TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
अष्टचत्वारिंशोऽध्यायः

श्री नारदीयमहापुराणम् - अष्टचत्वारिंशोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


अष्टचत्वारिंशोऽध्यायः
नारद उवाच ॥
श्रुतं मया महामाग तापत्रयचिकित्सितम् ॥ तथापि मे मनो भ्रांतं न स्थिंतिं लभतेंऽजसा ॥१॥
आत्मव्यतिक्रमं ब्रह्मन्दुर्जनाचरितं कथम् ॥ सोढुं शक्येत मनुजैस्तन्ममाख्याहि मानद ॥२॥
सूत उवाच ॥
तच्छुत्वा नारदेनोक्तं सनंदन ॥ उवाच हर्षसंयुक्त स्मरन्भरतचेष्टितम् ॥३॥
सनंदन उवाच ॥
अन्न ते कथयिष्यामि इतिहासं पुरात नम् ॥ यं श्रृत्वा त्वन्मनो भ्रांतमास्थानं लभते भृशम् ॥४॥
आसीत्पुरा मुनिश्रेष्ठ भरतो नाम भूपतिः ॥ आर्षभो यस्य नाम्नेदं भारतं खण्डमुच्यते ॥५॥
स राजा प्राप्तराज्यस्तु पितृपैतामहं क्रमात् ॥ पालयामास धर्मेण पितृवद्रंजयन् प्रजाह ॥६॥
इजे विविधैर्यज्ञैर्भगवंतमधोक्षजम् ॥ सर्वदेवात्मकं ध्यायव्रानाकर्मसु तन्मतिः ॥७॥
ततः समुत्पाद्य सुतान्विरक्तो विषयेषु सः ॥ मुक्ता राज्यं ययौ विद्वान्पुलस्त्यपुलहाश्रमम् ॥८॥
शालग्रामं महाक्षेत्रं मुमुक्षुजनसेवितम् ॥ तत्रासौ तापसो भूत्वा विष्णोराराधनं मुने ॥९॥
चकार भक्तिभावेन यथालब्धसपर्यया ॥ नित्यं प्रातः समाप्लुत्य निर्मर्लेऽभसि नारद ॥१०॥
उपतिष्ठेद्रविं भक्तया गृणन्ब्रह्माक्षरं परम् ॥ अथाश्रमे समागत्य वासुदेवं जगत्पतिम् ॥११॥
समाह्रतैः स्वयं द्रव्यैः समित्कुशमृदादिभिः ॥ फलैः पुष्पैस्तथा पत्रैस्तुलस्याः स्वच्छवारीभिः ॥१२॥
पूजयन्प्रयतो भूत्वा प्रसरसंप्लुतः सचैकदा महाभागः स्त्रात्वा प्रातः समाहितः ॥१३॥
चक्रनद्यां जपंस्तस्थौ मुहूर्तत्रमंबुनि ॥ अथाजगाम तत्तीरं जलं पातुं पिपासिता ॥१४॥
आसन्नप्रसवा ब्रह्मन्नैकैव हरिणी वनात् ॥ ततः समभवत्तत्र पीतप्राये जले तया ॥१५॥
सिंहस्य नादः सुमहाम् सर्वप्राणिभयंकरः ॥ ततः सा सिंहसन्नादादुत्लुता निम्रगातटम ॥१६॥
अत्युच्चारोहणेनास्या नद्यां गर्भः पपात ह ॥ तमुह्यमानं वेगेन वीचिमालापरिप्लुतम् ॥१७॥
जग्राह भरतो गर्भात्पतितं मृतपोतकम् ॥ गर्भप्रच्युतिदुःखेन प्रोत्तुंगाक्रणेनचा ॥१८॥
मुनीन्द्र सा तु हरिणी निपपात ममार च ॥ हरिणीं तां विलोक्याथ विपन्नां नृपतापसः ॥१९॥
मृगपोतं समा गुह्य स्वमाश्रममुपागतः ॥ चकारानुदिनं चासौ मृगपोतस्य वै  नृपः ॥२०॥
पीषणं पुष्यमाण्श्व स तेन ववृधे मुने ॥ चचाराश्रमपर्यंतं तृणानि गहनेषु सः ॥२१॥
दूरं गत्वा च शार्दूलत्रासादभ्याययौ पुनः ॥ प्रातर्गत्वातिदूरं च सायामायात्यथाश्रमम् ॥२२॥
पुनश्व भरतस्याभूदाश्रमस्यो टजांतरे ॥ तस्यस्मिन्मृगे दूरसमीपपरिवर्तीनि ॥२३॥
आसीच्चेतः सभासक्तं न तथा ह्यच्युते मुने ॥ विमुक्तराज्यतनयः प्रोज्झिताशेषबांधवः ॥२४॥
