TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
द्वाविंशदधिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - द्वाविंशदधिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


द्वाविंशदधिकशततमोऽध्यायः
सनातन उवाच॥
अथातः संप्रवक्ष्यामि त्रयोदश्या व्रतानि ते॥
यानि कृत्वा नरो भक्त्या सुभगो जायते भुवि ॥१॥

मधौ शुक्लत्रयोदश्यां मदनं चन्दनात्मकम्॥
कृत्वा संपूज्य यत्नेन वीजेयव्द्यजनेन च ॥२॥

ततः संक्षुधितः कामः पुत्रपौत्रविवर्द्धनः॥
अनंगपूजाप्यत्रोक्ता तां निबोध मुनीश्वर ॥३॥

सिन्दूररजनीरागैः फलकेऽनंगमालिखेत्॥
रतिप्रीतियुतं श्लक्ष्णं पुष्पचापेषुधारिणम् ॥४॥

कामदेवं वसन्तं च वाजिवक्त्रं वृषध्वजम्॥
मध्याह्ने पूजयेद्भक्त्या गंधस्रग्भूषणांशुकैः ॥५॥

क्षभ्यैर्नानाविधैस्चापि मन्त्रेणानेन नारद॥
नमो माराय कामाय कामदेवस्य मूर्त्तये ॥६॥

ब्रह्मविष्णुशिवेंद्राणां मनःभोभकराय वै॥
तत्तस्याग्रतो भक्त्या पूजयेदंगनापतिम् ॥७॥

वस्त्रमाल्याविभूषाद्यैः कामोऽयमिति चिंतयेत्॥
संपूज्य द्विजदांपत्यं गंधवस्त्रविभूषणैः ॥८॥

एवं यः कुरुते विप्र वर्षे वर्षे महोत्सवम्॥
वसंतसमये प्राप्ते हृष्टः पुष्टः सदैव सः ॥९॥

प्रतिमासं पूजयेद्वा यावद्वर्षं समाप्यते॥
मदनं हृद्भवं कामं मन्मथं च रतिप्रियम् ॥१०॥

अनंगं चैव कंदर्पं पूजयेन्मकरध्वजम्॥
कुसुमायुधसंज्ञं च ततः पश्चान्मनोभवम् ॥११॥

विषमेषु तथा विप्र मालतीगप्रियमित्यपि॥
अजाया दानमप्युक्तं स्नात्वा नद्या विधानतः ॥१२॥

अजाः पयस्विनीर्दद्याद्दरिद्राय कुटुंबिने॥
भूयस्त्वनेन दानेन स लोके नैव जायते ॥१३॥

यदीयं शनिना युक्ता सा महावारुणी स्मृता॥
गंगायां यदि लभ्येत कोटिसूर्यग्रहाधिका ॥१४॥

शुभयोगः शतर्क्षं च शनौ कामे मधौ सिते॥
महामहेति विख्याता कुलकोटिविमुक्तिदा ॥१५॥

राधशुक्लत्रयोदश्यां कामदेवव्रतं स्मृतम्॥
तत्र गंधादिभिः कामं पूजयेदुपवासवान् ॥१६॥

प्रतिमासं ततः पश्चात्त्रयोदश्यां सिते दले॥
एवमेव व्रतं कार्यं वर्षांते गामलंकृताम् ॥१७॥

दद्याद्विप्राय सत्कृत्य व्रतसांगत्वसिद्धये॥
ज्येष्ठशुक्लत्रयोदश्यां दौर्भाग्यशमनं व्रतम् ॥१८॥

तत्र स्नात्वा नदीतोये पूजयेच्छुचिदेशजम्॥
श्वेतमंदारमर्कं वा करवीरं च रक्तकम् ॥१९॥

निरीक्ष्य गगने सूर्यं प्रार्थयेन्मंत्रतस्तदा॥
मंदारकरवीरार्का भवंतो भास्करांशजाः ॥२०॥

पूजिता मम दौर्भाग्यं नाशयंतु नमोऽस्तु वः॥
इत्थं योऽर्चयते भक्त्या वर्षे वर्षे द्रुमत्रयम् ॥२१॥

