TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
द्वादशाधिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - द्वादशाधिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


द्वादशाधिकशततमोऽध्यायः
सनातन उवाच ॥
श्रृणु नारद वक्ष्यामि तृतीयाया व्रतानि ते ॥ यानि सम्यविग्वधायाशु नारी सौभाग्य माप्नुयात्‍ ॥१॥
चैत्रशुल्कतृतीयायां गौरीं कृत्वा सभर्तृकाम्‍ ॥ सौवर्णी राजतीं वापि ताम्रीं वा मृण्मयीं द्विज ॥२॥
अभ्यर्च्य गन्धपुष्पाद्यैर्वस्त्रैराभरणैः शुभैः ॥ दूर्वाकांडैश्व विधिवत्सोपवासा तु कन्यका ॥३॥
वरार्थिनो च सौभाग्यपुत्रभर्त्रर्थिनी तथा ॥ द्विजभार्या भर्तृमतीः कन्यकां वा सुलक्षणाः ॥४॥
सिंदूराझनवस्त्राद्यैः प्रतोष्य प्रीतमानसा ॥ रात्रौ जागरणं कुर्याद्धतसंपूर्तिकाम्यया ॥५॥
ततस्ताम प्रतिमां विप्र गुरवे प्रतिपादयेत्‍ ॥ धातुजां मृन्मयीं वा तु निक्षिपेच्च जलाशये ॥६॥
एवं द्वादशवर्षांणि कृत्वा गौरीव्रतं शुभम्‍ ॥ धेनुद्वादशसंकल्पं दद्यादुत्सर्गसिद्धये ॥७॥
किमत्र बहुनोक्तेन गौरी सौभाग्यदायिनी ॥ स्त्रीणां यथा तथा नान्या विद्यते भुवनत्रये ॥८॥
धनं पुत्रान्पतिं विद्यामाज्ञासिद्धिं यशः सुखम्‍ ॥ लभते सर्वमेवष्टं गौरीमभ्यर्च भक्तितः ॥९॥
राधशुल्कतृतीया या साक्षया परिकीर्तिता ॥ तिथिस्त्रेतायुगाद्या सा कृतस्याक्षयकारिणी ॥१०॥
द्वे शुल्के द्वे तथा कृष्णे युगादी कवयो विदुः ॥ शुल्कं पूर्वाह्रिके ग्राह्ये कृष्णे चैव तपस्यथ ॥११॥
द्वापरं हि कलिर्भाद्रे प्रवृत्तानि युगानि वै ॥ तत्र राघतृ तीयायां श्रीसमेतं जगद्धरुम्‍ ॥१२॥
नारायणं समभ्यर्चेत्पुष्पधूपविलेपनैः ॥ यद्वा गंगांभसि स्नातो मुच्यते सर्वकिल्बिषैः ॥१३॥
अक्षतैः पूज येद्विष्णुं स्नायादप्यक्षतैर्नरः ॥ सक्तन्संभोजयोद्विप्रान्स्वयमभ्यवहरेच्च तान्‍ ॥१४॥
एवं कृताविधिर्विप्र नरो विष्णुपरायणः ॥ विष्णुलोकमवाप्नोति सर्वदेवनमस्कृतः ॥१५॥
अथ ज्येष्ठतृतीया तु शुल्का रंभेति नामतः ॥ तस्यां सभायं विधिवत्पूजयेद्द्धाह्यणोत्तमम्‍ ॥१६॥
गन्धपुष्पांशुकाद्यस्तु नारी सौभाग्यकाम्यया ॥ रंभाव्रतामिदं विप्र विधिवत्समुपाश्रितम्‍ ॥१७॥
ददातिं वित्तं पुत्रांश्वं मतिं धर्मे शुभावहाम्‍ ॥ अथाषढतृतीयायां शुल्कायां शुल्कवाससा ॥१८॥
केशव्म तु सलक्ष्मीकं सस्त्रीके तु द्विजेऽर्चयेत्‍ ॥ भोजनैः सुरभदानैर्वस्त्रैश्वापि विभूषणैः ॥१९॥
प्रियैर्वाक्येर्भृशं प्रीता नारी सौभाग्यवांछया ॥ समुपास्य व्रतं चैतद्धनधान्यसमन्विता ॥२०॥
देवदेवप्रसादेन विष्णुलोकमवाप्नुयात्‍ ॥ नभःशुल्कतृतीयाया स्वर्णगौरीव्रतं चरेत्‍ ॥२१॥
