TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
षडशीतितमोऽध्यायः

श्री नारदीयमहापुराणम् - षडशीतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


षडशीतितमोऽध्यायः
सनत्कुमार उवाच ॥
सरस्वत्यवतारास्ते कथिताः सिद्धिदा नृणाम्‍ ॥ अथ लक्ष्म्यवतारांस्ते वक्ष्ये सर्वार्थसिद्धिदान्‍ ॥१॥
वाणीमन्मथशक्त्याख्यं बीजत्रितयमीरितम्‍ ॥ ऋषिः स्याद्दक्षिणामूर्तिः पंक्तिश्र्छंदः प्रकीर्तितम्‍ ॥२॥
देवता त्रिपुरा बाला मध्यांते शक्तिबीजके ॥ नाभंरापादमाद्यंतु नाभ्यतं ह्रदयात्परम्‍ ॥३॥
मूर्ध्नो ह्रदतं तार्तीयं क्रमाद्देहेषु विन्यसेत्‍ ॥ आद्यं वामकरे दक्षकरे तदुभयोः परम्‍ ॥४॥
पुनर्बीजत्रयं न्यस्य मूर्ध्नि गुह्ये च वक्षसि ॥ नव योन्याभिधं न्यासे नवकृत्वो मनुं न्यसेत्‍ ॥५॥
कर्णयोश्विबुके न्यस्येच्छंखयोर्मुखपंकजे ॥ नेत्रयोर्नासिकायां च स्कंधयो रुदरे तथा ॥६॥
न्यसेत्कूर्परयोर्नाभौ जानुनोर्लिंगमस्तके ॥ पादयोरपि गुह्ये पार्श्वयोर्त्दृदये पुनः ॥७॥
स्तनयोः कंठदेशेः च वामांगादिषु विन्यसेत्‍ ॥ वाग्भवाद्यां रतिं गुह्ये प्रीतिमत्यादिकां ह्रदि ॥८॥
कामबीजादिकान्पश्येद्धूमध्ये तु मनोभवाम्‍ ॥ पुनर्वागकात्ममाद्यास्तिस्त्रएव च विन्यसेत्‍ ॥९॥
अमृतेशीं च योगेशीं विश्वयोनिं तृतीयकाम्‍ ॥ मूर्ध्नि वक्रे त्दृदि न्यस्येद्धुह्ये चरणेयोरपि ॥१०॥
कामेशी पंचबीजाढ्यां स्मरात्पञ्च न्यसेत्क्रमात्‍ ॥ मायाकामी च वाग्लक्ष्मी कामेशी पंचबीजकम्‍ ॥११॥
मनोभवश्व मकरध्वजकंदर्पमन्मथाः ॥ कामदेवः स्मरः पंच कीर्तिता  न्याससिद्धिदाः ॥१२॥
शिरःपन्मुखगुह्येषु त्दृदये बाणदेवताः ॥ द्राविण्याद्याः क्रमान्न्यस्येद्वानेशीबीजपूर्वकाः ॥१३॥
द्रांद्रीं क्लींजूंस इति वै बाणेशीबीजकं च कम्‍ ॥ द्राविणी क्षोभिणी वशीकरण्याकर्षनी तथा ॥१४॥
संमोहनी च बाणानां देवताह पञ्च कीर्तिताः ॥ तार्तीयवाग्मध्यगेन कामेन स्यात्षंडकम्‍ ॥१५॥
षड्‌कीर्घस्वयुक्तेन ततो देवीं विचिंतयेत्‍ ॥ ध्यायेद्रक्तसरोजस्थां रक्तवस्त्रां त्रिलोचनाम्‍ ॥१६॥
उद्यदर्कनिभां विद्यां मालाभयवरोद्वहाम्‍ ॥ लक्षत्रयं जपेन्मंत्र दशांशं किंशुकोद्धवैः ॥१७॥
पुष्पैर्हयारिजैर्वापि जुहुयान्मधुरान्वितैः ॥ नवयोन्यात्मंक यंत्रं बहिरष्टदला वृतम्‍ ॥१८॥