नश्यते तस्य दौर्भाग्यं नात्र कार्या विचारणा॥
शुचिशुक्लत्रयोदश्यामेकभक्तं समाचरेत् ॥२२॥

पूजयित्वा जगन्नाथावुमामाहेश्वरी तनूः॥
हैम्यौ रौप्यौ च मृन्मप्यौ यथाशक्त्या विधाय च ॥२३॥

सिंहोक्षस्थे देवगृहे गोष्ठे ब्राह्मणवेश्मनि॥
स्थापयित्वा प्रतिष्ठाप्य दैवमंत्रेण नारद ॥२४॥

ततः पंचदिनं पूजा चैकभक्तं व्रतं तथा॥
तृतीयदिवसे प्रातः स्नात्वा संपूज्य तौ पुनः ॥२५॥

समर्पणीयौ विप्राय वेदवेदांगशालिने॥
वर्षे वर्षे ततः पश्चाद्विधेयं वर्षपंचकम् ॥२६॥

तदंते धेनुयुग्मेन सहितौ तौ प्रदापयेत्॥
इत्थं नरो वा नारी वा कृत्वा व्रतमिदं शुभम् ॥२७॥

नैव दांपत्यविच्छेदं लभते सप्तजन्मसु॥
नभः शुक्लत्रयोदश्यां रतिकामव्रतं शुभम् ॥२८॥

वैधव्यवारणं स्त्रीणां तथा संतानवर्धनम्॥
कृतोपवासा कन्यैव नारी वा द्विजसत्तम ॥२९॥

ताम्रे वा मृन्मये वापि सौवर्णे राजते तथा॥
रतिकामौ प्रविन्यस्य गंधाद्यैः सम्यगर्चयेत् ॥३०॥

ततस्तु द्विजदांपत्यं चतुर्दश्यां निमंत्र्य च॥
सतकृत्य भोज्य प्रतिमे दद्यात्ताभ्यां सदक्षिणे ॥३१॥

एवं चतुर्दशाब्दं च कृत्वा व्रतमनुत्तमम्॥
धेनुयुग्मान्विते देये व्रतसंपूर्तिहेतवे ॥३२॥

भाद्रशुक्लत्रयोदश्यां गोत्रिरात्रव्रतं स्मृतम्॥
लक्ष्मीनारायणं कृत्वा सौवर्णं वापि राजतम् ॥३३॥

पंचामृतेन संस्नाप्य मण्डलेऽष्टदले शुभे॥
पीठे विन्यस्य वस्त्राढ्यं गंधाद्यैः परिपूजयेत् ॥३४॥

आरार्तिकं ततः कृत्वा दद्यात्सान्नोदकं घटम्॥
एवं दिनत्रयं कृत्वा व्रतांते मासमर्च्य च ॥३५॥

सम्यगर्थं च संपाद्य दद्यान्मंत्रेण नारद॥
पंचगावः समुत्पन्ना मथ्यमाने महोदधौ ॥३६॥

तासां मध्ये तु या नंदा तस्यै धेन्वै नमो नमः॥
प्रदक्षिणीकृत्य ततो दद्याद्विप्राय मंत्रतः ॥३७॥

गावो ममाग्रतः सन्तु गावो मे संतु पृष्ठतः॥
गावो मे पार्श्वतः संतु गवां मध्ये वसाम्यहम् ॥३८॥

ततश्च द्विजदांपत्यं सम्यगभ्यर्च्य भोजयेत्॥
लक्ष्मीनारायणं तस्मै सत्कृत्य प्रतिपादयेत् ॥३९॥

अश्वमेधसहस्राणि राजसूयशतानि च॥
कृत्वा यत्फलमाप्नोति गोत्रिरात्रव्रताच्च तत् ॥४०॥

इषे शुक्लत्रयोदश्यां त्रिरात्रशोककव्रतम्॥
हैमं ह्यशोकं निर्माय पूजयित्वा विधानतः ॥४१॥

उपवासपरा नारी नित्यं कुर्यात्प्रदक्षिणाः॥
अष्टोत्तरशतं विप्र मंत्रेणानेन सादरम् ॥४२॥

