मूर्ति संकल्प ध्यात्वा देवं यथोदितम् ॥३४॥
आवाहा पूजयेतस्यां परिवारगणैः सह ॥ शालग्रामे स्थापितायां नावाहनविसर्जने ॥३५॥
पुष्पांजलिं समादाय ध्यात्वा मंत्रमुदीरेयेत् ॥३६॥
आत्मंसंश्तमजं शुद्धं त्वामहं परमेश्वर ॥ अरण्यामिव हव्याशं मूर्तावावह्याम्यहम् ॥३७॥
तवेयं हि महामूर्तिस्तस्यां त्वां सर्वगं प्रभो ॥ भक्तिसेहसमाकृष्टें दीपवत्स्थापयाम्यहम् ॥३८॥
सर्वांतर्यामिणे देवं सर्वबीजमय शुभम् ॥रवात्मस्थाय परं शुद्धमासनं कल्पया ध्यहम् ॥३९॥
अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो ॥ सांनिध्यं कुरु तस्यां त्वं भक्तानुग्राहकारकः ॥४०॥
अज्ञानादुत मत्तत्त्वाद्वैतल्यात्साध नस्य च ॥ यच्चपूर्णं भवेत्कल्पं तयाप्याभिमुखो भव ॥४१॥
दृशा पीयूषवर्षिण्या पूरयन्यज्ञविष्टरे ॥ मूर्तौ वा यज्ञसंपूर्त्यै स्थितो भव महेश्वर ॥४२॥
अभक्तवाङ्‌मनश्वक्षुः श्रोत्रदूरायितद्युते ॥ स्वतेजः पंजरेणाशु वेष्टितो भव सर्वतः ॥४३॥
यस्य दर्शमनिम्च्छंति देवाः स्वाभीष्टदिद्धये ॥ तस्मै ते परमेशाय स्वागंत स्वागतं च से ॥४४॥
कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितं मम ॥ आगतो देवदेवेशः सुखागतमिदं पुनः ॥४५॥
यद्धक्ति लेरासंपर्कात्परमानंदसंभवः ॥ तस्यै परणाब्जाय पाद्यं शुद्धाय कल्प्यते ॥४६॥
वेदानामपि वेदाय देवानां देवतात्मने ॥ आचामं कल्प यामीश शुद्धानाशुधिहेतवे ॥४७॥
तापत्रयहरं दिव्यं परमानन्दलक्षणम् ॥ तापत्रविनिर्सुत्त्यै तवार्घ्यं कल्पयाम्यहम् ॥४८॥
सर्वकालुष्यहीनाय परिपूर्णसुखात्मने ॥ मधुपर्कमिदं देव कल्पयामि प्रसीद मे ॥४९॥
च्छिष्टोऽप्यशुचिर्वापि यस्य स्मरणमात्रतः ॥ शुद्धिमाप्नोति तस्मै ते पुनरा चमनीकम् ॥५०॥
स्त्रेहं गृहाण लोकनाथ महाशय ॥ सर्वलोकेषु शुद्धात्मन्ददामि स्नेहमुत्तमम् ॥५१॥
परमानंबोधाब्धिनिमग्ननिजमूर्तये ॥ सांगोपांगामिदं स्नानं कल्पयाम्यहमीश ते ॥सहस्त्रं वा शतं वापि यथाशक्तयादरेण च ॥५२॥
गन्धपुष्पादिकैरीश मनुनां चाभिषिंचयेत् ॥५३॥
मायाचि त्रपटच्छान्ननिजगुह्योरुतेजसे ॥ निरावरणविज्ञान वासस्ते कल्पयाम्यहम् ॥५४॥
यमाश्रित्य म हामाया जगत्संमोहिनी सदा ॥ तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ॥५५॥
रक्तं शक्तर्कविघ्नेषु पीतांविष्णौ सितं शिवे ॥ तैलादिदूषितं जीर्णं सच्छिद्रं त्यजेत् ॥५६॥
यस्य शक्तित्रयेणंद संप्रीतम खिलं जगत् ॥ यज्ञसूत्रायं तस्मै ते यज्ञसूत्रं प्रकल्पये ॥५७॥
