TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
त्रिंशोऽध्यायः

श्री नारदीयमहापुराणम् - त्रिंशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


त्रिंशोऽध्यायः

सनक उवाच ॥

प्रायश्चित्तविधिं वक्ष्ये श़ृणु नारद सांप्रतम् ॥ प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेत् ॥१॥

प्रायश्चित्तविहीनैस्तु यत्कर्म क्रियते मुने ॥ तत्सर्वं निष्फलं प्रोक्तं राक्षसैः परिसेवितम् ॥२॥

कामक्रोधविहीनैश्च धर्मंशास्त्रविशारदैः॥ प्रष्टव्या ब्राह्मणा धर्मं सर्वधर्मफलेच्छुभिः ॥३॥

प्रायश्चित्तानिचीर्णानि नारायणपराङ्मुखैः ॥ न निष्पुनंति विप्रेंद्र सुराभांडमिवापगाः ॥४॥

ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः ॥ महापातकिनस्त्वेतेतत्संसर्गी च पंचमः ॥५॥

यस्तु संवत्सरं ह्यतैः शयनासनभोजनैः ॥ संवसेत्सह तं विद्यात्पतितं सर्वकर्मसु ॥६॥

अज्ञानाद्बाह्मणं हत्वा चीखासा जटी भवेत् ॥ स्वेनैव हतविप्रस्य कपालमपि धारयेत् ॥७॥

तदभावे मुनिश्रेष्ठ कपालं वान्यमेव वा ॥ तद्द्रव्यं ध्वजदंडे तु धृत्वा वनचरो भवेत् ॥८॥

वन्याहारो वसेतत्र वारमेकं मिताशनः ॥ सम्यक्संध्यामुपासीत त्रिकालं स्नानमाचरेत् ॥९॥

अध्ययनाध्यापनादीन्वर्जयेत्संस्मरेद्धरिम् ॥ ब्रह्मचारी भवेन्नित्यं गंधमाल्यादि वर्जयेत् ॥१०॥

तीर्थान्यनुवसेच्चैव पुण्यांश्चैवाश्रमांस्तथा ॥ यदि वन्यैर्न जीवेत ग्रामे भिक्षां समाचरेत् ॥११॥

द्वादशाब्दं व्रतं कुर्यादेवं हरिपरायणः ॥ ब्रह्महा शुद्धिमाप्नोति कर्मार्हश्चैव जायते ॥१२॥

व्रतमध्ये मृगैर्वापि रोगैर्वापि निषूदितः ॥ गोनिमित्तंद्विजार्थ वा प्राणान्वापि परित्यजेत् ॥१३॥

यद्वा दयाद्विजेंद्राणां गवामयुतमुत्तसम् ॥ एतेष्वन्यतमं कृत्वा ब्रह्महा शुद्धिमाप्नुयात् ॥१४॥

दीक्षितं क्षत्रियं हत्वा चरेद्धि ब्रह्महव्रतम् ॥ अग्निप्रवेशनं वापि मरुत्प्रपतनं तथा ॥१५॥

दीक्षितं ब्राह्मणं हत्वा द्विगुणं व्रतमाचरेत् ॥ आचार्याविधे चैवव्रतमुक्तं चतुर्गुणम् ॥१६॥

हत्वा तु विप्रमात्रं च चरेत्संवत्सरं व्रतम् ॥ एवं विप्रस्य गदितः प्रायश्चित्तविधिर्द्विज ॥१७॥

द्विगुण क्षत्रियस्योक्तं त्रिगुणं तु विशः स्मृतम् ॥ ब्राह्मणं हंति यः शूद्रस्तं मुशल्यं विर्दुर्बुधाः ॥१८॥

राज्ञैव शिक्षा कर्त्तव्या इति शास्त्रेषु निश्चयः ॥ ब्राह्मणीनां वधे त्वर्द्धं पादः स्यात्कन्यकावधे ॥१९॥

हत्वा त्वनुपनीतांश्च तथा पादव्रतं चरेत् ॥ हत्वा तु क्षत्रियं विप्रः षडब्दं कृच्छ्रमाचरेत् ॥२०॥

संवत्सरत्रयं वैश्यं शूद्रं हत्वा तु वत्सरम् ॥ दीक्षितस्य स्त्रियं हत्वा ब्राह्मणीं चाष्टवत्सरान् ॥२१॥

ब्रह्महत्याव्रतं कृत्वा शुद्धो निश्चितम् ॥ प्रायश्चित्तं विधानं तु सर्वत्र मुनिसत्तम ॥२२॥

