TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
एकोनाशीतितमोऽध्यायः

श्री नारदीयमहापुराणम् - एकोनाशीतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


एकोनाशीतितमोऽध्यायः
सनत्कुमार उवाच ॥
अथापरं वायुसूनोश्वरितं पापनाशनम्‍ ॥ यदुक्तं स्वासु रामेण आनन्दवनवासिना ॥१॥
सद्योजाते महाकल्पे श्रुतवीर्ये हनूमति ॥ मम श्रीरामचन्द्रस्य भक्तिरस्तु सदैव हि ॥२॥
श्रृणुष्व गदतो मत्तः कुमारस्य कुमारक ॥ चरितं सर्वपापघ्नं श्रृण्वतां पठतां सदा ॥३॥
वांछाम्यहं सदा विप्र संगमं कीशरुपिणा ॥ रहस्यं रहसि स्वस्य ममानन्दवनोत्तमे ॥४॥
परितेऽत्र सखायो मेम सख्यश्व विगतज्वराः ॥ क्रींडति सर्वदा चात्र प्राकट्येऽपि रहस्यपि ॥५॥
कस्मिंश्विदवतारे तु यदृत्तं च रहो मम ॥ तदत्र प्रकटं करोमि प्रीतमानसः ॥६॥
आविर्भूतोऽरम्यहं पूर्वं राज्ञो द्शरथक्षये ॥ चतुर्यूहात्मकस्तत्र तस्य भार्यात्रये ॥७॥
ततः कतिपयैरब्दैरागतो द्विजपुंगवः ॥ विश्वामित्रोऽर्थयामास पितरं मम भूपतिम्‍ ॥८॥
यक्षरक्षोविघातार्थं लक्ष्मणेन सद्दैव माम ॥ प्रेशयामास धर्मात्मा सिद्धाश्रमम रष्यकम्‍ ॥९॥
तत्र गत्वाश्रममृषेर्द्वषयन्तीं निशाचरौ ॥ ध्वस्तौ सुबाहुन्मारीचौ प्रसन्नोऽभूत्तदा मुनिः ॥१०॥
अस्त्रग्रामं ददौं मासं चावासयत्तथा ॥ ततो गाधिसुतो धीमान्‍ ज्ञात्वा भाव्यर्थमादरात्‍ ॥११॥
मिथिलामनयत्तत्र रौद्रं चादर्शयद्धनुः ॥ तस्य कन्यां पणीभूतां सीतां सुरसुतोपमाम्‍ ॥१२॥
धनुर्विभज्यं समिति लब्धवान्मानिनोऽस्य च ॥ ततो मार्गे भृगुपर्दर्प्पमूढं चिरं स्मयन्‍ ॥१३॥
व्यपनीयागमं पश्वादयोध्यां स्वपितुः ॥ पुरीम्‍ ॥ ततो राज्ञाहमाज्ञाय प्रजाशीलनमानसः ॥१४॥
यौवरान्ये स्वयं प्रीत्या सम्मंत्र्याप्तैर्विकल्पितः ॥ तच्छुत्वा सुप्रिया भार्या कैकेयी भूपतिं मुने ॥१५॥
देवकार्यविधानार्थं विदूषिमतिर्जगौ ॥ पुत्रौ मे भरतो नाम यौवराज्येऽभिषिच्यताम्‍ ॥१६॥
रामश्वतुर्दशसमा दंडकान्प्रविवास्यताम्‍ ॥ तदाकर्ण्या हमुद्याक्तोऽरण्यं भार्यानुजान्वितः ॥१७॥
गंतुं नृपतिनानुक्तोऽप्यगमं चित्रकूटकम्‍ ॥ तत्र नित्यं वन्यफलैर्मासेश्वावतिंतक्रियः ॥१८॥
