TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
पञ्चाशीतितमोऽध्यायः

श्री नारदीयमहापुराणम् - पञ्चाशीतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


पञ्चाशीतितमोऽध्यायः
सनत्कुमार उवाच ॥
वाग्देवता वतारोऽन्यः कालिकेति प्रकीर्तिता ॥ तस्या मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिंप्रदं नृणाम्‍ ॥१॥
सृष्टिक्रियान्विता शांतिर्बिद्वाढ्या च त्रिधा पुनः ॥ अरुणाक्ष्यादीपिका च बिंदुयुक्ता द्विधा ततः ॥२॥
मायाद्वयः ततः पश्वाद्दक्षिणे कालिके पदम्‍ ॥ पुनश्व सप्तबीजानि स्वाहांतोऽयं मनूत्तमः ॥३॥
भैरवोऽस्य ऋषिश्र्छन्दं उष्णिक्काली तु देवता ॥ बीजं मायादीर्घवर्त्म शक्तिरुक्ता मुनीश्वर ॥४॥
षड्‌दीर्घाढ्ये बीजेन विद्याया अंगमीरितम्‍ ॥ मातृकार्णान्दश दश ह्रदये भुजयोः ॥पदोः ॥५॥
विन्यस्य व्यापकं कुर्यान्मूलमंत्रेण साधकः ॥ शिरःकृपाणमभयं वरं हस्तैश्व बिभ्रतीम्‍ ॥६॥
मुंडस्त्रड्‌मस्तकां मुक्तकेशां पितृवनस्थिताम्‍ ॥ सर्वालंकृतवर्णां च श्यामांगीं कालिकां स्मरेत्‍ ॥७॥
एवं ध्यात्वा जपेल्लक्षं जुहुयादयुतं ततः ॥ प्रसूनैः करवीरोत्थैः पूजायंत्रमथोच्यते ॥८॥
विलिख्य पूर्वं षट्कोण त्रिकोणत्रितयं ततः ॥ पद्ममष्टदलं बाह्ये भूपुरं तत्र पूज येत्‍ ॥९॥
जया च विजया चापि अजिता चापराजिता ॥ नित्या विलासिनी वापि दोग्ध्र्यघोरा च मंगला ॥१०॥
पीठस्य शक्तयो मायात्मने त्दृत्पीठमंत्रकः ॥ शिवरुपशवस्थां च शिवभिर्दिक्षु वेष्टिताम्‍ ॥११॥
महाकालरतासक्तां ध्यात्वांगान्यर्चयेत्पुरा ॥ कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम्‍ ॥१२॥
विप्रचित्तां च षट्कोणे नवकोणे ततोऽचयेत्‍ ॥ उग्रामुष्णप्रभां दीप्तां नीलाधानां बलालिकाम्‍ ॥१३॥
मात्रां मुद्रां तथा मित्रां पूज्याः पत्रेषु मातरः ॥ पद्मस्यास्य सुयत्नेन ब्राह्मी नारायणीत्यपि ॥१४॥
माहेश्वरी च चामुंडा कौमारी चापराजिता ॥ वाराही नार सिहीं च पुनरेतास्तु भूपुरे ॥१५॥
भैरवी महादाद्यां तां सिंहाद्यां धूम्रपूविकाम्‍ ॥ भीमन्मत्तादिकां चापि वशीकरणभैरवीम्‍ ॥१६॥
माहनाद्या समाराध्य शक्रादीन्यायुधान्यपि ॥ एवमाराधिता काली सिद्धा भवति मंत्रिणाम्‍ ॥१७॥
ततः प्रयोगान्कुवीतं महाभैरवभाषितान्‍ ॥ आत्मनो वा परस्यार्थ क्षिप्रसिद्धिप्रदायकान्‍ ॥१८॥
स्त्रीर्णा प्रहारं निंदां च कौटिल्यं वाप्रियं वचः ॥आत्मनो हितमन्विच्छन्‍ कालीभक्तो विवर्जयेत्‍ ॥१९॥
