TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
सप्तचत्वारिंशत्तमोऽध्यायः

श्री नारदीयमहापुराणम् - सप्तचत्वारिंशत्तमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सप्तचत्वारिंशत्तमोऽध्यायः
सनंदन उवाच ॥
एतदध्यात्ममानाढ्यं वचः केशिध्वजस्य सः ॥ खांडिक्योऽमृतबच्छुत्वा पुनराह तमीरयन् ॥१॥
खांडिक्य उवाच ॥
तदू ब्रूहि त्वं महाभाग योगं योगविदुत्तम ॥ विज्ञातयो राशास्त्रर्थस्त्वमत्यां निमिसंततौ ॥२॥
केशिध्वज उवाच ॥
योगस्वरुपं खांडिक्य श्रूयतां गदतो मम ॥ यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥३॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥ बंधस्य विषयासंगि मुक्तेर्निर्विषयं तथा ॥४॥
विषयेभ्यः समाह्यत्य विज्ञानात्मा बुधो मनः ॥ चिंतयेन्मुक्तये तेन ब्रह्मभूतं परेश्वर्म् ॥५॥
आत्मभावं नयेत्तेन तद्धह्यध्यापनं मनः ॥ विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा ॥६॥
आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ॥ तस्या ब्रह्मणि संयोगो इत्यभिधीयते ॥७॥
एवमत्यंतवैशिष्ट्यक्तधर्मोपलक्षणम् ॥ यस्य योगः स वै योगी मुमुक्षुरमिधीयते ॥८॥
योगयुक् प्रथमं योगी युंजमानोऽभिधीयते ॥ विनिष्पन्नसमाधिस्तु परब्रह्मोपलब्धिमान् ॥९॥
यद्यंतरायदोषेण दूष्यते नाम्य मानसम ॥ जन्मांतरैरभ्य्सनान्मुक्तिः पूर्वस्य जायते ॥१०॥
विनिष्पन्नसमाधिस्तु मुक्तिस्तत्रैव जन्मनि ॥ प्राप्न्तोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥११॥
ब्रह्मचर्यमहिंसा च सत्यास्तेयापरिग्रहान् ॥ सेवेत योगी निष्कामो योगितां स्वमनो नयन् ॥१२॥
स्वाध्यायशौचंसतोषपांसि नियमान्यमान् ॥ कुर्व्वीत ब्रह्मणि तथा परस्मिन्प्रवण्म मनः ॥१३॥
एते यमाश्व नियमाः पंच पञ्चप्रकीर्तिताः ॥ विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ॥१४॥
एवं भद्रासनादीनां समास्थाय गुणैर्युतः ॥ यमाख्यैर्नियमाख्यैश्व युंजीत नियतो यतिः ॥१५॥
प्राणाख्यमवलंबस्थमभ्यासात्कुरुते तु यत् ॥ प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ॥१६॥
परस्परेणाभिभवं प्राणापानौ यदा निलौ ॥ कुरुतः सद्विधानेन तृतीयः संयमात्तयोः ॥१७॥
तस्य चालंबनवत्स्थूलं रुपं द्विषत्पते ॥ आलंबनमनंतस्य योगिनोऽभ्यसतः स्मृतम् ॥१८॥
शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ॥ कुर्य्याच्चितानुकारीणि प्रत्याहारपरायणः ॥१९॥
वश्यता परमा तेन जायते निश्चलात्मनाम् ॥ इंद्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥२०॥
प्राणायामेन पवनैः प्रत्याहेरण चेंद्रियैः ॥ वशीकृतैस्तत कुर्यात्स्थिरं चेतः शुभा श्रये ॥२१॥
खांडिक्य उवाच ॥
कथ्यतां मे महाभाग चेतसो यः शुभाश्रयः ॥ यदाधारमशेषं तु हंति दोषसमुद्धवम् ॥२२॥
केशिध्वज उवाच ॥
आश्रयश्चेतसो ज्ञानिन द्विधा तच्च स्वरुपतः ॥ रुपं मूर्तममूर्तं च परं चापरमेव च ॥२३॥
त्रिविधा भावना रुपं विश्वमेतत्त्रिधोच्यते ॥ ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥२४॥
कर्मभावात्मिका ह्येका ब्रह्मभावात्मिकापरा ॥ उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥२५॥
सनकाद्या सदा ज्ञानिन्‍ ब्रह्मभावनया युताः ॥ कर्मभावनया चान्ये देवाद्याः स्थावराश्वराः ॥२६॥
हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिकाद्विधा ॥ अधिकारबोधयुक्तेषु विद्यते भावभावना ॥२७॥
अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु ॥ विश्वमेतत्परं चान्यद्धेभिन्नदृशां नृप ॥२८॥
प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ॥ वचसामात्मसंतोद्यं तज्ज्ञानं ब्रह्मंसज्ञितम् ॥२९॥
तच्च विष्णोः परं रुपमरुपस्याजनस्य च ॥ विश्वस्वरुपं वैरुप्यलक्षणं परमात्मनः ॥३०॥
न तद्योगयुजा शक्यं नृप चिंतयितुं यतः ॥ ततः स्थूंल हरे रुप्म चिंत्यं यच्चक्षुगोचरम् ॥३१॥
हिरण्यगर्भो भग वान्वासवोऽथ प्रजापतिः ॥ मरुतो वसवो रुद्रा भास्कारास्तारका ग्रहा ॥३२॥
गन्धर्वा यक्षदैत्याश्व सकला देवयोनयः ॥ मनुष्याः पशवः शैला समुद्राः सरितो द्रुमाः ॥३३॥
भूप भूतान्यशेषाणि भूतानां ये च हेतवः ॥ प्रधानादिविशेषांताश्वेतनाचेतनात्मकम् ॥३४॥
एकपादं द्विपादं च बहुपादमपादकम् ॥ मूर्त्तमेतद्धरे रुपं भावनात्रितयात्मकम् ॥३५॥
एतत्सर्वमिदं विश्वं जगदेतच्चराचरम् । परब्रह्मस्वरुपस्य विष्णोः शक्तिसमन्वितम् ॥३६॥
विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ॥ अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥३७॥
येयं क्षेत्रज्ञशक्तिः सा चेष्टिता नृप कर्मजा ॥ असारभूते संसारे प्रोक्ता तत्र महामते ॥३८॥
संसारतापानखिलानवान्पोत्यनुसंज्ञितान् ॥ तया तिरोहितत्वात्तु शक्तिः क्षेत्रज्ञ संज्ञिता ॥३९॥
सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते ॥ अप्राणवत्सु खल्वल्पा स्थावरेषु ततोऽधिका ॥४०॥
सरीसृपेषु तेभ्योऽन्याप्यतिशत्त्या पतात्रिषु ॥ पतात्रिस्भ्यो मृगास्तेभ्यः स्वशत्तया पशवोऽधिकाः ॥४१॥
पशुभ्यो मनुजाश्वतिशत्तया पुंसः प्रभाविताः ॥ तेभ्योऽपि नागगंधर्वयक्षाद्या देवता नृप ॥४२॥
शक्रः समस्तदेवेभ्यस्ततश्वातिप्रजापतिः ॥ हिरण्यगर्भोऽपि ततः पुंसः शत्त्युपलक्षितः ॥४३॥
एतान्यशेषरुपाणि तस्य रुपाणि पार्थिव ॥ यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ॥४४॥
द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते ॥ अमूर्तं ब्रह्मणो रुपं यत्सदित्युच्यते बुधैः ॥४५॥
समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ॥ नहि स्वरुपरुपं वै रुपमन्यद्धरेर्महतू ॥४६॥
समस्तशक्तिरुपाणि तत्करोति जनेश्वर ॥ देवतिर्य ड्रमनुष्यादिचेष्टावंति स्वलिलया ॥४७॥
जगतामुपकाराय तस्य कर्मनिमित्तजा ॥ चेष्टा तस्याप्रमेयस्य व्यापिन्याविहितात्मिका ॥४८॥
तद्रूपं विश्वरुपरय चिंत्यंयोग युजा नृप ॥ तस्य ह्यात्मविशुद्धयर्थं सर्वकिल्बिषनाशनम् ॥४९॥
यथाग्निरुद्धताशिखः कक्षं दहति सानिलः ॥ तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥५०॥
तस्मात्समस्तशक्तीनामाद्यांते तत्र चेतसः ॥ कुर्वीत संस्थितं साधु विज्ञेया शुद्धलक्षणा ॥५१॥
शुभाश्रयः सचित्तस्य सर्वगस्य तथात्मनः ॥ त्रिभावभावनातीतो मुक्तये योगिनां नृप ॥५२॥
अन्ये तु पुरुषव्याघ्र चेतसो ये व्यपाश्रयाः ॥ अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥५३॥
मूर्त्तं भगवतो रुपं सर्वापाश्रयनिस्पृहः ॥ एषां वै धारणा ज्ञेया यच्चितं तत्र धार्यते ॥५४॥
तत्र मूर्त्तं हरे रुपं याद्दक चिंत्यं नराधिप ॥ तच्छ्रयता मनाधारे धारणा नोपपद्यते ॥५५॥
प्रसन्नारुवदनं पद्मपत्रायतेक्षणम् ॥ सुकपोलं सुविस्तीर्णं ललाटफलकोज्ज्वम् ॥५६॥