निवसन्नेव राज्ञस्तु निधनं चाप्यवागमम्‍ ॥ ततो भरतशत्रुघ्नौ भ्रातरौ मम मानदौ ॥१९॥
मांतृवर्गयुतौ दीनौ साचार्यामात्यनागरौ ॥ व्यजिज्ञपतमागत्य पंचवट्यां निजाश्रमम्‍ ॥२०॥
अकल्पयं भ्रातृभार्यासहितश्व त्रिवत्सरम्‍ ॥ ततस्त्रयोदशे वर्षे रावणो नाम राक्षसः ॥२१॥
मायया ह्रतवान्सीतां प्रियां मम परीक्षतः ॥ ततोऽहं दीनवदन ऋष्यमूकं हि पर्वतम्‍ ॥२२॥
भार्यामन्वेषयन्प्राप्तः सख्यं हर्यधिपेन च ॥ अथ वालिनमाहत्य सुग्रीव स्तत्पदे कृत ॥२३॥
सह वानरयूथैश्व साहाय्यं कृतवान्मम्‍ ॥ विरुध्य रावणेनालं मम भक्तो विभीषणः ॥२४॥
आगतो ह्रभिषिच्याशु लंकेशी हि विकल्पितः ॥ हत्वा तु रावणं संख्ये सपुत्रामात्यबांधवम्‍ ॥२५॥
सीतामादाय संशुद्धामयोध्यां समुपागतः ॥ ततः कालांतरे विप्र सुग्रीवश्व विभीषणः ॥२६॥
निमंत्रितौ पितुः श्राद्धे षट्‌कुलाश्व द्विजोत्तमः ॥ अयोध्यायां समाजमुस्तें तु सर्वे निमंत्रिताः ॥२७॥
ऋते विभीशणं तत्र चिंतयाने रघूत्तमे ॥ शंभुर्ब्राह्मणरुपेण षट्‌कुलैश्व सहागतः ॥२८॥
अथ पृष्टो मया शंभुर्विभीषणसमागमे ॥ नीत्वा मां द्रविडे देशे मोचय द्विजबंध नात्‍ ॥२९॥
मया निमंत्रिताः श्राद्धे ह्यगस्त्याद्या मुनीश्वराः ॥ संभोजितास्तु प्रययुः स्वस्वमाश्रममंडलम्‍ ॥३०॥
ततः कालांतरे विप्रा देवा दैत्या नरेश्वराः ॥ गौतमे समाहूताः सर्वे यज्ञसभाजिताः ॥३१॥
ते सर्वे स्फटिकं लिंगं त्र्यंबकाद्रौ निवेशितम्‍ ॥ संपूज्य न्यवंसस्तत्र देव दैत्यनृपाग्रजाः ॥३२॥
तस्मिन्समाजे वितते सर्वैलिगें समर्चिते ॥ गौतमोऽप्यथ मध्याह्रे पूजयामासं शंकरम्‍ ॥३३॥
सर्वे शुल्कांबरधरा भस्मो द्धूलितविग्रहाः ॥ सितेन भस्मना कृत्वा सर्वस्थान त्रिपुंड्रकम ॥३४॥
नत्वा तु भार्गवं सर्वे भूतशुद्धिं प्रचक्रमुः ॥ ह्रत्पद्ममध्ये सुषिरं तत्रैव भूत पञ्चकम्‍ ॥३५॥
तेषां मध्ये महाकाशमाकाशे निर्मलामलम्‍ ॥ तन्मध्ये च महेशानं ध्यायेद्दीप्तिमयं शुभम्‍ ॥३६॥
अज्ञानसंयुतं भूतं समलंकर्मसंगतः ॥ तं देहमाकाशदीपे प्रदहेज्ज्ञानवह्रिना ॥३७॥
आकाशस्यावृतिं चाहं दग्ध्वाकाशमथो दहेत्‍ ॥ दग्ध्वाकाशमथो वायुमग्निभूतं तथा दद्देत ॥३८॥