सुदृशो मदनावासं पश्यन्यः प्रजपेन्मनुम्‍ ॥ अयुतं सोऽचिरादेव वाक्पपतेः समतामियात‍ ॥२०॥
दिगम्बरो मुक्तकेशः श्मशानस्थोऽधियामिनि ॥ जपेद्योऽयुतमेतस्य भवेयुः सर्वसिद्धयेः ॥२१॥
शवस्य ह्रदये स्थित्वा निर्वासाः प्रेतभूमिगः ॥ अर्कपुष्पसहस्त्रेणाभ्यक्तेन स्वीयरेतसा ॥२२॥
देवीं यः पूजयेद्धक्तया जपन्नएकैकशो मनुम्‍ ॥ सोऽचिरेणैव कालेन धरणीप्रभुतां व्रजेत्‍ ॥२३॥
रजःकीर्णं भगं नार्या ध्यायन्यो ह्ययुतं जपेत्‍ ॥ सकवित्वेन रम्येण जनान्मोहयति ध्रुवम्‍ ॥२४॥
त्रिपञ्चारे महापीठे शिवस्य त्दृदि संस्थिताम्‍ ॥ महाकालेन देवेन मारयुद्धं प्रकुर्वतीम्‍ ॥२५॥
तां ध्यायन्स्मेवदनां विदधत्सुरतं स्वयम्‍ ॥ जपेत्सहस्त्रमपि यः स शंकरसमो भवेत्‍ ॥२६॥
अस्थिलोमत्वचायुक्तं मांसं मार्जारमेषयोः उष्ट्रस्य महिषस्यापि बलिं यस्तु समर्पयेत्‍ ॥२७॥
भूताष्टम्योर्मध्यरात्रे वश्याः स्युस्तस्य जन्तवः ॥ विद्यालक्ष्मीयशःपुत्रैः स चिरं सुखमेधते ॥२८॥
यो हविष्याशनरतो दिवा देवीं स्मरन्‍ जपेत्‍ ॥ नक्तं निधुवनासक्तो लक्षं स स्याद्धरापतिः ॥२९॥
रक्तांभोजैर्हुनेन्मंत्री धनैर्जयति वित्तपम्‍ ॥ बिल्व पत्रैर्भवेद्राज्यं रक्तपुष्पर्वशीकृतिः ॥३०॥
असृजा महिषादीनां कालिकां यस्तु तर्पयेत्‍ ॥ तस्य स्युरचिरादेव करस्थाः सर्वसिद्धयः ॥३१॥
यो लक्षं प्रजपेन्मंत्रं शवमारुह्य मन्त्रवित्‍ ॥ तस्य सिद्धो मनुः सद्यः सर्वेप्सितफलप्रदः ॥३२॥
तेनाश्वमेधप्रमुखैर्यागौर्रष्टं सुजन्मना ॥ दत्तं दानं तपस्ततं उपास्ते यस्तु कालिकाम्‍ ॥३३॥
ब्रह्या विष्णुः शिवो गौरी लक्ष्मीर्गणपती रविः ॥ पूजिताः सकला देवा यः कालीं पूजयेत्सदा ॥३४॥
अथापरः सरस्वत्या ह्यवतारो निगद्यते ॥ यां निषेव्य नरा लोके कृतार्थाः स्युर्न संशयः ॥३५॥
आप्यायिनी चन्द्रयुक्ता माया च वदनांतरे ॥ सकामिका क्रुधा शांतिश्वन्द्रालंकृतमस्तका ॥३६॥
दीपिका सासना चन्द्रयुगस्त्रं मनुरिरितः ॥ मुनि रक्षोभ्य उद्दिष्टश्र्छन्दस्तु बृहती मतम्‍ ॥३७॥
ताराख्या देवता बीजं द्वितीयञ्च चतुर्थकम्‍ ॥ शक्तिः षड्‌दीर्घयुक्तेन द्वितीयेयेनांगकल्पनम्‍ ॥३८॥
षोढा न्यासं ततः कुर्यात्तारायाः सर्वासिद्धिम्‍ ॥ श्रीकण्ठादीन्न्यसेद्रुद्रान्मातृकावर्णपूर्वकान्‍ ॥३९॥
मातृकाक्तस्थले माया तृतीयक्रोधपूर्वकान्‍ ॥ चतुर्थीनमसायुक्ताप्रथमो न्यास ईरितः ॥४०॥
