TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
त्रिचत्वारिंशोऽध्यायः

श्री नारदीयमहापुराणम् - त्रिचत्वारिंशोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


त्रिचत्वारिंशोऽध्यायः

भरद्वाज उवाच ।

यदि प्राणपतिर्वायुर्वायुरवे विचेष्टतः ॥ श्वसित्याभाषेते चैव ततो जीवो निरर्थकेः ॥१॥

य ऊष्मभाव आग्रेयो वह्रिनैवोपलभ्यते ॥ अग्निर्जरयते चैतत्तदा जीवो निरर्थकः ॥२॥

जंतोः प्रम्रियमाणस्य जीवो नैवोपलभ्यते ॥ वायुरेव जहात्येनमूष्मभावष्म नश्यति ॥३॥

यदि वायुमयो जीवः संश्लेषो यदि वायुना ॥ वायुमंडलवत्प्रश्येदच्छेत्सह मरुद्धणैः ॥४॥

संश्लेषो यदि वा तेन यदि तस्मात्प्रणश्यति ॥ महार्णवविमुक्तित्वादन्यत्सलिलभाजनम् ॥५॥

कूपे वा सलिलं दद्यात्प्रदीपं वा हुताशने ॥ क्षिप्रं प्रविश्य नश्येत यथा नश्यत्यसौ तथा ॥६॥
पंचधारणके ह्यस्मिञ्छरीरे जीवितं कृतम् येषामन्यतराभावाच्चतुर्णा नास्ति संशयः ॥७॥

नश्यंत्यापो ह्यनाहाराद्वायुरुच्छासनिग्रहात् ॥ नश्यते कोष्ठभेदार्थमग्निर्नश्यभोजनात् ॥८॥

व्याधिव्रणपरिक्लेशेर्मेदिनी चैव शीर्यते ॥ पीडितेऽन्यतरे ह्येषां संघातो याति पंचताम् ॥९॥

तस्मिन्पंचत्वमापन्ने जीवः किमनुधावति ॥ किं खेदयति वा जीवः किं श्रृणोति ब्रवीति च ॥१०॥

एषा गौः परलोकस्थं तारयिष्यति मामिति ॥ यो दत्त्वा म्रियते जंतुः सा गौः कं तारयिष्यति ॥११॥

गौश्च प्रतिग्रहीता च दाता चैव समं यदा ॥ इहैव विलयं माति कुतस्तेषां समागमः ॥१२॥

विहगैरुपभुक्तस्य शैलाग्रात्पतितस्य च ॥ अग्रिना चोपयुक्तस्य कुतः संजीवनं पुनः ॥१३॥

छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति ॥ जीवन्यस्य प्रवर्तते मृतः क्क पुनरेष्यति ॥१४॥

जीवमात्रं पुरा सुष्टं यदेतत्परिवर्तते ॥ मृता मृताः प्रपश्चयंति बीजाद्वीजं प्रणश्यति ॥१५॥

इति मे संशयो ब्रह्मन्हदये परिधावति ॥ त निवर्तय सर्वज्ञ यतस्त्वामाश्रितो ह्यहम् ॥१६॥

सनंदन उवाच ॥

एवं पृष्टस्तदानेन स भृगु र्ब्रह्मणः सुतः ॥ पुनराह मुनिश्रेष्ठ तत्संदेहानिवृत्तये ॥१७॥

भृगुरुवाच ॥

न प्राणः सन्ति जीवस्य दत्तस्य च कृतस्य च ॥ याति देहांतरं प्राणी शरीरं तु वीशीर्यते ॥१८॥

न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति ॥ समिधामग्निदग्धानां यथाग्निर्दृश्यते तथा ॥१९॥

भरद्वाज उवाच ॥

अग्रेर्यथा तस्य नाशात्तद्विनाशो न विद्यते । इन्धनस्तोफ्योगांते स वाग्निर्नोपलभ्यते ॥२०॥

नश्यतीत्येव जानामि शांतमग्निमनिन्धनम्॥ गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते ॥२१॥

भृगुरुवाच ॥

समिधामुपयोगांते स चाग्निर्नोपलभ्यते ॥ नश्यतीत्येव जानामि शांतमग्निनिंधनम् ॥२२॥

गतिर्यस्यं प्रमाणं वा संस्थान वा न विद्यते ॥ समिधामुपयोगांते यथाग्निर्नोपलभ्यते ॥२३॥