ममत्व स चकारोच्चैस्तस्मिन्हरिणपोतके ॥ किं वृकैभक्षितो ग्याधैः किं सिंहेन निपातिसः ॥२५॥
चिरायमाणे निष्कांते तस्यासीदिति मानसम् ॥ प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे ॥२६॥
समाधिभंगस्तगासीन्ममत्वाकृष्टमानसः ॥ कालेन गच्छता सोऽभ कालं चक्रे महीपतिः॥२७॥
पितेव सास्त्रं पुत्रेण मृगपातेन वीक्षितः ॥ मृगमेघ तदाद्राक्षीत्यजाप्राणानसावपि ॥२८॥
मृगो बभूव न मुने तादृशीं भावनां गतः ॥ जाति स्मरत्वादुद्विग्रः संसारस्य द्विजोत्तम ॥२९॥
विहाय मातरं भूयः शालग्राममुपाययी ॥ शुष्कैस्तृणैस्तथा पर्णैः स कुर्वन्नान्मपोषणम् ॥३०॥
मृग त्वहेतुभूतस्य कर्मणो निष्कृति यर्यौ ॥ तत्र चोत्सृष्टदेहोऽसौ जज्ञे जातिस्मरो द्विजः ॥३१॥
सदाचारवतां शुद्धे योगिनां प्रभरे कुले ॥ सर्वविज्ञान संपन्नः सर्वशास्त्रार्थतत्त्ववित् ॥३२॥
अपश्यत्स मुनिश्रेष्ठ स्वात्मनं प्रकृतेः परम् ॥ आत्मनोधिगज्ञानद्देवादीनि महामुने ॥३३॥
सर्वभूतान्यभे देन ददर्श स महामतिः ॥ न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतम् ॥३४॥
न ददर्श च कर्मणि शस्त्राणि जगृहे न च ॥ उक्तोऽपि बहुशः किंचिज्जंड वाक्यमभाषत ॥३५॥
तदप्यसंस्कारगुणं ग्रामभाषोक्तिसंयुतम् ॥ अपद्धस्तवपुः सोऽपि मलिनांबर धृङ्‍ मुने ॥३६॥
क्लिन्नदंतांतरः सर्वेः परिभूतः स नागरैः ॥ संमानेन परां हानिं योगर्द्धे कुरुते यतः ॥३७॥
जनेनावमतो योगी योगसिद्धिं च विंदति ॥ तस्माच्चरेत् वै योगी सतां धर्मदूषयन् ॥३८॥
जना यथावमन्यर्युगच्छेयुर्नैव संगतिम् ॥ हिरण्यर्भवचनं विचिंत्येत्थं महामतिः ॥३९॥
आत्मानः दर्शयामास जडोन्मत्ताकृतिं जने ॥ भुक्ते कुल्माषवटकान् शाकं त्रन्यफलं कणान् ॥४०॥
यद्यदाप्नोति स बहूनत्ति वै कालसंभवम् ॥ पितर्युपरते सोऽथ भ्रातृभ्रातृव्यबांधवैः ॥४१॥
कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः ॥ सरुक्षपीनावयवो जडकारी च कर्मणि ॥४२॥
सर्वलोकोपकरणं बभूवाहारवेतनः ॥ तं तादृशमंसस्कारं विप्राकृतिचेष्टतम् ॥४३॥
क्षत्ता सौवीरराज्यस्य विष्टियोग्यममन्यत ॥ स राजा शिबिकारुढो गतुं कृतमतिर्द्विज ॥४४॥
बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् ॥ श्रेयः किमत्र संसारे दुःखप्राये नृणामिति ॥४५॥
प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् ॥ उवाच शिबिकामस्य क्षर्त्तुवचचोदितः ॥४६॥
नृणां विष्टिगृहीतानान्येषां सोऽपि मध्यगः ॥ गृहीतो विष्टिना विप्र सर्वज्ञानैकभाजनम् ॥४७॥
जातिस्मरोऽसौ पापस्य क्षयकाम उवाह ताम् ॥ ययौ जडगतिस्तत्र युगमात्रावलोकनम् ॥४८॥
कुर्वन्मतिमताम श्रेष्टस्ते त्वन्ते वरितं ययुः ॥ विलोक्य नृपतिः सोऽथं विषमं शिबिकागतम् ॥४९॥
किमेत दित्याह समं गम्यतां शिबिकावहाः ॥ पुनस्तथैव शिबिकं विलोक्य विषमां हसन् ॥५०॥
