TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
सप्तत्रिंशोऽध्यायः

श्री नारदीयमहापुराणम् - सप्तत्रिंशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


सप्तत्रिंशोऽध्यायः

सनक उवाच ॥

भूयः श़ृणुष्व विप्रेंद्र माहात्म्यं कमलापतेः ॥ कस्य नो जायते प्रीतिः श्रोतुं हरिकथामृतम् ॥

नराणां विषयान्धानां ममताकुलचेतसाम् ॥ एकमेव हरेर्नाम सर्वपापप्रणाशनम् ॥२॥

सकृद्वा न नमेद्यस्तु विष्णुं पापहरं नृणाम् ॥ श्र्वपचं तं विजानीयत्कदाचिन्नालपेच्च तम् ॥३॥

हरिपूजाविहीनं तु यस्य वेश्म द्विजोत्तम ॥ श्मशानसदृशं तद्धि कदाचिदपि नो विशेत् ॥४॥

हरिपूजाविहीनाश्र्च वेदविद्वेषिणस्तथा ॥ गोद्विजद्वेषनिरता राक्षसाः परिकीर्त्तिताः ॥५॥

यो वा को वापि विप्रेंन्द्र विप्रद्वेषपरायणः॥ समर्चयति गोविंद तत्पूजा विफला भवेत् ॥६॥

अन्यश्रेयोविनाशार्थं येऽर्चयंति जनार्दनम् ॥ सा पूजैव महाभाग पूजकानाशु हंति वै ॥७॥ ह

रिपूजाकरो यस्तु यदि पापं समाचरेत् ॥ तमेव विष्णुद्वेष्टारं प्राहुस्तत्त्वार्त्थकोविदाः ॥८॥

ये विष्णुनिरताः संति लोकानुग्रहतत्पराः ॥ धर्मकार्यरताः शश्र्वद्विष्णुरूपास्तु ते मताः ॥९॥

कोटिजन्मर्जितैः पुण्यैर्विष्णुभक्तिः प्रजायते ॥ दृढभक्तिमतां विष्णौ पापबुद्धिः कथं भवेत् ॥१०

जन्मकोट्यर्जितं पापं विष्णुपूजारतात्मनाम् ॥ क्षयं याति क्षणादेव तेषां स्यात्पापधीः कथम् ॥११

विष्णुभक्तिविहीना ये चंडालाः परिकीर्तिताः ॥ चंडाला अपि वै श्रेष्ठा हरिभक्तिपरायणाः ॥२॥

नराणां विषयांधानां सर्वदुःखविनाशिनी ॥ हरिसेवेति विख्याता भुक्तिमुक्तिप्रदायिनी ॥३॥

संगात्स्नेहाद्भयाल्लोभादज्ञानाद्वापि यो नरः ॥ विष्णोरुपासनं कुर्यात्सोऽक्षयं सुखमश्नुते ॥४॥

हरिपादोदकं यस्तु कणमात्रं पिबेदपि ॥ स स्नातः सर्वतीर्थेषु विष्णोः प्रियतरो भवेत् ॥५॥

अकालमृत्युशमनं सर्वव्याधिविनाशनम् ॥ सर्वदुःखोपशमनं हरिपादोदक स्मृतम् ॥६॥

नारायणं परं धाम ज्योतिषां ज्योतिरूत्तमम् ॥ ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्र्वती ॥७॥

अत्राप्युदाहरंतीममितिहासं पुरातनम् ॥ पठतां श़ृष्वतां चैव सर्वपापप्रणाशनम् ॥८॥

आसीत्पुरा कृतयुगे गुलिको नाम लुब्धकः ॥ परदारपरद्रव्यहरणे सततोद्यतः॥९॥

परनिंदापरो नित्यं जन्तूपद्रवकृत्तथा ॥ हतवाप्ब्राह्मणान् गाश्र्च शतशोऽथ सहस्रशः ॥२

देवस्वहरणे नित्यं परस्वहरणे तथा ॥ उद्युक्तः सर्वदा विप्र कीनाशानामधीश्र्वरः ॥२

तेन पापान्यनेकानि कृतानि सुमहांति च ॥ न तेषां शक्यते वक्तुं संख्या वत्सरकोटिभिः ॥२२॥