आकाशानुगतत्वाद्धि दुर्ग्राह्यो हि निराश्रयः ॥ तथा शरीरंत्यागे जीवो ह्याकाशवत्स्थितः ॥२४॥

न नश्यते सुसूक्ष्मत्वाद्यथा ज्योर्तिन संशयः ॥ प्राधान्धारयते ह्यग्रिः स जीव उपधार्यताम् ॥२५॥

वायुसंधारणो ह्राग्रिर्नश्यत्युच्छृसनिग्रहात् । तस्मिन्नष्टे शरीराग्नौ ततो देहमचेतनम॥२६॥

पतितं याति भूमित्वमयनं तस्य हि क्षितिः ॥जंगमानाम हि सर्वेषां स्थावराणाम तथैव च ॥२७॥

आकाशं पवनोऽन्वेति ज्योतिस्तमनुगच्छति॥ तेषां त्रयाणामेकत्वाद्दयं भूमौ प्रतिष्ठितम् ॥२८॥

यत्र खं तत्र पवनस्तत्राग्रिर्यत्र मारुतः ॥ अमूर्तयस्ते विज्ञेया मूर्तिमंतः शरीरिणः ॥२९॥

भरद्वाज उवाच ॥ वद्यग्रिमारुतौ भूमिः खमापश्च शरीरिषु ॥ जीवः किलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ ॥३०॥

पंचात्मके पञ्चरतौ पञ्चविज्ञानसंज्ञके ॥ शरीरे प्राणिनां जीव्म वेत्तुमिच्छामि यादृशम् ॥३१॥

मांसशोणितसंघाते मेदःस्त्राय्वस्थिसंचये ॥ भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते ॥३२॥

यद्यजीवशरीरं तु पञ्चभूतसमन्वितम् ॥ शरीरे मानसे दुःखे कस्तां रुजम् ॥३३॥
श्रृणोति कथितं जीवः कर्णाभ्यां न श्रृणोति तत् ॥ महर्षे व्यग्रे तस्माज्जीवो निरर्थकः ॥३४॥

सर्वे पश्यंति यद्दश्यं मनियुक्तेन चक्षुषा ॥ मानसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ॥३५॥

न पश्यति न चाघ्राति न श्रृणोति न भाषते ॥ न च स्पर्शमसौ वेत्ति निद्रावशगतः पुनः ॥३६॥

ह्रष्याति क्रुद्धयते कोऽत्र शोचत्युद्विजते च कः ॥ इच्छति द्वेष्टी वाक्यं वाचयते च कः ॥३७॥

भृगुरुवाच ॥

तं पंचसाधारणमत्र किंचिच्छरीरमेको वहतेंऽतरात्मा ॥ स वेत्तिं गंधांश्व रसाञ्छृतीश्व स्पर्शं च रुपं च गुणांश्व येऽन्ये ॥३८॥

पंचत्मके पंचगुणप्रदर्शी स सर्वगात्रानुगतोंऽतरात्मा ॥ सवेति दुःखानि सुखानि चात्र तद्विप्रयोगात्तु न वेत्ति देहम् ॥३९॥

यदा न रुपं न स्पर्शो नोष्मभवश्व पावके ॥ तदा शांते शरीराग्नौ देहत्यागेन नश्यति ॥४०॥

आपोमयमिंद सर्वमापोमूर्तिः शरीरिणाम् ॥ तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत् ॥४१॥

आत्मानं तं विजनीहि सर्वलोकहितात्मकम् ॥ तस्मिन्यः संश्रितो देहे ह्यब्बिंदुखि पुष्करे ॥४२॥

क्षेत्रज्ञं मं विजानीहि नित्यं लोकहितात्मकम् ॥ तमोरजश्व सत्त्वं च विद्धि जीवगुणानिमान् ॥४३॥

अचेतनं जीवगुणं वदंति स चेष्टते च सर्वम् ॥ अतः परं क्षेत्राविदो वदंति प्रावर्तयद्यो भुवनानि सप्त ॥४४॥

न जीवनाशोऽस्ति हि देहभेदे मिथ्यैत्दाहुर्मुन इत्यबुद्धाः ॥ जीवस्तु देहांतरितः प्रयाति दशार्द्धस्तस्य शरीरभेदः ॥४५॥

एवं भूतेषु सर्वेषु गूढश्चरति सर्वदा ॥ दृश्यते त्वग्र्या बुध्या सूक्ष्मया तत्त्वदर्शिभिः ॥४६॥

तं पूर्वापररात्रेषु युंजानः सततं बुधः ॥ लब्धाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥४७॥

चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् ॥ प्रसन्नात्मात्मनि स्थित्वा सुखमानंत्यमश्नुते ॥४८॥

मान सोऽग्रिः शरीरेषु जीव इत्यभिधीयते ॥ सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये ॥४९॥

असृजद्धाह्यणानेव पूर्वं ब्रह्मा प्रजापतिः ॥ आत्मतेजोऽभिनि र्वृत्तान्भारकराग्निसमप्रभान् ॥५०॥

ततः सत्यं च धर्मं च तथा ब्रह्म च शाश्वतम् ॥ आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः ॥५१॥

देवदान वगंधर्वा दैत्यासुरमहोरगाः ॥ यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ॥५२॥

ब्राह्मणः क्षत्रिया वैश्याः शूद्राणमसिस्तथा ॥ भरद्वाज उवाच ॥ चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभिद्यते ॥५३॥

स्वेदमूत्रपुरीषाणि श्लेष्मा पित्त सशोणितम् ॥ त्वन्तः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते ॥५४॥

जंगमानामंसख्येयाः स्थावराणां च जातयः ॥ तेषां विविधवर्णानां कुतो वर्णविनिश्वयः ॥५५॥

भृगुरुवाच ॥

न विशेषोऽस्ति वर्णानां सर्वं ब्रह्ममयं जगत् ॥ ब्राह्मणा पूर्वसृष्टं हि कर्मणा वर्णतां गतम् ॥५६॥

कामभोगाः प्रियास्तीक्ष्णाः क्रोधताप्रियसाहसाः ॥ त्यक्तस्वकर्म रक्तांगास्ते द्विजाः क्षत्रतां गताः ॥५७॥

गोभ्यो वृत्तिं समास्थाय पीताः कृष्युपजीविनः ॥ स्वधर्म्मान्नानुतिष्ठंति ते द्विजा वैश्यतां गताः ॥५८॥

हिंसानृतपरा लुब्धाः सर्वकर्मोपजीविनः ॥ कृष्णाः शौचपरिभ्राष्टास्ते द्विजाः शूद्रतां गताः ॥५९॥

इत्येतैः कर्मभिर्व्याप्ता द्विजा वर्णान्तरं गताः ॥ ब्राह्मणा धर्मतन्त्रथास्तपस्तेषां न नश्यति ॥६०॥

ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा ॥ ब्रह्म चैव पुरा सृष्टं येन जानंति तद्विदः ॥६१॥

तेषां बहुविधास्त्वन्यास्तत्र तत्र द्विजातयः ॥ पिशाचा राक्षसाः प्रेता विविधा म्लेच्छजातयः ॥ सा सृष्टिर्मानसी नाम धर्मतंत्रपरायणा ॥६२॥

भरद्वाज उवाच ॥ ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम ॥ वैश्यः शूद्रश्व विप्रर्षे तद्‌ब्रूहि वदतां वर ॥६३॥

भृगुरुवाच ॥ जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचि ॥ वेदध्ययनसंपन्नो ब्रह्मकर्मस्ववस्थितः ॥६४॥

शौचाचारस्थितः सम्यग्विद्याभ्यासी गुरुप्रियः ॥ नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते ॥६५॥

सत्यं दानमथोऽद्रोह आनृसंशस्यं कृपा घृणा ॥ तपस्यां दृश्यते यत्र स ब्राह्मण इति स्मृतः ॥६६॥
क्षत्रजं सेवते कर्म वेदा ध्ययतसंगतः ॥ दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते ॥६७॥

विशत्याशु पशुभ्यश्व कृष्यादानरतिः शुचिः ॥ वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः ॥६८॥

सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः ॥ त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ॥६९॥

शूद्रे चैतद्धवेल्लक्ष्म द्विजे तच्च न विद्यते ॥ न वै शूद्रा भवेच्छूद्रो ब्राह्मणो ब्राह्मणो न च ॥७०॥

सर्वोपार्येस्तु लोभस्य क्रोधस्य च विनिग्रहः एतत्पवित्रं ज्ञानानां तथा चैवात्मसंयमः ॥७१॥

वर्ज्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुद्यतौ॥ नित्यक्रोधाच्छियं रक्षेत्तपो रक्षत्तु मत्सरात् ॥७२॥
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥७३॥

यस्य सर्वे समारंभा निराशीर्बधना द्विज ॥ त्याग यस्य हुतं सर्वं स त्यागी स च बुद्धिमान ‌ ॥७४॥

