TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
प्रथमोऽध्यायः

श्री नारदीयमहापुराणम् - प्रथमोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


प्रथमोऽध्यायः
ॐ श्री गुरुभ्यो नमः ॥ ॐ श्रीगणेशाय नमः ॥ ॐ नमो भगवते वासुदेवाय ॥
ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥ देवीं सरस्वतीं चैवततो जयमुदीरयेत् ॥१॥
ॐ वेदव्यासाय नमः ॥
वृन्दे वृन्दावनासीनमिन्दिरानन्दमन्दिरम् ॥ उपेन्द्रं सांद्रकारुण्यं परानन्दं परात्परम् ॥१॥
ब्रह्मविष्णुमहेशाख्यां यस्यांशा लोकसाधकाः ॥ तमादिदेवं चिद्रूपं विशुद्धं परमं भजे ॥२॥
शौनकाद्या महात्मान ऋषयो ब्रह्मवादिनः ॥ नैमिषाख्ये महारण्ये तपस्ते पुर्मुमुक्षवः ॥३॥
जितेंन्द्रिया जिताहाराः सन्तः सत्यपराक्रमाः ॥ यजन्तः परया भक्तया विष्णुमाद्य सनातनम् ॥४॥
अनीर्ष्याः सर्वधर्म्मज्ञा लोकानुग्रह तत्पराः ॥ निर्म्ममा निरहंकाराः परस्मिन्रतमानसाः ॥५॥
न्यस्तकामा विवृजिनाः शमादिगुणसंयुताः ॥ कृष्णाजिनोत्तरीयास्ते जटिला ब्रह्मचारिणः ॥६॥
गृणन्तः परमं ब्रह्म जगच्चक्षुः समौजसः ॥ धर्म्मशास्त्रार्थत्त्वज्ञास्तेपुर्नैमिषकानने ॥७॥
यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परे ॥ केचिच्च परया भक्तया नारायणमपूजयन् ॥८॥
एकदा ते महात्मानः समाजं चक्रुरुत्तमाः ॥ धर्मार्थकाममोक्षाणामुपायाञ्ज्ञातुमिच्छवः ॥९॥
षड्विशतिसहस्राणि मुनीनामूर्द्धरेतसाम् ॥ तेषां शिष्यप्रशिष्याणां संख्या वक्तुं न शक्यते ॥१०॥
मुनयो भावितात्मानो  मिलितास्ते महौजसः ॥ लोकानुग्रकर्त्तारो वीतरागा विमत्सगः ॥११॥
कानि क्षेत्राणि पुण्यानि कानि तीर्थानि भूतले ॥ कथं वा प्राप्यते मुक्तिर्नृणां तापार्तचेतसाम् ॥१२॥
कथं हरौ मनुष्याणां भक्तिरव्याभिचारिणी ॥ केन सिध्येत च फलं कर्मणिस्त्रिविधात्मनः ॥१३॥
इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः ॥ प्राञ्जलिर्वाक्यमाहेदं विनयावनतः सुधीः ॥१४॥
शौनक उवाच ॥
आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः ॥ यजन्मखैर्बहुविधैर्विश्वरूपं जनार्दनम् ॥१५॥
स एतदखिलं वेत्ति व्यासशिष्यो महामुनिः ॥ पुराणंसंहितावक्ता शान्तो वै रोमहर्षणिः ॥१६॥
युगे युगेऽल्पकान्धर्मान्निरीक्ष्य मधुसूदनः ॥ वेदव्यास स्वरूपेण वेदभागं करोति वै ॥१७॥
वेदव्यासमुनिः साक्षान्नारायण इति द्विजाः ॥ शुश्रुमः सर्वशास्त्रेषु सूतस्तु व्यासशासितः ॥१८॥