केसरेषु स्वरान्न्यस्तेद्वर्गानष्टौदलेष्वपि ॥ दलाग्रेषु त्रिशूलानि पद्म तु मातृकावृतम्‍ ॥१९॥
एवं विलिखिते यंत्रे पीठशक्तिः प्रपूजयेत्‍ ॥ इच्छा ज्ञाना क्रिया चैव कामिनी कामदायिनी ॥२०॥
रती रतिप्रियां नंदा मनोन्मन्यपि चोदिताः ॥ पीथशक्तिरिमा इष्ट्रा पीठं तन्मनुना दिशेत्‍ ॥२१॥
व्योमपूर्वे तु तर्तियं सदाशिवमहापदम्‍ ॥ प्रेतपद्मासनं ङेंत नमोतः पीठमन्त्रकः ॥२२॥
षोडशार्णस्ततो मूर्तौ क्लप्तायां मूलमंत्रतः ॥ आवाह्य प्रजपेद्देवीमुपचारैः पृथग्विधैः ॥२३॥
देवीमिष्ट्रा मध्ययोनी त्रिकोणे रतिपूर्विकाम्‍ ॥ वामकोणे रतिं दक्षे प्रीतिमग्ने मनोभवाम्‍ ॥२४॥
योन्यन्तर्वह्रिकोणादवंगान्यूग्नेर्विदिक्ष्वपि ॥ मध्ययोर्नबहिः पूर्वादिषु चाग्रे स्मरानपि ॥२५॥
वाणदेवीस्तद्वदेव शक्तिरष्टसु योनिषु ॥ सुभगाख्या भगा पश्वात्तृतीया भगसर्पिणी ॥२६॥
भगमाला तथानंगा नगाद्या मुसुमापरा ॥ अनंगमेखलानंगमदनेत्यष्टशक्तयः ॥२७॥
पद्मकेशर्गा ब्राह्मी मुखाः पत्रेषु भैरवाः ॥ दीर्घाद्या मातरः पूज्या ह्रस्वाद्याश्वाष्टभैरवाः ॥२८॥
द्लाग्रेष्वष्टपीठानि कामरुपाख्यमादिमम्‍ ॥मलंय कोल्लगि र्य्याख्यं चौहाराख्यं कुलांतकम्‍ ॥२९॥
जालंधर तथोन्नासं कोटपीठमथाष्टमम्‍ ॥ भूगृहे दशदिक्ष्वर्चेद्धेतुकं त्रिपुरांतकम्‍ ॥३०॥
वैतालमग्नि जिह्रं च कमलांतपालिनी ॥ एकपादं भीमरुपं विमंल हाटकेश्वरम्‍ ॥३१॥
शक्राद्यानायुधैः सार्द्ध स्वस्वदिक्षु समर्चयेत्‍ ॥ तद्वहिर्दिक्षु बटुकं योगिनी क्षेत्रनायकम्‍ ॥३२॥
गणेश विदिशास्वचैद्वसून्सूर्याञ्छवांस्तथा ॥ भूतांश्वेत्थं भजन्बालामीशः स्याद्धनविद्ययोः ॥३३॥
रक्तांभोजैर्हुतैर्नायौ वश्याः स्युः सर्षपैर्नृपाः ॥ नंद्यावर्तै राजवृक्षैः कुंदैः पाटलचंपकैः ॥३४॥
पुष्पैर्बिल्वफलैर्वापि होमाल्लक्ष्मीः स्थिरा भवेत्‍ ॥ अपमृत्युं जयेन्मन्त्री गुडूच्या दुग्धयुक्तया ॥३५॥
यथोक्तदूर्वाहोमेन नीरोगायुः समश्नुते ॥ ज्ञानं कवित्वं लभते चन्द्रागुरुसुरैर्हुतैः ॥३६॥
पलाशपुष्पैर्वाक्सिद्धिरन्नप्ति श्वान्नहोमतः ॥ सुरभिक्षीरदध्यक्ताँल्लाजान्हुत्वा रुजो जयेत्‍ ॥३७॥
रक्तचन्दनकर्पूरकर्चूरागुरुरोचनाः ॥ चन्दनं केशरं मांसीं क्रमाद्धगौनियो जयेत्‍ ॥३८॥