अहिंस्त्रः सर्वभूतानां मैत्रायण गतश्चरेत् ॥ परिग्रहात्परित्यज्य भवेदुद्धया जितेंद्रियः ॥७५॥

अशोकस्थानमातिष्ठेदिह चामुत्र चाभयम् ॥ तपोनित्येन दांतेन मुनिना संयतात्मना ॥७६॥
अजित जेतुकामेन व्यासंगेषु ह्यसंगिना ॥ इन्दियैर्गृह्यते यद्यत्तत्तद्यक्तमिति स्थितिः ॥७७॥

अव्यक्त मिति विज्ञेयं लिंगग्राह्यमतींद्रियम् ॥ अविश्रभेण मंतव्यं विश्रंभे धारयेन्मनः ॥७८॥

मनः प्राणेन गृह्रीयात्प्राणं ब्रह्यणि धारयेत् ॥ निर्वेदादेव निर्वाणनं च किचिद्विचिंतयेत् ॥७९॥

सुखं वै ब्राह्मणो ब्रह्मन्निवैदेनाधिगच्छति ॥ शौचे तु सततं युक्तः सदाचारसमन्वितः ॥८०॥

स्वनुक्रोशश्च भूतेषु तहिजाति षु लक्षणम् ॥ सत्यंव्रतं तपः शीचंसत्यं विसृजते प्रजा ॥८१॥

सत्येन धार्यते लोकः स्वः सत्येनैवगच्छति ॥ अनृत तमसो रुपं तमसा नीयते ह्राधः ॥८२॥

तमोग्रस्तान पश्यंति प्रकाशं तमसावृताः ॥ सुदुष्प्रकाश इत्याहुर्नरकं तम एव च ॥८३॥

सत्यानृतं तदुभयं प्राप्यते जगतीचरैः ॥ तत्राप्येवंविद्या लोके वृत्तिः सत्यानृते भवेत् ॥८४॥

धर्माधर्मौ प्रकाशश्व तमो दुःखसुखं तथा ॥ शारीरैर्मानसैर्दुःखैः सुखैश्वार्‍यसुखोदयैः ॥८५॥

लोकसृष्टं प्रपश्यन्तो न मुह्यंति विचक्षणाः ॥ तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः ॥८६॥

सुखं ह्रानित्यं भूतानामिह लोके परत्र च ॥ राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते ॥८७॥

तथा तमोभिभूतानां भूतानां नश्यते सुखम् ॥८८॥

तत्खलु द्विविधं सुखमुच्यते शारीरं मानसं च ।

इह खल्वमुष्मिंश्च लोके वस्तुप्रवृत्तयः सुखार्थमभिधीयन्ते नहीतः परत्रार्वगफलाद्विशिष्टतरमस्ति ।

स एव काम्यो गुणविशेषो धर्मागुणारंस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजनार्थमारंभाः ॥

भरद्वाज उवाच ॥

वदैतद्धवताभिहितं सुखानां परमा स्थितिरिति ॥८९॥

न तदुगृह्रीमो न ह्रेषामृषीणां महति स्थितानाम् ॥९०॥

अप्राप्य एव काम्य गुणविशेषो न चैनभिशीलंयति । तपसि श्रूयते त्रिलोककृद्धह्या प्रभुरेकाकी तिष्ठति ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति ॥९१॥

अपि च भगवान्विश्वेश्वर उमापतिः कामभिवर्तमानमनंगत्वेन सममनयत् ॥९२॥

तस्माद्धोमौ न तु महात्माभिरंजयति गृहीतो न त्वेष तावद्विशिष्टो गुणविशेष इति ॥९३॥

नैतद्द्धगवतः प्रत्येमि भवता तूक्तं सुखानां परमाः स्त्रिय इति लोकप्रवादो हि द्विविधः फलोदयः सुकृतात्सुखमवाप्यतेऽन्यथा दुःखमिति ॥९४॥

भृगुरुवाच । अत्रोच्यते अनृतात्खलु तमः प्रादुर्भूतं ततस्तमोग्रस्ता अधर्ममेवानुवर्तंते न धर्मं क्रोधलोभमोहहिंसानृता दिभिरवच्छन्नाः खल्वस्मिंल्लोके नामुत्र सुखमाप्नुवंति विविधव्याधिरुजोपतापैरवकीर्यन्ते वधबन्धपरिक्लेशादिभिश्च क्षुत्पिपासा श्रमकृतैरुपतापैरुपतप्यतें वर्षवातात्युष्णातिशीतकृतैश्व प्रतिभयैः शारीरैर्दुःखैरुपतप्यंते बंधुधनविनाशविप्रयोगकृतैश्व मानसैः शोकैरभिभूंयते जरामृत्युकृतैश्वान्यै रिति यस्त्वेतैः ॥९५॥

