TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
षट्‌पञ्चाशत्तमोऽध्यायः

श्री नारदीयमहापुराणम् - षट्‌पञ्चाशत्तमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


षट्‌पञ्चाशत्तमोऽध्यायः
सनंदन उवाच ॥
क्रमाच्चैत्रादिमासेषु मेषाद्याः संक्रमा मताः ॥ चैत्रशुल्कप्रतिपदि यो वारः नृपः स्मृतः ॥१॥
मेषप्रवेशे सेनानीः कर्कटे सस्यपो भवेत् ॥ समोद्यधीश्वरः सूर्यो मध्यंम श्वोत्तमोविधुः ॥२॥
नेष्टः कुजो बुधो जीवो भृगुस्त्वतिशुभंकरः ॥ अश्वमो रविमो वाच्यो ज्ञात्वा चैषां बलाबलम् ॥३॥
दंडाकारे कंबधे वा ध्वांक्षाकारेऽथ कीलके ॥ दृष्टेऽर्कमण्डल व्याधिर्भांतिश्वोरार्थनाशनम् ॥४॥
छत्रध्वजपताकाद्यसन्निभस्तिमितैर्ध्वनेः ॥ रविमंडलगैर्धूम्रैः सस्फुलिंगैर्जगत्क्षयः ॥५॥
सितरैक्तः पीतकृष्णैर्वणौर्विप्रादिपीडनम् ॥ घ्नंति द्वित्रिचतुर्वणैंर्भुवि राजजनान्मुने ॥६॥
उर्द्धैर्भानुकरैस्ताम्रैर्नाश याति चमूपतिः ॥ पीतैर्नृपसुतः श्वतैः पुरोधाधाश्वित्रितैर्जनाः ॥७॥
धूर्मैर्नृपपिशंगैस्तु जलदाधोमुखैर्जगत् ॥ शुभोऽर्कः शिशिरःताम्रः कुंकुमाभा वसंतिके ॥८॥
ग्रीष्मश्वापांडुरश्वैव विचित्रो जलदागमे ॥ पद्मोदराभः शरदि हेमंते लोहितच्छविः ॥९॥
पीतः शीते सिते वृष्टौ ग्रीष्मे लोहितभा रविः ॥ रोगाना वृष्टिभयकृत् क्रमादुक्तो मुनीश्वर ॥१०॥
इन्द्रचापार्द्धमूर्तिस्तु भानुर्भूपविरोधकृत् ॥ शशरक्तनिभे भानौ संग्रामो न चिराद्धुवि ॥११॥
मयूरपत्र संकाशो द्वादशाब्दं न वर्षति ॥ चन्द्रमासदृशो भानुः कुर्याद्धूपांतंर क्षितौ ॥१२॥
अर्के श्यामे कीटभयं भस्माभे राष्ट्रजं तथा ॥ छिद्रऽर्कमंडले दृष्टं महाराजविनाशनम् ॥१३॥
घटाकृतिः क्षुद्धयकृत्पुरहा तोरणाकृतिः ॥ छ्त्राकृते देशहतिः खंडभानुनृपांतकृत् ॥१४॥
उदयास्तमये काले विद्युदुल्का शनिर्यदि ॥ तदा नृपवधो ज्ञेयस्त्वथवा राज विग्रहः ॥१५॥
पक्षं पक्षार्द्धमर्केन्दुपरिविष्टावहर्निंशम् ॥ राजानमन्यं कुरुतो लोहिताम्बुदयास्तगौ ॥१६॥
उदयास्तमये भानुराच्छित्रः ॥ घनैर्युद्धं खरोष्ट्राद्यैः पापरुपैर्भयप्रदम् ॥१७॥
याम्यश्रृंगोन्रतश्वंद्रः शुभदो मीनमेषयोः ॥ सौम्यश्रृंगोत्रतः श्रेष्ठो नृयुङ्‌मकरयोस्तथा ॥१८॥
घटोक्ष्णस्तु समः कर्कचापर्योः शरसन्निभः ॥ चापवत्कौर्महयौश्व शूलबत्तुलकर्कयोः ॥१९॥
विपरीतोदितश्वंद्रो दुर्भिक्षकलहप्रदः ॥ आषाढद्वयमूलेंद्रधिष्ण्यांना याम्यगः शशी ॥२०॥
अग्निप्रदस्तेयचरवनसर्पविनाशकृत् ॥ विशाखा मित्रयोर्याम्यपार्श्वगः पापगः शशी ॥२१॥
मध्यमः पितृदैवत्ये द्विदैवे सौम्यगः शशी ॥ अप्राप्यपौष्णभाद्रौद्रामदुक्षाविशशी शुभः ॥२२॥
मध्यगो द्वारदक्षाणि अतीत्य नववासवात् ॥ यमेंद्राहीशनोयेशमरुतश्वार्द्धतारकाः ॥२३॥
ध्रुवादितिद्वि दैवाः स्युरध्यर्द्धांश्वापराः समाः ॥ याम्यश्रृंगोन्नतो नेष्टः शुभः शुल्के पिपीलिका ॥२४॥
कार्यहानिः कार्यवृद्धिर्हानिर्वृद्धिर्यथाक्रमम् ॥ सुभिक्षकद्विशालेंदुरविशालोघनाशनः ॥२५॥
अधोमुखे शस्त्रभयंकलहो दंडासन्निभे ॥ कुजार्द्यैर्निहते श्रृंगे मंडले वा यथाक्रमम् ॥२६॥
क्षेमाद्यं वृष्टिभूपाजननाशः प्रजायते ॥ सत्याष्टनवमर्क्षेषु सोदयाद्वक्रिमे कुजे ॥२७॥
तद्वक्रमुष्णंसंज्ञं स्यात्प्रजापीडाग्रिसंभवः ॥ दशमैकादशे ऋक्षे द्वादशर्वाग्रतीपयः ॥२८॥
कूक्रं वक्रमुखं ज्ञेयं सस्यवृष्टिविनाशकृत् ॥ कुजेत्रयोदशे ऋक्षे वक्रीते वा चतुर्दशे ॥२९॥
बालास्यचक्रं तत्तस्मिन्सस्यवृष्टिविनाशनम् ॥ पंचदशे षोडशर्क्षे वक्रे स्याद्रुधिराननम् ॥३०॥
दुर्भिक्षं क्षुद्धयं रोगांन्करोति क्षितिनंदनः ॥ अष्टादशे सप्तदशे सप्तदशे तद्वक्रं मुशलाह्रयम् ॥३१॥
दुर्भिक्षं धनधान्यादिनाशने भयकृत्सदा ॥ फाल्गुन्योरुदितो भौमो वैश्वदेवे प्रतीपगः ॥३२॥
अस्तगश्वतुरास्यार्क्षे लोकत्रयविनाशकृत् ॥ उदितः श्रवणे पुष्ये वक्तृगोश्वनहानिदः ॥३३॥
यद्दिग्गोऽभ्यदितो भौमस्ताद्दिग्भूपभयप्रदः ॥ मघामध्यगतो भौमस्तत्र चैव प्रतीपग ॥३४॥
अवृष्टिशस्त्रभयदः पीड्यं देवा नृपांतकृत ॥ पितृद्विदैवधातृणां भिद्यंते गंडतारकाः ॥३५॥
दुर्भिक्षं भरणं रोगं करोति क्षितिजस्तदा ॥ त्रिषूत्तरासु रोहिण्यां नैऋते श्रवणे मृगे ॥३६॥
अवृष्टिश्वरन्भौमो दक्षिणेरोहिणीस्थितः ॥ भूमिजः सर्वधिष्ण्यानामुदगामी शुभप्रदः ॥३७॥
याम्यगोऽनिष्टफलदो भवेद्धदकरो नृणाम् ॥ विनोत्पातेन शशिनः कदाचिन्नोदयंव्रजेत् ॥३८॥
अनावृष्टाग्निभयकृदनर्थनृपविग्रहः ॥ वसुवैष्णवविश्वेंदुधातृभेषु चरन्बुधः ॥३९॥
भिनत्ति यदि तत्तारां बाधावृष्टिभयंकरः ॥ आर्द्रा दिपितृभांतेषु दृश्यते यदि चंद्रजः ॥४०॥
तदा दुर्भिक्षकलहरोगानावृष्टिमोभीतिकृत ॥ हस्तादिषट्रसु तारासु विचरन्निंदुनंदनः ॥४१॥
क्षेमं सुभिक्षं मारोग्यं कुरुते रोगनाशनम् ॥ अहिर्बुघ्न्यार्यमाग्नेययाम्यभेषु चरन्बुधः ॥४२॥
भिषक्तरंगवाणिज्यवृत्तीनां नाशकृत्तदा ॥ पूर्वात्रयेचरन्सौम्यो योग तारां भिनत्ति चेत् ॥४३॥
क्षुच्छस्त्रानलचौरेभ्यो भयदः प्राणिनां तदा ॥ याम्याग्निधातृवायव्यधिष्ण्येषु प्राकृता गतिः ॥४४॥
रौद्रेन्दुसार्पपित्र्येषुज्ञेया मिश्राह्रया गतिः ॥ भाग्यर्यज्यादितिषु संक्षिप्ता गतिरुच्यते ॥४५॥
गतिस्तीक्ष्णाजचरणाहिर्बुन्यभाश्रिभेषुया ॥ यो मातिकातिविश्वाबुमूलमत्स्यैन्यजस्य च ॥४६॥
घोरा गतिर्हरित्वाष्ट्रवसुवारुणभेषु च ॥ इंद्राग्निमित्रमार्तंडभेषु पापाह्रया गतिः ॥४७॥
प्राकृताद्यासु गति ह्रुदितोऽस्तमितोपिवा ॥ यावंत्येव दिनान्यष दृश्यस्तावत्यदृश्यगः ॥४८॥
चत्वारिंशत्क्रमात्रिंशद्रवींदू भूसुतो नव ॥ पंचदशैकादशभिर्दिवसैः शशिनंदनः ॥४९॥
प्राकृतायां गतः सौम्यः क्षेमारोग्यसुभिक्षकृत् ॥ मिश्रसक्षिप्तयोर्मध्ये फलदोऽन्यासु वृष्टिदः ॥५०॥
वैशाख श्रावणे पौषे आषादेऽभ्युदितो बुधः ॥ जगतां पापफलदस्त्वितरेषु शुभप्रदः ॥५१॥
इषोर्जमासयोः शस्त्रदुर्भिक्षाग्निभयप्रदः ॥ उदितश्वंद्रजः श्रेष्ठो रजतस्फटिकोपमः ॥५२॥
द्विभोटजोदिमास्तस्य पंचमैकादशास्त्रिभात् ॥ यन्नक्षत्रोदितो जीवस्तन्नक्षत्राख्यवत्सरः ॥५३॥
कार्तिको मार्गशीर्षश्व नृणां दुष्टफलप्रदः ॥ शुभप्रदौ पौषमाघौ मध्यमौ मधुः ॥५४॥
माधवः शुभदो ज्येष्ठो नृणां मध्यफलाप्रदः ॥ शुचिर्मध्यो नभः श्रेष्ठो भाद्रः क्कचिन्नरः ॥५५॥
अतिश्रेष्ठ इषः प्रोक्तो मासानां फलमीदृशम् ॥ सौम्ये भागे चरन्भानां क्षेमारोग्यसुभिक्षकृत् ॥५६॥
विपरीतो रुगुर्याम्ये मध्ये चरति मध्यमम् ॥ पीताग्निश्यामहरितरक्तवर्णोगिराः क्रमात् ॥५७॥
व्याध्यग्निचौरशस्त्रास्त्रभयदः ॥ प्राणिनां भवेत् ॥ अनावृष्टिं भूम्रनिभः करोति सुरपूजितः ॥५८॥
दिवादृष्टो नृपवध्यामयंवाराष्ट्रनाशनम् ॥ संवत्सर शरीरं स्यात्कृत्तिकां रोहिणीं तथा ॥५९॥
नाभिस्त्वापाठय्गलमाद्री ह्रत्कुसुमं मघा ॥ दुभिंक्षाग्निमरुद्धीतिः शरीरं क्रूरपीडिते ॥६०॥
नाभ्यां क्षुत्तृडयं पुष्ये सम्यङ्य्‌मूलफलाक्षयः ॥ त्द्ददयेशस्य निधनं शुभं स्यात्संयुतैः शुभैः ॥६१॥
शस्यवृद्धिः प्रजारोग्यं युद्धं जीवात्यवर्षणम् ॥ इति द्विजा तिमध्यां तु गोनृपस्त्रीसुखं महत् ॥६२॥
निःस्वनावृष्टिफणिभिर्वृष्टिः स्वास्थ्यं महोत्सवः ॥ महार्घमपि संपत्तिर्देशनाशोऽतिवर्षणम् ॥६३॥
अवैरं रोगमभयं रोगभीः सस्तर्वषणे ॥ रोगो धान्यं नभोऽदृष्टिमघाद्यृ क्षगते गुरौ ॥६४॥
सौम्यमध्यमयाम्येषु मार्गेषु विथिकात्रयम् ॥ शुक्रस्य दस्त्रभाज्ज्ञेयं पर्यायैश्व त्रिभिस्त्रिभिः ॥६५॥
नागेभैरावताश्वैव वृषभोष्ट्रखराह्रयाः ॥ मृगांजदहानाख्याः स्युर्याम्यांतो वीथयो नव ॥६६॥
सौम्य मार्गे च विसृषु चरवीथिषु भार्गवः ॥ धान्यार्थवृष्टिसस्यानां परिपूर्ति करोति हि ॥६७॥
मध्यमार्गे च विसृषु सर्वमप्यधमं फलम् ॥ पूर्वस्यां दिशि मेघस्तु शुभदः पितृपंचके ॥६८॥
स्वातित्रये पश्चिमायां तस्यां शुक्रस्तथाविधः ॥ विपरीते त्वनावृष्टिवृद्धधंसंयुतः ॥६९॥
कृष्णाष्टम्यां चतुर्दश्यामायां च यदा सितः ॥ उंदयास्तमनं याति तदा जलमयी मही ॥७०॥
मिथः सप्तमराशिस्थौ पश्वात्प्राग्वीथिसंस्थितौ ॥ गुरुशुक्रावनावृष्टिदुर्भिक्षसमरप्रदौ ॥७१॥
कुजज्ञजीवरविजाः शुक्रय्साग्रेसरा यदि ॥ युद्धांतिवायुर्दुभिक्षजलनाशकरा मताः ॥७२॥
जलमित्रार्यमाहीद्रंनक्षत्रेषु सुभिक्षकृत्  ॥ सच्छस्त्रावृष्टिदो मूलेऽहिर्बुध्न्यात्यभयोर्भयम् ॥७३॥
श्रवणानिलहस्तार्द्राभरणीभाग्यभेषु च ॥ चरच्छनैशरो नृर्णा सुभिक्षारोग्यसस्यकृत् ॥७४॥
मुखे चैकं गुदे द्वे च त्रीणि के नयने द्वयम् ॥ ह्रदये पञ्च ऋक्षाणि वामहस्ते चतुष्टयम् ॥७५॥
वामपादे तथा त्रीणि दक्षिणे त्रीणि भानि च ॥ चत्वारि दक्षिणे हस्ते जन्मभाद्रविजस्थितिः ॥७६॥
रोगो लाभस्तथा हनिर्लाभः सौख्यं च बंधनम् ॥ आयासः श्रेष्ठयात्रा च धनलाभः क्रमात्फलम् ॥७७॥
बहुधारविजस्त्वेतद्वक्रगः फलमीदृशम् ॥ करोत्येव समः साम्यं शीघ्रगेषूत्क्रमात्फलम् ॥७८॥
विष्णुचक्रोत्कृत्तशिराः पङ्डः पीयूषपानतः ॥ अमृत्युतां गतस्तत्र खेटत्वे परिकल्पितः ॥७९॥
वरणधातुरर्केन्दू तुदतेः सर्वपर्वणि ॥ विक्षेपावनतेर्वगाद्रा हुर्दूरगस्तयोः ॥८०॥
षण्मासवृद्धया ग्रहणं शोधयेंद्रविचंद्रयोः ॥ पर्वेशास्तु तथा सत्यादेवा रव्यादितः क्रमात् ॥८१॥
ब्रह्मेन्द्विंदधनाधीशवरुणां ग्नियमाह्रयाः ॥ पशुसस्यद्विजातीना वृद्धिर्ब्राह्ये तु पर्वणि ॥८२॥
तद्वदेव फलं सौम्ये श्लेष्मपीडा च पर्वणि ॥ विरोधी भूभुजां दुःखमैंद्रे सस्यविनाश नम् ॥८३॥
धनिनां धनहानिः स्यात्कौबेरं धान्यवर्धनम् ॥ नृपाणामशिवं क्षेममितरेषां च वारुणे ॥८४॥
प्रवर्षणं सस्यवृद्धिः क्षेमं हौताशपर्वणि ॥ अनावृष्टिः सस्यहानिर्दुर्भिक्षं याम्यपर्वणि ॥८५॥
वेलाहीने सस्यहानिर्नृपाणां दारुणं रणम् ॥ अतिवेले पुष्पहानिर्भयं सस्यविनाशनम् ॥८६॥
एकस्मिन्नेव मासे तु चंद्रार्कग्रहणं यदा ॥ विरोधो धरणीशानार्थवृष्टिविनाशनम् ॥८७॥
ग्रस्तोदितावस्तमितौ नृपधान्यविनाशदौ ॥ सर्वग्रस्ताविनेंदू तु क्षुद्वयाघ्यग्नियप्रदौ ॥८८॥
सौम्यायने क्षत्रविप्रानितरांहन्ति दक्षिणे ॥ द्विजातीं श्वक्रमाद्धंति राहुदृष्टोरगा दितः ॥८९॥
तथैव ग्रामभेदाः स्युर्मोक्षभे दास्तथा दश ॥ नो शक्ता लक्षिंतु देवाः किं पुनः प्राकृता जनाः ॥९०॥
आनीय खेटाग्नणितांस्तेषा वारं विचिंतयेत् ॥ शुभाशुभान्यैः कालस्य ग्राहयामो हि लक्षणम् ॥९१॥
तस्मादन्वेषणीयं तत्कालज्ञानाय धीमता ॥ उत्पातरुपाः केतूनामुदयास्तमया नृणाम् ॥९२॥
दिव्यांतरिक्षा भौमास्ते शुभाशुभफलप्रदाः ॥ यज्ञध्वजास्त्रभवनरक्षवृद्धिंगजोपमाः ॥९३॥
स्तम्भशूलांकुशाकारा आंतरिक्षाः प्रकीर्तिताः ॥ नक्षत्रसंस्थिता दिव्या भौमा ये भूमिसंस्थिताः ॥९४॥
एकोऽपि भिन्नरुपः स्याज्जंतुर्नाम् शुभाय वै ॥ यावन्तो दिवसान्केतुर्दृश्यते विविधात्मकः ॥९५॥
तावन्मासैः फलं यच्छ्त्यष्टौ साख्यव्यवत्सरैः॥ ये दिव्याः केतवस्तेऽपि शश्वज्जीवफलप्रदाः ॥९६॥