अब्भूतं च ततो दग्ध्वा पृथिवीभूतमेव च ॥ तदाश्रितान्गुणान्दग्ध्वा ततो देहं प्रदाहयेत्‍ ॥३९॥
एवं प्रदग्ध्वा भूतादिं देही तज्ज्ञानवह्रिना ॥ शिखामध्यस्थितं विष्णुमानंददरसनिर्भरम्‍ ॥४०॥
निष्पन्नचंद्रकिरणसंकाशकिरणं शिवम्‍ ॥ शिवांगोत्पन्नकिरणैमृतद्रवसंयुतैः ॥४१॥
सुशीतला ततरे ज्वाला प्रशांता चंद्रश्मिवत ॥ प्रसारितसुधारुग्भिः सांद्रीभूतश्व संपल्वः ॥ अनेन प्लवितं भूतग्रामं संचिंतयेत्परम्‍ ॥४२॥
इत्थं कृत्वा भूतशुद्धिं क्रियार्हो मर्त्यः शुद्धो जायते ह्येव सद्यः ॥ पूजां कर्तुं जप्यकर्मापि पश्वादेवं ध्यायेद्धह्यहत्यादिशुद्धयै ॥४३॥
एवं ध्यात्वा चंद्रदीप्तिप्रकाशं ध्यानेनारोप्याशु लिंगे शिवस्य ॥ सदाशिवं दीपमध्ये विचिंत्य पञ्चाक्षरेणार्चनमव्ययं तु ॥४४॥
आवाहनादीनुपचारांरतथापि कृत्वा स्नानं पूर्ववच्छंकरस्य ॥ औदुंबरं राजतं स्वर्णपीठं वस्त्रादिच्छन्नं सर्वमेवेह पीठम्‍ ॥४५॥
अंते कृत्वा बुद्‌बुदाभ्यां च सृष्टिं पीठे पीठे नागमेकं पुरस्तात्‍ ॥ कुर्यात्पीठे चोर्द्धके नागयुग्मं देवाभ्याशे दक्षिणे वामतश्व ॥४६॥
जपापुष्पं नागमध्ये निधाय मध्ये वस्त्रं द्वादशप्रातिगुण्यः ॥ सुश्वेतेन तस्य मध्ये महेशं लिंगाकारं पीठयुक्तं प्रपूज्यम्‍ ॥४७॥
एवं कृत्वा साधकास्ते तु सर्वे दत्त्वा पंचगंधाष्टगंधम्‍ ॥ पुष्पैः पत्रैः श्रीतिलैरक्षतेश्व तिलोन्मिश्रैः केवलैश्व प्रपूज्य ॥४८॥
धूपं दत्त्वा विधिवत्संप्रयुक्तं दीपं दत्ता चोक्तमेवोपहारम्‍ ॥ पूजाशेषं ते समाप्याथ सर्वे गीतं नृत्यं तत्र तत्रापि चक्रुः ॥४९॥
काले चास्मिन्सुव्रते गौतमस्य शिष्यः शंकरात्मेति नाम्ना ॥५०॥
उन्मत्तवेषो दिग्वासा अनेकां वृत्तिमास्थितः क्कचिद्दिजातिप्रवरः क्कचिंच्चंडालसन्निभः ॥५१॥
क्कचिच्छद्रसमो योगी तापसः क्कचिदप्युत ॥ गर्जत्युत्पतते चैव नृत्यति स्तौति गायति ॥५२॥
रोदिति श्रृणुतेऽयुक्तं  पतत्यु त्तिष्टति क्कचित्‍ ॥ शिवज्ञानैकसंपन्नः परमानंदनिर्भरः ॥५३॥
संप्राप्तो भोज्यवेलायां गौतमस्यांतिकं ययौ ॥ बुभुजे गुरुणा साकं क्कचिदुच्छिष्ट मेव च ॥५४॥
क्क्चिल्लिहति तत्पात्रं तूष्णीमेवाभ्यगात्काचित ॥ हस्तं गृहीत्वैव गुरौः स्वयमेवाभुनक्क्कचित्‍ ॥५५॥