स्वभावसुन्दरांगाय नानाशक्त्याश्रयाय ते ॥ भूषणानि विचित्राणि कल्पया म्यमरार्चित ॥५८॥
परमानन्दसौरभ्यप्रिपूर्णदिंगतरम् ॥ गृहाण परम गंध कृपया परमेश्वर ॥५९॥
तुरीयवनसंभूतं नानागुणमनोहरम् ॥ अमंदसौरभ पुष्पं गृह्यतामिदमुत्तमम् ॥ जपाक्षतार्कधत्तूरान्विष्णो चैवार्पयेत्क्तचित् ॥६०॥
केतकीं क्रुटजं कुदं बंधूकं केशरं जपाम् ॥ मालतीपुष्पक चैव नार्पयेत्तु महेश्वरे ॥६१॥
मातुलिंगं च तगरं खौ नैवार्पयेत्क्कचित् ॥ शक्तौ दूर्वार्कमंदारान् गणेशे तुलसीं त्यजेत् ॥६२॥
सरोजिनीदमनकौ तथा मरुबकः कुशः ॥ विष्णुक्रांता नागवल्ली दूर्वापामार्गदाडिमौ ॥६३॥
धात्री मुनियुतानां च पत्रैर्देवार्चनं चरेत् ॥ कदली बदरी धात्री तिंतिणी बीजपूर्कम् ॥६४॥
आम्रदाडिमंजबीरंजबूपनसभूरुहाः ॥ एतेषां तु फलैः कुर्याद्देवतापूजनं बुधः ॥६५॥
शुष्कैस्तु नार्चयेद्देवं पत्रैः पुष्पैः फलैरपि ॥६६॥
धात्री खदिरबिल्वानां तमालस्य दलानि च ॥ छिन्नभिन्नान्यपि मुने न दूष्यामि जगुर्बुधाः ॥६७॥
पद्ममामलकं तिष्ठेच्छुद्धं चैव दिनत्रयम् ॥ सर्वदा तुलसी शुद्धा बिल्वपत्राणि वै तथा ॥६८॥
पलाशकाशकुसुमैस्तमालतुलसीदलैः ॥ धात्रीदलैश्व दूर्वाभिनार्चयेज्जगदं बिकाम् ॥६९॥
नार्पयेत्कुसुमं पत्रं फंल देवे ह्यधोमुखम् ॥ पुष्पपत्रादिकं विप्र यथोत्पंन्न तथार्पयेत् ॥७०॥
वनस्पतिरसं दिव्यं गंधाढ्यं सुमनोहरम् ॥ आघ्रयं देवदेवेश धूपं भक्तया गृहाण मे॥७१॥
सुप्रकाशं महादीपं सर्वदा तिमिरापहम्‍ ॥ घृतवर्तिसमायुक्तं गृहाण मम सत्क्रुतम्‍ ॥७२॥
अन्तं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम्‍ ॥ भक्त्या गृहाण मे देव नैवेद्यंतुष्टिदंसदा ॥७३॥
नागवल्लीदलं श्रेष्ठं पूगखदिरचूर्णयुक्त् ॥ दिसुगंधाढ्यं यद्दत्तं गद्‌गृहाण मे ॥७४॥ 
दद्यात्पुष्णा पश्र्वात्कुर्यादावरणार्चनम्‍ ॥७५॥
यदाशा्भिमुखो भूत्वा पूजनं तु समाचरेत्‍ ॥ सैव प्राची तु विज्ञेया ततोऽन्या विदिशो दश ॥७६॥
केशरेष्वग्निकोणा दि ह्रदयादीनि पूजयेत् ॥ नेत्रमग्रे दिक्षु चास्त्रं अंगमंत्रैर्त्यथाक्रमम् ॥७७॥
शुल्कश्वेतसितश्यामकृष्णरक्तार्चिषः क्रमात् ॥ वराभयकरा ध्येयाः ॥ स्वस्वदिक्ष्वं गशक्तयः ॥७८॥
अमुकावरणांते तु देवता इति संवदेत् ॥ सालंकारास्ततः पश्वात्सांगाः सपरिचारिकाः ॥७९॥
सवाहनाः सायुधाश्व ततः सर्वो पचारकैः ॥ संपूजितास्तर्पिताश्व वरदाः संत्विदं पठेत् ॥८०॥
मूलांते च समुच्चार्य देवतायै निवेदयेत् ॥ अभीष्टसिद्धिं मे देहि शरणागतवत्सल॥८१॥