वृद्धातुरस्त्रीबालानामर्द्धमुक्तं मनीषिभिः ॥ गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ॥२३॥

चातुर्वर्ण्यैरपेया स्यात्तथा स्त्रीभिश्च नारद ॥ क्षीर घृतं वा गोमूत्रमेतेष्वन्यतमं मुने ॥२४॥

स्नात्वार्द्रवासा नियतो नारायणमनुस्मरन् ॥ पक्वायसनिभं कृत्वा पिबेच्चैवोदकं ततः ॥२५॥

तत्तु लौहेन पात्रेण ह्यायसेनाथवा पिबेत् ॥ ताम्रेण वाथ पात्रेण तत्पीत्वा मरणं व्रजेत् ॥२६॥

सुरापी शुद्धिमाप्नोति नान्यथा शुद्धिरिष्यते ॥ अज्ञानादात्मबुद्ध्य़ा तु सुरां पीत्वा द्विजश्चरेत् ॥२७॥

ब्रह्महत्याव्रतं सम्यक्तच्चिह्नपरिवर्जितः ॥ यदि रोगा निवृत्त्यर्थमौषधार्थ सुरां पिबेत् ॥२८॥

तस्योपनयनं भूयस्तथा चांद्रायणद्वयम् सुरासंस्पृष्टपात्रं तु सुराभांडोदकं तथा ॥२९॥

सुरापानसमं प्राहुस्तथा चन्द्रस्य भक्षणम् ॥ तालं च पानसं चैव द्राक्षं खार्जूरसंभवम् ॥३०॥

माधुक शैलमारिष्टं मैरेयं नालिकेरजम् ॥ गौडी माध्वी सुरा मद्यमेवमेकादश स्मृताः ॥३१॥

एतेष्वन्यतमं विप्रो न पिबेद्वै कदाचन ॥ एतेष्वन्यतमं यस्तु बिदज्ञानतो द्विजः॥३२॥

तस्योपनयनं भूयस्तप्तकृच्छ्र्रं चरेत्तथा ॥ समक्षं वा परोक्षं वा बलाच्चौयण वा तथा ॥३३॥

परस्वानामुपादानं स्तेयमित्युच्यते बुधैः ॥ सुवर्णस्य प्रमाणं तु मन्वाद्यैः परिभाषितम् ॥३४॥

वक्ष्ये श़ृणुष्व विप्रेंद्र प्रायश्चितोक्तिसाधनम् ॥ गवाक्षागतमार्तण्डरश्मिमध्ये प्रदृश्यते ॥३५॥

त्रसरेणुप्रमाणं तु रज इत्युच्यते बुधैः ॥ त्रसरेण्वष्टकं निष्कस्तत्रयं राजसर्षपः ॥३६॥

गौरसर्षपस्तत्रयं स्यात्तत्षट्कं यव उच्यते ॥ यवत्रयं कृष्णलः स्यान्माषस्तत्पंचकं स्मृतः ॥३७॥

माषषोडशमानं स्यातसुवर्णमिति नारद ॥ हृत्वा ब्रह्मस्वमज्ञानाद्वादशाब्दं तु पूर्ववत् ॥३८॥

कपालध्वजहीनं तु ब्रह्महत्याव्रतं चरेत् ॥ गुरुणां यज्ञकतृणां धर्मिष्ठानां तथैव च ॥३९॥

श्रोत्रियाणां द्विजानां तु हृत्वा हेमैवमाचरेत् ॥ कृतानुतापो देहे च संपूर्णे लेपयेद् घृतम् ॥४०॥

करीषच्छादितो दग्धः स्तेयपापाद्विमुच्यते ॥ ब्रह्मस्वं क्षत्रियो हृत्वा पश्चात्तापमवाप्य च ॥४१॥

पुनर्ददाति तत्रैव तद्विधानं श़ृणुष्व मे ॥ तत्र सांतपनं कृत्वा द्वादशाहोपवासतः ॥४२॥

शुद्धिमाप्नोति देवर्षे ह्यन्यथा पतितो भवेत् ॥ रतनासनमनुष्यस्त्रीधेनुभ्यूम्यादिकेषु च ॥४३॥

सुवर्णसदृशेष्वेषु प्रायश्चितार्द्धमुच्यते ॥ त्रसरेणुसमं हेम हृत्वा कुर्यात्समाहितः ॥४४॥

प्राणायामद्वयं सम्यक् तेन शुद्ध्य़ति मानवः ॥ प्राणायामत्रयं कुर्याद्धृत्वा निष्कप्रमाणकम् ॥४५॥