तेन संशासितः सूतो वेदव्यासेन धीमता ॥ पुराणामि स वेत्त्येव नान्यो लोके ततः परः ॥१९॥
स पुराणार्थविल्लोके स सर्वज्ञः स बुद्धिमान् ॥ स शान्तो मोक्षधर्मज्ञः कर्मभक्तिकलापवित् ॥२०॥
वेदवेदाङ्गशास्त्राणां सारभूतं मुनीश्वराः ॥ जगद्धितार्थं तत्सर्वं पुराणेषूक्तवान्मुनिः ॥२१॥
ज्ञानार्णवो वै सूतस्तत्सर्वतत्त्वार्थकोविदः ॥ तस्मात्तमेव पृच्छाम् इत्यूचे शौनको मुनीन् ॥२२॥
ततस्ते मुनयः सर्वे शौनकं वाग्विदां वरम् ॥ समाश्र्लिष्य सुसंप्रिताः साधु साध्विति चाब्रुवन् ॥२३॥
अथ ते मुनयो जग्मुः पुण्यं सिद्धाश्रमं वने ॥ मृगव्रजसमाकीर्णं मुनिभिः परिशोभितम् ॥२४॥
मनोज्ञभूरुहल ताफलपुष्पविभूषितम् ॥ युक्तं सरोभिरच्छोदैरतिथ्यातिथ्यसंकुलम् ॥२५॥
ते तु नारायणं देवमनन्तमपराजितम् ॥ यजन्तमग्निष्टोमेन ददृशू रोमहर्षणिम् ॥२६॥
यथार्हमार्चितास्तेन सूतेन प्रथितौजसः ॥ तस्यावभृथमीक्षन्तस्तत्र तस्थुर्मखालये ॥२७॥
अधरावभृथस्रातं सूतं पौराणिकोत्तमम् ॥ पप्रच्छुस्ते सुखासीनं नैमिषारण्यवासिनः ॥२८॥
ऋषय ऊचुः ॥
वयं त्वतिथयः प्राप्ता आतिथेयास्तु सुव्रत ॥ ज्ञानदानोपचारेण पूजयास्मान्यथाविधि ॥२९॥
दिवौकसो हि जीवन्ति पीत्वा चन्द्रकलामृतम् ॥ ज्ञानामृतं भूसुरास्तु मुने त्वन्मुखनिः सृतम् ॥३०॥
येनेदमखिलं जातं यदा धारं यदात्मकम् ॥ यस्मिन्प्रतिष्ठितं तात यस्मिन्वा लयमेष्यति ॥३१॥
केन विष्णुः प्रसन्नः स्यात्स कथं पूज्यते नरैः ॥ कथं वर्णाश्रमाचार श्चातिथेः पूजनं कथम् ॥३२॥
सफलं स्याद्यथा कर्म मोक्षोपायः कथं नृणाम् ॥ भक्तया किं प्राप्यते पुंभिस्तथा भक्तिश्च कीदृशी ॥३३॥
वद सूत मुनिश्रेष्ठ सर्वमेतदसंशयम् ॥ कस्य नो जायते श्रद्धा श्रोतुं त्तद्वचनामृतम् ॥३४॥
सूत उवाच ॥ 
श़ृणुध्वमृषयः सर्वे यदिष्टं वो वदामि तत् ॥ गीतं सनकमुख्यैस्तु नारदाय महात्मने ॥३५॥
पुराणं नारदोपाख्यमेतद्वेदार्थसंमितम् ॥ सर्वपापप्रशमनं दुष्टग्रहनिवारणम् ॥३६॥
दुःस्वप्ननाशनं धर्म्यं भुक्तिमुक्तिफलप्रदम् ॥ नारायणकथोपेतं सर्वकल्याणकारणम् ॥३७॥
धर्मार्थकाममोक्षाणां हेतुभूतं महाफलम् ॥ अपूर्व पुण्यफलदं श़ृणुध्वं सुसमाहिताः ॥३८॥
महापातकयुक्तो वा युक्तो वाप्युपपातकैः ॥ श्रुत्वैतदार्षं दिव्यं च पुराणं शुद्धिमाप्नुयात् ॥३९॥
यस्यै काध्यायपठनाद्वाजिमेधफलं लभेत् ॥ अध्यायद्वयपाठेन राजसूयफलं तथा ॥४०॥
ज्येष्ठमासे पूर्णिमायां सूलक्षें प्रयतो नरः ॥ स्रात्वा च यमुना तोये मथुरायामुपोषितः ॥४१॥