उपचारैः षोडशभिर्भवानीमभिपूजयेत्‍ ॥ पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते ॥२२॥
अन्यांश्व सर्वकामान्मे देहि देहि नमोऽस्तु ते ॥ एवं संप्रार्थ्य देवेशीं भवानीं भवसंयुताम्‍ ॥२३॥
व्रतसंपूर्तिकामा तु वायनं दापयेत्तथा ॥ एवं षोडशवर्षाणि कृत्वा नारी व्रतं शुभम्‍ ॥२४॥
उद्यापनं चरेद्धक्तया वित्तशाठ्याविवर्जिता ॥ मंडपे मण्डले शुद्धे गणेशादिसुरार्चनम्‍ ॥२५॥
कृत्वा ताम्रमयं पात्रं कलशोपरि विन्यसेत्‍ ॥ सौवर्णी प्रतिमां तत्र भवान्याः प्रतिपूजयेत्‍ ॥२६॥
गंधपुष्पादिभिः सम्यक्‍ ततों होमं समाचरेत्‍ ॥ वेणुपात्रैः षोडशाभिः पक्कान्न परिपूरितैः ॥२७॥
समर्प्य देव्यै नैवेद्यं द्विजेष्ट्वेतन्निवेदयेत्‍ ॥ वायनं च ततः पश्वाद्दद्यात्संबन्धिबन्धुषु ॥२८॥
प्रतिमां गुरवे दत्त्वा द्विजेभ्यो दक्षिणां तथा ॥ पूर्णं लभेत्फले नारी व्रताचरणत्परा ॥२९॥
भाद्रशुल्कतृतीयायां व्रत्म वै हारितालकम्‍ ॥ कुर्याद्धक्तया विधानेन पाद्यार्घ्यार्चन पूर्वंकम्‍ ॥३०॥
ततस्तु कांचने पात्रे राजते चापि ताम्रके ॥ वैणवे मृन्मये वापि विन्यस्यान्नं सदक्षिणम्‍ ॥३१॥
सफलं च सवस्त्रं च सवस्त्रं च द्विजाय प्रतिपादयेत्‍ ॥ तदंते पारणं कुर्यादिष्टबन्धुजनैः ॥३२॥
एवं कृतव्रता नारी भुक्ता भोगान्मनोरमान्‍ ॥ व्रतस्यास्य प्रभावेण गौरीसहचरी भवेत्‍ ॥३३॥
सौभाग्यद्रव्यवस्त्राणि वंशपात्राणि षोडश ॥ दातव्यानि प्रयत्नेन ब्राह्मणेभ्यो यथाविधि ॥३४॥
अन्येभ्यो विप्रवर्येभ्यो दक्षिणां च प्रयत्नतः ॥ भूयसीं च ततो दद्याद्विप्रेभ्यो देवितुष्टये ॥३५॥
एवं या कुरुते नारी व्रतं सौभाग्यवर्द्धनम्‍ ॥ सा तु देवेप्रसादेन सौभाग्यं लभते ध्रुवम्‍ ॥३६॥
यदा तृतीया भाद्रे तु हस्तर्क्षसहिता भवेत्‍ ॥ हस्तगौरीव्रतं नाम तदुद्दिष्टं हि शौरिणा ॥३७॥
तथा कोटीश्वरी नाम व्रतं प्रोक्तं पिनाकिना ॥ लक्षेश्वरी चैव तथा तद्विधानमुदीर्यते ॥३८॥
अस्यां व्रत्म तु संग्राह्यं यावद्वर्षचतुष्टयम्‍ ॥ उपावासेन कर्तव्यं वर्षे वर्षे तु नारद ॥३९॥
अखंडानां तंडुलानां तिलानां वा मुनीश्वर ॥ लक्षमेकं विशोध्याथ क्षिपेत्पयसि संसृते ॥४०॥
तत्पक्केन तु निर्माय देव्या मूर्ति सुशोभनाम्‍ ॥ प्रकरे गंधपुष्पाणां पुष्पमालाविभूषिताम्‍ ॥४१॥
संस्थाप्य पार्वतीं तत्र पूजयेद्दक्तिभावितः ॥ गन्धैः पुष्पैस्तथा धूर्पैर्दीपैवेद्यविस्तरैः ॥४२॥
विविधैश्व फलैर्विप्र नमस्कृत्य क्षमापयेत्‍ ॥ ततो विसर्जयेद्देवीं जलमध्येऽथ दक्षिणाम्‍ ॥४३॥