शवपीठसमासीनां नीलकांति त्रिलोचनाम्‍ ॥ अर्द्धेन्दुशेखरां नानाभूषणाढ्यां स्मरन्न्यसेत्‍ ॥४१॥
द्वितीये तु ग्रहण्यांस कुर्यात्तां समनुस्मरन्‍ ॥ त्रिबीजस्वरपूर्व तु रक्तसूय ह्रदि न्यसेत्‍ ॥४२॥
तथा पवर्गपूर्व तु शुक्लं सोमं भ्रुवोद्वये ॥ कवर्ग पूर्वं रक्ताभं मंगलं लोचनत्रयम्‍ ॥४३॥
चवर्गाद्यं बुधं श्यामं न्यसेद्वक्षस्थले बुधः ॥ दवर्गाद्यं पीतवर्णं कण्ठकूपे बृहस्पतिम्‍ ॥४४॥
तवर्गाद्यं श्वेतवर्णं घटिकायां तु भार्गवम्‍ ॥ नीलवर्णं पवर्गाद्यं नाभिदेशे शनैश्वरम्‍ ॥४५॥
शवर्गाद्य्म धूम्रवर्णं ध्यात्वा राहुं मुखे न्यसेत्‍ ॥ त्रिबीजपूर्वकश्वैवं ग्रहन्यासः समीरितः ॥४६॥
तृतीयं लोकपालानां न्यासं कुर्यात्प्रयत्नतः ॥ मायादिबीजत्रितपूर्वकं सर्वसिद्धये ॥४७॥
स्वमस्तके ललाटादि दिक्ष्वष्टस्वधउर्द्धतः ॥ ह्रस्वदीर्घकादिकाष्टवर्गपूर्वान्दिशाधिपान्‍ ॥४८॥
शिवशक्त्यभिधे न्यासं चतुर्थे तु समाचरेत् ॥ श्रीबीजपूर्वकान्न्यस्तेत्षट्‌ शिवाञ्छक्तिसंयुतान्‍ ॥४९॥
आधारादिषु चक्रेषु स्वचक्रवर्णपूर्वकान्‍ ॥ ब्रह्मांण डाकिनीयुक्तं वादिसांतार्णपूर्वकम्‍ ॥५०॥
मूलाधारे विन्यसेच्च चतुर्द्दलसमन्वितम्‍ ॥ श्रीविष्णुं राकिणीयुक्तबादिलांतार्णपूर्वकम्‍ ॥५१॥
स्वाधिष्ठानाभिधे चक्रे लिंगस्थे षड्‌दले न्यसेत्‍ ॥ रुद्रं तु डाकिनीयुक्तं डादिफांतार्णपूर्वकम्‍ ॥५२॥
चक्रे दशदले न्यस्येन्नभिस्थे मणिपूरके ॥ ईश्वरं कादिठान्तार्णपूर्वकं शाकिनीयुतम्‍ ॥५३॥
विन्यसेद्दादशदले ह्रदयस्थे त्वनाहते ॥ सदाशिवं शाकिनीं च षोडशस्वपूर्वकम्‍ ॥५४॥
कण्ठशदले विशुद्धाख्ये प्रविन्यसेत्‍ ॥ आज्ञाचक्रे परशिवं हाकिनीसंयुतं न्यसेत्‍ ॥५५॥
लक्षार्णपूर्वं भ्रूमध्यसंस्थितेऽतिमनोहरे ॥ तारादिपंचमं न्यासं कुर्यात्सर्वेष्टैसिद्धये ॥५६॥
अष्टौ वर्गान्स्वरद्वंद्वपूर्वकान्‍ बीजसंयुतान्‍ ताराद्या न्यासपूर्वाश्व प्रयोज्या अष्टशक्तयः ॥५७॥
ताराथोग्रा महोग्रापि वज्रा वज्रा काली सरस्वती ॥ कामेश्वरी च चामुंडा इत्यष्टौ तारिकाः स्मृताः ॥५८॥
ब्रह्मंरंध्रे ललाटे च भ्रूमध्ये कण्ठदेशतः ॥ ह्रदि नाभौ फले मूलाधारे चेताह क्रमान्न्यसेत्‍ ॥५९॥
अङुन्यासं ततः कुर्यात्पीठाख्यं सर्वसिद्धिदम्‍ ॥ आधारे कामरुपाख्यं बीजं ह्रस्वार्णपूर्वकम्‍ ॥६०॥
ह्रदि जालंधरं बीजं दीर्घपूर्वं प्रविन्यसेत्‍ ॥ ललाटे पूर्णगिर्याख्यं कवर्गाद्य्म न्यसेत्सुधीः ॥६१॥