अभ्यर्च्य विधिवत्कृष्णं यत्फलं लभते द्विजाः ॥ तत्फलं समावाप्नोति अध्यायत्रयपाठतः ॥४२॥
तत्प्रवक्ष्यामि वः सम्यक् शृणुध्वं गदतो मम ॥ जन्मायुतार्जितैः पापैर्मुक्तः कोटिकुलान्वितः ॥४३॥
ब्रह्मणः पदमासाद्य तत्रैव प्रतितिष्ठति ॥ श्रुत्वास्य तु दशा ध्यायान्भक्तिभावेत् मानवः ॥४४॥
निर्वाणमुक्तिं लभते नात्र कार्या विचारणा ॥ श्रेयसां परमं श्रेयः पवित्राणामनुत्तमम् ॥४५॥
दुःस्वप्नना शतं पुण्यं श्रोतव्यं यत्नतो द्विजाः ॥ श्रद्धया सहितो मर्त्यः श्र्लोकं श्र्लोकार्द्धमेव वा ॥४६॥
पठित्वा मुच्यते सद्यो महापातकराशिभिः॥ सतामेव प्रवक्तव्यं गुह्याद्रह्यतरं यतः ॥४७॥
वावयेत्पुरतो विष्णोः पुण्यक्षेत्रे द्विजान्तिके ॥ ब्र्रह्मद्रोहपराणां च दंभाचारयुतात्मनाम् ॥४८॥
जनानां बकवृतीतां न ब्रूयादिदमुत्तमम् ॥ त्यक्तकामादिदोषाणां विष्णुभक्तिरतात्मनाम् ॥४९॥
सदाचारपराणां च वक्तव्यं मोक्षसाधनम् ॥ सर्वदेवमयो विष्णुः स्मरतामार्तिनाशनः ॥५०॥
सद्भक्तिवत्सलो विप्रा भक्तया तुष्यति नान्यथा ॥ अश्रद्धयापि यान्नाम्नि कीर्तितेत्थ स्मृतेऽपि वा ॥५१॥
विमुक्तः पात कैर्मर्त्यो लभते पदमव्ययम् ॥ संसारघोरकान्तारदावाग्निर्मध्रुसूदनः ॥५२॥
स्मरतां सर्वपापानि नाशयत्याशु सत्तमाः ॥ तदर्थद्योतकमिदं पुराणं श्राव्यमुत्तमम् ॥५३॥
श्रवणात्पठनाद्वापि सर्वपापविनाशकृत् ॥ यस्यास्य श्रवणे बुद्धिर्जायते भक्तिसंयुता ॥५४॥
स एव कृतकृत्यस्तु सर्व शास्त्रार्थकोविदः यदर्जित तपः पुण्यं तन्मन्ये सफलं द्विजाः ॥५५॥
यदस्य श्रवणे भक्तिरन्यथा नहि जायते ॥ सत्कथासु प्रर्वतन्ते सज्जना ये जगद्धिताः ॥५६॥
निन्दायां कलहे वापि ह्यसन्तः पापतत्पराः ॥ पुराणेष्वर्थवादत्वं ये वदन्ति नराधमाः ॥५७॥
तैरर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः ॥ समस्तकर्मनिर्मूलसाधनानि नराधमः ॥५८॥
पुराणान्यर्थवादेन ब्रुवन्नरकमश्नुते ॥ अन्यानि साधयन्त्येव कार्याणि विधिना नराः ॥५९॥
श्रोतव्यानि पुराणानि तेन वै भक्तिभावतः ॥ पुराणश्रवणे बुद्धिर्यस्य पुंसः प्रवर्तते ॥६१॥
पुरार्जितानि पापानि तस्य नश्यन्त्यसंशयम् ॥ पुराणे वर्तमानेऽपि पापपाशेन यन्त्रितः ॥
आदरेणान्यगाथासु सक्तबुद्धिः पतत्यधः ॥६२॥
सत्सङ्गदेवार्चनसत्कथासु हितोपदेशनिरतो मनुष्यः ॥ प्रयति विष्णोः परमं पदं यद्देहावसानेऽच्युततुल्यतेजाः ॥६३॥