नृपः किमेऽदित्याह भवद्धिर्गभ्यतेऽन्यथा ॥ भूपतेर्वदतस्तस्य श्रुत्वेत्थं बहुशो वचः ॥ शिबिकावाहकाः प्रोचुरयं यातीत्यसत्वरम् ॥५१॥
राजोवाच ॥ किं श्रांतोऽस्यल्पमध्वानं त्वयोढा शिबिका मम ॥ किमायाससहो न त्वं पीवा नासि निरीक्ष्यसे ॥५२॥
ब्राह्मण उवाच ॥
नाहं पीवा न चैवोढा शिबिका भवतो मया ॥ नश्रांतोऽस्मि न चायासो वोढान्योऽस्ति महीपते ॥५३॥
राजोवाच ॥ प्रत्यक्षं दृश्यते पीवा त्वद्यापि शिबिका त्वयि ॥ श्रमश्व भारो द्वहने भवत्येव हि देहिनाम् ॥५४॥
ब्राह्मण उवाच ॥
प्रत्यक्षं भवता भूप यद्दष्टं मम तद्वद ॥ बलवानबलश्चेति वाच्यं पश्चद्विशेषणम् ॥५५॥
त्वयोढा शिभिका चेति त्वय्यद्यापि च संस्थितो॥ मिथ्या तदप्यत्र भवान् श्रृणोतु वचनं मम ॥५६॥
भूमौ पादयुगं चाथ जंघे पादद्वये स्थिते ॥ ऊरु जंघाद्वयावस्थौ तदाधारं तथोदरम् ॥५७॥
वक्षस्थलं तथा बाहू स्कंधौ चोदरसंस्थितौ ॥ स्कंधाश्रितेयं शिबिका ममाधारोऽत्र किंकृतः ॥५८॥
शिबिकायां स्थितं चेदं देहं त्वदुपलक्षितम् ॥ तत्र त्वमहमप्यत्रेत्युच्यते चेदमन्यथा ॥५९॥
अहं त्वं च तथान्ये च भूतैह्याश्व पार्थिव ॥ गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम् ॥६०॥
कर्मवश्या गुणाश्वैते सत्त्वाद्याः पृथिवीपते ॥ अविद्यासंचितं कमतिच्चाशेषषु जंतुषु ॥६१॥
आत्मा शुद्धोऽक्षरः शांतो निर्गुणः प्रकृते परः ॥ प्रवृद्धयपचयौ नस्त एकस्याखिलजंतषु ॥६२॥
यदा नोपचयस्तस्य नचैवापचयो नृप ॥ तदापि बालिशोऽसि त्वं कया युक्तया त्वयोरितम् ॥६३॥
भूपादजंघाकट्यूरुजठरादिषु संस्थिता ॥ शिबिकेयं यदा स्कंधे भारः समस्त्वया ॥६४॥
तथान्यजंतुभिर्भूप शिबिकोढा न केव लम् ॥ शैलद्रुमगृहोत्थोऽपि पृथिवीसंभवोऽपि च ॥६५॥
यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप ॥ सोढव्य सुमहान्भाः कतमो नृप ते मया ॥६६॥
यद्दव्यो शिबिका चेयं तद्दव्यो भूतसंग्रहः ॥ भवतो मेऽखिलस्यास्य समत्वेनोपबृंहितः ॥६७॥
सनंदन उवाच ॥
एवमुक्ताऽभवन्मौनी स वहञ्शिबिकां द्विजः ॥ सोऽपि राजाऽवतीर्योर्व्यां तत्पादौ जगृहे त्वरन् ॥६८॥
राजोवाच ॥
भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विज ॥ कथ्यतां को भवानत्र जाल्मरुपधरः स्थितः ॥६९॥
यो भवान्यदपत्यं वा यदागमनकारणम् ॥ तत्सर्वं कथ्यताम विद्वन्मह्यं शुश्रूषवे त्वया ॥७०॥
ब्राह्मण उवाच ॥
श्रूयतां कोऽहमित्येतद्वक्तुं भूप न शक्यते ॥ उपयोगनिमित्तं च सर्वत्रागमनक्रिया ॥७१॥
सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ ॥ धर्माधर्मौद्धवौ भोक्तुं जंतुर्देहादिमृच्छति ॥७२॥
सर्वस्यैव हि भूपाल जंतोः सर्वत्र कारणम् ॥ धर्मोधर्मौ यतस्तस्मात्कारणं पृच्छयते कुतः ॥७३॥
राजोवाच ॥ धर्माधर्मौ न संदेहः सर्वकार्येषु कारणम् ॥ उपभोगनिमित्तं च देहाद्देहांतरागमः ॥७४॥