स्त्रिग्धः सुप्रसन्नः श्वेतकेतुः सुवृष्टिकृत् ॥ क्षिप्रादस्तमयं याति दीर्घकेतु खृष्टिकृत् ॥९७॥
अनिष्टदो धूमकेतुः शक्रचापसमप्रभः ॥ द्वित्रिचतुःशूलरुपः स च राज्यांतकृन्मतः ॥९८॥
मणिहारस्तुवर्णाभा दीप्तिमंतोऽर्कसूनवः केतवश्वोदिताः पूर्वोपरयोर्नृपहानिदाः ॥९९॥
वंसुकबिंबक्षितिजच्छुकतुंडादिसन्निभाः ॥ हुताशनोदितास्तेऽपि केतवः फलदाः स्मृताः ॥१००॥
भूसता जलतैलाभा वर्तुला क्षुद्रयप्रदाः ॥ सुभिक्षक्षेमदाः श्वेतकेतवः सोमसूनवः ॥१०१॥
पितामहात्मजः केतुस्त्रिवर्णस्त्रिदशान्वितः ॥ ब्रह्मदंडाद्धूमकेतुः प्रजानामंतमृतन्मतः ॥१०२॥
ऐशान्यां भार्गवसुताः श्वेतरुपास्त्वनिष्टदाः ॥ अनिष्टदः पंगुसुता विशिखाः कमकाह्रयाः ॥१०३॥
विकचाख्या गुरुसुता वेष्टा याम्ये स्थिता अपि ॥ सूक्ष्माः शुल्का बुधसुताश्वौररोगभयप्रदाः ॥१०४॥
कुजात्मजाः कुंकुमाख्या रक्ताः शूलास्त्वनिष्टदाः ॥ अग्निजा विश्वरुपाख्या अग्निवर्णाः सुखप्रदाः ॥१०५॥
अरुणाः श्यामलाकारा अर्कपुत्राश्व पापदाः ॥ शुक्रजा ऋक्षसदृशाः के तवः शुभदायिकाः ॥१०६॥
कृत्तिकासु भवो धूमकेतुर्नूनं प्रजाक्षयः ॥ प्रासादवृक्षशैलेषु जातो राज्ञां विनाशकृत ॥१०७॥
सुभिक्षकृत्कौमुदाख्यः केतुः कुसुदसन्निभः ॥ आवर्तकेतुसंध्यायां शशिरो नेष्टदायकः ॥१०८॥
ब्रह्मदेवमनोर्मान पित्र्यं सौरं च सावनम् ॥ चांद्रमार्क्षं गुरोर्मानमिति माना नि वै नव ॥१०९॥
एतेषां नवमानानां व्यवहारोऽत्र पञ्चभिः ॥ तेषां पृथक्पृथक्कार्यं वक्ष्यत व्यवहारतः ॥११०॥
ग्रहाणां निखिलश्वारो गृह्यते सौर मानतः ॥ वृष्टेर्विधानं स्त्रीगर्भः सावनेनैव गृह्यते ॥१११॥
प्रवर्षणां समे गर्भौ नाक्षत्रेण प्रगृह्यते ॥ यात्रोद्वाहव्रतक्षौरे तिथिवर्षिशनिर्णयः ॥११२॥
पर्ववास्तूपवासादि कृत्स्त्रंं चांद्रेण गृह्यते ॥ गृह्यते गुरुमानेन प्रभवाद्यब्दलक्षणम् ॥११३॥
तत्तन्मासैर्द्वाभिस्तत्तदष्टौ भवेत्ततः ॥ गुरुमध्यमचारेण षष्टयब्दाः प्रभवादयः ॥११४॥
प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः ॥ अंगिराः श्रीमुखो भावो युवा धाता तथैव च ॥११५॥
ईश्वरो बहुधान्यश्व प्रमाथी विक्रमो वृषः ॥ चित्रभानुस्सुभानुश्व तारणः पार्थिवोऽव्ययः ॥११६॥
सर्वजित्सर्वधारी च विरोधे विकृतः खरः ॥ नंदनो विजयश्वैव जयो मन्मथदुर्मुखौ ॥ ११७॥
हिमलंबो विलंबश्व विकारी शार्वरी लवः ॥ शुभकृच्छोभनः  क्रोधी विश्वावसुपराभवौ ॥११८॥
प्लवंगः कीलकः सौम्यः सामाप्तश्व विरोधकृत ॥ परिभावी प्रमादी च आनन्दो राक्षसोऽनलः ॥११९॥
पिंगलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मतीः ॥ दुंदुभी रुधिरोद्धारी रक्ताक्षः क्रोधनः क्षयः ॥१२०॥
नामतुल्यफलाः सर्वे विज्ञेयाः षष्टिवत्सराः ॥ युगं स्यात्पंचर्भिर्षैर्युगान्येवं तु द्वादश ॥१२१॥
तेषामी शाः क्रमाज्ज्ञेया विष्णुर्देवपुरोहितः ॥पुरंदरो लोहितश्व त्वष्टाहिर्बुघ्न्यसंज्ञकः ॥१२२॥
पितरश्व ततो विश्वे शशींद्राग्न्याश्विनो भगः ॥ तथा युगस्य वर्षे शास्त्वग्निनेंदुविधीश्वराः ॥१२३॥
अथाद्वेशचमूनाथसस्यपानां बलाबलम् ॥ तत्कालं ग्रहचारं च सम्यग्‍ ज्ञात्वा फलं पदेत् ॥१२४॥
सौम्यायंन मासषट्रकं मृगाद्यं भानुभुक्तितः ॥ अहः सुराणां तद्रात्रिः कर्काद्यं दक्षिणायनम् ॥१२५॥
गृहप्रवेशवैवाहप्रतिष्ठामौंजिबंधनम् ॥ मघादौ मंगलं कर्म विधेयं चौत्तरायणे ॥१२६॥
याम्यायने गर्हितं च कर्म यत्नात्प्रशस्यते ॥ साद्यादि मासौ द्वौ द्वौ च ऋतवः शिशिरादयः ॥१२७॥
मृगाच्छिशिं खतंसतश्वं ग्रीष्माः स्युश्वोत्तरायणे ॥ वर्षा शरच्च हेमंतः कर्काद्वै दक्षिणायने ॥१२८॥
चांद्रो दर्शावधिः सौरः संक्रांत्या सावनो दिनैः ॥ त्रिंशद्धिश्वंद्रभगणो मासो नाक्षत्रसंज्ञकः ॥१२९॥
मधुश्व माधवः शुचिश्वाथ नभस्ततः ॥ नभस्य इष ऊर्जश्व सहाश्वैव सहस्यकः ॥१३०॥
तपास्तपस्य क्रमशश्वैत्रादीनां समाह्रयाः ॥ यस्मिन्मासे पौर्णिमासी येन धिष्ण्येन संयुता ॥१३१॥
तन्नक्षत्राह्रयो मासः पौर्णमासी तदाह्रया ॥ तत्पक्षौ दैवपित्राख्यौ शुल्ककृष्णौ तथापरे ॥१३२॥
शुभाशुभे कर्मणि च प्रशस्तौ भवतः सदा ॥ क्रमात्तिथीनां ब्रह्मग्नी विरिंचिविष्णुशैलजाः ॥१३३॥
विनायकयमौ नागचंद्रौ स्कंदोऽर्कवासवौ ॥ महेन्द्रवासवी नागदुर्गादंडधराह्रयः ॥१३४॥
शिवविष्णूहरिखीकामः सर्वः कलीततः ॥ चन्द्रविश्वेदर्शसंज्ञातिथीशाः पितरः स्मृताः ॥१३५॥
नंदाभद्राजयारिक्ता पूर्णाः स्युस्तिथयः पुनः ॥ त्रिरावृत्त्या क्रमाज्ज्ञेया नेष्टमध्येष्टदाः सिते ॥१३६॥
कृष्णपक्षे त्विष्टमध्यानिष्टदाः क्रमशस्तदा ॥ अष्टमी द्वादशी षष्ठी चतुर्थी क्रमत्पंच च सर्वदा ॥१३७॥
तिथयः पक्षरध्राख्या ह्रतिरुक्षा प्रकीर्तिताः ॥ समुद्रमनुरंध्रांकतत्त्वसंख्यास्तु नाडिकाः ॥१३८॥
त्याज्याः स्युस्तासु तिथिषु क्रमात्पचं च सर्वदा ॥ अमावास्या च नवमी हित्वा विषमसंज्ञिका ॥१३९॥
तिथयस्तुप्रशस्तास्युर्मध्यमा प्रतिपत्सिता ॥ षष्ठ्यां तैलं तथाष्टम्यां मासं क्षौरं कलेस्तिथौ ॥१४०॥
पूर्णिमादर्शयोर्नारीसेवनं परिवर्जयेत् ॥ दर्शे षष्ठ्यां प्रतिपदि द्वादश्यां प्रतिपर्वसु ॥१४१॥
नवम्यां च न कुर्वीत कदाचिद्दंतधावनम् ॥ व्यतीपाते च संक्रांतावेकादश्यां च पर्वसु ॥१४२॥
अर्कभौदिने षष्ठ्या नाभ्यंगो वैधृतौ तथा ॥ यः करोति दशम्यां च स्नानमामलकैर्नरः ॥१४३॥
पुत्रहानिर्भवेत्तस्य त्रयोदश्यां धनक्षयः ॥ अर्थपुत्रक्षयस्तस्य द्वितीयायां न संशयः ॥१४४॥
अमायां च नवम्यां च सप्तम्यां च कुलक्षयः ॥ या पौर्णिमा दिवा चंद्रमती सोनुमती स्मृता ॥१४५॥
रात्रौ चन्द्रवती राकाप्यमावास्या तथा द्विधा ॥ सिनीवाली चेंदुमती कुहूर्नैदुमती मता ॥१४६॥
कार्तिके शुल्कनवमी त्वादिः कृतयुगस्य च ॥ त्रेतादिर्माधवे शुल्के तृतीया पुण्यसंज्ञिता ॥१४७॥
कृष्णां पंचदेशी माघे द्वापरादिमुदीरिता ॥ कल्पादिः स्यात्कृष्णपक्षे नभस्यस्य त्रयोदशी ॥१४८॥
द्वादश्यूर्जे शुल्कपक्षे नवम्यच्छेश्वयुज्यपि ॥ चैत्रे भाद्रपदे चैव तृतीया शुल्कसंज्ञिता ॥१४९॥
एकादशी सिता पौषे ह्याषाढ्रेर्देशमीसिता ॥ माघे च सप्तमी शुल्का नभस्ये त्वसिताष्टमी ॥१५०॥
श्रावणे मास्यमावास्या फाल्गुने मासि पौर्णिमा ॥ आषाढे कार्तिके मासि ज्येष्ठ चैत्रे च पौर्णिमा ॥१५१॥
मन्वादया मानवानां श्राद्धेष्वत्यंतपुण्यदा ॥ भाद्रे कृष्णत्रयोदश्यां मघामिंदुः करे रविः ॥१५२॥
गजच्छाया तदा ज्ञेया श्राद्धे ह्यात्यंतपुण्यदा ॥ एकस्मिन्वासरे तिस्त्रस्तिथयः स्यात्तिथिक्षयः ॥१५३॥
तिथिर्वारत्रये त्वेका ह्याधिंका द्वे च विंदिते ॥ सूर्यास्तमनपर्यंत यस्मिन्वारे तु या तिथिह ॥१५४॥
विद्यते सा त्वखंडा स्यान्न्यूना चेत्खंडसंज्ञिता ॥ तिथेः पंचदशो भागः क्रमाप्रतिदादयः ॥१५५॥
क्षणसंज्ञास्तदर्द्धानि तासामद्धी प्रमाणतः ॥ रविः स्थिरश्वरश्वंद्रः क्रूरो वक्रोखिलो बुध ॥१५६॥
लघुरिज्यो मृदुः शुक्रस्त्रीक्ष्णो दिनकरात्मजः ॥ अभ्यक्तो भानुवारे यः स नरः क्लेशवान्भवेत् ॥१५७॥
ऋक्षेशे कांतिभागभौमे व्याधि सौभाग्यमिंदुजे ॥ जीव नैवं सिते हानिर्मन्दे सर्वसमृद्धयः ॥१५८॥
लंकोदयात्स्याद्वारादिस्त स्मादूर्ध्वमधोऽपिवा ॥ देशांतरस्वचरार्द्धनाडीभिरपरे भवेत् ॥१५९॥
बलप्रदस्य खेटस्य कर्म सिद्ध्यति यत्कृतम् ॥ तत्कर्म बलहीनस्य दुःखेनापि न सिद्धयति ॥१६०॥
इंदुज्ञजीवशुक्राणां वासराः सर्वकर्मसु ॥ फलदास्त्वितरे क्रूरे कर्मस्वभिमतप्रदाः ॥१६१॥
रक्तवर्णौ  रविश्वंद्रो गौरो भौमोस्तु लोहितः ॥ दूर्वावर्णों बुधो जीवः पीतश्वेतस्तु भार्गवः ॥१६२॥
कृष्णः सौरिः स्ववारेषु स्वस्ववर्नक्रिया हिताः ॥ आद्रिवाणाश्व यस्यर्कपातालवसुधा धराः ॥१६३॥
बाणाग्रिलोचनानिह्यवेदबाहुशिलिमुखाः ॥ त्र्येकाययो नेत्रगोत्ररामाश्वंद्ररसर्तवः ॥१६४॥
कुलिकाश्वोपकुलिका वारवेला स्तथा क्रमात् ॥ प्रहरार्द्धप्रमाणास्ते विज्ञेयाः सूर्यवासरात ॥१६५॥
यस्मिमन्वारे क्षणो वारदृष्टस्तद्वासराधिपः ॥ आद्यः षष्ठो द्वितीयोऽस्मात्तत्षष्ठस्तुतृ तीयकः ॥१६६॥
षष्ठः षष्ठश्वेतरेषां कालहोराधिपाः स्मृताः ॥ सार्द्धनाडीद्वयेनैव दिवा रात्रौ यथाक्रमात् ॥१६७॥
वारप्रोक्तं कर्मकार्ये तदूग्रहस्य क्षणेऽपि सन् ॥ नक्षत्रेशाः क्रमाद्दस्त्रयमवह्रिपितामहाः ॥१६८॥
चंद्रेशादितिजीवाहिपितरो भगसंज्ञकः ॥ अर्यमार्कत्वष्टुमरुच्छक्राग्निमित्रवासवः ॥१६९॥
नैऋत्युककविश्वेजगोविंदसुतोयपाः ॥ अजैकपादहिर्बुघ्न्या पूषा चेति प्रकीर्तिताः ॥१७०॥
पूर्वात्रयं मघाह्याग्निविशाखाय ममूलभम् ॥ अधोमुखं तु नवकं भानौ तत्र विधीयते ॥१७१॥
बिलप्रवेशगणितभूतसाधनलेखनम् ॥ शिल्पकर्मकलाकूपनिक्षेपोद्धरणादि यत् ॥१७२॥
मित्रेन्दुत्वाष्ट्रहस्तेन्द्रादितिभांत्याश्विवायुभम् ॥ तिर्यङ्‌मुखाख्यं नवकं भानौ तत्र विधीयते ॥१७३॥
हलप्रवाहगमनं गंत्रीपत्रगजोष्ट्रकम् ॥ खरगोरथनौयानलुलायहक्यकर्म च ॥१७४॥
ब्रह्मविष्णुमहेशार्यशततारावसूत्तराः ॥ ऊर्द्धास्यं नवकं भानां प्रोक्तमत्र विधीयते ॥१७५॥
नृपा भिषेकमांगल्यवारणध्वजकर्मच ॥ प्रासादतोरणारामप्राकाराद्यं च सिद्धयति ॥१७६॥
स्थिरं रोहिण्युत्तराख्यं क्षिप्रं सूर्याश्विपुष्यभम् ॥ साधारणं द्विदैवत्यं वह्रिभं च प्रकीर्तितम् ॥१७७॥
वस्वदित्यंबुपुष्याणि विष्णुभं चरसंज्ञितम् ॥ मृद्विंदुमित्रचित्रांत्यमुग्रं पूर्वामघात्रिकम् ॥१७८॥
मूलार्द्राहींद्रभं तीक्ष्णं स्वनमसदृशं फलम् ॥ चित्रादित्यंबुविष्ण्वंबांत्याधिमित्रवसूडुषु ॥१७९॥
समृगेज्येषु बालानां कर्णवेधक्रिया हिता ॥ दस्त्रेन्द्व दितितिष्येषु करादत्रितये तथा ॥१८०॥
गजमर्कखिलं यत्तद्विधेयं स्थिरभेषु च ॥ वाजिकर्माखिलं कार्यं सूर्यवारे विशेषतः ॥१८१॥
चित्रा वरुणवैरिंचत्र्युत्तरासु गमागमम् ॥ दर्शाष्टम्यां चतुर्दश्यां पशूनां न कदाचन ॥१८२॥
मृदुध्रुवक्षिप्रचरविशाखापितृभेषु च ॥ हलप्रवाहं प्रथमं विदध्यान्मूलभे घृषैः ॥१८३॥
हलादौ वृषनाशाय भत्रयं सूर्यमुक्तभात् ॥ अग्रे वृद्धयै  त्रयं लक्ष्मये सौम्यपार्श्वे च पंचकम् ॥१८४॥
शूलत्रयेपि नवकं मरणाय च पंचकम् ॥ श्रियै पुष्टयै त्रयं श्रेष्ठं स्याच्चके लांगलाह्रये ॥१८५॥
मृदुध्रुवक्षिप्रभेषुं पितृवायुवसूडुषु ॥ समूलभेषु बीजोप्तिरत्युत्कृष्टं फलप्रदा ॥१८६॥
भवेद्धत्रितयं मूर्न्धि धान्यनाशाय राहुभात् ॥ गले त्रयं कज्जलाय वृद्धयै च द्वादशोदरे ॥१८७॥
निस्तंडुलत्वं लांगूले भचतुष्टभीतिदम् ॥ नाभौ वह्रिः पंचकं यद्वीजोप्ताविति चिंतयेत् ॥१८८॥
स्थिरेष्वादितिसार्पांत्यापितृमारुतभेषु च ॥ कुर्याद्रोगमुक्तस्य स्त्रानमाहीं दुशुक्रयोः ॥१८९॥
उत्तरायमैत्रेन्द्रवसुवारुणभेषु च ॥ पुष्यार्कपौष्णधिष्ण्येषु नृत्यारंभः प्रशस्यते ॥१९०॥
पूर्वार्द्धयुंजि षडानि पौष्णभादुदभात्ततः ॥ मध्ययुंजि द्वादशर्क्षाणीन्द्रभान्नभानि च ॥१९१॥