भक्त्या समर्पये तुभ्यममुकावरणार्चनम् ॥ इत्युच्चार्य क्षिपेत्पुष्पाञ्जलिं देवस्य मस्तके ॥८२॥
ततस्वभ्यर्च्यनीयाः स्युः कल्पोक्ताश्वा वृतीः क्रमात् ॥ सायुधांस्ततं इंद्राध्रान्स्वस्वदिक्षु प्रपूजयेत् ॥८३॥
इंद्रो वह्रिर्यमो रक्षो वरुणः पवनो विधुः ॥ ईशानोऽथ विधिश्वैवमधस्तात्पन्न गाधिपः ॥८४॥
ऐरावतस्तथा मेषो मद्दिषः प्रेतस्तिमिर्सृगः ॥ वाजी वृषो हंसकूर्मो वाद्दनानि वुदुर्बुधाः ॥८५॥
वज्रं शक्तिं दंडखङौं पाशां कुशगदा अपि ॥ त्रिशूलं पद्मचक्रे च क्रमादिंद्रादिद्देतयः ॥८६॥
समाप्यवरणाचां तु देवतारार्तिकं चरेत् ॥ शंखतोयं परिक्षिप्यो द्वाहुर्नृत्यत पतेत्क्षितौं ॥८७॥
दंडवच्चाथोत्थाय प्रार्थयित्वा निजेश्वरम् ॥ दक्षिणे स्थडिलं कृत्वा तत्र संस्कारमचरेत् ॥८८॥
मूलेनेक्षणमस्त्रेण प्रोक्षणं ताडनं पुनः ॥ कुशैस्तद्वर्मणाभ्युक्ष्य पूज्य तत्र न्यसेद्वसुम् ॥८९॥
प्रदाप्य तत्र जुहुयाद्धयात्वा चैवेष्टदेवताम् ॥ महाव्याह्रतिभिर्यस्तु समस्ताभिश्वतुष्टयम ॥९०॥
जुहुयात्सर्पिषां भक्तैस्तिलैर्वा पायसेन वा ॥ सघृतैः साधकश्रेष्ठः पञ्चविंशतिसंख्यया ॥९१॥
पुनर्व्यह्रतिभिर्हुत्वा गंधाद्यैः पुनरर्चयेत् ॥ देवं संयोजनेन्मूतौं ततो वह्रिं विसर्जयेत् ॥९२॥
भो भो वह्रे महाशक्ते सर्वकर्मप्रसाधक ॥ कर्मांतरेऽपि संप्राप्ते सान्निध्यं कुरु सादरम् ॥९३॥
विसृज्याग्निदेवतायै दद्यादाचमनीयकम् ॥ अवशिष्टेन हविषां गंधपुष्पाक्षतान्वितम् ॥९४॥
देवतापार्षदेभ्योऽपि पूर्वोक्तेभ्यो बलिं ददेत् ॥ ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ॥९५॥
योगिन्यो ह्युग्रपाश्व गणानामधिपाश्व ये ॥ विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताः ॥९६॥
सर्वे ते प्रीतमनसः प्रतिगृह्रंत्विमं बलिंम् ॥ इत्यष्टदिक्षु दत्वा च पुनर्भूतबलिं चरेत् ॥९७॥
पानीयममृतीकृत्य मुद्रया धेनुसंज्ञया ॥ देवतायाः करे दद्यात्पनश्वाचमनीयकम् ॥९८॥
देवमुद्वास्य मूर्तिस्थं पुनस्तत्रैव योजयेत् ॥ नैवेद्यं च ततो दद्यात्तत्तदुच्छिष्टभोजिने ॥९९॥
महेश्वरस्य चंडेशो विष्वकूसेनस्तथा हरेः ॥ चंडांशुस्तणेर्वक्रतुंडश्वापि गणेशितुः ॥ शक्तेरुच्छिष्टचांडाली प्रोक्ता उच्छिभोजिनः ॥१००॥
ततो ऋष्यादिकं स्मृत्वा कृत्वा मूलषडंगकम् ॥ जप्त्वा मंत्रं यथाशक्ति देवतायै निवेदयेत् ॥१०१॥
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥ सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्विये स्थिता ॥१०२॥