यत्त्वेतद्धवता प्रोक्तं कोऽहमित्येतदात्मनः वक्तुं न शक्यते श्रोतुं तन्ममेच्छा प्रवर्तते ॥७५॥
योऽति योऽहमिति ब्रह्मन्कथं वक्तुं न शक्यते ॥ आत्मन्येव न दोषाय शब्दोऽहमिति यो द्विज ॥७६॥
ब्राह्मण उवाच ॥ शब्दोऽहमिति दोषाय नात्मनेवं तथैव तत् ॥ अनात्मन्यात्मविज्ञानं शब्दो वा श्रुतिलक्षणः ॥७७॥
जिह्रा ब्रवीत्यहमित्य दंतौष्ठतालुक नृप ॥ एतेनाहं यतः सर्वे वाङिष्पादनहेतवः ॥७८॥
किं हेतुभिर्वदृत्येषा वागेवाहमिति स्वयम् ॥ तथापि वागहमेद्वक्तुमित्थ्म न युज्यते ॥७९॥
पिंडः पृथग्यतः पुंसः शिरः पाण्यादिलक्षणः ॥ ततोऽहमिति कुत्रैनां संज्ञां राजन्करोम्यहम् ॥८०॥
यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थ्वसत्तम ॥ न देहोऽहमयं चान्ये वक्तुमेवमपीष्यते ॥८१॥
यदा समस्तदेहेषु पुमानेको व्यवस्थितः ॥ तदा हि को भवान्कोऽहमित्येतद्विफलं वचः ॥८२॥
त्वं राजा शिबिका चेयं वयं वाहाः पुरः सराः ॥ अयं च भवतो लोको न सदेतन्नृपोच्यते ॥८३॥
वृक्षाद्दारु तत्सश्वेयं शिबिका त्वदधिष्ठिता ॥ क्क वृक्षसंज्ञा वै तस्या दारुसंज्ञाथवा नृप ॥८४॥
वृक्षारुढो महाराजो नायं वदति ते जनः ॥ न च दारुण सर्वस्त्वां ब्रवीति शिबिकागतम् ॥८५॥
शिबिकादारुसंघातो स्वनामस्थितिसंस्थितः॥ अन्विष्यताम नृपश्रेष्ठानन्ददा शिबिका त्वया ॥८६॥
एवं छत्रं शलाकाभ्यः पृथग्भावो विमृश्यताम् ॥ क्क जातं छत्रमित्येष न्यायस्त्वयि तथा मयि ॥८७॥
पुमान्स्त्री गौरजा वाजी कुंजरो विहगस्तरुः देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ॥८८॥
पुमान्न देवो न नरो पशुर्न च पादपः ॥ शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ॥८९॥
वस्तु राजेति यल्लोके यच्च राजभटात्मकम् ॥ तथान्यच्च नृपेत्थं तन्न सत्यं कल्पनामयम् ॥९०॥
यस्तु कालांतरेणापि नाशसंज्ञामुपैति वै ॥ परिणामादिसंभूतं तद्वस्तु नृप तच्च किम् ॥९१॥
त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपो रिपुः ॥ पत्न्याः पतिः पिता सूनोः कस्त्वं भूप वदाम्यहम् ॥९२॥
त्वं किमेतच्छिरः किं तु शिरस्तव तथो दरम् ॥ किमु पादादिकं त्वेतन्नैव किं ते महीपते ॥९३॥
समस्तावयवेभ्यस्त्वं पृथग्भूतों व्यवस्थितः ॥ कोऽहमित्यत्र निपुणं भूत्वा चिंतय पार्थिव ॥९४॥
एवं व्यवस्थिते तत्त्वे मयाहमिति भावितुम् ॥ पृथकूचरणनिष्पाद्यं शक्यं तु नृपते कंथम् ॥९५॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वि०पा०ष्टचत्वारिंशोऽध्यायः ॥४८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:17:47.0900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Milker cum Cleaner

  • दोहक नि स्वच्छक 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site