उड्डीया नं चवर्गाद्यं केशसन्धौ प्रविन्यसेत्‍ ॥ कण्ठे तु मथुरापीठं दशम यादिकं न्यसेत्‍ ॥६२॥
षोढा न्यासस्तु तारायाः प्रोक्तोऽभीष्टप्रदायकः ॥ ह्रदि श्रीमदेकजटां तारिणीं शिरसि न्यसेत्‍ ॥६३॥
वज्रोदके शिखां पातु उग्रतारां तु वर्मणि ॥ महोग्रा वत्सरे नेत्रे पिंगाग्रैकजटास्त्रके ॥६४॥
षड्र्दीर्घयुक्तमायाया एतान्यष्टौ षडंगके ॥ अंगुष्ठदिष्वंगुलीषु पूर्वं विन्यस्य यत्नतः ॥६५॥
तर्जनीमध्यामाभ्यां तु कृत्वा तालत्रयं ततः ॥ छोटि कामुद्रया कुर्याद्दिग्बन्धं देवतां स्मरन्‍ ॥६६॥
विद्यया तारपुट्या व्यापकं सप्तधा चरेत्‍ ॥ उग्रताराम ततो ध्यायेत्सद्यो वादेऽतिसिद्धिदाम्‍ ॥६७॥
लयाब्धावंबुजन्मस्थां नीलाभां दिव्यभूषणाम्‍ ॥ कम्बुं खङुं कपालं च नीलाब्जं दधतीं करैः ॥६८॥
नागश्रेष्ठलंकृतांगीं रक्तनेत्रत्रयां स्मरेत्‍ ॥ जपे ल्लक्षचतुष्कं हि दशांशं रक्तपद्मकैः ॥६९॥
हनेत्क्षीराज्यसंमिश्रैः शंखं संस्थाप्य संजपेत्‍ ॥ नारीं पश्यन्स्पृशन्गच्छन्महानिशि बलिं चरेत्‍ ॥७०॥
श्मशाने शून्यसदने देवागारेऽथ ॥ पर्वते वनमध्ये मंत्रवित्‍ ॥७१॥
समरे शत्रुनिहतं यद्वा षान्मासिकं शिशुम्‍ ॥ विद्यां साधयतः शीघ्रं साधितैवं प्रसिद्धयति ॥७२॥
मेधा प्रज्ञा प्रभा विद्या धीवृत्तिस्मृतिबुद्धयः ॥ विश्वेश्वरीति संप्रोक्ताः पीठस्य नव शक्तयः ॥७३॥
भृगुमन्विंदुसंयुक्तं मेघवर्त्म सरस्वती ॥ योगपीठात्मने हार्द्दं पीठस्य मनुरीरितः ॥७४॥
दत्त्वानेनासनं मूर्तिं मूल मंत्रेण कल्पयेत्‍ ॥ पूजयोद्विधिवद्देवीं तद्विधानमथोच्यते ॥७५॥
तारो माया भगं ब्रह्मा जटे सूर्यः सदीर्घकम्‍ ॥ यक्षधिपतये तंद्री सोपनीतं बलिं ततः ॥७६॥
गृहयुग्मं शिवा स्वाहा बलिमंत्रोऽयमीरितः ॥ दद्यान्नित्यं बलिं तेन मध्यरात्रे चतुष्पथे ॥७७॥
जलदानादिकं मंत्रै र्विदध्याद्द्शभिस्ततः ॥ ध्रुवो वज्रोदके वर्म फट्‌सप्ताणां जलग्रहे ॥७८॥
ताराद्या वह्रिजायांता माया हि क्षालने मता ॥ तारो मायाःभृगुःकर्णो विशुद्धं धर्मवर्मतः ॥७९॥
सर्वपापानि शाम्यंते छेतो नेत्रयुतं जलम्‍ ॥ कल्पान्तनयनस्वाहा मंत्र आचमने मतः ॥८०॥
ध्रुवो मणिधरीत्यंते वज्रिण्यक्षियुता मृतिः ॥ खरिविद्यायुग्रिजश्व सर्ववांते बकोऽब्जवान्‍ ॥८१॥
कारिण्यंते दीर्घवर्म अस्त्रं वह्रिप्रियांतिमः ॥ त्रयोविंशतिवर्णात्मा शिखाया बंधने मनुः ॥८२॥