भूमिचंद्रैकनदाब्धिदिक्सप्तानिगमोन्मितैः ॥श्मशाने कृष्णभूतस्य निशि नीहारपाथसा ॥३९॥
कुमार्या पेषयेत्तानि मंत्रेणाथाभि मंत्र्य च ॥ विदद्धयात्तिलकं तेन दर्शनाद्वशयेज्जनान्‍ ॥४०॥
गजसिंहादिभूतानि राक्षसाञ्छादिनीरपि ॥ प्रयोजनानां सिद्धयै तु देव्याः शापं निवर्त्य च ॥४१॥
विधायोत्कीलितां पश्वाज्जपमस्य समाचरेत्‍ ॥ यो जषेदादिमे बीजे वराहभृगुपावकान्‍ ॥४२॥
मध्यमादौ नभोहंसौ मध्यमांते तु पाव कम्‍ ॥ आदावंते च तार्तीयक्रमात्स्वं धूम्रकेतनम्‍ ॥४३॥
एवं जप्त्वा शतं विद्या शापहीना फलप्रदा ॥ यद्वाद्ये चरमे बीजे नैव रेफं वियोजयेत्‍ ॥४४॥
शापोद्धारप्रकारोऽन्यो यद्वायं कीर्तितो बुधैः ॥ आद्यमाद्यं हि तार्तीयं कामः कामोऽथ वाग्भवम्‍ ॥४५॥
अंत्यमंत्यमनंगश्व नवार्णः कीर्तितो मनुः ॥ जप्तोऽयं शतधा शापं बालाया विनिवर्तयेत्‍ ॥४६॥
चैतन्याह्रादिनीमन्त्रौ जप्तौ निष्कीलताकरौ ॥ त्रिस्वराश्वेतनं मन्त्री धरः शांतिरनुग्रहः ॥४७॥
तारादिह्रदयांतः स्यात्काम आह्रादिनीमनुः ॥ तथा त्रयाणां बीजानां दीपनैर्मनुभिस्त्रिभिः ॥४८॥
सुदीप्तानि विधा यादौ यजेत्तानीष्टसिद्धये ॥ वदयुग्मं सदीर्घांबु स्मृतिवालावनंगतौ ॥४९॥
सत्यः सनेत्रो नस्तादृग्वा वाग्वर्णाद्यदीपिनी ॥ क्लिन्ने क्लेदिनि वैकुंठो दीर्घं स्वं सद्यगोंतिमः ॥५०॥
निद्रा सचंद्रा कुर्वीत शिवार्णा मध्यदीपिनी ॥ तारो मोक्षं च कुरुते नायं वर्णास्यदीपिनी ॥५१॥
दीपिनीमंतरा बाला साधितापि न सिद्धयति ॥ वागंत्यकामान्‍ प्रजयेदरीणां क्षोभहेतवे ॥५२॥
कामवाग्यंबीजानि त्रैलोक्यस्य वशीकृतौ ॥ कामांत्यवाणीबीजानि मुक्तये नियतो जपेत्‍ ॥५३॥
पूजारंभे तु बालायास्त्रिविधानर्चयेद्धुरुन्‍ ॥ दिव्यौघश्वैव सिद्धौघो मानवौघ इति त्रिधा ॥५४॥
परप्रकाशः परमे शानः परशिवस्तथा ॥ कामेश्वरस्ततो मोक्षः षष्ठः कामोऽमृतोंऽतिः ॥५५॥
एते दप्तैव दिव्यौघा आनन्दपदपश्चिमाः ॥ ईशानाख्यस्तत्पुरुषोऽघोराख्यो वामदेवकः ॥५६॥
सद्योजात इमे पंच सिद्धौघाख्याः स्मृता मुने ॥ मानवौघाः परिज्ञेयाः स्वगुरोः सम्प्रदायतः ॥५७॥
नवयोन्यात्मके यन्त्रे विलिखे न्यध्ययोनितः ॥ प्रादक्षिण्येन बीजानि त्रिवारं साधकोत्तमः ॥५८॥