परार्द्धयुंजि क्रमशः संप्रीतिर्दम्पतोर्मिथः ॥ जघन्यास्तोयपार्द्राहिपवनांतनाकपाः ॥१९२॥
क्रमादितिद्वि दैवत्या बहुत्ताराः पराः समाः ॥ तासां प्रमाणघटिकास्त्रिंशन्नवतिद्यष्टयः ॥१९३॥
क्रमादभ्युदिते चंद्रे नयत्यर्घससमानि च ॥ अश्वग्रींद्वीज्यनैऋत्यत्वाष्ट्राजत्त्युत्तराभवाः ॥१९४॥
पितृद्विदैववखाख्यास्ताराः स्युः कुलसंज्ञिकाः ॥ धातृज्येष्ठादितिस्वातीपौष्णार्कहरिदेवताः ॥१९५॥
अजाह्यंत्वकभौजंगताराश्वैवाकुलाह्रयाः ॥ शेषाः कुलाकुलास्तारास्तासाम मध्ये कुलोडुषु ॥१९६॥
प्रयति यदि भूपालस्तदाप्नोति पराजयम् ॥ भेषूपकुलंसज्ञेषु जयमाप्नोति निश्वितम् ॥१९७॥
संधिर्वापि तयोः साम्यं कुलाकुलगणोडुषु॥ अर्कार्किभौमवारे चेद्धद्राया विषमांघ्रिभम् ॥१९८॥
त्रिपुष्करं त्रिगुणदं द्विगुणं यमलाहिर्भम् ॥ दद्यात्तद्दोषनाशाय गोत्रयं मूल्यमेव वा ॥१९९॥
द्विपुष्करे द्वयं दद्यान्न दोषस्त्वृक्षभोऽपि वा ॥ क्रूरविद्धो युतो वापि पुष्यो यदि बलान्वितः ॥२००॥
विना पाणिग्रहं सर्वमंगलेष्विष्टदः सदा ॥ रामग्निऋतुबाणाग्निभूवेदाग्निशरेषु च ॥२०१॥
नेत्रबाहुशरेंद्विंदुबाहुवेदाग्निसंकराः ॥ वेदनेत्राब्ध्याग्निशतबाहुनेत्ररदाः क्रमात् ॥२०२॥
तारासंख्याश्व विज्ञेया दस्त्रादीनां पृथकू पृथकू ॥ या दृश्यंते दीप्ततारः स्वगने योगतारकाः ॥२०३॥
वृषो वृक्षोश्वभायाम्यधिष्ण्येयमकरस्तरुः ॥ उडुंबरश्वाग्निधिष्ण्ये रोहिण्यां जंबुकस्तरुः ॥२०४॥
इन्दुभात्खदिरो जातः कृष्णप्लक्षश्व रौद्रभात् ॥ संभूतोऽदितिभाद्वंशः पिप्पलः पुष्यसंभवः ॥२०५॥
सर्पधिष्ण्यान्नागवृक्षो वटः पितृभसंभवः ॥ पालाशो भाग्यभाज्जातः अक्षश्वर्यम संभवः ॥२०६॥
अरिष्टवृक्षो रविभाच्छ्रीवृक्षस्त्वाष्ट्रसंभवः ॥ स्वात्यूक्षजोऽर्जुनो वृक्षो द्विदैवत्याद्विकंकतः ॥२०७॥
मित्रभाद्वकुलो जातो विष्टिःपौरंदरर्क्षजः ॥ सर्ज्जवृक्षो मूलवाच्च वंजूलो वारिधिष्ण्यजः ॥२०८॥
पनसो वैश्वभाज्जातश्वार्कवृक्षश्व विष्णुभात् ॥ वसुधिष्ण्याच्छमीवृक्षः कदंबो वारुणर्क्षजः ॥२०९॥
अजाहेश्वूवृक्षोभूद्धूध्न्यजः पिचुमन्दकः ॥ मधुवृक्षः पौंष्णधिष्ण्याद्धिष्ण्यवृक्षाः प्रकीर्तिताः ॥२१०॥
यस्मि~च्छश्वरो धिष्ण्ये तद्धृक्षोऽर्च्यः प्रयत्नतः॥ योगेशा यमविश्वेंदुधातृजीवनिशाकराः ॥२११॥
इंद्रतोयाहिवह्रयर्कभूमिरुद्रकतोयपाः ॥ गणेशरुद्रधनदत्वष्ट्टमित्रषडाननाः ॥२१२॥
सावित्री कमला गौरी नासत्यौ पितरोऽदितिः ॥ वैधृतिश्व व्यतीपातो महापातावुभौ सदा ॥२१३॥
परिघस्य च पूर्वार्द्धं सर्वकार्येषु गर्हितम् ॥ विष्कंभवज्रयोस्तिस्त्रः षडा गंडातिगंडयोः ॥२१४॥
व्यागघाते नव शूले तु पंच नाड्यो हि गर्हिताः ॥ अदितींदुमघाह्यमूलमैत्रैज्यभानि च ॥ २१५॥
ज्ञेयानि सहचित्राणि मूर्द्धभानि यथाक्रमम‍ ॥ लिखेदूर्द्धगतामेकां तिर्यग्रेखास्त्रयोदश ॥२१६॥
तत्र खार्जूरिके चक्रे कथितं मूर्घ्निं भं न्यसेत् ॥ भाज्यैकरेखागतयोः ॥ सूर्याचंद्रमसोर्मिथः ॥२१७॥
एकार्गलो दृष्टिपातश्वभिजिद्वर्जितानि वै ॥ विनाडीभिर्द्वादशभी रहितं घटिकाद्वयम् ॥२१८॥
योगं प्रकरणं योगाः क्रमात्तु सप्तविंशतिः ॥ इन्द्रः प्रजापतिर्मित्रस्त्वष्टाभूहारीतिप्रिया ॥२१९॥
कीनाशः कलिरुद्रा ख्यो तिथ्यर्द्धेशास्त्वहिर्मरुत् ॥ बवादिवणिजांतानि शुभानि करणानि षट्‌ ॥२२०॥
परीता विपरीता वा विष्टिर्नेष्टा तु मंगले ॥ मुखे पंच गले चैका वक्षस्येकादश स्मृतः ॥२२१॥
नाभौ चतस्यः षट्‌ कट्यां तिस्त्रः पुच्छाख्यनाडिकाः ॥ कार्यह ॥ निर्मुखे मृत्युत्गले वक्षसि निःस्वता ॥२२२॥
कट्यामुन्मत्तता नाभौ च्युतिः पुच्छे ध्रुवं जयः ॥ स्थिराणि मध्यमान्येषां मध्यनागचतुष्पदौ ॥२२३॥
दिवामुहूर्ता रुद्राहिमित्रपितृवसूदकम् ॥ विश्वेविधातृब्रह्मेंद्ररुद्राग्निवसुतोयपाः ॥२२४॥
अर्यमा भगसंज्ञश्व विज्ञेया दश पंच च ॥ ईशाजपादाहिर्बुघ्न्यपूषाश्वियमवह्रयः ॥२२५॥
धातृ इन्द्रादितीज्याख्या विष्ण्वर्कत्वष्टुवायवः ॥ अह्रः पंचदशो भागस्तथा रात्रिप्रमाणतः ॥२२६॥
मुहूर्तमानं द्वरावक्षणर्क्षाणि समेश्वरम् ॥ अर्यमा राक्षस ब्राह्यौ पित्र्यान्गेयौ तथाभिजित् ॥२२७॥
राक्षसाख्यौ ब्राह्मपित्र्यौ भर्गाजांशाविनादिषु ॥ वारेषु वर्जनीयास्ते मुहूर्ताः शुभकर्मसु ॥२२८॥
येषुऋक्षेषु यत्कर्म कथितं निखिलं च तत् ॥ तद्दैवत्ये मुहूर्तेऽपि कार्यं यात्रादिकं सदा ॥२२९॥
भूकंपः सूर्यभात्सप्तमर्क्षे विद्युच्च पंचमे ॥ शूलोऽष्टमे च दशमे शनिरष्टादशे ततः ॥२३०॥
केतुः पंचदशे दंड उल्का एको नविंशतौ ॥ निर्घातपातसंज्ञश्व ज्ञेयः स नवपंचमे ॥२३१॥
मोहनिर्घातकं पाश्व कुलिशं परिवेषणम् ॥ विज्ञेया एकविंशार्क्षादारभ्य च यथाक्रमम् ॥२३२॥
चन्द्रयुक्तेषु भेष्वेषु शुभकर्म न कारयेत् ॥ सूर्यभात्सर्वपित्र्यर्क्षं त्वाष्ट्रमित्रप्तभेषु च ॥२३३॥
सविष्णुभेषु क्रमशो हस्तभाच्चंद्रसंयुतः ॥ धिष्ण्ये तावति सत्यत्र दुष्टयोगः पतत्यसौ ॥२३४॥
चंडीशचंडायुधाख्यस्त स्मिन्नैवाचरेच्छुभम् ॥ त्रयोदश स्युर्मिलनसंख्यता तिथिवारयोः ॥२३५॥
क्रकचो नाम योगिऽयं मंगलेष्वतिगर्हितः ॥ सप्तम्यामर्कवरश्वेत्प्रतिपत्सौंम्यसरे ॥२३६॥
संवतयोगो विज्ञेयः शुभकर्मविनाशकृत् ॥ आनन्दः कालदंडाख्यो धूम्रधातृसुधाकराः ॥२३७॥
ध्वांक्षध्वजाख्यश्रीवत्स वज्रमुद्ररछत्रकाः ॥ मित्रमानसपद्माख्यलिम्बकोत्पातमृत्यवः ॥२३८॥
कानासिद्धिशुभा मृत्युमुशलांतककुंजराः ॥ राक्षसाख्यवरस्थैर्यवर्द्धमानाः क्रमादमी ॥२३९॥
योगाः स्वरसंज्ञाफलदा अष्टाविंशतिरीरिताः ॥ रविवारे क्रमादेव दस्त्रभादिंदुभाद्विधौ ॥२४०॥
सापाद्ध्ॐए बुधे हस्तान्मैत्रभात्सुर मंत्रिणि ॥ वैश्वदेवाद्धृगुसुते वारुणाद्धास्करात्मजे ॥२४१॥
हस्तर्क्षं च खाविंदौ चंद्रभं कुजे ॥ सौम्ये मित्रभमाचार्यं तिष्यः पौष्णं भृगोःसुते ॥२४२॥
रोहिणी मंदवारे च सिद्धियोगाह्रया अमी ॥ अदित्यभौमयोर्नंदा भद्रा शुक्रशशांकयोः ॥२४३॥
जया सौम्ये गुरौ रिक्ता शनौ पूर्णोति नो शुभाः ॥ नन्दा तिथिः शुक्रवारे सौम्ये भद्रा कुजे जया ॥२४४॥
रिक्ता मंदे गुरोर्वारे पूर्णा सिद्धाह्रया अमी ॥ एकादश्यामिंदुवारो द्वादश्यामर्कवासरः ॥२४५॥
षष्ठो गुरौ तृतीयो ज्ञेऽष्टमी शुक्रे शनैश्वरे ॥ नवमी पञ्चमी भौमे दग्धयोगाः प्रकीर्तिताः ॥२४६॥
भरण्यर्कदिने चंद्रे चित्राभौमेतु विश्वभम् ॥ बुधे श्रविष्ठार्यभभे गुरौ ज्येष्ठा भृगोर्दिने ॥२४७॥
रेवती मंदवारे तु ग्रहजन्मर्क्षनाशनम् ॥ विशाखादिचतुर्वर्गमर्कवारादिषुक्रमात् ॥२४८॥
उत्पातमृत्युकाणाख्यासिद्धियोगाः प्रकीर्तिताः ॥ तिथिवारोद्धवा नेष्टा योगा वारर्क्षसंभवा ॥२४९॥
हूणवंगखसेष्वन्यदेशेष्वतिशुभप्रदाः ॥ घोराष्टाक्षीमहोदर्यो मन्दा मंदाकिनी तथा ॥२५०॥
मिश्रा राक्षसिका सूर्यवारादिषु यथाक्रमम् ॥ शूद्रतस्करवैश्यक्ष्मादेवभूपगवां क्रमात् ॥२५१॥
अनुक्तानां च सर्वेषां घोराद्याः सुखदाः स्मृताः ॥ पूर्वाह्रे नृपतीन्हन्ति विप्रान्मध्यंदिने विशः ॥२५२॥
अप्राह्रेऽस्तगे शूद्रान्प्रदोषे च पिशाचकान् ॥ निशि रात्रिचरान्नाटयकरानपररात्रिके ॥२५३॥
गोपानुषसि संध्यायां लिंगिनो रविसंक्रमः ॥ दिवा चेन्मेषसंक्रांतिरनर्थकलहप्रदा ॥२५४॥
रात्रौ सुभिक्षमतुलं संध्ययोर्वृष्टिनाशनम् ॥ हरिशार्दूलवाराहरवरकुंजजरमाहिषाः ॥ अश्वश्वाजवृषाः पादायुग्धाः करणवाहनाः ॥२५५॥
भुशुंडी च गदा खडौ दंड इष्वासतोमरौ ॥२५६॥
कुन्तपाशांकुशास्त्रेषून्बिभर्तिं करयोस्त्विनः ॥ अन्नं च पायसं भक्ष्यैं सयूषं च पयो दधि ॥२५७॥
मिष्टान्नं गुडम ध्याज्यशर्करा ववतो हविः ॥ ववोवीवणिजेविश्वां बालवे गोचरस्थितौ ॥२५८॥
कौलवे शकुनौ भानुः किंस्तुघ्ने चोर्द्धसंस्थितः ॥ चतुःपादे तिले नागे सुप्तः क्रांतिं करोति हि ॥२५९॥
धर्मायुर्वृष्टिषु समं श्रेष्ठ नष्टं फलं क्रमात् ॥ आयुधं वाहनाहारौ यज्जातीयं जनस्य च ॥२६०॥
स्वापेपविष्टास्तिष्ठंस्ते लोकाः क्षेममाप्नुयुः ॥ अंधकं मंदसंज्ञं च मध्यसंज्ञं च सुलोचनम् ॥२६१॥
पपीयाद्धणयेद्धानि रोहिण्यादिचतुर्विधम् ॥ स्थिरभेष्वर्कसंक्रांतिज्ञेंया विष्णुपदाह्रया ॥२६२॥
षडशीतिमुखा ज्ञेया द्विस्वभावेषु राशिषु ॥ तुलाघटाजयोर्ज्ञेयो विषुवत्सूर्यसंक्रमः ॥२६३॥
याम्यांसयने त्वाद्याः सौम्येन्दुमूर्तिभैः ॥ मेध्या विषुवति प्रोक्ताः पुण्यनाड्यस्तु षोडश ॥२६४॥
संध्या त्रिनाडी प्रमितार्कबिंबोर्द्धोदयास्ततः ॥ प्राक्पश्वाद्याम्यसौम्ये चेत्पुण्यं पूर्वापरे‍हनि ॥२६५॥
यादृशेनेंदुना भानोः संक्रातिस्तादृशं फलम् ॥ नरः प्राप्नोति तद्राशो शीतांशोः साध्वसाधु च ॥२६६॥
संक्रांतेः परतो भानुर्भुक्त्वा भावद्धिरंशकैः ॥ खेरयनसंक्रातिस्तदा तद्राशिसंक्रमात् ॥२६७॥
संक्रांतिग्रहगर्क्षंवा जन्मन्युभयपार्श्वयोः ॥ व्रतोद्वाहादिकेष्वेव द्वयं नेष्टं तु तत्क्रमात् ॥२६८॥
तिलोपरिलिखेच्चक्रं त्रित्रिशूलं त्रिकोणकम् ॥ तत्र हेम विनिक्षिप्य दद्याद्दोषापवृत्तये ॥२६९॥
ताराबलेन शीतांशुर्भलवांस्तद्वशाद्रविः ॥ बली संक्रममाणस्तु तद्वत्खेटा बलाधिकाः ॥२७०॥
शुभोऽर्को जन्मतस्त्र्यायदशषट्‌सु मुनीश्वर ॥ नवपञ्चांबुरिष्फस्थैर्व्यर्किभिर्विध्यते च चेत् ॥२७१॥
शुभो जन्मर्क्षतश्वंदो द्यूनांगायारिस्वत्रिषु ॥ यथेष्टांत्यांबुधर्मस्थैविबुद्धैर्विध्यते न चेत् ॥२७२॥
त्र्यायारिषु कुजः श्रेष्ठो जन्मना चेन्न विध्यते ॥ व्ययेष्वंकस्थितैः सौरिसौम्यसूर्यैः शुभौषधात् ॥२७३॥
ज्ञः स्वायार्यष्टखायेषु जन्मतश्वेन्न विध्यते ॥ धीत्र्यकादिगजांतस्थैः शशांकरहितैः शुभैः ॥२७४॥
जन्मराशेर्गुरुः श्रेष्ठः स्वायर्योऽध्यस्तगो न चत् ॥ विध्यतेंत्याष्टखांबुत्रिगतैः खैटर्मुनीश्वर ॥२७५॥
जन्मभादासुताष्टांकांत्यायेष्विष्टो भृगोः सुतः ॥ चेन्न विद्धोऽष्टसप्तांगम्  खांकाद्यायारिरामगैः ॥२७६॥
न ददाति शुभं किंचिद्द्धोचरे वेधसंयुते ॥ तस्माद्वेधं विचार्थाथ कथनीयं शुभाशुभम् ॥२७७॥
वामभेदविधानेन दुष्टोऽपि स्याच्छुभङकरः ॥ सौम्येक्षितोऽनिष्टफलः शुभदः पापवीक्षितः ॥२७८॥
निष्फलौ तौ ग्रहौ खेन शत्रुणा च विलोकितौ ॥ नीचराशिगतः स्वस्य शत्रोः क्षेत्रगतोऽपि वा ॥२७९॥
शुभाशुभफलं नैव दद्यादस्तमितोपि वा ॥ ग्रहेषु विषमस्थेषु शांतिं कुर्यात्प्रयत्नतः ॥२८०॥
हानिर्वृद्धिर्ग्रहाधीना तस्मात्पूज्यतमा ग्रहाः ॥ मणिर्मुक्ताफलं विद्रुमाख्यं मरक तं तथा ॥२८१॥
पुष्परांग तथा वज्रं नीलं गोमेदसंज्ञितम् दूर्य्यं भास्करादीनां तुष्ट्य धार्यं यथाक्रमम‍ ॥२८२॥
शुक्लपक्षादि दिवसे चंद्रोयस्य शुभप्रदः ॥ स पक्षस्तस्य शुभदः कृष्णपक्षोन्यथाऽशुभः ॥२८३॥
शुल्कपक्षे शुभश्वंद्रो द्वितीयनवपंचमे ॥ रिःफरंध्रांबुसंस्थैश्वैन्न विद्धो गगने चरैः ॥२८४॥
जन्म संपद्विपत् क्षेम प्रत्यरिः साधको वधः ॥ मित्रं परममित्रं च जन्मभात्तु पुनः पुन ॥२८५॥
जन्मत्रिपंचसप्ताख्यास्तारा नेष्ट फलप्रदाः ॥ शाकं गुडं च लवणं सतिलं कांचनं क्रमात् ॥२८६॥