प्रणवो रक्षयुगलं दीर्घवर्मास्त्रठद्वयम्‍ ॥ नवार्णेनामुना मंत्री कुर्याद्धूभिविशोधनम्‍ ॥८३॥
नारांते सर्वैविघ्नानुत्सार येत पदं ततः ॥ हुं फट्‌ स्वाहा गुणेंद्वर्णो मनुर्विघ्ननिवारणम्‍ ॥८४॥
मायाबीजं जपापुष्पानिभं नाभौ विचिंयेत्‍ ॥ तदुत्थेनाग्निना देहं दहेत्सार्द्ध स्वपाप्मना ॥८५॥
ताराबीजं सुवर्णाभं चिंतयद्धेदि मंत्रवित्‍ ॥ पवनेन तदुत्थेन पापभस्म क्षिपेद्धुवि ॥८६॥
तुरीयं चंद्रकुंदाभं बीजं ध्यात्वा ललाटतः ॥ तदुत्थसुधयादे हं स्वयं देवतानिभम्‍ ॥८७॥
अनया भूतशुद्धया तु देवीसादृश्यमाप्नुयात्‍ ॥ तारोऽनंतो भगुः कर्णो पद्मनाभयुतो बली ॥८८॥
रवे वज्ररेखे क्रोधाख्यं बीजं पावकवल्लभा ॥ अमुना द्वादशार्णेन रचयेन्मंडलं शुभम्‍ ॥८९॥
तारो यथागता निद्रा सदृकूषेकभृगुर्विषम्‍ ॥ सदीर्घस्मृतिरौ साक्षौ महाकालो भगान्वितः ॥९०॥
क्रोधोऽस्त्रं मनिवर्णोऽयं मनुः पुष्पादिशोधने ॥ तारः पाशः परा स्वाहा पंचार्णश्वितशोधने ॥९१॥
मनवो दश संप्रोक्त अर्घ्यस्थापनमुच्यते ॥ सेंदुभ्यां मासतो भुवं संसृज्य भूगृहम्‍ ॥९२॥
वृतं त्रिकोणसंयुक्तं कुर्यान्मं डलमंत्रतः ॥ यजेत्तत्राधारशक्तिं वह्रिमंडलमध्यगाम्‍ ॥ वह्रिमंडलमभ्यर्च्य महाशंखं निधापयेत्‍ ॥९३॥
वामकर्णेन्दुयुक्तेन फडंतेन विहायसा ॥ प्रक्षालितं भृगुर्दंडी त्रिमूर्तीदुयुतं पठेत्‍ ॥९४॥
ततोऽर्चयेन्महाशंख जपन्मंत्रचतुष्टयम्‍ ॥ दीर्घयान्विता माया काली सृष्टिः सदीर्घसः ॥९५॥
प्रतिमासंयुंत मासं ह्रदयं ततः ॥ एकादशार्णेः प्रथमो महाशंखार्चने मनुः ॥९६॥
हंसो हरिभुजंगेशयुक्तो दीर्घत्रयेंदुयुक्‌ ॥ तारिण्यंते कपालाय नमोंतो द्वादशाक्षरः ॥९७॥
स्वं दीर्घत्रयमन्वाढयमेषो वामदगन्वितः ॥ लोकपालाय ह्रदयं तृतीयोऽयं शिवाक्षरः ॥९८॥
मायास्त्रीबीजमर्द्धैदुयुतं स्वं स्वर्गखादिमः ॥ पालाय सर्वाधाराय सर्वः सर्वोद्धस्तथा ॥९९॥
सर्वशुद्धिमयश्वेति ङेंत सर्वासुरांतिकम्‍ ॥ रुधिरा रतिदीर्घा च वायुः शुभ्रानिलः सुरा ॥१००॥
भाजनाय भगी सत्या विकलाय ह्रन्मनुः ॥ तुर्यो रसेषु वर्णोऽयं महाशंखप्रपूजने ॥१०१॥
नवार्कमंडलें चेंष्ट्रा सलिलं मूलमंत्रतः ॥ प्रपूरयेत्सुधाबुद्धया गंधपुष्पाक्षतादिभिः ॥१०२॥
मुद्रां त्रिखंडा संदर्श्य पूजयेच्चंद्रमंडलम्‍ ॥ वाक्‌सत्यपद्मागगने रेफानुग्रहबिंदुयुक्‍ ॥१०३॥
मूलमंत्री विपद्धंसमनुसर्गसमन्वितम्‍ ॥ अष्टकृत्वोऽमुना मंत्रयेत्प्रयतो जलम्‍ ॥१०४॥