शारीरं मानसं नास्ति न जरा न च पातकम् ॥ नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम् ॥९६॥

नरके दुःखमेवाहुः सुखं तत्परमं पदम् ॥ पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः ॥९७॥

पुमान्प्रजापतिस्तत्रशुक्रं तेजोमयं विदुः ॥ इत्येतल्लोकनिर्माता धर्मस्य चरितस्य च ॥९८॥

तपसश्व सुतप्तस्य स्वाध्यायस्य हुतस्य च ॥ हुतेन शाम्यते पापं स्वाध्याये शांतिरुत्तमा ॥९९॥

दानेन भोगानित्याहुस्त पसा स्वर्गमाप्नुयात् ॥ दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च ॥१००॥

सद्‌भ्यो यद्दीयते किंचित्तत्परत्रोपतिष्ठते ॥ असद्धयो दीयते यत्तु तद्दानमिह भुज्यते ॥ याद्दंश दीयते दानं ताद्दशं फलमश्नुते ॥१०१॥

भरद्वाज उवाच ॥ किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् ॥ धर्मः कतिविधो वापि तद्धवान्वक्तुमर्हति ॥१०२॥

भृगुरुवाच ॥

स्वधर्माचरणे युक्ता ये भवंति मनीषिणः ॥ तेषां स्वर्गफलावाप्तिर्योऽन्यथा स विमुह्यते ॥१०३॥

भरद्वाज उ० ॥ यदेतच्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा ॥ तेषां स्वे स्वे समाचारास्तन्मे वक्तुमिहार्हसि ॥१०४॥

भृगुरुवाच ॥

पूर्वमेव भगवता ब्रह्मणा लोकहितमनुतिष्ठता धर्मंसरक्षणार्थमाश्रमाश्वत्वारोऽभिनिर्द्दिष्टाः ॥१०५॥

तत्र गुरुकुलवासमेव प्रथममाश्रममाहंरति सम्यगत्र शौचसस्कारनियमव्रतविनितात्मा उभे संध्ये भास्कराग्रिदैवतान्युपस्थाय विहाय तद्धयालस्यं गुरोरभिवादनवेदाभ्यासश्रवणपवित्रीकृतांतरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषा नित्याभिक्षाभैक्ष्यादिसर्वनि दितांतरात्मा गुरुवचनानिदेशानुष्ठानाप्रतिकूलो गुरुप्रसादब्धस्वाध्यायतत्परः स्यात् ॥१०६॥

भवति चात्र श्लोकः ॥ गुरुं यस्तु समाराध्य द्विजो वेदमवाप्नुयात् ॥ तस्य स्वर्गफलवाप्तिः सिद्धयते चास्य मानसम् ॥ इति गार्हस्थ्यं खलु द्वितीयमाश्रमं वदंति ॥१०७॥

तस्य सदा चारलक्षणं सर्वमनुव्याख्यास्यामः। समावृतानां सदाचाराणी सहधर्मचर्यफलार्थिनां गृहाश्रमो विधीयते ॥१०८॥

धर्मार्थकामावाप्तिर्ह्यत्र त्रिवर्गसाधनमपे क्ष्यामर्हितकर्मणा धनान्यादाय स्वाध्यायोपलब्धप्रकर्षैण वा ब्रह्मर्षिनिर्मितेन वा अद्धिः सागरतेन वा द्रव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हर्स्थ्यं वर्तयेत् ॥१०९॥

तद्धि सर्वा श्रमणां मूलमुदाहंरति गुरुकुलानिवासिनः परिध्राजका येऽन्ये संकल्पितव्रतनियमधर्मानुष्ठानिन स्तेषामप्यतरा च भिक्षाबलिसंविभागाः प्रवर्तते ॥११०॥

वानप्रस्थानां द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्योदनाः स्वाध्यायप्रसं गिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटतिं ॥१११॥

तेषां प्रत्युत्थानाभिगमनमनसूयावाक्यदानसुखसत्कारासनसुखशयनाभ्यवहारस क्रिया चेति ॥११२॥

भवति चात्र श्लोकः ॥ अतिथिर्यस्य भग्राशी गृहात्प्रतिनिवर्तते ॥ स दत्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥११३॥

अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयंते निवापेन पितरो विद्याभ्यसश्रवणधारणेन ऋषयः अपत्योत्पादनेन प्रजापतिरिति ॥११४॥

लोकौ चात्र भवतः ॥ वात्सल्याः सर्वभूतेभ्यो वायोः श्रोत्रस्तथा गिरा ॥ परितापोपघाश्व पारुष्यं चात्र गर्हितम् ॥११५॥

अवज्ञानमहंकारो दंभश्वैव विगर्हितः ॥ अहिंसा सत्यमक्रोधं सर्वाश्रमगतं तपः ॥११६॥

अपि चात्र माल्याभरणस्त्राभ्यंगनित्योपभोगनृगीतवादित्रश्रुतिसुखनयनस्नेहरामादर्शनानां प्राप्तिर्भक्ष्यभोज्यलेह्यपेयचोष्याणामभव्यवहार्य्याणां विविधानामुपभोगः ॥११७॥

स्वविहारसंतोषः कामसुखावाप्तिरिति॥ त्रिवर्गगुणनिवृत्तिर्यस्य नित्यं गृहाश्रमे ॥ स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात् ॥११८॥

उंछवृत्तिर्गृहस्थो यः स्वधर्मचरणे रतः ॥ त्यक्तकामसुखारंभः स्वर्गस्तस्य न दुर्लभः ॥११९॥

वानप्रस्थाः खल्वपि धर्ममनुसरंतः पुण्यानि तीर्थोनि नदीप्रस्त्रवणानि स्वभक्तेष्वरण्येषु मृगवराहमहिषशार्दूलवनगजाकीर्णेषु तपस्यंते अनुसंचरंति ॥१२०॥

व्यक्तग्राम्यवस्त्राभ्यवहारोपभोगा वन्यौषधिफलपर्णपरीमितविचित्रानियताहाराः स्थानासनिनोभूपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृतागाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शनाः शुष्कबलिहोमकालनुष्ठायिनः ॥ समित्कुशकुसुमापहारसंमार्जनलब्धवि श्रामाः शीतोष्णपवनाविष्टंभविभिन्नसर्वत्वचो विविधनियमयोगचर्यानुष्ठानविहितपरिशुष्कमांशोणितत्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहंते ॥१२१॥

यस्त्वेतां नियतचर्यां ब्रह्मर्षिविहितां चरेत् ॥ स दहेदाग्निद्दोषाञ्जयेल्लोकांश्च दुर्जयान् ॥१२२॥

परिव्राजकानां पुनराचारः तद्यथा ॥ विमुच्याग्निं धनकलपरिबर्हसंगेष्वात्मानं स्नेहपाशानवधूय परिव्रंजति ॥ समलोष्टाश्मकांचनास्त्रिवर्गत्तेष्वसक्तबुद्धयः ॥१२३॥

अरिमित्रोदासीनानाम तुल्यदर्शनाः स्थावर्जरायुजांडजस्वेदजानाम भूतानां वाङ्‌मन कर्मभिरनभिद्रोहिणोऽनिकेताः पर्वतपुलिनवृक्षमूलदेवायतनान्यनुसंचरतो वा सार्थमुपेयुर्नगरं ग्रामं वा न क्रोधदर्पलो भमोहकार्पण्यदंभपरिवादाभिमान निर्वृत्तहिंसा इति ॥१२४॥

भवंति चात्र श्लोकाः ॥ अभयं सर्वभूतेभ्यो दत्त्वा यश्वरते मुनिः ॥ न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्कचित् ॥१२५॥

कृत्वाग्रिहोत्रं स्वशरीरंसस्थं शरीरमग्निं स्वमुखे जुहोति ॥ विप्रस्तु भैक्षोपगतैर्हविर्भिश्विता ॥ग्निनां संन्नजते हि लोकान् ॥१२६॥

मोक्षाश्रमं यश्वरते यशोक्त शुचिः स्वयंकल्पितयुक्तबुद्धिः ॥ अनिंधनं ज्योतिरिव प्रशांतं स ब्रह्मलोक श्रयते द्विजातिः ॥१२७॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे ब्राह्मणाचारनिरुपणं नाम त्रिचत्वारिंशोऽध्यायः ॥४३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:02:25.3430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तक्षक II.

  • n. (सू.इ.) प्रसेनाजित् का पुत्र । इसका पुत्र बृहद्वल [भा.९.१२.८] 
RANDOM WORD

Did you know?

मंत्राग्नी आणि भडाग्नी मध्ये म्हणजे काय? ते केव्हां देतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.