हरेण निर्मितः पूर्वं त्वमशोक कृपालुना॥
लोकोपकारकरणस्तत्प्रसीद शिवप्रिय ॥४३॥

ततस्तृतीये दिवसे वृक्षे तस्मिन्वृषध्वजम्॥
समभ्यर्च्य विधानेन द्विजं संभोज्य दापयेत् ॥४४॥

एवं कृतव्रता नारी वैधव्यं नाप्नुयात्क्वचित्॥
पुत्रपौत्रादि सहिता भर्तुश्च स्यात्सुवल्लभा ॥४५॥

ऊर्ज्जकृष्णत्रयोदश्यामेकभक्तः समाहितः॥
प्रदोषे तैलदीपं तु प्रज्वाल्याभ्यर्च्य यत्नतः ॥४६॥

गृहद्वारे बहिर्दद्याद्यमो मे प्रीयतामिति॥
एवं कृते तु विप्रेंद्र यमपीडा न जायते ॥४७॥

ऊर्ज्शुक्लत्रयोदश्यामेकभोजी द्विजोत्तम॥
पुनः स्नात्वा प्रदोषे तु वाग्यतः सुसमाहितः ॥४८॥

प्रदीपानां सहस्रेण शतेनाप्यथवा द्विज॥
प्रदीपयेच्छिवं वापि द्वात्रिंशद्दीपमालया ॥४९॥

घृतेन दीपयेद्द्वीपान्गंधाद्यैः पूजयेच्छिवम्॥
फलैर्नानाविधैश्चैव नैवेद्यैरपि नारद ॥५०॥

ततः स्तुवीत देवेशं शिवं नाम्नां शतेन च॥
तानि नामानि कीर्त्यंते सर्वाभीष्टप्रदानि वै ॥५१॥

नमो रुद्राय भीमाय नीलकंठाय वेधसे॥
कपर्द्दिने सुरेशाय व्योमकेशाय वै नमः ॥५२॥

वृषध्वजाय सोमाय सोमनाथाय वै नमः॥
दिगंबराय भृंगाय उमाकांताय वर्द्धिने ॥५३॥

तपोमयाय व्याप्ताय शिपिविष्याय वै नमः॥
व्यालप्रियाय व्यालाय व्यालानां पतये नमः ॥५४॥

महीधराय व्योमाय पशूनां पतये नमः॥
त्रिपुरघ्नाय सिंहाय शार्दूलायार्षभाय च ॥५५॥

मिताय मितनाथाय सिद्धाय परमेष्ठिने॥
वेदगीताय गुप्ताय वेदगुह्याय वै नमः ॥५६॥

दीर्घाय दीर्घरूपाय दीर्घार्थाय महीयसे॥
नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः ॥५७॥

कल्याणाय विशिष्याय शिष्टाय परमात्मने॥
गजकृत्ति धरायाथ अंधकासुरभेदिने ॥५८॥

नीललोहितशुक्लाय चडमुंडप्रियाय च॥
भक्तिप्रियाय देवाय यज्ञांतायाव्ययाय च ॥५९॥

महेशाय नमस्तुभ्यं महादेवहराय च॥
त्रिनेत्राय त्रिवेदाय वेदांगाय नमो नमः ॥६०॥

अर्थायार्थस्वरूपाय परमार्थाय वै नमः॥
विश्वरूपाय विश्वाय विश्वनाथाय वै नमः ॥६१॥

शंकराय च कालाय कालावयवरूपिणे॥
अरूपाय विरूपाय सूक्ष्मसूक्ष्माय वै नमः ॥६२॥

श्मशानवासिने तुभ्यं नमस्ते कृत्तिवाससे॥
शशांकशेखरायाथ रुद्रभूमिश्रिताय च ॥६३॥

दुर्गाय दुर्गपाराय दुर्गावयवसाक्षिणे॥
लिंगरूपाय लिंगाय लिंगानपतये नमः ॥६४॥

नमः प्रभावरूपाय प्रभावार्थाय वै नमः ॥६५॥

नमो नमः कारणकारणाय ते मृत्युंजयायात्मभवस्वरूपिणे॥
त्रियंबकाय शितिकंठभार्गिणे गौरीयुजे मंगलहेतवे नमः ॥६६॥