अनिष्टफलनाशाय दद्यादेतद्दिजातये ॥ कृष्णे बलवती तारा शुक्लपक्षे बली शशी ॥ चंद्रस्य द्वादशावस्था राशौराशौ यथाक्रमम्॥२८७॥
यात्रोद्वाहादिकार्येषु नामतुल्यफलप्रदाः ॥ षष्टिघ्नं गतचन्द्रर्क्षं तत्कालघटिकान्वितम् ॥ वेदघ्नमिषुवेदांत्यमवस्था भानुभागतः ॥२८८॥
प्रवासनष्टाख्यमृता जयो हास्यं रतिमुदा ॥ शनिभुक्तिर्ज्वरः कंपः सुस्थितिर्नामसन्निभाः ॥२८९॥
पट्टबंधनयानोग्रसंधिविग्रहभूषणम् ॥ धात्वाकरं युद्धकर्म मेषलग्ने प्रसिद्धयति ॥२९०॥
मगलानि स्थिराण्यंविवेश्मकर्मप्रवर्तनम् ॥ कृषिवाणिज्यपश्वादिदुष्टलग्ने प्रसिद्धयति ॥२९१॥
कलाविज्ञानशिल्पानि भूषणाहवसंश्रवनम् ॥ गजोद्वाहाभिषेकाद्यं कर्त्तव्यं मिथुनोदये ॥२९२॥
वापीकूपतडागादि वारिबंधनमोक्षणम् ॥ पौष्टिकं लिपिलेखादि कर्तव्यं कर्कटोदये ॥२९३॥
इक्षुधान्यवणिक्पण्यकृषिसेवादयास्स्थिरे ॥ साहसाहवभूपाद्यं सिंहलग्ने प्रसिद्धयति ॥२९४॥
विद्याशिल्पौषधं कृत्यं भूषणं च चरस्थिरम् ॥ कन्या लग्ने विधेयं च पौष्टिकाखिलमंगलम् ॥२९५॥
कृषिवाजिज्ययानं च पशूद्वाहव्रतादिकम् ॥ तुलायामखिलं कर्म तुलाभारश्रिते च यत् ॥२९६॥
स्थिरविमिश्रं च कार्यं राजसेवाभिषेचनम् ॥ चोर्यकर्मस्थिरारंभाः कर्तव्या वृश्चिकोदये ॥२९७॥
व्रतोद्वाहप्रयाणाश्वगजशिल्पकलादिकम् ॥ चर स्थिरविमिश्रं च कर्तव्यं कार्मुकोदये ॥२९८॥
चापबंधनमोक्षास्त्रकृषिगोश्वादिकम् यत् ॥ प्रस्थानं पशुदासादि कर्तव्यं मकरोदये ॥२९९॥
कृषिवाणिज्यपश्वबुशिल्पकर्मकलादिकम् ॥ जलपात्रास्त्रशस्त्राद कर्तव्य कलशोदये ॥३००॥
व्रतोद्वाहाभिषेकांबुस्थापनं सन्निवेशनम् ॥ भूषणं जलपात्राश्वकर्म मीनोदये शुभम् ॥३०१॥
मेषादिषु विलग्रेषु शुद्धेष्वेवं प्रसिद्धयति ॥ क्रूरग्रहेक्षितेषूग्रसंयुतेषूग्रमेव हि ॥३०२॥
गोयुग्मकर्कक न्यांत्यतुलाचापधराः शुभाः ॥ शुभर्क्षत्वाशुभासत्य इतरा पापराशयः ॥३०३॥
ग्रहयोगावलोकाभ्यां राशिर्धत्ते ग्रहोद्धवम् ॥ फलं ताभ्यां विहोनीऽसौ स्वभावमुपसर्पति ॥३०४॥
आदौ संपूर्णफलदं मध्ये मध्यफलप्रदम् ॥ अंते तुच्छफले लग्ने सर्वस्मिन्नेवमने हि ॥३०५॥
सर्वत्र प्रथमं लग्नं कर्तुश्वंद्रबलं ततः ॥ कल्प्यामदिंदौ बलिनि सप्तमे बलिनो ग्रहाः ॥३०६॥
चंद्रस्य वलिमाधारमाधेय चान्यखेटकम् ॥ आधारभूतेनाधेयं धीयते परिधिष्टिनम् ॥३०७॥
चेंदिंदुः शुभदः सर्वे ग्रहाः शुभफलप्रदाः ॥ अशुभश्वेदशुभदा वर्जयित्वा धनाधिपम् ॥३०८॥
लग्नस्याभ्युदिता येंशास्तेष्वंशेषु स्थितो ग्रहः ॥ लग्नेद्धवं फलं धनातीतो द्वितीयकम् ॥३०९॥
एवं स्थानेषु शेषेषु चैवमेवं प्रकल्प येत् ॥ लग्नं सर्वगुणापेतं लभ्यतेऽल्पैर्दिनैर्नि ॥३१०॥
दोषाल्पत्वं गुणाधिक्यं बहु संततमिष्यते ॥ दोषाद्दुष्टो हि कालस्तमपि मार्ष्टुं पितामहः ॥३११॥
अप्यशौचगुणाधिक्यं दोषान्यत्ते ततो हि ते ॥ अमारिक्ताष्टमीष्ठीद्वादशीप्रतिपत्स्वपि ॥३१२॥
परिघस्य च पूर्वाद्ध व्यतीपाते सविधृतौं ॥ संध्यासूपल्पवे विष्टयामशुभं प्रथमार्त्तवम् ॥३१३॥
रुग्णा पतिप्रिया दुःखी पुत्रिणी भोगनी तथा ॥ पतिव्रता केशयुक्ता सूर्यवारादिषु क्रमात् ॥३१४॥
यामाग्निरौद्रभाग्याहिद्वीशेंद्राह्युपद्विषाः ॥ तारका न हिता मासा मधूर्जशुचिपौषकाः ॥३१५॥
भद्रा च संक्रमो निद्रा रात्रिश्वंद्रार्कयोर्ग्रहः ॥ कुलटा पापभोगेषु निंद्यत रे ॥३१६॥
तिलाज्यदूर्वा जुगुयाद्वायत्र्याष्टशतं बुधः ॥ सुवर्णगोतिलान्दद्यात्सर्वदोषानुत्तये ॥३१७॥
आद्या निशश्वतस्त्रस्तु त्याज्या ह्यापि परैः ॥ ओजराश्यंशगे चंद्रे लग्ने पुंग्रहवीक्षिते ॥३१८॥
उपवीती युग्मतिथावनग्नः कामयेत्स्त्रियम् ॥ पुत्रार्थी पुरुषस्त्यक्ता पौष्णमूलहिपित्र्यभम् ॥३१९॥
प्रसिद्धे प्रथमे गर्भे तृतीये वा द्वितीयके ॥ मासे पुंसवनं कार्यं सीमंतं च यथा तथा ॥३२०॥
चतुर्थे मासिषष्ठे वाप्यष्टमे वा तदीश्वरे ॥ बलोपपन्ने दंपत्योश्वंद्रताराबलान्विते ॥३२१॥
अरिक्तापर्वदिवसे कुजजीवार्कवासरे ॥ तीक्ष्णमिश्रार्कवर्ज्येषु पुंभांशे रात्रिनायके ॥३२२॥
शुद्धेऽष्टमे जन्मलग्नात्तयोर्लग्ने न नैधने ॥ शुभग्रहयुते दृष्टे पापदृष्टिविवर्जिते ॥३२३॥
शुभग्रहेषु धीधर्मकेंद्रेष्वरिभवे त्रिषु ॥ पापेषु सत्सु चंद्रेत्यनिधनाद्यरिवर्जिते ॥३२४॥
क्रूरग्रहाणामेकोपि लग्नादंत्यात्मजाष्टगः ॥ सीमंतिनीं वा तद्धर्भं बली हंति न संशयः ॥३२५॥
तस्मिञ्जन्ममुहूर्तेऽपि सूतकांतेपि वा शिशोः ॥ जातकर्म प्रकर्तव्यं पितृपूजनपूर्वकम् ॥३२६॥
सूतकांते नामकर्मं विधेयं तत्कुलोचितम् ॥ नामपूर्वं प्रशस्तं स्यान्मंगलैः ॥३२७॥
देशकालोपघाताद्यैः कालातिक्रमणं यदा ॥ अनस्तगे भृगावीज्ये तत्कार्ये चोत्तरायणे ॥३२८॥
चर स्थिरमृदुक्षिप्रनक्षत्रे शुभावासरे ॥ चन्द्रताराबलोपेते दिवसे च शिशोः पितुः ॥३२९॥
शुभलग्ने शुभांशे च निधने शुद्धिसंयुते ॥ षष्ठे मास्यष्टमे वापि पुंसां स्त्रीणां तु पञ्चमे ॥३३०॥
सप्तमे मासि वा कार्यं नवान्नप्राशनं शुभम् ॥ रिक्तां दिनक्षयं नन्दां द्वादशीमष्टमीमथ ॥३३१॥
त्यक्तान्यतिथिषु प्रोक्तं प्राशनं शुभवासरे ॥ चरस्थिरमृदुक्षिप्रनक्षत्रे शुभनैधने ॥३३२॥
दशमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके ॥ पूर्वार्द्धे सौम्यखेटेन संयुक्तेवीक्षितेपि वा ॥३३३॥
त्रिषष्ठलाभगैः क्रूरैः केंद्रधीधर्मगैः शुभैः ॥ व्ययारिधिनधनस्थे च चन्द्रेऽन्नप्राशनं शुभम् ॥३३४॥
तृतीये पञ्चमे चाब्दे स्वकुलाचारतोऽपिवा ॥ बालानां जन्मतश्वौलं स्वगृह्योक्तविधानतः ॥३३५॥
सौम्यायने नास्तगयोः सुरारिसुरमन्त्रिणाः ॥ अपर्वरिक्तातिथिषु शुक्रेज्यज्ञेंदुवासरे ॥३३६॥
दस्त्रादितीज्यचंद्रेन्द्रपूषभानि शुभानि च ॥ चौलकर्मणि हस्तर्क्षात्रीणित्रीणि च विष्णुबहत् ॥३३७॥
पट्टबंधनचौलान्नप्राशने चोपनायने ॥ शुभदं जन्मक्षत्रमशुभं त्वन्यकर्मणि ॥३३८॥
अष्टमे शुद्धिसंयुक्तें शुभलग्ने शुभांशके ॥ जन्माष्टमे न शीतांशौ षष्ठाष्टांत्यविवर्जिते ॥३३९॥
धनत्रिकोणकेंद्रस्थैः शुभैस्त्र्यायारिगैः परैः ॥ अभ्यक्ते सन्ध्ययोर्नारे निशि भुक्ता न वाहवे ॥३४०॥
नोत्कटे भूषिते नैव याने न नवमेऽह्रिच ॥ क्षौरकर्म महीपानां पञ्चमेपंचमेऽहनि ॥३४१॥
कर्तव्यं क्षोरनक्षत्रेऽप्यथ वास्योदये शुभम् ॥ नृपविप्राज्ञया यज्ञे मरणे बन्धमोक्षणें ॥३४२॥
उद्वाहेऽखिलवारर्क्षतिथिषु क्षौरमिष्टदम् ॥ कर्तव्यं मङुलेष्वादौ मङुलाय क्षुरार्पणम् ॥३४३॥
नवमे सप्तमे वापि पञ्चमे दिवसेऽपि वा ॥ तृतीय बीजनक्षत्रे शुभवारे शुभोदये ॥३४४॥
सम्यग्गृहाण्यलंकृत्य वितानध्वजतोरणैः ॥ आशिषो वाचनं कार्यं पुण्यं पुण्यांगनादिभिः ॥३४५॥
सहवादित्रनृ त्याद्येर्गत्वा प्रागुत्तरां दिशम् ॥ तत्र मृदततस्तीक्ष्णा गृहीत्वा पुनरागतः ॥३४६॥
मृण्मयेऽप्यथंवा वैणवेऽपि पात्रे प्रपूरयेत् ॥ अनेकबीजसंयुक्त तोयं पुष्पभिशोतिमत् ॥३४७॥
आधानादष्टमे वर्षे जन्मतो वाग्रजन्मनाम् ॥ राज्ञा मेकादशे मौंजीबंधनं द्वादशे विशाम् ॥३४८॥
जन्मतः वर्षे वेद्शास्त्रविशारदः ॥ उपवीती यतः श्रीमान्कार्यं तत्रोपनायनम् ॥३४९॥
बालस्य बलहीनोऽपि सितो जीवः शुभप्रदः ॥ यथोक्तवत्सरे कार्यमनुक्ते नोपनायनम् ॥३५०॥
दृश्यमानगुरौ शुक्रे शाखेशे चोत्तरायणे ॥ वेदा नामधिपा जीवशुक्रभौमबुधाः क्रमात् ॥३५१॥
शरद्‍ग्रीष्मवसंतेषु व्यत्क्रमात्तु द्विजन्मनाम् ॥ मुख्यं साधारणं तेषां तपोमासादिपंचसु ॥३५२॥
स्वकुलाचारधर्मज्ञो माघमासे तु फाल्गुने ॥ विधिज्ञश्वार्थवांश्वैत्रे वेदवेदांपारगः ॥३५३॥
वैशाषे धनवान्वेदशास्त्रविद्याविशारदः ॥ उपनीतो बलाढ्यश्व ज्येष्ठे विधिविदां वरः ॥३५४॥
शुल्कपक्षे द्वितीया च तृतीया पंचमी तथा ॥ त्रयोदशी च दशमी सप्तमी व्रतबंधने ॥३५५॥
श्रेष्ठा त्वेकादशी षष्ठी द्वादश्यन्यास्तु मध्यमाः ॥ कृष्णे द्वित्रेषुसंख्याश्व तिथ्योऽन्या ह्यतिनिंदिताः ॥३५६॥
धिष्णान्यर्कत्रयांतेज्यरुद्रादित्युत्त राणि च ॥ विष्णुत्रयाश्विमित्राब्जयोनिभान्युपनायने ॥३५७॥
जन्मभाद्दशमं कर्म संघातर्क्षं तु षोडशम् ॥ अष्टादशं समुदयं त्रयोविशं वि नाशनम् ॥३५८॥
मानसं पंचविंशर्क्षं नाचरेच्छुभमेषु तु ॥ आचार्यसौम्यकाव्यानां वाराः शस्ताः शशीनयोः ॥३५९॥
वारौ तु मध्यमौ चैव व्रतेऽन्यौ निंदितौ मतौ ॥ त्रिधा विभज्य दिवसं तत्रादौ कर्म दैविकम् ॥३६०॥
द्वितीये मानुषं कार्यं तृतीयेषें च पैतृकम् ॥ स्वनीचिगे तदंशे वा स्वारिभे वा तदंशके ॥३६१॥
गुरुशिखिनोश्व शाखेशे कलाशीलविवर्जितः ॥ स्वाधिशस्त्रगृहस्थे वा तदंशस्थेऽथ वा व्रती ॥३६२॥
शाखेशे वा गुरौ शुक्रे महापातककृद्धवेत् ॥ स्वोच्चसंस्थे तदंशे वा स्वराशो गणे ॥३६३॥
शाखेशे वा गुरौ शुक्रे केंद्रगे वा त्रिकोणगे ॥ अतीव धनवांश्वैव वेदवेदांगपारतः ॥३६४॥
परमोच्चगते जीवे शाखेशे वाथ वा सिते ॥ व्रती विशुद्धे निधने वेदशास्त्रविशारदः ॥३६५॥
स्वाधिमित्रगृहस्थे वा तस्योच्चस्थे तदंशगे ॥ गुरौ भृगौ वा शाखेशे विद्याधनसमन्वितः ॥३६६॥
शाखाधिपतिवारश्व शाखाधिपबलं शिशोः ॥ शाखाधिपतिलग्नं च दुर्लभं त्रितयंव्रते ॥३६७॥
तस्माद्वेद्वांशगे चंद्रे व्रती विद्याविशारदः ॥ पापांशगे स्वांशगे वा दरिद्रो नित्यदुःखितः ॥३६८॥
श्रवणादिनि नक्षत्रे कर्कांशस्थे निशाकरे ॥ तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान् ॥३६९॥
शुभलग्ने शुभांशे च नैधने शुद्धिसंयुते ॥ लग्ने तु निधने सौम्यैः संयुते वा निरीक्षिते ॥३७०॥
इष्टैर्जीवार्कचंद्राद्यैः पंचभिर्बलिभिर्ग्रहै ॥ स्थानादिबलसंपूर्णैश्वतुर्भिर्वा शुभान्वितैः ॥३७१॥
ईक्षन्नैत्रकविंशमहादोषविवर्जिते ॥ राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः ॥३७२॥
शुभनवांशकगता ग्राह्यास्ते शुभराशयः ॥ न कदाचित्कर्कटांशशुभेक्षितयुतोऽपि वा ॥३७३॥
तस्माद्वोमिथुनांशाश्व तुलाकन्यांशकाः शुभाः ॥ एवंविधे लग्नगते नवांशे व्रतमीरितम् ॥३७४॥
त्रिषडायगतैः पापैः षडष्टांत्यविवर्जितैः ॥ शुभैः षष्ठाष्टलग्नांत्यवर्जितेन हिमांशुना ॥३७५॥
खोच्चसंस्थोऽपि शीतांशुर्व्रतिनो यदि लग्नगः ॥ न करोति शिशुं निःस्वं सर्वतः क्षयरोगिणम् ॥३७६॥
स्फूर्जिते केद्रंगे भानौ व्रतिना पितृनाशनम् ॥ पंचदोषोनितं लग्नं शुभदं चोपनायने ॥३७७॥
विना वसंतऋतुना कृष्णपक्षे गलग्रहे ॥ अनध्याये विष्टिषष्ठयोर्न तु सस्कारमर्हति ॥३७८॥
त्रयोदश्यादिचत्वारि सप्तम्यदिदिनत्रयम् ॥ चतुर्थी वा शुभाः प्रोक्ता अष्टावेते गलग्रहाः ॥३७९॥
क्षुरि काबंधनं वक्ष्ये नृपाणां प्राक्करग्रहात् ॥ विवाहोक्तेषु मासेषु शुल्कपक्षेऽनस्तगे ॥३८०॥
जीवे शुक्रे च भूपुत्रे चंद्रताराबलान्विते ॥ मौंजीबंधोक्ततिथिषु कुजवर्जितवासरे ॥३८१॥
नचेन्नवांशके कर्तुरष्टमोदयवर्जिते ॥ शुद्धेऽष्टमे विधौं षष्ठाष्टांत्यविवर्जिते ॥३८२॥