त्रींस्त्रीन्वर्णांस्तु गायत्र्या अष्टपत्रेषु संलिखेत्‍ ॥ बहिर्मातऋकयाऽऽवेष्टय तद्वहिर्भूपुरद्वयम्‍ ॥५९॥
कामबीजलसत्कोण व्यतिभिन्नं परस्परम्‍ ॥ पत्रे त्रैपुरमाख्यातं जपसंपातसाधितम्‍ ॥६०॥
बाहुना विधृते दद्याद्धनं कीर्ति सुखं सुतान्‍ ॥ कामांते त्रिपुरा देवी विद्महे कविषं भहिम्‍ ॥६१॥
बकः खङी समारुढः सनेत्रोऽग्निश धीमहि ॥ तत्र प्रचोदांते यादित्येषा प्रकीर्तिता ॥६२॥
गायत्री त्रैपुरा सर्वसिद्धिदा सुरसेविता ॥ अथ लक्ष्म्यवतारोऽन्यः कीर्त्यते सिद्धिदो नृणाम्‍ ॥६३॥
वेदादिर्गिरिजा पद्मा मन्मथो त्दृदयं भृगुः ॥ भगवति माहेश्वरी ङेन्तेऽन्नपूर्णें दहनांगना ॥६४॥
प्रोक्ता विंशतिवर्णेयं विद्या स्याद्दुहिणो मुनिः ॥ धृतिश्र्छंदोऽन्नपूर्णेशी देवता परिकीर्तिता ॥६५॥
षडूदीर्घा ढ्येन हल्लेखाबीऽजेन स्यात्षंडगकम्‍ ॥ मुखनासक्षिकर्णांसगुदेषु नवसु न्यसेत्‍ ॥६६॥
पदानि नव तद्वर्णसंख्येदानीमुदीर्यते ॥ भूमिचंद्रधरै काक्षिवेदाब्धियुगबाहुभिः ॥६७॥
पदसंख्यामिता वर्णैस्ततो ध्यायेत्सुरेश्वरीम्‍ ॥ स्वर्णाभांगां त्रिनयनां वस्त्रालंकारशोभिताम्‍ ॥६८॥
भूरमासं युतां देवीं स्वर्णामत्रकरांबुजाम्‍ ॥ लक्षं जपोऽयुतं होमो घृताक्तचरुणा तथा ॥६९॥
जयादिनाशक्तयाढ्ये पीठे पूजा समीरिता ॥ त्रिकोणा वेदपत्राष्टपत्रषोडशपत्रके ॥७०॥
भूपुरेण युते यंत्रे प्रदद्यान्मायया मनुम्‍ ॥ अग्न्यादिकोणत्रितये शिववाराहमाधवान्‍ ॥७१॥
अचर्ययेत्स्वस्वमंत्रैस्तु प्रोच्यंते मनवस्तु ते ॥ प्रणवो मनुचन्द्राढ्यं गगनं ह्रदयं शिवा ॥७२॥
मारुतः शिवमंत्रोऽयं सप्तार्णः शिवपूजये ॥ वाराहनारायणयोर्मंत्रौ पूर्व मुदीरयेत्‍ ॥७३॥
षडंगानि ततोऽभ्यर्च्य वामे दक्षे धरां रमाम्‍ ॥ यजेत्स्वमनुभ्यां तु तावुच्यंते मुनीश्वर ॥७४॥
अन्नं मह्यन्नेमित्युक्ता मे देह्यन्नाधिपोर्णकाः ॥ नयेममंन्न प्राणांते दापयानलसुंदरी ॥७५॥
द्वाविंशत्यक्षरो मंत्रो भूमीष्टौ भूमिसंपुटः ॥ लक्ष्मीष्टौ श्रीपुटो विप्र स्मृतिर्लभेनुचंद्रयुक्‍ ॥७६॥
भुवो बीजमिति प्रोक्तं श्रीबीजं प्रागुदाह्रतम्‍ ॥ मंत्रादस्थचतुर्बीजपूर्विकाः परिपूजयेत्‍ ॥७७॥
शक्तिश्वतस्त्रो वेदास्त्रे परा च भुवनेश्वरी ॥ कमला सुभगा चति ब्राह्मयाद्या अष्टपत्रगाः ॥७८॥