तस्मादिदं नारदनामधेयं पुण्यं पुराणं श़ृणुत द्विजेन्द्राः ॥ यस्मि–ञ्छ्रुते जन्मजरा दिहिनो नरो भवेदच्युतनिष्ठचेताः ॥६४॥
वरं वरेण्यं वरदं पुराणं निजप्रभाभावितसर्वलोकम् ॥ संकल्पितार्थप्रदमादिदेवं स्मृत्वा व्रजेन्मुक्तिपदं मनुष्यः ॥६५॥
ब्रह्मेशविष्ण्ववादिशरीरभेदैर्विश्वं सृजत्यत्ति च पाति विप्राः ॥ तमादिदेवं परमं परेशामाधाय चेतस्युपयाति मुक्तिम् ॥६६॥
यो नाम जात्यादिविकल्पहीनः परः पराणां परमः परस्मात् ॥ वेदान्तवेद्यः स्वजनप्रकाशः समीड्यते सर्वपुराणवेदैः ॥६७॥
तस्मात्तमीशं जगतां विमुक्तिमुपासनायालमजं मुरारिम् ॥ परं रहस्यं पुरुषार्थहेतुं स्मृत्वा नरो यति भवाब्धिपारम् ॥६८॥
वक्तव्यं धार्मिकेभ्यस्तु श्रद्दधानेभ्य एव च ॥ मुमुक्षुभ्यो यतिभ्यश्च वीतरागेभ्य एव च ॥६९॥
वक्तव्यं पुण्यदेशे च सभायां देवतागृहे ॥ पुण्यक्षेत्रे पुण्यतीर्थे देव ब्राह्मणसन्निधौ ॥७०॥
उच्छिष्टदेशे वक्तार आख्यानमिदमुत्तमम् ॥ पच्यन्ते नरके घोरे यावदाभूतसंप्लवम् ॥७१॥
मृषा श़ृणोति यो मूढो दम्भी भक्तिविवर्जितः ॥ सोऽपि तद्वन्महाघोरे नरके पच्यतेऽक्षये ॥७२॥
नरो यः सत्कथामध्ये संभाषां कुरुतेऽन्यतः ॥ स याति नरकं घोरं तदेकाग्रमना भवेत् ॥७३॥
श्रोता वक्ता च विप्रेन्द्रा एष धर्मः सनातनः ॥ असमाहितचित्तस्तु न जानाति हि किंचन ॥७४॥
तत एकमना भूत्वा पिबेद्धरिकथामृतम् कथं संभ्रान्तचित्तस्य कथास्वादः प्रजायते ॥७५॥
किं सुखं प्राप्यते लोके पुंसा संभ्रान्तचेतसा ॥ तस्मात्सर्वं परित्यज्य कामं दुःखस्य साध नम् ॥७६॥
समाहितमना भूत्वा कुर्यादच्युतचिन्तनम् ॥ येन केनाप्युपायेन स्मृतो नारायणोऽव्ययः ॥७७॥
अपि पातकयुक्तस्य प्रसन्नः स्यान्न संशयः ॥ यस्य नारायणे भक्तिर्विभौ विश्वेश्वरेऽव्येये ॥
तस्य स्यात्सफलं जन्म मुक्तिश्चैव करे स्थिता ॥७८॥
धमार्थकाममोक्षाख्यपुरुषार्था द्विजोत्तमाः ॥ हरिभक्तिपराणां वै संपद्यन्ते न संशयः ॥७९॥
इति श्री बृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सूतर्षिसंवादो नाम प्रथमोऽध्यायः॥१॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:17:48.3600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

काकातु

  • पु. काकाकुव्वा ; एक प्रकारचा पोपट . ( हिं . काकातूआ ; मलाया . काकातुआ ; इं . कॉकातू ; काका + हि . कौवा ) 
RANDOM WORD

Did you know?

चतुर्थीला चंद्र पाहूनच उपास का सोडतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site