क्कचिद्‍ गृहांतरे मूत्रं क्कचित्कर्दमले पनम्‍ ॥ सर्वदा तं गुरुर्दृष्ट्रा करमालंव्य मंदिरम्‍ ॥५६॥
प्रविश्य स्वीयपीठ तमुपवेश्याप्यभोजयत ॥ स्वयं तदस्य पात्रेण बुभुजे गौतमो मुनिः ॥५७॥
तस्य चित्तंपरिज्ञांतु कदाचिदथ सुंदरी ॥ अहल्या शिष्यमाहूय भुङ्‌क्ष्वेति प्राह तं मुदा ॥ निर्दिष्टो गुरुपत्न्या तु बुभुजे सोऽविशेषतः ॥५८॥
यथा पपौ हि पानीयं तथा वह्रिमपि द्विज ॥ कंटकानन्नबद्धुक्ता यथा पूर्वमतिष्ठत्‍ ॥५९॥
पुरो हि मुनिकन्याभिराहूतो भोजनाय च ॥ दिनेदिने तत्प्रदत्तं लोष्टमंबु च गोमयम्‍ ॥६०॥
कर्दमं काष्ठदंडं च भुक्ता पीत्वाथ हर्षितः ॥ एतादृशो मुनिरसौ चंडालसदृशाकृतिः ॥६१॥
सुजीर्णोपानहौ हस्ते गृहीत्व प्रलपन्हसन्‍ ॥ अंत्यजोचितवेषश्व वृषपर्वाणमभ्यगात्‍ ॥६२॥
वृषपर्वेश्योर्मध्ये दिग्वासाः समतिष्ठत ॥ वृषपर्वा तमज्ञात्वा पीडयित्वा शिरोऽच्छिनत्‍ ॥६३॥
हते तस्मिन्द्विजश्रेष्ठे जगदेतच्चराचरम्‍ ॥ अतीव कलुषं ह्यासीत्तत्रस्था मुनयस्तथा ॥६४॥
गौतमस्य महाशोकः संजातः सुमहात्मनः ॥ निर्ययौ चक्षुषो वारि शोकं संदर्शयन्निव ॥६५॥
गौतमः सर्वदैत्यानां सन्निधौ वाक्यमुक्तवान्‍ ॥ किमनेत कृतं पापं येन च्छिन्नमिदं शिरः ॥६६॥
मम प्राणाधिकस्येहे सर्वदा शिवयोगिनः ॥ ममापि मरणं सत्यं शिष्यच्छद्मा यतो गुरुः ॥६७॥
शैवानां धर्मयुक्तानां सर्वदा शिववर्तिनाम्‍ ॥ मरणं यत्र दृष्टं स्यात्तत्र नो मरणं धुर्वम्‍ ॥६८॥
तच्छुत्वा ह्यसुराचार्यः शुक्रः प्राह विदांवरः ॥ एनं संजीवयिष्यामि भार्गवं शंकरप्रियम्‍ ॥६९॥
किमर्थं म्रियतें ब्रह्मन्पश्य मे तपसो बलम्‍ ॥ इति वादिनि विप्रेंद्रे गौतमोऽपि ममार ह ॥७०॥
तस्मिन्मृतेऽथ शुक्रोऽपि प्राणांस्तत्याज योगतः ॥ तस्यैवं हतिमाज्ञाय प्रह्यादाद्या दितीश्वराः ॥७१॥
देवा नृपा द्विजाः सर्वे मृता आसंस्तदद्धुतमः ॥ मृतमासीदथ बलं तस्य बाणस्य धीमतः ॥७२॥
अहल्या शोकसंतप्ता रुरोदाच्चैः पुनः पुनः ॥ गौतमेन महेशस्य पूजया पूजितो विभुः ॥७३॥
वीरभद्रो महायोगी सर्वं दृष्ट्रा चुकोप ह ॥ अहो कष्टमहोकष्टं महेशा बहवो हताः ॥७४॥
शिवं विज्ञापयिष्यामि तेनोक्तं करवाण्यथ ॥ इति निश्वित्य गतवान्मंदराचलमव्ययम्‍ ॥७५॥