षोडशारे स्मृते चव मानदातुष्टिपुष्टयः ॥ प्रीती रतिर्ह्रीः श्रीश्वापि स्वधा स्वाहा दशम्यथ ॥७९॥
ज्योत्स्रा हैमवती छाया पूर्णिमा संहतिस्तथा ॥ अमावास्येति संपूज्या मंत्रेशे प्राणपूर्विका ॥८०॥
भृपुरे लोकपालाः स्युस्तदस्त्राणि तदग्रस्तः इत्थं जपादिभिः सिद्धे मंत्रेऽस्मिन्धनसंचयैः ॥८१॥
कुबेरसदृशौ मंत्री जायते जनवंदितः ॥अथ लक्ष्म्यवतारोऽन्यः कीर्त्यते मुनिसत्तम ॥८२॥
प्रणवः शांतिरुणाक्रियाढ्याचन्द्रभूषिताः ॥ बगलामुखिसर्वांते इंधिकाह्रादिनीयुता ॥८३॥
पीताजरायुक्‌प्रतिष्ठा पुनर्दीर्घोदसंयुता ॥ वाचं पदं स्तंभयांते जिह्रापदं वदेत्‍ ॥८४॥
कीलयेति च बुद्धिं विनाशयांते स्वबीजकम्‍ ॥ तारोऽग्निसुंदरी मंत्रो बगलायाः प्रकीर्तितः ॥८५॥
मुनिस्तु नारदश्वदो बृहती बगलामुखी ॥ देवता नेत्रपंचेषुनवपंचदिगर्णकैः ॥८६॥
अंगानि कल्पयित्वा च ध्यायेत्पीताम्बरां ततः ॥ स्वर्णसनस्थां हेमाभां स्तंभिनीमिंदुशेखराम्‍ ॥८७॥
दधतीं पाशं वज्रं च रसनां करैः ॥ एवं ध्यात्वा जपेल्लक्षमयुतं चंपकाद्धवैः ॥८८॥
कुसुमैर्जुहुयात्पीठे बालायाः पूजयेदिमाम्‍ ॥ चंदनागुरुचंद्राघैः पूजार्थ यंत्रमालिखेत्‍ ॥८९॥
त्रिकोणषड्‌दलाष्टास्त्रषोडशारे यजोदिमाम्‍ ॥ मंगला स्तंभिनी चैव जृंभिणी मोहिनी तथा ॥९०॥
वश्या चला बलाका च भूधरा कल्मशाभिधा ॥ धात्री च कलना कालकर्षिणी भ्रामिकापि च ॥९१॥
मंदगापि च भोगस्था भाविका षोडशी स्मृता ॥ भूगृहस्य चतुर्दिक्षु पूर्वादिषु यजेत्क्रमात्‍ ॥९२॥
गणेशं बटुकं चापि योगिनीः क्षेत्रपालकम्‍ ॥ इंद्रादींश्व ततो बाह्ये निजायुधसमन्वितान्‍ ॥९३॥
इत्थं सिद्धे मनौ मंत्री स्तंभयेद्देवतादिकान्‍ ॥ पीतवस्त्रपदासीनः पीतमाल्यानुलेपनः ॥९४॥
पीतपुष्पैर्यजेद्देवीं हरिद्रोत्थस्त्रजा जपेत्‍ ॥ पीतां ध्यायन्भगवतीं पयोमध्येऽयुतं जपेत्‍ ॥९५॥
त्रिमध्वा ज्यतिलैर्होमो नृणां वश्यकरो मतः ॥ मधुरत्रितयाक्तिः स्यादाकर्षो लवर्णैर्धुवम्‍ ॥९६॥
तैलाभ्यकैर्निम्बपत्रैर्होमो विद्वेषकारकः ॥ ताललोण हरिद्राभिर्द्विषां संस्तंभनं भवेत्‍ ॥९७॥
आगारधूमं राजीश्व माहिष गुग्गुले निशि ॥ श्मशाने पावके हुत्वा नाशयेदचिरादरीन्‍ ॥९८॥
गरुतो गृध्रकाकानां कटुतैलं विभीतकम्‍ ॥ गृहधूमं चितावह्रौ हुत्वा प्रोच्चाट्येद्रिपून्‌ ॥९९॥