दत्त्वा विधिज्ञविप्रेभ्यो भुञ्जीयाच्च परे दिने ॥ इति ते कथितं विप्र कोटिलक्षेश्वरीव्रतम्‍ ॥४४॥
गौरीलोकं प्रयात्यंते व्रतस्यास्य प्रभावतः ॥ इषशुल्कतृतीयायां बृहद्धैरीव्रतं चरेत्‍ ॥४५॥
पंचवर्षं विधानेन पूर्वोक्तेनैव नारद ॥ आचार्यं पोजयेदंते विप्रानन्यान्धनादिभिः ॥४६॥
सुवासिनीः पंच पूज्या वस्त्रालंकारचन्दनैः ॥ कंचुकैश्वैव ताटंकैः कंठसूत्रैर्हरिप्रियाः ॥४७॥
वंशपात्राणि पंचैव सूत्रैः संवेष्टितानि च ॥ सिंदूरं जीरकं चैव सौभाग्यद्रव्यसंयुतम्‍ ॥४८॥
गोधूमपिष्टजातं च नवापूपं फलादिकम्‍ ॥ वायनानि च पंचैव ताभ्यो दद्याच्च भोजयेत्‍ ॥४९॥
अर्घं दत्वा वायनानि पश्वाद्धुंजीत वाग्यता ॥ तत्फलं धारयेत्कंठे सर्वकामसमृद्धये ॥५०॥
ततः प्रातः समुत्थाय सालंकारा सखीजनैः ॥ गीतवाद्ययुता नद्यां गौरीं तु विसर्जयेत्‍ ॥५१॥
आहूतासि मयाभद्रे पूजिता च यथा विधि ॥ मम सौभाग्यदानाय यथेष्टं गम्यतां त्वया ॥५२॥
एवं कृत्वा व्रतं भक्तया द्विज देवीप्रसादतः ॥ भुक्ता भोगांस्तु देहांते गौरीलोकमवाप्नुयात्‍ ॥५३॥
ऊर्जशुल्कतृतीयायां विष्णुगौरीव्रतं चरेत्‍ ॥ पूजयित्वा जगद्वन्द्यामुपचारैः पृथग्विधैः ॥५४॥
सुवासिनीं भोजयित्वा मङुलद्रव्यपूजिताम्‍ ॥ विसर्जयेत्प्रम्यैनां विष्णुगौरीप्रतुष्टये ॥५५॥
मार्गशुल्कतृतीयायां हरगौरीव्रतं शुभम्‍ ॥ कृत्वा पूर्वविधानेन पूजयेज्जगदंबिकाम्‍ ॥५६॥
एतद्धतप्रभावेण भुक्ता भोगान्मनोरमान्‍ ॥ देवीलोकं समासाद्य मोदते च तया सह ॥५७॥
पौषशुल्कतृतीयां ब्रह्मगौरीव्रतं चरेत्‍ ॥ पूर्वोक्तेन विधानेन पूजितापि द्विजोत्तम्‍ ॥५८॥
ब्रह्यगौरीप्रसादेन मोदते तत्र संगता ॥ माघशुल्कतृतीयायां पूज्या सौभाग्यसुंदरी ॥५९॥
पूर्वोक्तेन विधानेन नालिकेरार्घ्यदानतः ॥ प्रसन्ना दिशति स्वीयं लोकं तु व्रतोषिता ॥६०॥
फाल्गुनस्य सिते पक्ष तृतीया कुलसौख्यदा ॥ पूजिता गन्ध पुष्पाधैः सर्वमङुलदा भवेत्‍ ॥६१॥
सर्वासु च तृतीयासु विधिः साधारणो मुने ॥ देवीपूजा विप्रपूजा दानं होमो पूर्वभागे विसर्जनम्‍ ॥६२॥
इत्येवं कथितानीह तृतीयाया व्रतानि ते ॥ भक्तया कृतानि चेष्टांस्तु कामान्दर्द्युमनोगतान्‍ ॥६३॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासतृतीयाव्रतकथनं नाम द्वादशाधिकशततमोऽध्यायः ॥११२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T05:03:51.2530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

microconstituent

  • पु. सूक्ष्म घटक 
RANDOM WORD

Did you know?

Sarva namaskar havet.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site