प्राणायामाश्च चत्वारो राजसर्ष पमात्रके ॥ गौरसर्षपमानं तु हृत्वा हेम विचक्षणः ॥४६॥

स्नात्वा च विधिज्जप्याद्रायत्र्यष्टसहस्रकम् ॥ यवमात्रसुवर्णस्य स्तेयाच्छुद्धोभवेद्विजः ॥४७॥

आसायं प्रातरारभ्यं जप्त्वा वै वेदमातरम् ॥ हेम कृष्णलमात्रं तु हृत्वा सांतपनं चरेत् ॥४८॥

माषप्रमाणे हेम्नस्तु प्रायश्चित्तं निगद्यते ॥ गोमूत्रपक्वयवभुग्वर्षेणैकेन शुद्ध्य़ति ॥४९॥

संपूर्णस्य सुवर्णस्य स्तेयं कृत्वा मुनीश्वर ॥ ब्रह्महत्याव्रतं कुर्याद्वादशाब्दं समाहितः ॥५०॥

सुवर्णमानान्यूने तु रजतस्तेयकर्मणि ॥ कुर्यात्सांतपनं सम्यगन्यथा पतितो भवेत् ॥५१॥

दशनिष्कांतपर्यंतमूर्द्धं निष्कचतुष्टयात् ॥ हृत्वा च रजतं विद्वान्कुर्याच्चांद्रायणं मुने ॥५२॥

दशादिशतनिष्कांतं यः स्तेयी रजतस्य तु ॥ चांद्रायणद्वयं तस्य प्रोक्तं पापविशोधकम् ॥५३॥

शतादूर्द्धं सहस्रांतं प्रोक्तं चांद्रायणत्रयम् ॥ सहस्रादधिकस्तेये ब्रह्महत्याव्रतं चरेत् ॥५४॥

कांस्यपित्तलमुख्येषु ह्यस्कांते तथैव च ॥ सहस्रनिष्कमाने तु पराकं परिकीर्तितम् ॥५५॥

प्रायश्चित्तं तु रत्नानां स्तेये राजतवत्स्मृतम् ॥ गुरुतल्पगतानां च प्रायश्चित्तमुदीर्यते ॥५६॥

अज्ञानान्मातरं गत्वा तत्सपत्नीमथापि वा ॥ स्वयमेव स्वमुष्कं तु च्छिंद्यात्पापमुदीरयन् ॥५७॥

हस्ते गृहीत्वा मुष्कं तु गच्छंद्रै नैऋतीं दिशम् ॥ गच्छन्मार्गै सुखं दु५खं न कदाचिद्विचारयेत् ॥५८॥

अपश्यन्गच्छतो गच्छेतप्राणान्तं यः स शुद्ध्य़ति ॥ मरुत्प्रपतनं वापि कुर्यात्पापमुदाहरन् ॥५९॥

स्ववर्णोत्तमवर्णस्त्रीगमने त्वविचारतः ॥ ब्रह्महत्याव्रतं कुर्याद्वादशाब्दं समाहितः ॥६०॥

अमत्याभ्यासतो गच्छेत्सवर्णां चोत्तमा तथा ॥ कारीषवह्निना दग्धः शुद्धिं याति द्विजोत्तम ॥६१॥

रेतःसेकात्पूर्वमेव निवृत्तो यदि मातरि ॥ ब्रह्महत्याव्रतं कुर्याद्रेतःसेकेऽग्निदाहनम् ॥६२॥

सवर्णोत्तमवर्णासु निवृत्तो वीर्यसेचनात् ॥ ब्रह्महत्याव्रतं कुर्यान्नवाब्दन्विष्णुतत्परः ॥६३॥

वैश्यायां पितृपत्न्यां तु षडब्दं व्रतमाचरेत् ॥ गत्वा शूद्रां गुरोर्भार्यां त्रिवर्षं व्रतमाचरेत् ॥६४॥

मातृष्वसारं च पितृष्वसारमाचार्यभार्यांमथ मातुलानीं पुत्रीं च गच्छेद्यदि काममुग्धः ॥६५॥

दिनद्वये ब्रह्महत्याव्रतं कुर्याद्यथाविधि ॥ एकस्मिन्नेव दिवसे बहुवारंत्रिवार्षिकम् ॥६६॥

एकवारं गते ह्यब्दं व्रतं कृत्वा विशुद्ध्य़ति ॥ दिनत्रये गते वह्निदग्धः शुध्येत नान्यथा ॥६७॥

चांडालीं पुष्कसीं चेव स्नुषां च भगिनीं तथा मित्रस्त्रियं शिष्यपत्नीं यस्तु वै कामतो व्रजेत् ॥६८॥