दूवार्गुडूचीलाजान्यो मधुरत्रितयान्वितान्‍ ॥ जुहोति सोऽखिलान्‍ रोगान्‍ शमयेद्दर्शनादपि ॥१००॥
पर्वताग्रे महारण्ये नदीसंगे शिवालये ॥ ब्रह्मचर्यरतो लक्षं जपेदखिलसिद्धये ॥१०१॥
एक वर्णगवीदुग्धं शर्करामधुसंयुतम्‍ ॥ त्रिशंतं मंत्रितं पीतं हन्याद्विषपराभवम्‍ ॥१०२॥
श्वेतपालाशकाष्ठेन रचिते रम्यपादुके ॥ अलक्तरंजिते लक्षं मन्त्रयेन्मनुनामुना ॥१०३॥
तदारुढः पुमान्‍ गच्छेत्क्षणेन शतयोजनम्‍ ॥ पारदं च शिलां तालं पिष्टं मधुसमन्वितम्‍ ॥१०४॥
मनुना मन्त्रयेल्लक्षं लिंतत्तेर्नाखिलां तनुम्‍ ॥ अदृश्यः स्यान्नृणामेष आश्वर्य्यं दृश्यतामिदम्‍ ॥१०५॥
षट्कोणं विलिखेद्वीजं साध्यनामान्वितं मनोः ॥ हरितालनिशा चूर्णैरुन्मत्तरससंयुतैः ॥१०६॥
शेषाक्षरैः समानीतं धरागेहविराजितम्‍ ॥ तद्यंत्रं स्थापितप्राणं पीतसूत्रेण वेष्ट्येत्‍ ॥१०७॥
भ्राम्यत्कुलालचक्रस्थां गृहीत्वा मृत्तिकां तथा ॥ रचयेदृष्टभं रम्यं यंत्रं तन्मध्यतः क्षिपेत्‍ ॥१०८॥
हरितालेन संलिप्य वृषं प्रत्यहमर्चयेत्‍ ॥ स्तंभयेद्विद्विषां वाचं गतिं कार्यपरंपराम्‍ ॥१०९॥
आदाय वामहस्तेन प्रेतस्थितकर्परम्‍ ॥ अंगारेण चितास्थेन तत्र यंत्रं समालिखेत्‍ ॥११०॥
मंत्रितं निहितं भूमौ रिपूणां स्तंभयेद्धतिम्‍ ॥ प्रेतवस्त्रे लिखेद्यंत्रं अंगारेणैव तत्पुनः ॥१११॥
मंडूकवदने न्यस्येत्पीतसूत्रेण वेष्टितम्‍ ॥ पूजितं पीतपुष्परैस्तद्वाचं संस्तंभयोद्दिषाम्‍ ॥११२॥
यद्धूमौ भाविता दिव्यं यंत्रं समालिखेत्‍ ॥ मार्जितं तद्दिषां पात्रौर्दिव्यस्तम्भनकृद्धवेत्‍ ॥११३॥
इन्द्रवारुणिकामूलं सप्तशी मनुमंत्रितम्‍ ॥ क्षिप्तंजले दिव्यकृतं जलस्तंभनकारकम्‍ ॥११४॥
किं बहूक्तया साधकेन मन्त्रः सम्यगुपासितः ॥ शत्रूणां गतिबुद्धयादेः स्तंभनो नात्र संशयः ॥११५॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रसाधननिरुपणं नाम षडशीतितमोऽध्यायः ॥८६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T04:40:42.1130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

bending method

  • नमन पद्धति 
RANDOM WORD

Did you know?

हिंदू धर्मात स्त्रियांना उपनयनाचा धर्मसंमत अधिकार का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site