स कदा चिन्महापापो जतृनामन्तकोपमः ॥ सौवीरराज्ञो नगरं सर्वैश्र्वर्यसमन्वितम् ॥२३॥

योषिद्भिषितार्भिश्र्च सरोभिनिर्मलोदकैः ॥ अलंकृतं विपणिभिर्ययौ देवपुरोपमम् ॥२४॥

तस्योपवनमध्यस्थं रम्यं केशवमंदिरम् ॥ छादितं हेमकलशैर्दृष्ट्वा व्याधो मुदं ययौ ॥२५॥

हराम्यत्र सुवर्णानि बहुनीति विनिश्र्चितम् ॥ जगामाभ्यंतरं तस्य कीनाशश्र्चौर्यलोलुपः॥२६॥

तत्रापश्यद्विजवरं शांतं तत्त्वार्थकोविदम् ॥ परिचर्यापरं विष्णोरुत्तकं तपसां निधिम् ॥२७॥

एकाकिनं दयालुं च निस्पृहं ध्यानलोलुपम् ॥ चौर्यान्तरायकर्तारं तं दृष्ट्वा लुब्धको मुने ॥२८॥

द्रव्यजातं तु देवस्य हर्तुकामोऽतिसाहसी ॥ उत्तकं हंतुमारेभे विधुतासिर्मदोद्धतः॥२९॥

पादेनाक्रम्य तद्वक्षो जटाः संगृह्य पाणिना ॥ हंतुं कृतमतिं व्याधमुत्तकः प्रेक्ष्य चाब्रवीत् ॥३

उत्तंक उवाच ॥

भो भो साधे वृथा मां त्वं हनिष्यसि निरागसम् ॥ मया किमपरा ते तद्वदस्व महामते ॥३

कृतापराधिनां लोके शक्ताः शिक्षां प्रकुर्वते ॥ नहि सौम्य वृथा घ्नंति सज्जना अपि पापिनः ॥३२॥

विरोधिष्वपि मूर्खेषु निरीक्ष्यवास्थितान् गुणान् ॥ विरोधं नहि कुर्वंति सज्जनाः शांतचेतसः॥३३॥

बहुधा बोध्यमानोऽपि यो नरः क्षमयान्वितः ॥ तमुत्तमं नरं प्राहुर्विष्णोः प्रियतरं सदा ॥३४॥

सुजनो न याति वैरं परहितबुद्धिर्विनाशकालेऽपि ॥ छेदेऽपि चंदनतरुः सुरभयति मुखं कुठारस्य ॥३५॥

अहो विधिः सुबलवान्बाधते बहुधा जनान् ॥ सर्वसंगविहीनोऽपि बाध्यते हि दुरात्मना ॥३६॥

अहो निष्कारणं लोके बांधते बहुधा जनान् ॥ सर्वसंगविहीनोऽपि बाध्यते पिशुनैर्जनैः ॥ तत्रापि साधून्बाधंते न समानान्कदाचन ॥३७॥

मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम् ॥ लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥३८॥

अहो बलवती माया मोहयत्यखिलं जगत् ॥ पुत्रमित्रकलत्रार्थं सर्वं दुःखेन योजयेत् ॥३९॥

परद्रव्यापहारेण कलत्रं पोषितं त्वया ॥ अंते तत्सर्वमुत्सृज्य एक एव प्रयाति वै ॥४

मम माता मम पिता मम भार्या ममात्मजाः ॥ ममेदमिति जंतूनां ममता बाधते वृथा ॥४

यावदर्जयति द्रव्यं बांधवास्तावदेव हि ॥ धर्माधर्मौ सहैवास्तमिहामुत्र न चापरः॥४२॥

धर्माधर्मार्जितैद्रव्यैः पौषिता येन ये नराः ॥ मृतमग्निमुखे हुत्वा घृतान्नं भुंजते हि ते ॥४३॥

गच्छंतं परलोकं च नर तु ह्यनुतिष्ठतः ॥ धर्माधर्मौ न च धनं न पुत्रा न च बांधवाः ॥४४॥

कामः समृद्धिमायाति नराणां पापकर्मिणाम् ॥ कामः संक्षयमायाति नराणां पुण्यकर्मणाम् ॥४५॥

वृथैव व्याकुला लोका धनादीनां सदार्जने ॥४६॥

यद्भावि तद्भवत्येव यदभाव्यं न तद्भवेत् ॥ इति निश्र्चितबद्धीनां न चिंता बाधते क्वचित् ॥४७॥

देवाधीनमिदं सर्वं जगत्स्थावरजंगमम् ॥ तस्माज्जन्म च मृत्युं च दैवं जानाति नापरः ॥४८॥