धनत्रिकोणकेंद्रस्थैः शुभैस्त्र्यायारिगैः परैः ॥ क्षुरिकाबंधनं कार्यर्चयित्वामरान्पितृन् ॥३८३॥
अर्चयेत्क्षिरिकां सम्यग्देवतानां च सन्निधौ ॥ ततः सुलग्ने बन्धीयात्कट्यां लक्षणसंयुताम् ॥३८४॥
आयामार्द्धग्रविस्तारप्रमाणनैवच्छेदयत् ॥ तच्छेदखंडान्यायाः स्युर्ध्वजाये रिपुनाशनम् ॥३८५॥
धूम्राये मरणं सिंहे जयः शुनि च रोगिता ॥ धनलाभो वृषेऽत्यंतं दुःखी भवति गर्दभे ॥३८६॥
गजायेऽत्यंतसंप्रीतिर्ध्वांक्षे वित्तविनाशनम् ॥खङुपुत्रिकयोर्मानं गणयेत्खांगुलेन तु ॥३८७॥
मानांगुलेषु पर्यायामेकादशमितां त्यजेत् ॥ शेषाणामगुलीनां च फलानि स्युर्यथाक्रमम् ॥३८८॥
पुत्रलाभः शत्रुवधः स्त्रीलाभो गमन शुभम् ॥ अर्थहानिश्वार्थवृद्धिः प्रीति सिद्धिजयः स्तुतिः ॥३८९॥
स्थितो ध्वजे वृषाये वा नष्टाचेत्पूर्वतो व्रणम् ॥ सिंहे गजे मध्यभागे त्वंतभागे श्वकाकयोः ॥३९०॥
धृम्रगर्द्दभयोर्नैव व्रणं श्रयोंत्यभागगम् ॥ अथोत्तरायणे शुक्रजीवयोर्दृश्यमानयोः ॥३९१॥
द्विजातीनां गुरोर्गेहान्निवृत्तानां यतात्मनाम् ॥ चित्रोत्तरादितीज्यांत्यहरिमित्रविधातृषु ॥३९२॥
भेष्वर्केंदुज्ञेज्यशुक्रवारलग्नांशकेषु च ॥ प्रतिपत्पर्वरिक्ता मा चाष्टमी च दिनत्रयम् ॥३९३॥
हित्वान्यदिवसे कार्यं समावर्तंनमुंडनम् ॥ सर्वाश्रमाणां विप्रेंद्र ह्युत्तमोऽयं गृहाश्रमः ॥३९४॥
सुखं तत्रापि भा मिन्यां शीलवत्यां स्थितं ततः ॥ तस्याः सच्छीलर्ला धस्तु सुलग्नवशतः खलु ॥३९५॥
पितामहोक्तं संवीक्ष्य लग्नशुद्धिं प्रवच्यहम् ॥ पुण्येऽह्रि लक्षणोपेतं सुखासीनं सुचेतसम् ॥३९६॥
प्रणम्य देववत्पृछेद्दैवज्ञं भक्तिपूर्वकम् ॥ तांबूलफलपुष्पाद्यैः पूर्णांजलिरुपागतः ॥३९७॥
ग्रगः क्रूरस्तस्मात्सप्तमगः कुजः ॥ दंपत्योर्मरणं वाच्य वर्षाणामष्टकात्पुरा ॥३९८॥
यदि लग्नगतश्वंद्रस्तस्मात्सत्पमगः कुजः ॥ विज्ञेयं भर्तृभरणमष्टवर्षांतरे बुधैः ॥३९९॥
लग्नात्पंचमगः पापः शत्रुद्दष्टश्व नीचगः ॥ मृतपुत्रार्थं वा कन्या कुलटा वा न संशयः ॥४००॥
तृतीयपंचसप्तायकर्मगो वा निशाकरः ॥ लग्नत्करोति संबंधं दंपत्योर्गुरुवीक्षितः ॥४०१॥
तुलागोकर्कटा लग्नसंस्थाः शुक्रेंदुसंयुताः ॥ वीक्षिताःपृच्छतां नृणां कन्यलाभो भवेत्तदा ॥४०२॥
स्त्रीद्रेष्काणः स्त्रीनवांशे युग्मलग्नं समागतम् ॥ वीक्षितं चंद्रशुक्राभ्यां कन्यालाभो भवेत्तदा ॥४०३॥
एवं स्त्रीणां भर्तृलब्धिः पुंलग्ने पुंनवांशके ॥ पृच्छकस्य भवेल्लग्नं पुंग्रहैरवलोकितम् ॥४०४॥
कृष्णपक्षे प्रश्वलग्राद्यस्य राशौ शशी यदा ॥ पापदृष्टोऽथ वा रंध्रे न संबंधो भवेत्तदा ॥४०५॥
पुण्यैर्निमित्तशकुनैः प्रश्नकाले तु मंगलम् ॥ दंपत्योरशुभैरतैरशुभं सर्वतो भवेत् ॥४०६॥
पंचांगशुद्धिदिवसे चंद्रताराबलान्विते ॥ विवाहभस्योदये वा कन्यावरणमन्वयैः ॥४०७॥
भूषणैः पुष्पतांबूलफलैर्गंधाक्षतादिभिः ॥ शुल्कांबरैर्गीतवाद्यैविघ्नाशीर्वचनैःसह ॥४०८॥
कारयेत्कन्यकागेहे वरः प्रणवपूर्वकम् ॥ तदा कुर्यात्पिता तस्याः प्रदानं प्रीतिपूर्वकम् ॥४०९॥
कुलशीलवयोरुपवित्त विद्यायुताय च ॥ वराय च रुपवतीं कन्यां दद्याद्यवीससीम् ॥४१०॥
संपूज्य प्रार्थयित्वा च शचीं देवीं गुणाश्रयाम् ॥ त्रैलोक्यसुन्दरीं दिव्यगंधमाल्यांबरावृताम् ॥४११॥
सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम् ॥ अनर्घमणिमालाभिर्भासयंतीं दिगंतरान् ॥४१२॥ 
विलासिनीसहस्त्राद्यैः सेवमानामहार्निशम् ॥ एवंविधौ कुमारीं तां पूजांते प्रार्थयेदिति ॥४१३॥
देवींद्राणि नमस्तुभ्यं देवेंद्रप्रियभा मिनि ॥ विवाहे भाग्यमारोग्यं पुत्रलाभं च देहि मे ॥४१४॥
युग्मेऽब्दे जन्मतः स्त्रीणां पीतिदं पाणिपीडनम् ॥ एतत्पुंसामयुग्मेऽब्दे व्यत्यये नाशनं तयोः ॥४१५॥
माघफाल्गुनवैशाखज्येष्ठमासाः शुभप्रदाः ॥ मध्यमा कार्तिको मार्गशीर्षो वै निंदिताः परे ॥४१६॥
न कदाचिद्धूशर्क्षेषु भानोरार्द्राप्रवेशनात् ॥ विवाहो देवतानां च प्रतिष्ठां चोपनायनम् ॥४१७॥
नास्तंगते सिते जीवे न तयोर्बावृद्धयोः ॥ न गुरौ सिंहराशिस्थै सिंहाशकगतेपि वा ॥४१८॥
पश्वात्प्रागुदितः शुक्रो दशत्रिदिवसं शिशुः ॥ वृद्धः पंचदिनं पक्षं गुरुः पक्षं च सर्वतेः ॥४१९॥
अप्रवृद्धो त्दृषीकेशो यावत्तावन्न मंगलम् ॥ उत्सवे वासुदेवस्य दिवसे नान्यमंगलम् ॥४२०॥
न जन्ममासे जन्मर्क्षे न जन्मदिवसेऽपि च ॥ आद्य गर्भसुतस्याथ दुहितुर्वा करग्रहः ॥४२१॥
नैवोद्वाहो ज्येष्ठपुत्रीपुत्रयोश्व परस्परम् ॥ ज्येष्ठमासे तयोरेकज्येष्ठे श्रेष्ठश्व नान्यथा ॥४२२॥
उत्पातग्रहणादूर्द्धं सप्ताहमखिलग्रहे ॥ नाखिले त्रिदिन्म नेष्टं त्रिद्युस्पृक् च क्षयं तथा ॥४२३॥
ग्रस्तास्ते त्रिदिनं पूर्वं पूर्वं पश्चाद्‌ग्रस्तोदयेऽथवा ॥ संध्यायां त्रिदिनं तद्वन्निशीथे सप्त एव च ॥४२४॥
मासान्ते पंच दिवसांस्त्यजेद्रिक्तां तथाष्टमीम् ॥ व्यतीपातं वैधृतिं च संपूर्णं परिघार्द्धकम् ॥४२५॥
पौष्णभत्र्युत्त रामैत्रमरुच्चंद्रार्कपित्र्यभैः ॥ समूलभैरविद्धैस्तैः स्त्रीकरग्रह इष्यते ॥४२६॥
विवाहे बलमावश्यं दंपत्योर्गुरुसूर्ययोः ॥ चेत्पूजा यत्नतः कार्या दुर्बल ग्रहयोस्तयोः ॥४२७॥
गोचरं वेधजं चाष्टवर्गजं रुपजं बलम् ॥ यथोत्तरं बलाधिक्यं स्थूलं गोचरमार्गजम् ॥४२८॥
चंद्रताराबलं वीक्ष्य त पंचांगजं बलम् ॥ तिथिरेकगुणा वारो द्विगुनस्त्रिगुणं च भम् ॥४२९॥
योगश्वतुर्गुणः पञ्चगुणं तिथ्यर्द्धसंज्ञितम् ॥ ततो मुहूर्तो बलवांस्ततो लग्नं बलाधिकम् ॥४३०॥
ततो बलवती होरा द्रेष्काणो बलवांस्ततः ॥ ततो नवांशो बलवाद्वादशांशो बली ततः ॥४३१॥
त्रिंशांशो बलवांस्तुस्माद्वी क्ष्यमेतद्वलाबलम् ॥ शुभेक्षितयुताः शस्ता उद्वाहेऽखिलराशयः ॥४३२॥
चंद्रार्केज्यादयः पच यस्य राशेस्तु खेचराः ॥ इष्टास्तच्छुभदं लग्नं चत्वारोऽपि बलान्विताः ॥४३३॥
रामित्रशुद्धयैकविंशन्महादोषविवर्जितम् ॥ एकविंशतिदोषाणां नामरुपफलानि च ॥४३४॥
वक्ष्यंतेऽत्र समासेन श्रृणु नारद सांप्रतम् ॥ पञ्चांगशुद्धिराहित्यं दोषस्त्वाद्यः प्रकीर्तितः ॥४३५॥
उदयास्तशुद्धिर्हानिर्द्वितीयः सूर्यसंक्रमः ॥ तृतीयः पापषडूवर्गो भृगुः षष्ठः कुजोऽष्टमः ॥४३६॥
गंडांतं कर्तरी रिष्फाषडष्टेन्दुगतो ग्रहः ॥ दंपत्योरष्टमं लग्नं राशिर्विषघटी तथा ॥४३७॥
दुर्मुहूर्तो वारदोषः खार्जूरिकसमाङ्‌घ्रिभम् ॥ ग्रहणोत्पातभं क्रूरविद्धर्क्षं क्रूरसंयुतम् ॥४३८॥
कुनवांशो महापातो वैधृतिश्वकविम्शतिः ॥ तिथिवारर्क्षयोगानां करणस्य च मेलनम् ॥४३९॥
पंचांगमस्य शुद्धि स्तु पंचांगशुद्धिरिरिता ॥ यस्मिन्पंचांगंदोषोऽस्ति तस्मिँल्लग्ने निरर्थकम् ॥४४०॥
त्यजेत्पंचैष्टिकं चापि विषसंयुक्तदुग्धवत् ॥ लग्नलग्नांशकौ स्वास्वपतिना वीक्षितौ युतौ ॥४४१॥
न चेद्वान्योन्यपतिना शुभमित्रेण वा तथा ॥ वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयंशकौ ॥४४२॥
एवं तौ न युतौ दृष्टौ मुत्युर्वध्वाः करग्रहे ॥ त्याज्याः सूर्यस्य संक्रांतेः पूर्वतः परतस्तथा ॥४४३॥
विवाहादिषु कार्येषु नाड्यः षोडशषोडश ॥ षडर्गः शुभदः श्रेष्ठो विवाहस्थापनादिषु ॥४४४॥
भृगुषष्ठाह्रयो दोषो लग्नात्षष्ठगते सिते ॥ उच्चगे शुभसंयुक्ते तल्लग्नं सर्वदा त्यजेत् ॥४४५॥
कुजोऽष्टमो महदोषी लग्नादष्टमगे कुजे ॥ शुभत्रययुतं लग्नं न त्यजेत्तुंगतो यदि ॥४४६॥
पूर्णानंदाख्ययोस्तिथ्योः संधिर्नाडीद्वयं यदा ॥ गंडांतं मृत्युदं जन्मयात्रोद्वाहव्रतादिषु ॥४४७॥
कुलीरसिंहयोः कीटचापयोर्मिनमेषयोः ॥ गंडातमंतरालं स्याद्धटिकार्द्ध मृतिप्रदम् ॥४४८॥ 
सार्पेन्द्रपौष्णभेष्ण्वंत्यषोडशेशा भसंधयः ॥ तदमेष्वाद्यपादा भानां गंडातसंज्ञकाः ॥४४९॥
उग्रं च संधित्रितयं गंडातं त्रिविधं महत् ॥ लग्नभिमुखयोः पापग्रहयोऋजुवक्रयोः ॥४५०॥
सा कर्तरिति विज्ञेया दंपत्योर्गलकर्तरी ॥ कर्तरीयोगदुष्टं यल्लग्नं तत्परिवर्जयेत् ॥४५१॥  
अपि सौम्यग्रहैर्युक्तं गुणैः समन्वितम् ॥ षडष्टारिष्फगे चंद्रे लग्नदोषः स्वसंज्ञकः ॥४५२॥
तल्लग्रं वर्जयेद्यत्नाज्जीवशुक्रसमन्वितम् ॥ उच्चगे नीचगे वापि मित्रभे शत्रुराशिगे ॥४५३॥
अषि सर्वगुणोपेतं दंपत्योर्निधनप्रदम् ॥ शशांके ग्रहसंयुक्ते दोषः संग्रहसंज्ञकः ॥४५४॥
तस्मिन्संग्रहदोषे तु विवाहं नैव कारयेत् ॥ सूर्येण संयुते चंद्रे दारिद्य्रं भवति स्फुटम् ॥४५५॥
कुजेन मरणं व्याधिः सौम्येन त्वनपत्यता ॥ दौर्भाग्यं गुरुणा युक्ते सापत्यं भार्गवेण तु ॥४५६॥
प्रव्रज्या सूर्यपुत्रेण राहुणा मूलसंक्षयः ॥ केतुना संयुते चन्द्रे नित्यं कष्टं दरिद्रता ॥४५७॥
पापग्रहयुते चन्द्रे दंपत्योर्मरणं भवेत् ॥ शुभग्रहयुते चंद्रे स्वोच्चस्थे मित्रराशिगे ॥४५८॥
दोषायनं भवेल्लग्नं दंपत्योः श्रेयसे सदा ॥ खोच्चगो वा स्वर्क्षगो वा मित्र क्षेत्रगतोपि वा ॥४५९॥
पापग्रहयुतश्वंद्रः करोति मरणं तयोः ॥ दंपत्योरष्टमं लग्नमष्टमो राशिरेव च ॥४६०॥
यदि लग्नगतः सोपि दंपत्योर्मरण प्रदः ॥ स राशिः शुभसंयुक्तो लग्नं वा शुभसंयुतम् ॥४६१॥
लग्नं विवर्जयेद्यत्नात्तदंशांशतदीश्वराम् ॥ दंपत्योर्द्वादशं लग्नं राशिर्वा यदि लग्नगः ॥४६२॥
अर्थहानिस्तयोरस्मात्तदंशस्वामिनं त्यजेत् ॥ जन्मराश्युश्वैव जन्मलग्नोदयः शुभः ॥४६३॥
तयोरुपचयस्थानं लग्नेत्यंतशुभप्रदम् ॥ खमार्गणा वेदपक्षाः खरामा वेदमार्गणाः ॥४६४॥
वह्रिचंद्रा रुपदस्त्राः खरामा व्योमबाहवः ॥ द्विरामाः स्वाग्नयः शून्यदस्त्राः कुंजरभूमयः ॥४६५॥
रुपपक्षा व्योमदस्त्रा वेदचन्द्रा श्वतुर्द्दश ॥ शून्यचन्द्रा वेदचन्द्रा षड्‌ऋक्षा वेदबाहवः ॥४६६॥
शून्यदस्त्राः शून्यचंद्राः पूर्णचंद्रा गतेंद्रवः ॥ तर्कचंद्रा वेदपक्षाः खरामाश्वाशिश्वभात्क्रमात् ॥४६७॥
आभ्यः परास्तु घटिकाश्वतस्त्रो विषसंज्ञिताः ॥ विवाहादिषु कार्येषु विषनाडीं विवर्जयेत् ॥४६८॥
भास्करादिषु वारेषु ये मुहूर्ताश्व निंदिताः ॥ विवाहादिषु ते वर्ज्या अपिलक्षगुणैर्युताः ॥४६९॥
निहिता वारदोषा ये सूर्यवारादिषु क्रमात् ॥ अपि सर्वगुणोपेतास्ते वर्ज्याः सर्वमंगले ॥४७०॥
एकार्गलांघ्रितुल्यं यत्तल्लग्रं च विवर्जयेत् ॥ अपिशुक्रेज्यसंयुक्तं विषसंयुक्तदुग्धवत् ॥४७१॥
ग्रहणोत्पातभं त्याज्यं मंगलेषु ऋतुत्रयम् ॥ यावच्च शशिना भुक्ता मुक्तभं दग्धकाष्ठवत‍ ॥४७२॥
मंगलेषु त्यजेत्खेटौर्विद्धं च क्रूरसंयुतम् ॥ अखिलर्क्षं पंचगव्यं सुराबिंदुयुतं यथा ॥४७३॥
पाद एव शुभैर्विद्धमशुभं नैव कृत्स्त्रभम् क्रूरविद्धं युतं धिष्ण्यं निखिलं नैव मंगलम् ॥४७४॥
तुलामिथुनकन्यांशा धनुरंत्यार्द्धसंयुताः ॥ एते नवांशाः शुभदा वृषभस्तांशकाः खलु ॥४७५॥
अंत्यांशात्येपि शुभदा यदि वर्गोत्तमाह्रयाः ॥ अन्ये नवांशा ग्राह्या यतस्ते कुनवांशकाः ॥४७६॥
कुनवांशकलग्नं यत्त्याज्यं सर्वगुणान्वितम् ॥ यस्मिन्दिने महापातस्तद्दिनं वर्जयेच्छुभे ॥४७७॥
अपि सर्वगुणो पेतं दम्पत्योर्मृत्युदं यतः ॥ अनुक्ताः स्वल्पदोषाः स्युर्विद्युन्नी हारवृष्टयः ॥४७८॥