ततः पराङ्‌मुखं चार्घं कृत्वा पुष्पैः प्रपूजयेत् दोर्भ्यां पद्दद्यां च जानुभ्यामुरसा शिरसा दृशा ॥ मनसा चेति प्रणामोऽष्टांग ईरितः ॥१०३॥
बाहुभ्यां च सजानुभ्यां शिरसा वचसापि वा ॥ पंचांगकः प्रणामः स्यात्पूजायां प्रवरा वुभौ ॥१०४॥
नत्वा च दंडवन्मंत्री ततः कुर्यात्प्रदक्षिणाः ॥ विष्णुसोमार्कविघ्नानां वेदा वेदार्धैद्वद्रिवह्रयः ॥१०५॥
ततः स्तोत्रादिकं मंत्री प्रपठे द्धक्तिपूर्वकम् ॥ इतः पूर्णं प्राणबुद्धिदेहधर्माधिकारतः ॥१०६॥
जाग्रत्स्वप्रसुषुप्त्यंतेऽवस्थासु मनसा वदेत् ॥ वाचा हस्ताभ्यां च पभ्द्या मुदरेण ततः परम् ॥१०७॥
शिष्णांते यत्स्मृतं पश्वाद्यदुक्तं यत्कृतं ततः ॥ तत्सर्वं च ततो ब्रह्मार्पणं भवतु ठद्वयम् ॥१०८॥
मां मदीयं च सकलं विष्णवे च समर्पये ॥ तारं तत्सदतो ब्रह्मार्पणस्तु मनुर्मतः ॥१०९॥
प्रणवाद्योऽष्टवस्वर्णो ह्यनेनात्मानमर्पयेत् ॥ अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य च ॥११०॥
यन्न्यूनमतिरिंक्त वा तत्सर्वं क्षन्तुमर्हसि ॥ द्रव्यहीनं क्रियाहीनं मंत्रहीनं मंतहीनं मयान्यथा ॥१११॥
कृतं यत्तत्क्षमस्वेश कृपया त्वं दयानिधे ॥ यन्मया क्रियतें कर्म जाग्रत्स्वप्रसुषुप्तिषु ॥११२॥
तत्सर्वं तावकी पूजा भूयाद्धूत्यै च मे प्रभो ॥ भूमौस्खलिपादानां भूमिरेवाक्लंबनम् ॥११३॥
त्वयि जातापराधानां त्वमेव शरणं प्रभो ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥११४॥
तस्मात्कारुण्यभावेन क्षमस्व परमेश्वर ॥ अपराधसहस्त्राणि क्रियंतेऽहर्न्निशं मया ॥११५॥
दासोऽयमिति मां मत्वा क्षमस्व जगतां पते ॥ आवाहनं न जानामि न जानामि विसर्जनम् ॥११६॥
पूजां चैव न जानामि त्वं गतिः परमेश्वर ॥ संप्रार्थ्यैवं ततो मंत्री मूलांते श्लोकमुच्चरेत् ॥११७॥
गच्छ गच्छ परं स्थानं जगदीश जगन्मय ॥ यन्न ब्रह्मादयो देवा जानंति च सदाशिवः ॥११८॥
इति पुष्पांजलिं दत्वा ततः संहारमुद्रया ॥ निधाय देवं सांगं च स्वीयत्द्दसरसीरुहे ॥११९॥
सुषुम्णावर्मनो पुष्पमाघ्रायोद्वासयेद्‍ बुधः ॥ शंखचक्रशिलालिंगविघ्नसूर्यद्वयं तथा ॥१२०॥ 
शक्तित्रयं न चैकत्र पूजयेद्दुःखकारण्म्‍ ॥ अकालमृत्युहरणं सर्वव्याधिविनाशम्‍ ॥१२१॥
सर्वपापक्षयकरं विष्णुपादोदकं शुभम्‍ ॥१२२॥
तत्तद्ध्दक्तैर्गृही तव्यं तन्नैवेद्यनिवेदितम् ॥ अब्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् ॥१२३॥