नाम्नां शतमिदं विप्र पिनाकिगुणकीर्तनम्॥
पठित्वा दक्षिणीकृत्य प्रायान्निजनिकेतनम् ॥६७॥

एवं कृत्वा व्रतं विप्र महादेवप्रसादतः॥
भुक्त्वेह भोगानखिलानंते शिवपदं लभेत् ॥६८॥

मार्गशुक्लत्रयोदश्यां योऽनंगं विधिना यजेत्॥
त्रिकालमेककालं वा शिवसंगमसंभवम् ॥६९॥

गन्धाद्यैरुपचारैस्तु पूजयित्वा विधानतः॥
घटे मंगलपट्टे वा भोजयेद्द्विजदंपती ॥७०॥

ततश्च दक्षिणां दत्वा स्वयमेकाशनं चरेत्॥
एवं कृते तु विधिवद्व्रती सौभाग्यभाजनः ॥७१॥

जायते भुवि विप्रेन्द्र महादेवप्रसादतः ॥७१॥

पौषशुक्लत्रयोदश्यां समभ्यर्च्याच्युतं हरिम्॥
घृतपात्रं द्विजेन्द्राय प्रदद्यात्सर्वसिद्धये ॥७२॥

माघशुक्लत्रयोदश्यां समारभ्य दिनत्रयम्॥
माघस्नानव्रतं विप्र नानाकामफलावहम् ॥७३॥

प्रयागे माघमासे तु त्र्यहं स्नातस्य यत्फलम्॥
नाश्वमेघसहस्रेण तत्फलं लभते भुवि ॥७४॥

तत्र स्नानं जपो होमो दानं चानंत्यमश्नुते॥
फाल्गुने तु सिते पक्षे त्रयोदश्यामुपोषितः ॥७५॥

नमस्कृत्य जगन्नाथं प्रारंभे धनदव्रतम्॥
महाराजं यक्षपतिं गंधाद्यैरुपचारकैः ॥७६॥

लिखितं वर्णकैः पट्टे पूजयेद्भक्तिभावतः॥
एवं शुक्लत्रयोदश्यां प्रतिमासं द्विजोत्तम ॥७७॥

संपूजयेत्सोपवासश्चैकभुक्तो भवेन्नरः॥
ततो व्रतांते तु पुनः सौवर्णं धननायकम् ॥७८॥

विधाय निधिभिः सार्द्धं सौवर्णाभिर्द्विजोत्तम॥
उपचारैः षोडशभिः स्नानैः पंचामृतादिभिः ॥७९॥

नैवेद्यैर्विविधैर्भक्त्या पूजयेत्तु समाहितः॥
ततो धेनुमलंकृत्य वस्त्रस्रग्गंधभूषणैः ॥८०॥

सवत्सां दापयेद्विप्र सम्यग्वेदविदे शुभाम्॥
संभोज्य विप्रान्मिष्टान्नैर्द्वादशाथ त्रयोदश ॥८१॥

गुरुं समर्च्य वस्त्राद्यैः प्रतिमां तां निवेदयेत्॥
द्विजेभ्यो दक्षणां शक्त्या दत्वा नत्वा विसृज्य च ॥८२॥

स्वयं भुंजीत मतिमानिष्टैः सह समाहितः॥
एवं कृते व्रते विप्र निर्धनः प्राप्य वैभवम् ॥८३॥

मोदते भुवि विख्यातो राजराज इवापरः ॥८४॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वादशमासस्थितत्रयोदशीव्रतकथनं नाम द्वाविंशदधिकशततमोऽध्यायः ॥१२२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-05-08T04:05:32.7000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

नकुल II.

  • n. युधिष्ठिर के अश्वमेध यज्ञ को तुच्छ बतानेवाला एक नेवला [म.आश्व.९२] 
RANDOM WORD

Did you know?

अंत्येष्टी संस्कारात और्द्ध्वदेहिक विधि काय असतो ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.