प्रत्यर्कपरिवेषेंद्रचापांबुधरगर्जनाः ॥ लत्तोपग्रहपाताख्या मासदग्धाह्रया तिथिः ॥४७९॥
दग्धल्ग्नंधबधिरपंगुसंज्ञाश्वराशयः ॥ एवमाद्यास्ततस्तेषां व्यवस्था क्रियतेऽधुना ॥४८०॥
अकालजा भवंत्येते विद्युन्नेहारवृष्टयः ॥ दोषाय मंगले नूनमदोषायैव कालतः ॥४८१॥
बृहस्पतिः केंद्रगतः शुक्रो वा यदि वा बुधः ॥ एकोऽपि दोषनिचंय हरत्येव न संशयः ॥४८२॥
तिर्यक्पंचोर्द्धगाः पञ्च रेखा द्वे द्वे च कोणयोः ॥ द्वीतीये शंभुकोणेऽग्निधिष्ण्यं चक्रे प्रविन्यसेत् ॥४८३॥
भान्यत्र साभिजित्येकरेखाखेटेन विद्धभम् ॥ पुरतः पृष्ठतोऽर्काद्या दिनर्क्षं लत्तयंति यत् ॥४८४॥
अर्काकृतिगुणाद्य्रंगबाणाष्टनवसंख्यभम् ॥ सूर्यभात्सार्प्पपित्र्यांत्यत्वाष्ट्रमित्रोडुविष्णुभम् ॥४८५॥
संख्यया दिनभे तावदश्विभात्पातदुष्टभम् ॥ सौराष्ट्रे साल्वदेशे तु लत्त्तितं भं विवर्जयेत् ॥४८६॥
कलिंगवंगदेशेषु पातितं न शुभप्रदम् ॥ बाह्रिके कुरुदेशे चान्यस्मिन्देशे न दूषणम् ॥४८७॥
तिथयो मासदग्धाश्व दग्धलग्नानि यान्यपि ॥ मध्यदेशे विवर्ज्यानि न दुष्टानीतरेषु च ॥४८८॥
पङ्‌ग्वं धकाणलग्नानि मासशून्याश्व राशयः ॥ गौडमालवयोस्त्याज्या अन्यदेशे न गर्हिताः ॥४८९॥
दोषदुष्टं सदा कालं सन्निमार्ष्टुं न शक्यते ॥ अपि धातुरतो ग्राह्यं दोषाल्पत्वं गुणाधिकम् ॥४९०॥
एवं सुलग्ने दंपत्योः कारयेत्सम्यगीक्षीणम् ॥ हस्तोच्छ्रितां चतुर्हस्तैश्वतुरस्त्रां समंततः ॥४९१॥
स्तंभश्वतुर्भिः सुश्लक्ष्णैर्वामभागे तु सन्नताम् ॥ समंडपां चतुर्दिक्षु सोपानैरतिशोभिताम् ॥४९२॥
प्रागुदक्प्रवणां रंभास्तंभैर्हंसशुका दिभिः ॥ विचित्रितां चित्रकुंभैर्विविधैस्तोरणांकुरैः ॥४९३॥
श्रृडारपुष्पनिचयैर्वर्णकैः समलंकृताम् ॥ विप्राशीर्वचनैः ॥ पुण्यस्त्रीभिर्दिव्यैर्मनो रमाम् ॥४९४॥
वादित्रनृत्यगीताद्यैर्त्द्ददयांनदिनीं शुभाम् ॥ एवंविधां समारोहेन्मिथुनं स्वाग्निवेदिकाम् ॥४९५॥
अष्टधा राशिकूटं च स्वादू डुगणराशयः ॥ राशीशयोनिवंर्णाख्यऋतवः पुत्रपौत्रदाः ॥४९६॥
एकराशौ पृथग्धिष्ण्ये दंपत्योः पाणिपीडनम् ॥ उत्तमं मध्यमं भिन्नं राश्यैकत्वं ययोस्तयोः ॥४९७॥
एकर्क्षे त्वेकराशौ हि विवाहः प्राणहानिदः ॥ स्त्रीधिष्ण्यादाद्यनवके स्त्रीदूरमतिनिंदितम् ॥४९८॥
द्वितीये मध्यमं श्रेष्ठं तृतीये नवके नृभम् ॥ तिस्त्रः पूर्वोत्तरा धातृयाम्यमाहेशतारकाः ॥४९९॥
इति मर्त्यगणे ज्ञेयः स्यादमर्त्यगणः परः ॥ हर्यादित्यार्कवाय्वंत्यमित्राश्वीज्येंदुतारकाः ॥५००॥
रक्षोगणः पितृत्वाष्ट्रद्विदैवाग्नींद्रतारकाः ॥ वसुवारीशमूलाहिताकाभिर्युतास्ततः ॥५०१॥
दंपत्योर्जन्मभे चैकगणे प्रीतिरनेकधा ॥ मध्यमा देवमर्त्यानां राक्षसानां तयोर्मुतिः ॥५०२॥
मृत्युः षष्ठाष्टके पंचनवमे त्वनपत्यता ॥ नैःस्व्य द्विर्द्वादशेऽन्येषु दंपत्योः प्रीतिरुत्तमा ॥५०३॥
एकाधिपे मित्रभावे शुभदं पाणिपीडनम् ॥ द्विर्द्वादशे त्रिकोणे च न कदात्षडष्टके ॥५०४॥
अश्वेभमेषसर्पाहिह्यो तुमेषोतुसूषकाः ॥ आखुगोमहिषव्याघ्रकालीव्याघ्रमृगद्वयम् ॥५०५॥
श्वानः कपिर्बभ्रुयुगं कपिसिंहतुरंगमाः ॥ सिंहगोदंतिनो भानां योनयः स्युर्यथाश्विभात् ॥५०६॥
श्वैणं बभ्ररंग मेषवानरौ सिंहवारणम् ॥ गोव्याघ्रमाखुमार्जारं महिषाश्वं च शात्रवम् ॥५०७॥
झषालिकर्कटा विप्रास्तदूर्ध्वाः क्षत्रियादयः ॥ पुंवर्णराशेः स्त्रीराशौ सति हीने यथाशुभम् ॥५०८॥
चतुस्त्रिव्द्यंघ्रिभोत्थायाः कन्यायाश्वाश्विभात्क्रमात् ॥ वह्रिभादिंदुभान्नाडीत्रिचतुः पंचपर्वसु ॥५०९॥
गणयेत्संख्यया चैकनाड्यां मृत्युर्न पार्श्वयोः ॥ प्राजापत्यब्राह्मदैवा विवाहाश्वार्षसंयुताः ॥५१०॥
उक्तकाले तु कर्तव्याश्वत्वारः फलदायकाः ॥ गंधर्वासुरपैशाचराक्षसाख्यास्तु सर्वदा ॥५११॥
चतुर्थभिजिल्लग्रमुदयर्क्षाच्च सप्तमम् ॥ गोधूलिकं तदुभयं विवाहे पुत्रपौत्रदम् ॥५१२॥
प्राच्या न च कलिंगानां मुख्यं गोधूलिकं स्मृतम् ॥ अभिजित्सर्वदेशेषु मुख्यो दोषविनाशकृत ॥५१३॥
मध्यंदिनगते भानौ मुहूर्तोऽभिजिदाह्रयः ॥ नाशयत्यखिलान्दोषान्पिनाकी त्रिपुरं यथा ॥५१४॥
पुत्रोद्वाहात्परं पुत्री विवाहो न ऋतुत्रये ॥ न तयोर्व्रतमुद्वाहान्मंगले नान्यमंगलम् ॥५१५॥
विवाहश्वैकजन्यानां षष्मासभ्यंतरे यदि ॥ असंशयं त्रिभिर्वर्षैस्तत्रैका विधवा भवेत् ॥५१६॥
प्रत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम् ॥ न चैकजन्ययोः पुंसोरेकजन्ये तु कन्यके ॥५१७॥
नैवं कदाचिदुद्वाहो नैकदा मुंडनद्वयम् ॥ दिवाजातस्तु पितरं रात्रौ तु जननी तथा ॥५१८॥
आत्मानं संध्ययोर्हंति नास्ति गंडे विपर्ययः ॥ सुतःसुता वा नियतं श्वसुरं हंति मूलजः ॥५१९॥
तदंत्यापादजो नैव तथाश्वेषाद्यपादजः ॥ ज्येष्ठांत्यपादजौ ज्येष्ठं बालो हंति न बालिका ॥५२०॥
न बालिकांबुमूलर्क्षे मातरं पितरं तथा ॥ सैंद्री धवाग्रजं हंति देवरं तु द्विदैवजा ॥५२१॥
आरभ्योद्वाहदिवसात् षष्ठे वाप्यष्टमे दिने ॥ वधूप्रवेश संपत्त्यैदशमे सप्तमे दिने ॥५२२॥
हायनद्वितयं जन्मभलग्रदिवसानपि ॥ संत्यज्य ह्यातिशुक्रेऽपि यात्रा वैवाहिकी शुभा ॥५२३॥
श्रीप्रदं सर्वगीर्वाणस्थापनं चोत्तरायणे ॥ गीर्वाणपू र्वगीर्वाणमत्रिणीर्दृश्यमानयोः ॥५२४॥
विचैत्रष्वेव मासेषु माघादिषु च पंचसु ॥ शुल्कक्षेषु कृष्णेषु तदादिष्वष्टसु शुभम् ॥५२५॥
दिनेषु यस्य देवस्य या तिथिस्तत्र तस्य च ॥ द्वितीयादिद्वये पंचम्यादितस्तिसृषु  क्रमात् ॥५२६॥
दशम्यादेश्वतसृषु पौर्णमास्यां विशेषतः ॥ त्र्युत्तरादितिचंद्रां त्यहस्तत्रयगुरुडुषु ॥५२७॥
सास्विधातृजलाधीशहरिमित्रवसुष्वपि ॥ कुजवर्जितवारेषु कर्तुः सूर्ये बलप्रदे ॥५२८॥
चंद्रताराबलोपेते पूर्वाह्रे शोभ ने दिने ॥ शुभलग्ने शुभांशे च कर्त्तुर्न निधनोदये ॥५२९॥
राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः ॥ पंचाष्टके शुभे लग्ने नैधने शुद्धिसंयुते ॥५३०॥
लग्नस्थाश्वंद्रसूर्यारराहुकेत्वर्कसूनवः ॥ कर्त्तुर्मृत्युप्रदाश्वान्ये धनधान्यसुखप्रदाः ॥५३१॥
द्वितीये नेष्टदाः पापाः सौम्याश्वंद्रश्वः वित्तदाः ॥ तृतीये निखिलाः खेटाः पुत्रपौत्रसुखप्रदाः ॥५३२॥
चतुर्थे सुखदाः सौम्या क्रूराः खेटाश्व दुःखदाः ॥ ग्लनिदाः पंचमे क्रूराः सौम्याः पुत्रसुखप्रदा ॥५३३॥
षष्ठे शुभाः स्युः पापाः शत्रुक्षयंकराः ॥ व्याधिदाः सप्तमे पापाः सौम्याः शुभफलप्रदाः ॥५३४॥
अष्टमस्थाः खगाः सर्वे कर्तृर्मृत्युप्रदायकाः ॥ धर्मे पापा घ्रंति सौम्याः शुभदा मंगलप्रदाः ॥५३५॥
कर्मगा दुःखदाः पापा सौम्याश्वंद्रश्व कीर्तिदाः ॥ लाभस्थानगताः सर्वे भूरिलाभप्रदा ग्रहाः ॥५३६॥
व्ययस्थानगताः शश्वद्वहुव्ययकरा ग्रहाः ॥ हंत्यर्थहीनाः कर्तारं मंत्रहीनास्तु ऋत्विजम् ॥५३७॥
स्त्रियं लक्षणही नास्तु न प्रतिष्ठासमो रिपुः ॥ गुणाधिकपरे लग्ने दोषः स्वल्पतरो यदि ॥५३८॥
सुराणां स्थापनं तत्र कर्तुरिष्टार्थसिद्धिदम् ॥ निर्माणायतनग्रामगृहा दीनां समासतः ॥५३९॥
क्षेत्रमादौ परीक्षेत गंधवर्णरसांशकैः ॥ मधुपुष्पाम्लपिशितगंधं विप्रानुपूर्वकम् ॥५४०॥
सितं रक्तं च हरितं कृष्णवर्णं यथाक्रमम् ॥ मधुरं कटुकं तिक्तं कषायकरसं क्रमात ॥५४१॥
अत्यंतवृद्धिदं नृणामीशानप्रागुदप्लवम् ॥ अन्यदिक्षु ल्पवे तेषां शश्वदत्यंतहानिदम् ॥५४२॥
समगर्तारत्निमात्रं खनित्वा तत्र पूरयेत् ॥ अत्यंतवृद्धिरधिके हीने हानिः समे समम् ॥५४३॥
तथा निशादौ तत्कृत्वा पानीयेन प्रपूरयेत ॥ प्रातर्दृष्टे जले वृद्धिः समं पंके क्षयः क्षयः क्षये ॥५४४॥
एवं लक्षणसंयुक्त सम्यक् क्षेत्रं समीक्ष्यते ॥ दिक्साधनाय तन्मध्ये समं मंडलमालिखेत् ॥५४५॥
द्वदशांगुलकं शंकुं स्थाप्येक्षेत्तत्र दिक्र्क्मम् ॥ चतुरस्त्रीकृते क्षेत्रे षडर्गपरिशोधिते ॥५४६॥
रेखामार्गे च कर्त्तव्यं प्राकारं सुमनोहरम् ॥ आयामेषु चतुर्दिक्षु प्रागादिषु च सत्स्वपि ॥५४७॥
अष्टावष्टौ प्रतिदिशं द्वाराणि स्युर्यथाक्रमम् ॥ प्रदक्षिनक्रमात्तेषाममूनि च फलानि वै ॥५४८॥
हानिर्नैः स्व्यं धनप्राप्तिर्नृपपूजा महद्धनम् ॥ अतिचौर्यमतिक्रोधी भीतिदिशि शचीपतेः ॥५४९॥
निधनं बंधनं भीतिरर्थाप्तिर्द्धनवर्द्धनम् ॥ अनातंकं व्याधिभयं निःसत्त्वं दक्षिणादिशिः ॥५५०॥
पुत्रहानिः शत्रुवृद्धिर्लक्ष्मीप्राप्तिर्द्धनागमः ॥ सौभाग्यमतिदौर्भाग्यं दुःखं शोकश्व पश्चिमे ॥५५१॥
कलत्रहानिर्निःसत्त्वं हनिर्द्धान्यधनागमः ॥ संपद्धद्धिर्मासभीतिरामयं दिशि शीतगोः ॥५५२॥
एवं गृहादिषु द्वारविस्ताराद्दिगुणोच्छ्रीतम् ॥ पश्चिमे दक्षिणे वापि कपाटं स्थापयेद्‌गृहे ॥५५३॥
प्राकारांतः क्षितिं कुर्यादेकाशीतिपदं यथा ॥ मध्ये नवपदे ब्रह्मस्थानं तदतिनिंदितम् ॥५५४॥
द्वात्रिंशदंशाःप्राकारसमीयांशाः समंततः ॥ पिशाचांशे गृहारंभो दुःखशोकृभयप्रदः ॥५५५॥
शेषांशाः स्युश्व निर्माणे पुत्रपौत्रधनप्रदाः ॥ शिराः स्युर्वास्तुनो रेखा दिग्विदिग्मध्यसंभवाः॥५५६॥
ब्रह्मभागाः पिशाचांशाः शिराणां यत्र संहतिः ॥ तत्र तत्र विजानीयाद्वास्तुनो मर्मसंधयः ॥५५७॥
मर्माणि संधयो नेष्टाः स्वस्थेऽन्येवं निवेशने ॥ सौम्यफाल्गुनविअशाखमग्यश्रावणकार्तिकाः ॥५५८॥
मासाः स्युर्गृहनिर्माण पुत्रारोग्यधनप्रदाः ॥ अकरादिषुभागेषु दिक्षु प्रागादिषु क्रमात् ॥५५९॥
खरोश्वोथ हरिः श्वाख्यः सर्पाखुगजशाशकाः ॥ दिग्वर्गाणामियं योनिः स्ववर्गात्पंचमो रिथुः ॥५६०॥
साध्यवर्गः पुरः स्थाप्य पृष्ठतः साधकं न्यसेत् ॥ व्यत्ययें नाशनं ऋणमध्यं धनाच्छुभम् ॥५६१॥
आरभ्य साघकं घिष्ण्यं साध्यं यावच्चतुर्गुणम् ॥ विभजेत्सप्तभिः शेषं साधकस्य धनं तदा ॥५६२॥
विस्तार आयामगुणो गृहस्य पदसुच्यते ॥ तस्माद्धनाघनायर्क्षवारांशाः संख्यया क्रमात् ॥५६३॥
धनाधिकं गृहं वृद्धयै ऋणाधिकमशोभनम् ॥ विषमायः शुभायैव समायो निर्धनाय च ॥५६४॥
घनक्षयस्तृतीयर्क्षे पंचमर्क्षे परः क्षयः ॥ आत्मक्षयः सप्तक्षर्ये भवत्येव हि भर्तृभात् ॥५६५॥
द्विर्द्वादशो निर्धनाय त्रिकोणमसुताय च ॥ षट्काष्टकं मृत्युवे स्याच्छुभदा राशयः परे ॥५६६॥
सूर्यांगारकवारांशा वैश्वानरभयप्रदाः ॥ इतरे ग्रहवारांशाः सर्वकामार्थसिद्धिदाः ॥५६७॥
नभस्यादिषु मासेषु त्रिषु त्रिषु यथाक्रमम् ॥ पूर्वादिकशिरोवामपार्श्वेशायाप्रदक्षिणम् ॥५६८॥
चराह्रयो वास्तुमान् चरत्येवं महोदरः ॥ याद्दिङ्‌मुखो वास्तुपुमान् कुर्यात्त द्दिङ्‌मुखं गृहम् ॥५६९॥
प्रतिकूलमुखं गेहं रोगशोमभयप्रदम् ॥सबलो मुखगेहानामेष दोषो न विद्यते ॥५७०॥
वृत्येटिका स्वर्णरेणुधान्यशैवलसंयुतम् ॥ गृहमध्ये हस्तमात्रे गर्ते न्यासाय विन्यसेत् ॥५७१॥
वस्त्वायामदलं नाभिस्तस्मादध्यंगुलत्रयम् ॥ कुक्षिस्तस्मिन्न्यसेच्छंकुं पुत्रपौत्रविवर्धम् ॥५७२॥
चतुर्विंशस्त्रयोविंशत्षोडशद्वादशांगुलैः ॥ विप्रादीनाम कुक्षिमानं स्वर्णवस्त्राद्यलंकृतम् ॥५७३॥