यत्र कुत्र स्थितस्यापि यद्भाव्यं तद्भवेद् ध्रुवम् ॥ लोकस्तु तत्र विज्ञाय वृथायांस करोति हि ॥४९॥

अहो दुःखं मनुष्याणां ममताकुलचेतसाम् ॥ महापापानि कृत्वापि परान्पुष्यंति यत्नतः ॥५

अर्जितं च धनं सर्वं भुंजते बांधवाः सदा ॥ स्वयमेकतमो मूढस्तत्पापफलमश्र्नुते ॥५

इति ब्रुवाणं तमुषिं विमुच्य भयविह्वलः ॥ गुलिकः प्रांजलिः प्राह क्षमस्वेति पुनः पुनः ॥५२॥

सत्संगस्य प्रभावेण हरिसन्निधिमात्रतः ॥ गतपापो लुब्धकश्र्च ह्यनुतापीदमब्रवीत् ॥५३॥

मया कृतानि पापानि महांति सुबहूनि च ॥ तानि सर्वाणि नष्टानि विप्रेंद्र तव दर्शनात् ॥५४॥

अहोऽहं पापधीर्नित्यं महापापमुपाचरम् ॥ कथं मे निष्कृति र्भूयो यामि कं शरणं विभोः ॥५५॥

पूर्वजन्मार्जितैः पापैर्लुब्धकत्वमवाप्तवान् ॥ अत्रापि पापजालानि कृत्वा कां गतिमाप्नुयाम् ॥५६॥

अहो ममायुः क्षयमेति शीघ्रं पापान्यनेकानि समर्ज्जितानि ॥ प्रतिक्रिया नैव कृता मयैषां गतिश्र्च का स्यान्ममजन्म किं वा ॥५७॥

अहो विधिः पापशता कुलं मां किं सृष्टवान्पापतरं च शश्र्वत् ॥ कथं च यत्पापफलं हि भोक्ष्ये कियत्सु जन्मस्वहमुग्रकर्मा ॥५८॥

एवं विनिंदन्नात्मानमात्मना लुब्धकस्तदा ॥ अंतस्तापाग्निसंतप्तः सद्यः पंचत्वमागतः ॥५९॥

उत्तंकः पतितं प्रेक्ष्य लुब्धकं तं दयापरः ॥ विष्णुपादोदकैनैवमभ्यषिंचन्महामतिः॥६

हरिपादोदकस्पर्शाल्लुब्धको गतकल्मषः॥ दिव्यं विमानमारुह्य मुनिमेतदथाब्रवीत् ॥६

गुलिक उवाच ॥

उत्तंक मुनिशार्दूल गुरुस्त्वं मम सुव्रत ॥ विमुक्तस्त्वत्प्रसादेन महापातककंचुकात् ॥६२॥

गतस्त्वदुपदेशान्मे संतापो मुनिपुंगव ॥ तथैव सर्वपापानि विनष्टान्यतिवेगतः ॥६३॥

हरिपादोदकं यस्मान्मयि त्वं सिक्तवान्मुने ॥ प्रापितोऽस्मि त्वया तस्मात्तद्विष्णोः परमं पदम् ॥६४॥

त्वयाहं तारितो विप्र पापादस्माच्छरीरतः ॥ तस्मान्नतोऽस्मि ते विद्वन्मत्कृतं तत्क्षमस्व च ॥६५॥

इत्युक्त्वा देवकुसुमैर्मुनिश्रेष्ठं समाकिरन् ॥ प्रदक्षिणात्रयं कृत्वा नमस्कारं चकार सः ॥६६॥

ततो विमानमारुह्य सर्वकामसमन्वितम् ॥ अप्सरोगणसंकीर्णः प्रपेदे हरिमंदिरम् ॥६७॥

एतदृष्ट्वा विस्मितोऽसौ ह्युंत्तंकस्तपसांनिधिः॥ शिरस्यंजलिमाधाय तुष्टाव कमलापतिम् ॥६८॥

तेन स्तुतो महाविष्णुर्दत्तवान्वरमुत्तमम् ॥ वरेण तेनोत्तंकोऽपि प्रपेदे परमं पदम् ॥६९॥

इति श्री बृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्ये सप्तत्रिंशोऽध्यायः॥३७

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:52:17.2730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खूशबुदी

  • सुखी करणें ( फा .) 
RANDOM WORD

Did you know?

Request for Anagha Ashtami Puja vrat Sagrasangit Puja
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site