ब्रह्महत्याव्रतं कुर्यात्स षडब्दं मुनीश्वर ॥ अकामतो व्रजेद्यस्तु सोऽब्दकृच्छ्रं समाचरेत् ॥६९॥

महापातकिसंसर्गे प्रायश्चित्तं निगद्यते ॥ प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेत् ॥७०॥

यस्य येन भवेत्संगो ब्रह्महादिचतुर्ष्वपि ॥ तत्तद्धतं स निर्वर्त्य शुद्धिमा प्नोत्यसंशयम् ॥७१॥

अज्ञानात्पंचरात्रं तु संगमेभिः करोतियः॥ कायकृच्छ्रं चरेत्सम्यगन्यथा पतितो भवेत् ॥७२॥

द्वादशाहेतु संसर्गे महासांतपनं स्मृतम् ॥ संगंकृत्वार्द्धमासं तु द्वादशाहमुपावसेत् ॥७३॥

पराको माससंसर्गे चांद्रमासत्रये स्मृतम् ॥ कृत्वा संगं तु षण्मासं चरेच्चांद्रायणद्वयम् ॥७४॥

किंचिन्न्यूनाब्दसंगे तु षण्मासव्रतमाचरेत् ॥ एतच्च त्रिगुणं प्रोक्तं ज्ञानात्संगे यथाक्रमम् ॥७५॥

मंडूकं नकुलं काकं वराहं मूषकं तथा ॥ मार्जाराजाविकं श्वानं हत्वा कुक्कुटकं तथा ॥७६॥

कृच्छ्रार्द्धमाचरेद्विप्रोऽतिकृच्छ्रं चाश्वहा चरेत् ॥ तप्तकृच्छ्रं करिवधे पराक गोवधे स्मृतम् ॥७७॥

कामतो गोवधे नैव शुद्धिर्दृष्टा मनीषिभिः ॥ पान शय्यासनाद्येषु पुष्पमूलफलेषु च ॥७८॥

भक्ष्यभोज्यापहारेषु पंचगव्यविशोधनम् ॥ शुष्ककाष्ठतृणानां च द्रुमाणां च गुडस्य च ॥७९॥

चर्मवस्त्रामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ टिट्टिभं चक्रवाकं च हंसं कारंडवं तथा ॥८०॥

उलूकं सारसं चैव कपोतं जलपादकम् ॥ शुकं चाषं बलाकं च शिशुमारं च कच्छपम् ॥८१॥

एतेष्वन्यतमं हत्वा द्वादशाहमभोजनम् ॥ प्राजापत्यव्रतं कुर्याद्रेतोविण्मूत्रभोजने ॥८२॥

चांद्रायणत्रयं प्रोक्तं शूद्रोच्छिष्टस्य भोजने ॥ रजस्वलां च चांडालं महापातकिनं तथा ॥८३॥

सूतिकां पतितं चैव उच्छिष्टं रजकादिकम् ॥ स्पृष्ट्वा सचैलं स्नायीत घृतं संप्राशेयत्तथा ॥८४॥

गायत्रीं च विशुद्धात्मा जपेदष्टशतं द्विज ॥ एतेष्वन्यतमं स्पृष्ट्वा अज्ञानाद्यदि भोजने ॥८५॥

त्रिरात्रो पोषणाच्छुद्य्वेत्पं चगव्याशनाद्विज ॥ स्नानदानजपादौ च भोजनादौ च नारद ॥८६॥

एषामन्यतमस्यापि शब्दं यः श़ृणुयाद्वदेत् ॥ उद्वमेद्भुक्तमन्नं तत्स्नात्वा चोपवसेत्तथा ॥८७॥

द्वितीयेऽह्नि घृतं प्राश्य शुद्धिमाप्नोति नारद ॥ व्रतादिमध्ये यद्येषा श़ृणुयाद्धनिमप्युत ॥८८॥

अष्टोत्तरसहस्रं तु जपेद्वै वेदमातरम् ॥ पापानामधिकं पापं द्विजदैवतनिंदनम् ॥८९॥

न दृष्टा निष्कृतिस्तस्य सर्वशास्त्रेषु नारद ॥ महापातकतुल्यानि यानि प्रोक्तानि सूरिभिः ॥९०॥

प्रायश्चित्तं तु तेषां च कुर्यादेवं यथाविधि ॥ प्रायश्चित्तानि यः कुर्यान्नारायणपरायणः ॥९१॥