मायया मदिशं क्षिप्त्वा खं योनिं च प्रदर्शयेत्‍ ॥ तत्र वृत्ताष्टष्टट्कोणं ध्यात्वा देवीं विचिंतयेत्‍ ॥१०५॥
पूर्वोक्तां पूजयेत्त्वेनां मूलेनाथ प्रतर्पयेत्‍ ॥ तर्जनीमध्यमानामाकनिष्ठाभिर्महेश्वरीम्‍ ॥१०६॥
सांगुष्ठानिश्वतुर्वारं महाशंखस्थिते जले ॥ खंरेफमनुबिंद्वाढयं भृगुमन्विंदुयुक्तया ॥१०७॥
ध्रुवाद्येन नमोंतेन तप्यादांनभैरवम्‍ ॥ ततस्तेर्नार्धतोयेन प्रोक्षेत्पूजनसाधनम्‍ ॥१०८॥
योनिमुद्रां प्रदर्श्यापि प्रणमेद्धवतारिणीम्‍ ॥ विधानमर्घे संप्रोक्तं सर्वसिद्धिप्रदायकम्‍ ॥१०९॥
पूर्वोक्त पूजयेत्पीठे पद्मे षट्कोणकर्णिके ॥ धरागृहावृते रम्ये देवीं रम्योपचारकैः ॥११०॥
महीगृहे चतुर्दिक्षु गणेशादीन्प्रपूजयेत्‍ ॥ पाशांकुशौ कपालं च त्रिशूलं दधतं करैः ॥१११॥
अलंकारचयोपेतं गणेशं प्राक्तमर्चयेत्‍ ॥ कपालशूले हस्ताभ्यां दधतं सर्पभूषणम्‍ ॥११२॥
स्थयूथवेष्टिंत रम्यं बटुकं दक्षिणेऽर्चयत्‍ ॥ असिशूलकपालानि डमरुं दधतं करैः ॥११३॥
कृष्णं दिंगबर क्रूरं क्षेत्रपालं च पश्चिमे ॥ कपालं डमरुं पाशं शंबिभ्रतीं करैः ॥११४॥
अध्याकन्या रक्तवस्त्रा योगिनीरुत्तरे यजेत्‍ ॥ अक्षोभ्यं  प्रयजेन्मूर्ध्नि देव्या मंऋषिं शुभम्‍ ॥११५॥
अक्षोभ्यं वस्त्रपुष्पं च प्रतीच्छानलवल्लभा ॥ अक्षोभ्यपूजने मंत्रः षट्कोणेषु षडंगकम्‍ ॥११६॥
वैरोचनं चाम तांभ पद्मनाभाभिधं तथा ॥ शंखं पांडुरसंज्ञं च दिग्दलेषु प्रपूजयेत्‍ ॥११७॥
लाभकां मानकां चैव पांडुरां तारकां तथा ॥ विदिग्गताब्जपत्रेषु पूजयेदिष्टसिद्धये ॥११८॥
बिंदुनामादिवर्णाद्याः संबुद्धयंतास्तथाभिधाः ॥ व्रजपुष्पं प्रतीच्छग्निप्रियांताः प्रणवादिकाः ॥११९॥
वैरोचनादि पूजायां मनवः परिकीर्तिताः ॥ भूधरश्व चतुर्द्वार्षु पद्मांतकयमांतकौ ॥१२०॥
विद्यांतकाभिधः पश्वान्नरांतक इमान्यजेत्‍ ॥ शुक्रदींश्वैव वज्रादीन्प्रजपेत्तदनंतरम्‍ ॥१२१॥
एवं संपूजयन्देवीं पांडित्यं धनमद्धुतम्‍ ॥ पुत्रान्पौत्राञ्छुभां कीर्ति लभते जनवश्यताम्‍ ॥१२२॥
तारो माया श्रीमदैकजटे नीलसरस्वती ॥ मही प्रतारे देवासः सनेत्री गदियुग्मकम्‍ ॥१२३॥
सर्वदेवपिशाकर्मो दीर्घोग्निर्मरुसान्ग्रस ॥ अभ्रगुममं जाडयं च छेदयद्वितयं रमा ॥१२४॥
मायास्त्राग्निप्रियांतोऽयं द्विपंचा शल्लिपिर्मनुः ॥ अनेन नित्यं पूजांतेऽन्वहं देव्यै बलिं हरेत्‍ ॥१२५॥