नमस्कृत्वा विरुपाक्षं वृत्त सर्वमथोक्तवान्‍ ॥ ब्रह्मांण च हरिं तत्र स्थितौ प्राह शिवो व चः ॥७६॥
मद्धक्तैः साहसं कर्म कृतं ज्ञात्वा वरप्रदम्‍ ॥ गत्वा पश्यामि हे विष्णो सर्वं तत्कृतसाहसम्‍ ॥७७॥
इत्युक्ता वृषमारुह्य वायुना धूत चामरः ॥ नन्दिकेन सुवेषेण धृते छत्रेऽतिशोभने ॥७८॥
सुश्वेते हेमदंडे च नान्ययोग्ये धृते विभो ॥ महेशानुमतिं लब्ध्वा हरिर्नागांतके स्थितः ॥७९॥
आरक्तनीलच्छत्राभ्यां शुशुभे लक्ष्मकौस्तुभः ॥ शिवान्मत्या ब्रह्मापि हंसारुडोऽभवत्तद ॥८०॥
इद्रंगोपप्रभाकारच्छत्राभ्यां शुशुभे विधिः ॥ इन्द्रादिसर्वदेवाश्व स्वस्ववाहनसंयुताः ॥८१॥
अथ ते निर्ययुः सर्वे नानावाद्यानुमो दिताः ॥ कोटिकोटिगणाकीर्णा गौतमस्याश्रमं गताः ॥८२॥
ब्रह्मविष्णु महेशाना दृष्ट्रा तत्परमाद्दुतम्‍ ॥ स्वभक्तं जीवयामास वामकोणनिरीक्षणात्‍ ॥८३॥
शंकरो गौतमं प्राह तुष्टोऽहं ते वरं वृणु ॥ तदाकर्ण्य वचस्तस्य गौतमः प्राह सादरम्‍ ॥८४॥
यदि प्रसन्नो देवेश यदि देयो वरोमम ॥ त्वल्लिंगार्चनसामर्थ्यं नित्यमस्तु ममेश्वर ॥८५॥
वृतमेतन्मया देव त्रिनेत्र श्रृणु चापरम्‍ ॥ शिष्योऽयं महाभागो हेयादेयादिवर्जितः ॥८६॥
प्रेक्षणीयं ममत्वेन न च पश्यति चक्षुषा ॥ न घ्राणग्राह्यं देवेश न पातव्यं न चेतरत्‍ ॥८७॥
इति बुद्धया तथा कुर्वन्स हि योगी महाहशाः ॥ उन्मत्तविकृताकारः शंकरात्मेति कीर्तितः ॥८८॥
न कश्वित्तं प्रति द्वेषी न च तं हिंसयेदपि ॥ एतन्मे दीयतां देव मृतानाममूतिस्तथा ॥८९॥
तच्छुत्वोमापतिः प्रीतो निरीक्ष्य हरिमव्ययः ॥ स्वांशेन वायुना देहमाविशज्जगदीश्वरः ॥९०॥
हरिरुपः शंकरात्मा मारुतिः कपिसत्तमः ॥ पर्यायैरुच्यतेऽधीशः साक्षाद्विष्णुः शिवः परः ॥९१॥
आकल्पमेष प्रत्येकं कामरुपमुपाश्रितः ॥ ममाज्ञाकारको रामभक्तः पूजिताविग्रहः ॥९२॥
अनंतकल्पमीशानः स्थास्यति प्रीतमानसः ॥ त्वया कृतमिंदं वेश्म विस्तृतं सुप्रतिष्ठितम्‍ ॥९३॥
नित्यं वै सर्वरुपेण तिष्ठामः क्षणमादरात्‍ ॥ समर्चिताः प्रत्यास्यामः स्वस्ववासं ततः परम्‍ ॥९४॥
अथाबभाषे विश्वेशं गौतमो मुनिपुंगवः ॥ अयोग्यं प्रार्थयामीश ह्यर्थी दोषं न पश्यति ॥९५॥