तस्य पापानि नश्यंति ह्यन्यथा पतितो भवेत् ॥ यस्तु रागादिनिर्मुक्तो ह्यनुतापसमन्वितः॥९२॥

सर्वभूतदयायुक्तो विष्णुस्मरणतत्परः॥ महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥९३॥

विमुक्त एव पापेभ्यो ज्ञेयो विष्णुपरो यतः ॥ नारायणमनाद्यंतं विश्वाकारमनामयम् ॥९४॥

यस्तु संस्मरते मर्त्यः स मुक्तः पापकोटिभिः ॥ स्मृतो वा पूजितो वापि ध्यातः प्रणमितोऽपि वा ॥९५॥

नाशयत्येव पापानि विष्णुर्त्दृद्रमनः सताम् ॥ संपर्काद्यदि वा मोहाद्यस्तु पूजयते हरिम् ॥९६॥

सर्वपापविनिर्मुक्तः स प्रयाति हरेः पदम् ॥ सकृत्संस्मरणाद्विष्णोर्नश्यंति क्लेशसंचयाः ॥९७॥

स्वर्गादिभोगप्राप्तिस्तु तस्य विप्रानुमीयते ॥ मानुषं दुर्लभं जन्म प्राप्यते यैर्मुनीश्वर ॥९८॥

तत्रापि हरिभक्तिस्तु दुर्लभा परिकीर्त्तिता ॥ तस्मात्तडिल्लतालोलं मानुष्यं प्राप्य दुर्लभम् ॥९९॥

हरिं संपूजयेद्भक्तया पशुपाशविमोचनम् ॥ सर्वेऽन्तराया नश्यंति मनःशुद्धिश्च जायते ॥१००॥

परं मोक्षं लभैच्चैव पूजिते तु जनार्दने ॥ धर्मार्थकाममोक्षाख्याः पुरुषार्थाः सनतनाः ॥१०१॥

हरिपूजापराणां तु सिध्यन्ति नात्र संशयः॥ पुत्रदारगृहक्षेत्रधनधान्याभिधावतीम् ॥१०२॥

लब्ध्वेमां मानुषीं वृत्तिं रे रे दर्पं तु मा कृथाः ॥ संत्यज्य कामं क्रोधं च लोभं मोहं मदं तथा ॥१०३॥

परापवादं निंदां च भजध्वं भक्तितो हरिम् ॥ व्यापारान्सकलांस्त्क्तवा पूजयध्वं जनार्दनम् ॥४॥

निकटा एव दृश्यंते कृतांतनगरद्रुमाः ॥ यावन्नायाति मरणं यावन्नायाति वै जरा ॥५॥

यावन्नेन्द्रियवैकल्यं तावदेवाचर्येद्धरिम् ॥ धीमान्नकुर्याद्विश्वासं शरीरेऽस्मिन्विनश्वरे ॥६॥

नित्यं सन्निहितो मृत्युः संपदत्यंतचंचला ॥ आसन्नमरणो देहस्तस्माद्दर्प्प विमुचत ॥७॥

संयोगा विप्रयोगांताः सर्वं च क्षणभंगुरम् ॥८॥

आशया व्यथते चैव मोक्षस्त्वत्यंतदुर्लभः ॥ भक्तया यजति यो विष्णु महापातकवानपि ॥९॥

सोऽपि याति परं स्थानं यत्र गत्वा न शोचति ॥ सर्वतीर्थानि यज्ञाश्च सांगा वेदाश्च सत्तम ॥१०॥

नारायणार्चनस्यैते कलां नार्हंति षोडशीम् ॥ किं वै वेदैर्मुखैः शास्त्रैः किंवा तीर्थनिषेवणैः ॥११॥

विष्णुभक्तिविहीनानां किं तपोभिर्व्रतैरपि ॥१२॥

यजंति ये विष्णुमनंतमूर्ति निरीक्ष्य चाकारगतं वरेण्यम् ॥ वेदांतवेद्यं भवरोगवैद्यं ते यांति मर्त्याः पदमच्युतस्य ॥१३॥

अनादिमात्मानमनंतशक्तिमाधारभूतं जगतः सुरेड्यम् ॥ ज्योतिःस्वरूपं परमच्युताख्यं स्मृत्वा समभ्येति नरः सखायम् ॥१४॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे प्रायश्चित्तविधिर्नाम त्रिंशोऽध्यायः ॥३०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:44:54.2670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वसुश्रुत (आत्रेय)

  • n. एक वैदिक सूक्तद्रष्टा [ऋ.५. ३-६] 
RANDOM WORD

Did you know?

Sarva namaskar havet.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site