खदिरार्जुनशालोत्थं युगयंत्रं तरुद्धवम् ॥ रक्तचंदनपालाशरक्तशालविशालजम् ॥५७४॥
शकुं त्रिधा विभज्याद्यं चतुरस्त्रं ततः परम् ॥ अष्टास्त्रं च तृतीयासौ मन्वस्त्रं मृदुमंत्रणम् ॥५७५॥
एवं लक्षणसंयुक्तं परिकल्प्य शुभे दिने ॥ षड्वर्गशुद्धिसूत्रेण सूत्रिते धरणीतले ॥५७६॥
मृदुध्रुवक्षिप्रभेषु रिक्तामावर्जिते दिने ॥ च्यर्करचरलग्नेषु पापे चाष्टमवर्जिते ॥५७७॥
नैधने शुद्धिसंयुक्ते शुभलग्ने शुभांशके ॥ शुभेक्षितेऽथ वा युक्ते लग्ने शंकुं विनिक्षिपेत् ॥५७८॥
पुण्याहघोषैर्वादित्रेः पुण्यपुण्यांगनादिभिः ॥ स्वत्रिकेंद्रात्रिकोणस्थेः शुभैख्यायारिगैः परैः ॥५७९॥
लग्नांशाष्टारिचंद्रेण दैवज्ञार्चनपूर्वकम् ॥ एकद्वित्रित्वतुःशालाः सप्त शाला दशाह्रयाः ॥५८०॥
ताः पुनः षडिधाः शालाः प्रत्येकं दशषडिधाः ॥ ध्रुवं धान्यं जयं नंदं खरः कांतं मनोरमम् ॥५८१॥
सुमुखं दुर्मुखं क्रूरं शत्रुं स्वर्णप्रदं क्षयम् ॥ आक्रंदं विपुलाख्य च विजय षोडशं गृहम् ॥५८२॥
गृहाणि गणयेदेवं तेषां प्रस्तारभेदतः ॥ गुरोरघो लघुः स्थाप्यः पुरस्तादूर्ध्ववन्न्यसेत् ॥५८३॥
गुरुभिः पूरयेत्पश्वात्सर्वलध्ववधीर्विधिः ॥ कुर्याल्लधुपदेऽलिंदं गृहद्वारात्प्रदक्षिणम् ॥५८४॥
पूर्वादिगेष्वलिंदेषु गृहभेदास्तु षोडश ॥ स्त्रानागार दिशि प्राच्यामाग्नेय्यां पाकमदिरम् ॥५८५॥
याम्यां च शयनागारं नैऋत्यां शास्त्रमंदिरम् ॥ प्रतीच्यां भोजनगृहं वायव्यां धान्यमदिरम् ॥५८६॥
कौबेर्यां देवतागारमीशान्यां क्षीरमंदिरम् ॥ शय्यामूत्रास्त्रतद्विच्च भोजनं मंगलाश्रयम् ॥५८७॥
धान्यस्त्रीभोगवित्तं च श्रृंगारायतनानि च ॥ ईशान्यादिक्रमस्तेषां गृहनिर्माणकं शुभम् ॥५८८॥
एतेष्वतानि शस्त्राणि स्वं स्थाप्यनि स्वदिक्ष्वपि ॥ ध्वजो धूम्रोथ सिंहः श्वा सौरमेयः खरो गजः ॥५८९॥
ध्वांक्षश्वैव भवंत्यष्टौः पूर्वादिपाः क्रमादमी ॥ प्लक्षोदुंबरचूताख्या निंबस्तु हि विभीतकाः ॥५९०॥
य कटका दुग्धवृक्षा वृक्षाश्वत्थकपित्थकाः ॥ अगस्तिसिंधुवालाख्यतिंतिडीकाश्व निंदिताः ॥५९१॥
पित्तवाग्रजदेहस्यात्पश्चिमे दक्षिणे तया ॥ गृहपादागृहस्तभाः समाः शस्ताश्व नासमाः ॥५९२॥
नात्युच्छ्रितं नातिनीचं कुण्योत्सेंध यथारुचि ॥ गृहोपरि गृहादीनामेवं सर्वत्र चिंतयेत् ॥५९३॥
गृहादीनां गृहश्रावं क्रमशोऽष्टविधं स्मृतम् ॥ पांचालमानं वैदेहं कौरवं च कुजन्यकम् ॥५९४॥
मागधं शूरसेनं च गांधारावतिक स्मृतम् ॥ सचतुर्भागविस्तारमुत्सेंध यत्तदुच्यते ॥५९५॥
पांचालमातुलानां च ह्युत्तरोत्तरवृद्धितः ॥ वैदेहादीन्यशेषाणि मानानि स्युर्यथाक्रमम् ॥५९६॥
पांचालमानं सर्वेषां साधारणमतः परम् ॥ अवंअतिमानं विप्राणां गांधारं क्षत्रियस्य च ॥५९७॥
कौजन्यमानंवैश्यानां विप्रादीनां यथोत्तरम् ॥ यथोदितं जलस्त्राव्यं द्वित्रिभूमिकवेश्मनाम् ॥५९८॥
उष्ट्रकुंजरशालानां ध्वजायेप्यथ वा गजे ॥ पशुशालाश्व शालानां ध्वजायेप्यथ वा गजे ॥५९९॥
द्वारशय्याशनामत्रध्वजाः सिंहवृषध्वजाः ॥ वास्तुपूजाविधिं वक्ष्ये नववेश्मप्रवेशने ॥६००॥
हस्तमात्रा लिखेद्रेखा दश पूर्वा दशोत्तराः ॥ गृहमध्ये तंडुलोपर्येकाशीतिपदं भवेत् ॥६०१॥
पंचोत्तरान्वक्ष्यमाणांश्वत्वरिंशत्सुरान् लिखेत् ॥ द्वत्रिंद्वाह्यतः पूज्यास्तत्रांतः स्थास्त्रयोदश ॥६०२॥
तेषां स्थानानि नामानि वक्ष्यामि क्रमशोधुना ॥ ईशानकोणतो बाह्ये द्वात्रिंशत्रिदशा अमी ॥६०३॥
कृपीट्योनिः पर्जन्यो जयंतः पाकशासनः ॥ सूर्यः शशी मृगाकाशौ वायुः पूषा च नैऋतिः ॥६०४॥
गृहाक्षतो दंडधरो गांधर्वो भृगुराजकः ॥ मृगः पितृगणाधीशस्ततो दौवारि काह्रयः ॥६०५॥
सामः सूर्योऽदितिदिती द्वात्रिंशत्रिदशा अमी ॥ अथेशानादिकोणस्थाश्वत्वारस्तत्समीपगाः ॥६०६॥
आपः सावित्रसंज्ञश्व जयो रुद्रः क्रमादमी ॥ एकांतरा स्युः प्रागाद्याः परितो ब्रह्मणः स्मृताः ॥६०७॥
अर्यमा सविता बिंबविवरकन्वसुधाधिपः ॥ मित्रोथ राजयक्ष्मा च तथा पृथ्वीधराह्रयः ॥६०८॥
आपवत्सोऽष्टमः पंचचत्वारिम्शत्सुरा अमी ॥ आपश्वैवापवत्सश्व पर्जन्योऽग्निर्दितिः क्रमात् ॥६०९॥
यद्दिक्कानां च वर्गोऽयमेवं कोणेष्वशेषतः ॥ तन्मध्ये विंशतिर्बाह्या द्विपदास्ते तु सर्वदा ॥६१०॥
अर्यमा चं विवस्वांश्व मित्रः पृथ्वी धराह्ययः ॥ ब्रह्मणः परितो दिक्षु चत्वारस्त्रिप्रदाः स्मृताः ॥६११॥
ब्रह्माणं च तथैकद्वित्रिपदानर्चयत्सुरान् ॥ वास्तुमंत्रेण वास्तुज्ञो दूर्वादध्य क्षतादिभिः ॥६१२॥
ब्रह्ममंत्रेण वा श्वेतवस्त्रयुग्मं प्रदापयेत् ॥ आवाहनादिसर्वोपचारांश्व क्रमशस्तथा ॥६१३॥
नवैद्यं त्रिविधान्नेन वाद्यैः सहसमर्पयेत् ॥ ताम्बूलं च ततःकर्ता प्रार्थयेद्वारस्तुपुरुषम् ॥६१४॥
वास्तुपुरुष नमस्तंऽस्तु भूशय्यानिरत प्रभे ॥ मदूगृहे धनधान्यादिसमृद्धं कुरु सर्वदा ॥६१५॥
इति प्रार्थ्य यथाशक्त्या दक्षिणामर्चकाय च ॥ दद्यात्तदग्रे विप्रेभ्यो भोजनं च स्वशक्तितः ॥६१६॥
अनेन विधिना सम्याग्वास्तुपूजीं करोति यः ॥ आरोग्यं पुत्रलाभं च धनं धान्यं लभेन्नरः ॥६१७॥
अकृत्वा वास्तुपुजां यः प्रविशेनवमंदिरम् ॥ रोगान्नानाविधान्क्लेशान्श्नुते सर्व संकटम् ॥६१८॥
अकपाटमनाच्छन्नम्दत्तबलिभोजनम् ॥ गृहं न प्रविशेदेवं विपदामाकरं हि तत् ॥६१९॥
ऊथो यात्रा नृपादीनामभीष्टफल सिद्धये ॥ स्यात्तथा तां प्रवक्ष्यामि सम्यग्विज्ञातजन्मनाम् ॥६२०॥
अज्ञातजन्मनां नृणां फलाप्तिर्घुणवर्णवत् ॥ प्रश्रोदयनिमित्तद्येंस्तेषामपि फलोदयः ॥६२१॥
षष्ठयष्टमीद्वादशीषु रिक्तामापूर्णिमासु च ॥ यात्रा शुल्क प्रतिपदि निर्द्धनाय क्षयाय च ॥६२२॥
मैत्रादितीद्वर्कांत्याश्विहरितिष्यव सूडुषु ॥ असप्तपञ्चत्र्याद्येषु यात्राभीष्टफलप्रदाः ॥६२३॥
मंदेंदुदिने प्राचीं च व्रजेद्दक्षिणं गुरौ ॥ सिकार्कयोर्न प्रतीचीं नोदीचीं ज्ञारयोर्द्दिने ॥६२४॥
इंद्राजपादचतुरास्यर्यमर्क्षाणि पूर्वतः ॥ शूलानि सर्वद्वाराणि मित्रार्केज्याश्वभानि च ॥६२५॥
क्रमाद्दिग्द्वारभानि स्युः सप्तसप्तग्निधिष्ण्यतः ॥ पग्घिं लंघयेद्दंडं नाग्निश्वसर्दिग्गमम् ॥६२६॥
आग्नेयं पूर्वदिग्धष्ण्येर्विदिशश्वैवमेव हि ॥ दिग्राशयस्तु क्रमशो मेषाद्याश्व पुनः पुनः ॥६२७॥
दिगीश्वरे ललाटस्थे यातुर्न पुनरागमः ॥ लग्नस्थो भास्करः प्राच्यां दिशि यातुर्ललाटगः ॥६२८॥
द्वादशैकादशः शुक्रोऽप्याग्नेय्यां तु ललाटगः ॥ दशमस्थः कुजो लग्नद्याभ्यां यातुर्ललाटगः ॥६२९॥
नवमाष्टमगो राहुर्नैषत्यां त्य ललाटगः ॥ लग्नात्सप्तमगः सौरिः प्रतीच्यां तु ललाटगः ॥६३०॥
षष्ठः पञ्चमगश्वन्द्रो वायव्यां च ललाटगः ॥ चतुर्थस्थानगः सौम्यश्वोत्तरस्यां ललाटगः ॥६३१॥
द्वित्रिस्थानगतो जीव ईशान्यां वै ललाटगः ॥ ललाटं तु परित्यज्य जीवितेच्छुर्व्रजेन्नरः ॥६३२॥
विलोमगो ग्रहो यस्य यात्रालग्नोपगो यदि ॥ तस्य भङुप्रदो राज्ञस्त द्वर्गोऽपि विलग्नगः ॥६३३॥
खींदयनयोर्यातमनुकूलं शुभप्रदम् ॥ तदभाव दिवारात्रौ यायाद्यातुर्वधोऽन्यथा ॥६३४॥
मूढे शुक्रे कार्यहानिः प्रतिशुक्रे पराजयः ॥ प्रतिशुक्रकृतं दोषं हंतुं शक्ता ग्रहा न हि ॥६३५॥
वासिष्ठकाश्यपेयात्रिभारद्वाजाः सगौतमाः ॥ एतेषां पञ्चगोत्राणां प्रतिशुक्रो न विद्यते ॥६३६॥
एकग्रामे विवाहे च दुर्भिक्षे राजविग्रहे ॥ द्विजक्षोभे नृपक्षोभे प्रतिशुल्को च विद्यते ॥६३७॥
नीचगो‍रिगृहस्थो वा वक्रगो वा पराजितः ॥ यातुर्भंगप्रदः शुक्रः खोच्चस्थश्वेज्जयप्रदः ॥६३८॥
स्वाष्टलग्नेष्टराशौ वा शत्रुभात्त्वमेपि वा ॥ तेषाशिस्थराशौ वा यातुर्मृत्युर्न संशयः ॥६३९॥
जन्मेशाष्टमलग्नेशौ मिथो मित्रे व्यवस्थितौं ॥ जन्मराश्यष्टमर्क्षोत्थदोषा नश्यंति भावतः ॥६४०॥
क्रूरग्रहेक्षितो युक्तो द्विःस्वभावोऽपि भंगदः ॥ याने स्थिरोदये नेष्टो भव्ययुक्तेक्षितः स्वयम् ॥६४१॥
वस्वंत्यार्द्धादिपंचर्क्षे संग्रहं तृणकाष्ठयोः ॥ याम्यदिग्गमनं शय्या न कुर्याद्वेहगोपनम् ॥६४२॥
जन्मोदये जन्मभे वा तयोरीशस्यभेपि वा ॥ ताभ्यां तयोरिकेंद्रेषु यातुः शत्रुक्षयो भवेत् ॥६४३॥
शीर्षोदये लग्नगते दिग्लाग्रें लग्नलग्रे लग्नगोपि वा ॥ शुभवर्गोथ वा लग्ने यातुः शत्रुक्षयस्तदा ॥६४४॥
शत्रुजन्मोदये जन्मराशेर्वा निधयोदये ॥ तयोरीशस्थिते राशौ यातुः शत्रुक्षयो भवेत् ॥६४५॥
वक्रः पन्था मीनलग्ने यातुर्मीनांशकेपि वा ॥ निंद्यो निखिलयात्रासु घटलग्नो घटांशकः ॥६४६॥
जललग्नो जलांशो वा जलयोनेः ॥ शुभावह ॥ मूर्तिः कोशो धन्विनश्व वाहनं मंत्रसंज्ञकम् ॥६४७॥
शत्रुमार्गस्तथायुश्व मनोव्यापारसंज्ञिकम् ॥ प्राप्तिप्राप्तिरु दयाद्वावाः स्युर्द्वादशैव ते ॥६४८॥
घ्रंति क्रूराख्याप्तिवर्गं भावान्सूर्यमहीसुतौ ॥ न निघ्रतो हि व्यापारं सौम्याः पुष्णंत्यरिं विना ॥६४९॥
शुक्रोऽस्तं च पुष्णाति मूर्ति मृत्युं च चंद्रमाः ॥ याम्यदिग्गमनं त्यक्ता सर्वकाष्ठासु यायिनाम् ॥६५०॥
अभिजित्क्षणयोगोऽयमभीष्टफलसिद्धिदः ॥ पञ्चागंशुद्धिरहिते दिवसेऽपि फलप्रदः ॥६५१॥
यात्रायोगा विचित्रास्तान्योगान्वक्ष्ये यतस्ततः ॥ कलसिंद्धिर्यागलग्नाद्राज्ञां विप्रश्यंधिष्ण्यतः ॥६५२॥
मुहूर्तशक्तितोऽन्येषां शकुनैस्तस्करस्य च ॥ केंद्रत्रिकोणे ह्येकेन योगः शुक्रज्ञसूरिणाम् ॥६५३॥
अधियोगो भवेद्दभ्यां त्रिभिर्योगाधि योगकः ॥ योगेऽपि यायिनां क्षेममधियोगे जयो भवेत् ॥६५४॥
योगाधियोगे क्षेमं च विजयार्थविभूतयः ॥ व्यापारशत्रुमूर्तिस्थैश्वन्द्रमंददिवाकरैः ॥६५५॥
रणे गतस्य भूपस्य जयलक्ष्मीः प्रमाणिका ॥ शुक्रार्कज्ञार्किभौमेषु लग्नाध्वस्तत्रिशत्रुषु ॥६५६॥
गतस्याग्रे वैरिचमूर्वह्रौ लाक्षेव लीयते ॥ लग्नस्थे त्रिदशाचार्ये धनायस्थैः परग्रहैः ॥६५७॥
गतस्य राज्ञोऽरिसेना नीयते यममंदिरम् ॥ लग्ने शुक्रे खौ लाभे चन्द्रे बन्धुस्थिते यदा ॥६५८॥
गतो नृपो रिपून्हंति केसरीवेभशतिम् ॥ खोच्चसंस्थे सिते लग्ने खोच्चे चन्द्रे च लाभगे ॥६५९॥
हंति यातोऽरिष्टतनां केशव पूतनामिव ॥ त्रिकोणे केंद्रगाः सौम्याः क्रूराख्यायारिगा यदि ॥६६०॥
यस्य यातेरलक्ष्मीस्तमुपैतीवाभिसारिका ॥ जीवार्कचन्द्रा लग्नारिरंध्रगा यदि गच्छतः ॥६६१॥
तस्याग्रे खलमैत्रीव न स्थिरा रिपुवाहिनी ॥ त्रिखडायेषु मन्दारौ बलवंतः शुभा यदि ॥६६२॥
यात्रायां नृपतस्तस्य हस्तस्था शत्रुमेदिनी ॥ खोच्चस्थे लग्नगे जीवे चंद्रे लाभगते यदि ॥६६३॥
गतो राजा रिपून्हति पिनाकी त्रिपुरं यथा ॥ मस्तकोदयगे शुक्र लग्नस्थे लाभगे गुरौ ॥६६४॥
गतो राजा रिपून्हंति कुमारस्तारकं यथा ॥ जीवे लग्नगते केंन्द्रे वापि त्रिकोणगे ॥६६५॥
गतो दहत्यरीन्राजा कृष्णवर्त्मा यथा वनम् ॥ लग्नगे ज्ञे शुभे केंद्रे धिष्ण्ये चोपकुले गत ॥६६६॥
नृपाः शुष्यंत्यरीन् ग्रीष्मे ह्रदिनीं वार्करश्मयः ॥ शुभे त्रिकोणे केंद्रस्थे लाभे चंद्रेऽथवा रवौ ‌॥६६७॥
शत्रून्हन्ति गतो राजा ह्यंधकारं यथा रविः ॥ स्वक्षेत्रगे शुभे कद्रे त्रिकोणायगते गतः ॥६६८॥