समकर्णांसविन्य स्तचारुकर्णोपभूषणम् ॥ कम्बुग्रीवं सुविस्तीर्णश्रीवत्सांकितवक्षसम् ॥५७॥
बलित्रिभंगिना भुग्ननाभिना चोदरेण वै ॥ प्रलंबाष्टभुजं विष्णुमथ वापि चतुर्भुजम् ॥५८॥
समस्थितोरुजघनं सुस्थिरांघ्रिकरांबुजम् ॥ चिंतयेद्धह्यभूतं तं पीतनिर्मलवाससम् ॥५९॥
किरीटचारुकेयूरकट काइविभूषितम् ॥ शार्ङुशंखदाखङुप्रकाशवलयांचितम् ॥६०॥
चिंतयेत्तन्मयो योगी समाधायात्ममानसम् ॥ तावद्यावदू द्दडीभूता तत्रैव नृप धारणा ॥६१॥
वदतस्तिष्ठतो यद्वा स्वेच्छया कर्म कुर्वतः ॥ नापयाति यदा चित्तात्सिद्धी मन्येत तो तदा ॥६२॥
ततः शंखगदाचक्रशाङुआदि रहित बुधः ॥ चिंतयेद्धगवद्रूपं प्रशांतं साक्षसूत्रकम् ॥६३॥
सा यदा धारणा तद्वदवस्थानवती ततः ॥ किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥६४॥
तदेकावयवं चैवं चेतसा हि पुनर्बुधः ॥ कुर्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ॥६५॥
तद्रूपप्रत्यये चैकसंनतिश्चान्यनिःस्पृहा ॥ तद्धयानं प्रथमे रंगैः षडिर्निष्पाद्यते नृप ॥६६॥
तस्यैवं कल्पनाहीनं स्वरुपग्रहणं हि यत् ॥ मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥६७॥
विज्ञाने प्रापकं प्राप्ये परे ब्रह्माणि पार्थिव ॥ प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥६८॥
क्षेत्रज्ञकरणीज्ञानं करणं तेन तस्य तत् ॥ निष्पाद्य मुक्तिकार्यं वै कृतकृत्यो निवर्तते ॥६९॥
तद्धावभावनापन्नस्ततोऽसौ परमात्मनः ॥ भवत्यभेदी भेदश्व तस्याज्ञानकृतो भवेत् ॥७०॥
विभेदजनके ज्ञाने नाश मात्यतिकं गते ॥ आत्मनो ब्रह्मणाभेदं संमतं कः करिष्यति ॥७१॥
इत्युक्तस्ते मया योगः खांडिक्य परिपृच्छतः ॥ संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ॥७२॥
खांडिक्य उवाच ॥
कथितो योगसद्धावः सर्वमेव कृतं मम ॥ तवोपदेशात्सकलो नष्टश्वित्तमलो मम ॥७३॥
ममेति यन्मया प्रोक्तमसदेतन्न चान्यथा ॥ नरेंद्र गदितुं शक्यमपि विज्ञेयवेदभिः ॥७४॥
अहं ममेत्यविद्येयं व्यवहारस्तथानयोः ॥ परमार्थस्त्व संलाप्यो वचसां गोचरो न यः ॥७५॥
तद्धच्छ श्रेयसे सर्वं ममैतद्धवता कृतम् ॥ यद्विसुक्तिपरो योगः प्रोक्तः केशिध्वजाव्ययः ॥७६॥
सनंदन उवाच ॥
यथार्हपूजया तेन खांडिक्येन स पूजितः ॥ आजगाम पुरं ब्रह्मस्ततः केशिध्वजो नृपः ॥७७॥
खांडिक्योऽपि सुतं कृत्वा राजानं योगसिद्धये ॥ विशालामगमत्कृष्णे समावेशितमानसः ॥७८॥
स तत्रैकांतिको भूत्वा यमादिगुणसंयुतः ॥ विष्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् ॥७९॥
केशिध्वजोऽपि मुक्तयर्थं स्वकर्मक्षपणोन्मुखः ॥ बुभुजे विषयान्कर्म चक्रे चानभिसंधितम् ॥८०॥
स कल्याणोपभोगैश्व क्षीणपापोऽमल स्ततः ॥ अवाप सिद्धिमत्यंत्रितापक्षपणीं मुने ॥८१॥
एतत्ते कथितं सर्वं यन्मां त्वं परिपृष्टवान् ॥ तापत्रयचिकित्सार्थं किमन्यत्कथयामि ते ॥८२॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे सप्तचत्वारिंशत्तमोऽध्यायः ॥४७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-13T05:26:47.2800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चाटळ

  • a  Tediously talkative. 
  • वि. वात्रट ; बडबडया ; कुटाळखोर ; चाट , चहाटळ पहा . 
RANDOM WORD

Did you know?

घरातील देव्हारा कोणत्या वस्तुपासून बनविलेला असावा?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.