ब्रह्माद्यलभ्यं देवेश दीयतां यदि रोचते ॥ अथेशो विष्णुमालोक्य गृहीत्वा तत्करं करे ॥९६॥
प्रहसन्नंबुजाभाक्षमित्युवाच सदाशिवः ॥ क्षामोदरोऽसि गोविंद देयं ते भोजनं किमु ॥९७॥
स्वयं प्रविश्य यदि वा स्वयं भुक्ष्व स्वगेहवत्‍ ॥ गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति ॥९८॥
इत्युक्ता तत्करालंबी ह्येकांतमगमद्विभुः ॥ आदिश्य नंदिनं देवो द्वाराध्यक्षं यथोक्तवत्‍ ॥९९॥
स गत्वा गौतमं वाथ ह्युक्तवान्विष्णुभाषणम्‍ ॥ संपादयान्नं देवेशा भोक्तु कामा वयं मुने ॥१००॥
इत्युक्तैकांतमगमद्वासुदेवेन शंकरः ॥ मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ ॥१०१॥
अन्योन्यं भाषणं कृत्वा प्रोत्तस्थतुरु भावपि ॥ गत्वा तडागं गंभीरं स्त्रास्यंतौ देवसत्तमौ ॥१०२॥
करांबुपातमन्योन्यं पृथक्कृत्वोभयत्र च ॥ मुनयो राक्षसाश्वैव जलक्रीडां प्रचक्रिरे ॥१०३॥
अथ विष्णुर्महेशश्व जलपानानि शीघ्रतः ॥ चक्रतुः शंकरः पद्मकिंजल्कांजलिना हरेः ॥१०४॥
अवाकिरन्मुखे तस्य पद्मोत्फुल्ल विलोचने ॥ नेत्रे केशरसंपातात्प्रमीलयत केशवः ॥१०५॥
अत्रांतरे हरेः स्कंधमारुरोह महेश्वरः ॥ हर्युत्तमांगं बाहुभ्यां गृहीत्वा संन्यमज्जयत ‍ ॥१०६॥
उन्मज्जयित्वा च पुनः पुनश्वापि पुनः पुनः ॥ पीडितः स हरिः सूक्ष्म पातयामास शंकरम्‍ ॥१०७॥
अथ पादौ गृहीत्वा तं भ्रामयन्विच कर्ष ह ॥ अताडयधरेर्वक्षः पातयामास चाच्युतम्‍ ॥१०८॥
अथोत्थितो हरिस्तोयमादायांजलिना ततः ॥ शीर्षे चैवाकिरच्छंभुमथ शंभुरथो हरिः ॥१०९॥
जलक्रीडैवमभवदथ चर्षिगणांतरे ॥ जलक्रीडासंभ्रमेण विस्त्रस्तजटंबधनाः ॥११०॥
अथ संभ्रमतां तेषामन्योन्यजटबंधनम्‍ ॥ इतरे तरबद्धासु जटासु च मुनीश्वराः ॥१११॥
शक्तिमंतोऽशक्तिमत आकर्षंति च सव्यथम्‍ ॥ पातयंतोऽन्यतश्वापि क्रोशंतो रुदतस्तथा ॥११२॥
एवं प्रवृत्ते तुमुले संभूते तोयकर्मणि ॥ आकाशे वानरेशस्तु ननर्त च ननाद च ॥११३॥
विंपची वादयन्वाद्यं ललितां गीतिमुज्जगौ ॥ सुगीत्या ललिता यास्त्यु अगायत विधा दश ॥११४॥
शुश्राव गीतिं मधुरां शंकरो लोकभावतः ॥ स्वयं गातुं हि ललितं मंदंमंदं प्रचक्रमे ॥११५॥