विनाशयत्यरीन्नाजा तूलराशिमिवा नलः ॥ इंदौ स्वस्थे गुरौ केंद्रे मंत्रः सप्रणवो गतः ॥६६९॥
नृपो हंति रिपून्सर्वान्पान्पंचाक्षरो यथा ॥ वर्गोत्तमगते शुक्रेऽप्येकस्मिन्नेव लग्नगे ॥६७०॥
हरिस्मृतिर्यथाघौघान्हंति शत्रून गतो नृपः ॥ शुभे केंद्रे त्रिकोणस्थे चंद्रे वर्गोत्तमे गतः ॥६७१॥
सगोत्रारीन्नपान्  हंति यथा गोत्रांश्व गोत्रभित् ॥ मित्रभऽथ गुरौ केंद्रे त्रिकोणस्थेऽथ वा सिते ॥६७२॥
शत्रून्हंति गतो राजा भुजंगान् गरुडो यथा ॥ शुभकद्रत्रिकोणस्थे वर्गोत्तम गते गतः ॥६७३॥
विनाशयत्यरीन्राजा पापान्भागीरथी यथा ॥ ये नृपा यान्त्यरीञ्जेतुं तेषां योगैर्नृपाह्रयेः ॥६७४॥
उपैति शातिं कोपाग्निः शत्रुयोषाश्रुबिंदुभिः ॥ बलक्षयपक्षदशमीमासीषे विजयाभिधा ॥६७५॥
विजयस्तत्र यातृणां सधिर्वा न पराजयः ॥ निमित्त शकुनादिभ्यं प्रधानं हि मनोदयः ॥६७६॥
तस्मान्मनस्विनां यत्नात्फलहेतुर्मनोदयः ॥ उत्सवोपनयोद्वाहप्रतिष्ठाशो च सूतके ॥६७७॥
असमाप्ते न कुर्वींत यात्रां मर्त्यो जिजीविषुः ॥ महिषोंदुरयोर्युद्धे कलत्रकलहार्त्तवे ॥६७८॥
वस्त्रादेः स्खलिते क्रोधे दुरुक्ते न व्रजेन्नृपः ॥ घृतान्नं तिलपिष्टान्नं मत्स्यान्नं घृतपायसम् ॥६७९॥
प्रागादिक्रमशो भुक्ता याति राजा जयत्यरीन् ॥ सज्जिका परमान्नं च कांजिक च पयो दधि ॥६८०॥
क्षीरं तिलोदनं भुक्ता भानुवारादिषु क्रमात् ॥ कुल्माषांश्व तिलान्नं च दधि क्षौद्रं घृतं पयः ॥६८१॥
मृगमांसं च तत्सारं पायसं च खगं मृगम् ॥ शशमांसं च षाष्टिक्यं प्रियंगुकमपूपकम् ॥६८२॥
चित्रांडजफलं कूर्मश्वाविद्धोधांश्व शास्वकम् ॥ हविष्यं कृशरान्नं च मुद्रान्नं यवपिष्टिकम् ॥६८३॥
मत्स्यान्नं च विचित्रान्नं दध्यन्नं दस्त्रभात्क्रमात् ॥ भुक्ता राजेभाश्वरथनरैर्याति जयत्यरीन् ॥६८४॥
हुताशनं तिलै र्हुत्वा पूजयेत् दिगीश्वरम् ॥ प्रणम्य देवभूदेवानाशीर्वादेर्नृपो वज्रेत् ॥६८५॥
यद्वर्णवस्त्रगंधाद्यैस्तन्मंत्रेण विधानतः ॥ इंद्रमैरावतारुढं शच्या सह विराजितम् ॥६८६॥
वज्रपाणिं स्वर्णवर्णं दिव्याभरणभूषितम् ॥ सप्तहस्तं सप्तजिह्रं ष्ण्मुखं मेषवाहनम् ॥६८७॥
स्वाहाप्रियं रक्तवर्णं सुकुस्त्रुवायुधधारिणम् ॥ दंडायुग्धं लोहितार्क्षं यमं महिषवाहनम् ॥६८८॥
श्यामलं सहितं रक्तवर्णैरुर्द्धमुखं शुभम् ॥ खङुचर्मधरं नीलं निऋतिं नरवाहनम् ॥ ६८९॥
उर्द्धकेशं विरुपाक्षं दीर्घग्रीवायुतं विभुम् ॥ नागपाशधरं पीतवर्ण मकरवाहनम् ॥६९०॥
वरुणं कालिकानाथ रत्नाभरणभूषितम् ॥ प्राणिनां प्राणरुपं तं द्विबाहुं दंडपाणिकम् ॥६९१॥
वायुं कृष्णमृगारुढं पूजयेदंजनीपतिम् ॥ अश्वारुढं कुंभपार्णि द्विबाहुं स्वर्नसन्निभम् ॥६९२॥
कुबेरं चित्रलेखेशं यक्षगंधर्वनायकम् ॥ पिनाकिनं वृषारुढं गौरीपतिमनुत्तमम् ॥६९३॥
श्वेतवर्णं चंद्रनौलिं नागयज्ञोपवीति नम् ॥ अप्रयाणे स्वयं कार्या प्रेक्षया भूभुजस्तथा ॥६९४॥
कार्यं निगमनं छत्रं ध्वजशस्त्रास्त्रवाहनैः ॥ स्वस्थानन्निर्गमस्थानं दडानां च शतद्वयम् ॥६९५॥
चत्वारिशद्दादशैव प्रस्थितः स स्वयं गतः ॥ दिनान्येकत्र न वसेत्सप्तषट्‌ वा परो जनः ॥६९६॥
पंचरात्रं च पुरतः पुनर्लग्रांतरे व्रजेत् ॥ अकालजेषु नृपतिर्विद्युद्धर्जितवृषिषु ॥६९७॥
उत्पातेषु त्रिविधेषु सप्तरात्रं तु न व्रजेत् ॥ रत्नाकुड्याशिवाकाकपोतानां गिरस्तथा ॥६९८॥
झझेभुक्हेमवक्षीरस्वराणां वामतो गतिः ॥ पीतकारभरद्वाजपक्षिणां दक्षिना गतिः ॥६९९॥
चापं त्यक्ता चतुष्पात्तु शुभदा वामतो मताः ॥ कृष्णं त्यक्ता प्रयाणे तु कृकलासेन वीक्षितः ॥७००॥
वाराहशशगोधास्तु सर्पाणां कीर्तनं शुभम् ॥ ह्रतेक्षणं नेष्टमेवाव्यपत्ययं कपिऋक्षयोः ॥७०१॥
मयूरच्छागनकुलचाषपारावताः शुभाः ॥ दृष्टमात्रेण यात्रायां व्यस्तं सर्वं प्रवेशने ॥७०२॥
यात्रासिद्धिर्भवेद्दष्टे शवरादनवजते ॥ प्रवेशे रोदनयुतः शवः शवप्रदस्तथा ॥७०३॥
पतितक्लीबजटिलमत्तवांतौषधादिभिः ॥ अभ्यक्तवसास्थिचर्मांगारदारुणरोगिभि ॥७०४॥
गुडकार्पासलवगरिपुष्रश्रतृगोरगैः ॥ वंध्याकुंजककाषायमुक्तकेशवुभुक्षितैः ॥७०५॥
प्रयाणसमये नग्नैर्दृष्टेः सिद्धिर्न जायते ॥ प्रज्वलाग्नीन्सुतुरग नृपासनपुरांगनाः ॥७०६॥
गंधपुष्पाक्षतच्छत्रचामरांदोलिकं नृपः ॥ भक्ष्येक्षुफलमृत्स्नान्नमध्वज्यदधिगोदयाः ॥७०७॥
मद्यमांससुधाधौत वस्त्रशंखवृषध्वजाः ॥ पुण्यस्त्रीपुण्यफलशरस्त्रंभृगागोद्विजाः ॥७०८॥
भेरीमृदंगपटहघंटावीणादिनिःखनः ॥ वेदमंगलघोषाः स्युः यायिनां कायसिद्धिदाः ॥७०९॥
आदौ विरुद्धशकुनं दृष्ट्रा यायीष्टदेवताम् ॥ स्मृत्वा द्वितीये विप्राणां कृत्वा पूजां निवर्तयेत् ॥७१०॥
सर्वदिक्षुक्षुंतं नेष्टं गोदुतं निधनप्रदन् ॥ अफलं यद्वालवृद्धारोगिपैनसिकैः कृतम् ॥७११॥
परस्त्री द्विजदेवस्व तत्स्पृशद्दिग्गजाश्वकन् ॥ हन्यात्परपुरप्राप्तो न स्त्रीर्नित्यं निरायुधान् ॥७१२॥
आदौ सौम्यायने कार्यंनववास्तुप्रवेशनम् ॥ विधाय पूर्वदिवसे वा स्तुपूजाबलिक्रियाम् ॥७१३॥
माघफाल्गुनविअशाखज्येष्ठगारेषु शोभमम् ॥ प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः ॥७१४॥
शशीज्यांतेषु वरुणात्वाष्ट्रमित्रस्थिरोडुषु ॥ शुभः प्रवेशो देवेज्यशुक्रयोर्द्दश्यमानयोः ॥७१५॥
व्यर्कारवारे तिथिषु रिक्तामावर्जितेषु च ॥ ढिवा वा यदि वा रात्रौ प्रवेशो मंगलप्रदः ॥७१६॥
चंद्रताराबलोपेते पूर्वाह्रे शोभने दिने ॥ स्थिरलग्ने स्थिरांशे च नैधने शुद्धिसंयुते ॥७१७॥
त्रिकोणकेंद्रसंस्थेश्च सौम्ये स्त्रायायारिगैः परैः ॥ लग्नांत्याष्टमषष्ठस्थबर्जित्तेन हिमांशुना ॥७१८॥
कर्तुवा जन्मभे लग्ने ताभ्यामुपचयेऽपि वा ॥ प्रवेशलग्ने स्यादृद्धिरन्यभे शोकानिःस्वता ॥७१९॥
दर्शनीयं गृहं रम्यं विविधैर्मंगलस्वनैः ॥ कृत्वार्कं वामतो विद्वान्भृगारं चाग्रतो विशेत् ॥७२०॥
वर्षाप्रवेशे शशिनि जल रशिगतेपि वा ॥ केंद्रगे वा शुल्कपक्षे चातिवृष्टिः शुभेक्षिते ॥७२१॥
अल्पवृष्टिः पामद्दष्टे प्रावृट्रकालेऽचिराद्ध्द्धवेत् ॥ चंद्रश्वेद्धार्गवे सर्वमेवैधगुणान्विते ॥७२२॥
प्रावृषीदूः सितात्सप्तराशिगः शुभवीक्षितः ॥ मंदत्रिकोणसप्तस्थो यदि वा वृद्धिकृद्धवेत् ॥७२३॥
सद्यो वृष्टिकरः शुक्रो यदा बुधसमीपगः ॥ तयोर्मध्यगते भानौ भवेदूष्टिविनाशनम् ॥७२४॥
मघादिपंचधिष्ण्यस्थः पूर्वे स्वातित्रये परे ॥ प्रवर्षणः भृगुः कुर्याद्विपरीते न वर्षणम् ॥७२५॥
पुरतः पृष्ठतो भानोर्ग्रहा यदि समीपगाः ॥ तदा वृष्टिं प्रकुर्वन्ति न ते चेत्प्रतिलोमगाः ॥७२६॥
वामभागीस्थतः शुक्रो वृष्टिकृच्चेतुं याम्यगः ॥ उदया स्तेषु वृष्टिः स्याद्धानोराद्राप्रवेशने ॥७२७॥
संध्ययोः सस्यवृद्धिः स्यात्सर्वसंपन्नृणान्निशि ॥ स्तोकवृष्टिरनर्घः स्यादवृष्टिः सस्यसंपदः ॥७२८॥
आर्द्रोदयेग्रभिन्नाअ चन्द्रवेदिति न संशयः ॥  चन्द्रेज्ये ज्ञेथ वा शुके केंद्रेन्बीतिर्विनश्यति ॥७२९॥
पूर्वाषाढां गतो भानुर्जीमूतैः परिवेष्टितः ॥ वर्षत्यार्द्रादि मूलांतं प्रत्यक्षं तथा ॥७३०॥
वृष्टिश्वेत्पौष्णभें तस्माद्दशर्क्षेषु  न वर्षति ॥ सिंहे भिन्ने कुजे वृष्टिरभिन्ने कर्कटे तथा ॥७३१॥
कन्योदये प्रभिन्ने चेत्सर्वदा वृष्टिरुत्तमा ॥ अहिर्बुध्न्यं पूर्वशस्यं परशस्या च रेवती ॥७३२॥
भरणी सर्वसस्या च सर्वनाशाय चाश्विनी ॥ गुरोः सप्तमराशिस्थः प्रत्यग्गो भृगुजो यदा ॥७३३॥
तदातिवर्षणं भूरि प्रावृट्‌काले बलोज्झिते ॥ आसप्तमर्क्षशशिनः ॥ परिवेशगतोत्तरा ॥७३४॥
विद्युत्प्रपूर्णमंडूकात्त्वनावृष्टिर्भवेत्तदा ॥ यदाप्रत्यङ्‌नता मेघाः खसप्तोपरि संस्थिताः ॥७३५॥
पतंति दक्षिणस्था येभवेद्‌वृष्टिस्तदाचिरात् ॥ नखैर्लिखन्तो भार्जाराश्वावनिं लोहसंयुते ॥७३६॥
रथ्यायां सेतुबंधाः स्युर्बालानां वृष्टिहेतवः ॥ पिपीलिकाश्रेणयश्छिन्नाः खद्योता बहवस्तदा ॥७३७॥
द्रुमादिरोहः सर्पाणां प्रीतिर्दुवृष्टिसूचकाः ॥ उदयास्तमये काले विवर्णोऽर्कोथ वा शशी ॥७३८॥
मधुवर्णोऽतिवायुश्वेदतिवृष्टिर्भवेत्तदा ॥ प्राङ्‌मुखस्य तु कूर्मस्य नवांगेषु धराभिमाम् ॥७३९॥
विभज्य नवधा खण्डे मंडलानि प्रदक्षिणम् ॥ अन्तर्वेदाश्व पांचालस्तस्येदं नाभिमण्डलम् ॥७४०॥
प्राच्या मागधलाटोत्था देशास्तन्मुखंडलम् ॥ स्त्रीकलिंगकिराताख्या देशास्तद्धाहुमंडलम् ॥७४१॥
अवंती द्रविडा भिल्ला देशास्तत्पार्श्वमण्डलम् ॥ गौडकौंकणशाल्वांध्रपौंड्रस्तत्पादमण्डलम् ॥७४२॥
सिंधुकाशिमहाराष्ट्रसौराष्ट्राः पुच्छमण्डलम् ॥ पुलिंदचीनयवनगुर्जराः पादमंडलम् ॥७४३॥
कुरुकाश्मीरमाद्रेमत्स्यास्तत्पार्श्वमण्डलम् ॥ खसांगवंगबाह्रीकं कांबोजाः पाणिमंडलम् ॥७४४॥
कृत्तिकादीनि धिष्ण्यानि त्रीणि त्रिणि क्रमान्न्यसे तू ॥ नाभ्यादिषु नवांगेषु पापैर्दुष्टं शुभैः शुभम् ॥७४५॥
देवता यत्र नृत्यंति पतंति प्रज्वलंति च ॥ मुहू रुदंति गायंति प्रस्विद्यंति हसंति च ॥७४६॥
वमंत्यग्निं तथा धूमं स्त्रेहं रक्तं पयो जलम् ॥ अधोमुखाधितिष्ठंति स्थानात्स्थानं व्रंजति च ॥७४७॥
एवमाद्या हि दृश्यंते विकाराः प्रतिमासु च ॥ गंधर्व नगरं चैव दिवा नक्षत्रदर्शनम् ॥७४८॥
महोल्कापतनं काष्ठतृणरक्तप्रवर्षणम् ॥ गांधर्वं देहदिग्धूमं भूमिकंपं दिवा निशि ॥७४९॥
अनग्नौ च स्फुलिंगाश्व ज्वलंन च विनेंधनम् ॥ निशींद्रचापंडूकं शिखरे श्वेतवायसः ॥७५०॥
दृश्यंते विस्फुलिंगाश्व गोगजाश्वोष्ट्रागात्रतः ॥ जंतवो द्वित्रिशिरसो जायंते वापि योनिषु ॥७५१॥
प्रातः सूर्याश्वतसृषु ह्रर्दितायुगपद्रवेः ॥ जम्बूकग्रासंवासः केतूनां च प्रदर्शनम् ॥७५२॥
काकानाकुलं रात्रौ कपोतानां दिवा यदि ॥ अकाले पुष्पित्ता वृक्षा दृश्यंते फलिता यदि ॥७५३॥
कार्यं तच्छेदनं तत्र ततः शांतिर्मनीषिभिः ॥ एवमाद्या महोत्पाता बहवः स्थाननाशदा ॥७५४॥
केचिन्मृत्युप्रदाः केचिच्छत्रुभ्यश्व भयप्रदा ॥ मध्याद्धयं यशो मृत्युः क्षयः कीर्तिः सुखासुखम् ॥७५५॥
ऐस्वर्यं धनहानिं च मधुच्छन्नं च वाल्मिकम् ॥ इत्यादिषु च सर्वेषूत्पातेषु द्विजसत्तम् ॥७५६॥
शांतिं कुर्यात्प्रयत्नेन कल्पोक्तविधिना शुभम् ॥ इत्येतत्कथितं विप्र ज्यौतिषं ते समासतः ॥७५७॥
अतः परं प्रवक्ष्यामि च्छदः शास्त्रमनुत्तमम् ॥७५८॥
इति श्रीबृहन्न०पूर्व०बृहदुपाख्याने द्वितीयपादे षट्‌पञ्चाशत्तमोऽध्यायः ॥५६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:28:42.6330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चेतव्य

  • वि. १ चिंतनीय ; विचार करण्याजोगा ; विचार करण्यास शक्य , योग्य , आवश्यक इ० २ जिवंत करण्यास , चैतन्य देण्यास , जागृत करण्यास योग्य , शक्य , आवश्यक इ० [ सं . चित ] 
  • a  Possible to be thought of. To be animated. 
RANDOM WORD

Did you know?

अतिथी व अतिथीसत्कार याबद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.