शालग्रामशिलास्पर्शात्सर्वं याति पवित्रताम् ॥ पूजा पंचविधा तत्र कथिता नारदाखिलैः ॥१२४॥
आतुरी सौतिकी त्रासी साधना-भाविनी तथा ॥ दौर्बिधी च क्रमादासां लक्षणानि श्रृणुष्व मे ॥१२५॥
रोगादियुक्तो न स्यायान्न जपेन्न च पूजयेत् ॥ विलोक्य पूजां देवस्य मूर्तिं वा सूर्य्यमंडलम् ॥१२६॥
प्रणम्याथ स्मरन्मंत्रमर्पयेत्कुसुमांजलिम् ॥ रोगे निवृत्ते स्त्रात्वाथ नत्वा संपूज्येद्धरुम् ॥१२७॥
तत्प्रसादाज्जगन्नाथ जगत्पूज्य दयानिधे ॥ पूजाविच्छेददोषो मे मास्त्विति प्रार्थयेच्च तम् ॥१२८॥
द्विजानपि च संपूज्ये यथाशक्तया प्रतोष्य च ॥ तेभ्यश्वशिषमादाय देवं प्राग्वत्ततोऽर्चयेत् ॥१२९॥
आतुरी कथिता ह्येषा सौतिक्यथ निगद्यते ॥ सूतकं द्विविधं प्रोक्तं जाताख्यं मृतसंज्ञकम् ॥१३०॥
तत्र स्त्रात्वा मानसीं तु कृत्वा संध्यां समाहितः ॥ मनसैव यजेद्देवं मनसैव जपेन्मुनुम् ॥१३१॥
निवृत्ते सूतके प्राग्वत्संपूज्य च गुरुं द्विजान् ॥ तेभ्यश्वाशिषमादाय ततो नित्यक्रमं चरेत् ॥१३२॥
एषा तु सौतिकी प्रोक्ता त्रासी चाथ निगद्यते ॥ दुष्टेभ्यस्त्रासमापन्नो यथालब्धोपचारंकैः ॥१३३॥
मानसैर्वा यजेद्देवं त्रासी सा परिकीर्तिता ॥ पूजासाधनवस्तूनाम सायर्थ्ये तु सर्वतः ॥१३४॥
पुष्पैः पत्रैः फलैर्वापि मनसा वा यजेद्विभुम् ॥ साधनाभाविनी ह्येषां दौर्बौधीं श्रृणु नारद ॥१३५॥
स्त्रियो बृद्धा स्तथा बाला मूर्खास्तैस्तु यथाक्रमम् ॥ यथाज्ञानकृता सा तु दौर्बौधीति प्रकीर्तिता ॥१३६॥
एवं यथाकथंचित्तु पूजां कुर्याद्धि साधकः ॥ देवपूजाबिहीनो यः स गच्छेन्नरकं ध्रुवम् ॥१३७॥
वैश्वदेवादिकं कृत्वा भोजयोद्दिससत्तमान् ॥ देवे निवेदितं पश्वाद्धुंजीत स्वगणैः स्वयम् ॥१३८॥
आचाभ्याननशुद्धिं च कृत्वा तिष्ठेत कियत्क्षणम् ॥ पुराणमितिहासं च श्रुणुयात्स्वजनैः सद्द ॥१३९॥
समर्थः सर्वकल्पेषु योऽनुकल्पं समाचरेत्  न सांगशयिकं तस्य दुर्मतर्जायते फलम् ॥१४०॥
इति श्रीबृहन्नारदीयपुराणे बृहद्दपाख्याने तृतीयपादे देवपूजानिरुपणं नाम सप्तषष्टितमोऽध्यायः ॥६७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:43:10.0070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

parabolic back tooth

  • अन्वस्तीय पश्च दंत 
RANDOM WORD

Did you know?

मृत माणसाच्या दहाव्याच्या पिंडाला कावळा न शिवल्यास धर्मशास्त्राप्रमाणे अन्य उपाय कोणता?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site