एवं सिद्धे मनौ मंत्री प्रयोगान्विदधाति च ॥ जातमात्रस्य बालस्य दिवसतिर्तयादधः ॥१२६॥
जिह्रायां विलिखेन्मंत्रं मध्वाज्याभ्यां शलाकया ॥ सुवर्ण कृतया यद्वा मंत्री धवलदूर्वया ॥१२७॥
गतेऽष्टमेऽब्दे बालोऽपि जायते कविरद्धुतम्‍ ॥ तथापरैरजेयोऽपि भूपसंघैर्द्धनार्चितः ॥१२८॥
उपरागे दतानीव नरदारुसरोजले ॥ निर्माय कीलकं तेन तैलमध्वमृतौर्लिखेत्‍ ॥१२९॥
सरोजिनीदले मंत्रं वेष्टयेन्मातृकाक्षरैः ॥ निखाय तदलं कुंडे चतुरस्त्री समेखले ॥१३०॥
संस्थाप्य पावकं तत्र जुहुयान्पनामुना ॥ सहस्त्रं रक्तपद्मानां धेनुदुग्धजलाप्लुतम्‍ ॥१३१॥
होमांते विविधै रत्नैः पलैरपि बलिं हरेत्‍ ॥ बलिं मंत्रेण विधिवद्वलिमंत्रः प्रकाश्यते ॥१३२॥
तारः पद्मे युग तंद्री वियद्दीर्घं च लोहितः ॥ अत्रिर्विषभ गारुढो वदत्पद्मावतीपदम‍ ॥१३३॥
झिंटीशाढ्योनिलस्वाहा षोडशार्णो बलेर्मुनुः ॥ ततो निशीथे च बलिं पूर्वोक्तमनुना हरेत्‍ ॥१३४॥
एवं कृते पंडितानां स जयी कविराड्‍ भवेत्‍ ॥ निवासो भारतीलक्ष्म्योर्जनतारञ्जनक्षमः ॥१३५॥
शताभिजप्त्या यो मंत्री रोचनां मस्तके धरेत्‍ ॥ यं यं पश्यति तस्यासौ दासवज्जाय्ते क्षणात्‍ ॥१३६॥
श्मशानांगारमाश्रित्य पूर्वायां कुजवासरे ॥ तेन मत्रेण संवेष्टय निवद्धं रक्ततंतुभिः ॥१३७॥
शताभिजप्तं मूलेन निक्षिपेद्वैरिवेश्मनि ॥ उच्चाटयति सप्ताहात्सकुंटुबान्विरोधिनः ॥१३८॥
क्षीराढ्यया निशामंत्रं लिखित्वा पौरुषेऽस्थनि ॥ रविवारे निशीथिन्यां सहस्त्रभिमंत्रयेत्‍ ॥१३९॥
तत्क्षिप्तं शत्रुसदने मंडलाद्धंशकं भवेत्‍ ॥ क्षेत्रे क्षिप्त् सस्यहान्योजवत्दृत्तुरमा लयेत्‍ ॥१४०॥
षट्‌कोणांतर्लिखेन्मूलं साध्यार्णं केशरे स्वरैः ॥ बाह्येऽष्टवर्गयुक्पत्रं पद्मभूमिपरावृतम्‍ ॥१४१॥
यंत्रं भूर्जे जतुरसैर्लिखेत्पीताम्बरा वृत्तम्‍ ॥ पट्टसूत्रेण सन्नद्धं शिशुकंठगतं धुव्रम‍ ॥१४२॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रभेदनिरुपणः नाम पञ्चाशीतितमोऽध्यायः ॥८५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T04:39:53.9870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

VIṢACIKITSĀ(विषचिकित्सा)

  • (Treatment for poison). See under Sarpa. 
RANDOM WORD

Did you know?

दत्तकपुत्र घेण्याविषयी कांही धर्मशास्त्रीय निर्णय आहेत काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site