स्वयं गायति देवेशे विश्रामं गलदेशिकम्‍ ॥ स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतम्‍ ॥११६॥
स्वधारामृतसंयुक्तं गानेनैवमपोनयन्‍ । वासुदेवो मर्दलं च कराब्यामप्यवादयत्‍ ॥११७॥
अम्बुजांगश्वतुवक्रबुरुमुखरा बभा ॥ तानका गातमाद्यास्तु गायको वायुजोऽभवत ॥११८॥
गायके मधुरं गीतं हनूमति कपीश्वरे ॥ म्लामम्लानमभवत्कृशाः पुष्टास्तदाभवन्‍ ॥११९॥
स्वां स्वां गीतिमतः सर्वे तिरस्कृत्यैव मूर्च्छिताः ॥ तूष्नीभूतं समभवद्देवर्षिगणदानवम्‍ ॥१२०॥
एकः स हनुमान्‍ गाता श्रोतारः सर्व एव ते ॥ मध्याह्रकाले वितते गायमाने हनूमति ॥स्वस्ववाह नमारुह्य निर्गताः सर्वदेवताः ॥१२१॥
गानप्रियो महेशस्तु जग्राह प्लवगेश्वरम्‍ ॥ प्लवग त्वं मयाज्ञप्तो निःशंको वृषमारुह॥१२२॥
मम चाभिमुखी भूत्वा गायस्वानेकगायनम्‍ ॥ अथाह कपिशार्दूलो भगवंतं महेश्वर्म्‍ ॥१२३॥
वृषभारोहसामर्थ्यं तव नान्यस्य विद्यते ॥ तव वाहनमारुह्य पातकी स्यामहं विभो ॥१२४॥
मामेवारुह देवेश विहंगः शिवधारणः ॥ तव चाभिमुखं गानं करिष्यामि विलोकय ॥१२५॥
अथेश्वरो हनूमंतमारुरोह यथा वृषम्‍ ॥ आरुढे शंकरे देवे हनुमकंधरां शिवः ॥१२६॥
छित्वा त्वचं परावृत्य सुखं गायति पूर्ववत्‍ ॥ श्रृण्वन्गीतिसुधां शंभुर्गौत मस्य गृहं ततः ॥१२७॥
सर्वे चाप्यागतास्तत्र देवर्षिगणदानवाः ॥ पूजिता गौतमेनाथ भोजनावसरे सति ॥१२८॥
यच्छुष्कं दारुसंभूतं गृहोपकरणादिकम्‍ ॥ प्ररुढमभवत्सर्वं गायमने हनूमति ॥१२९॥
तस्मिन्गाने समस्तानां चित्रं दृष्टिरतिष्ठत ॥१३०॥
द्विबाहुरीशस्य पदाभिवंदनः समस्तगात्राभरणोपपन्नः ॥ प्रसन्नमूर्तिस्तरुणः सुमध्ये विन्यस्तमूर्द्धाजलिभिः शिरोभिः ॥१३१॥
शिरः कराभ्यां परिगृह्यं शंकरो हनूमतः पूर्वमुखः चकार ॥ पद्मासनसीनहनूमतोंऽजलौ निधाय पादं त्वपरं मुखे च ॥१३२॥
पादागुलीभ्यामथ नासिका विभुः स्त्रेहेन जग्राह च मन्दमन्दम्‍ ॥ स्कन्धे मुखे त्वंसतले च कण्ठे वक्षस्थले च स्तनमध्यमे ह्रदि ॥१३३॥
ततश्व कुक्षाव नाभिमंडले पादं द्वितीयं विदधाति चांजलौ ॥ शिरौ गृहीत्वाऽवनमय्य शंकरः पस्पर्श पृष्ठं चिबुकेन सोऽध्वनि ॥१३४॥
हारं च मुक्तापरिकल्पितं शिवो हनूमतः कंठगतं चकार ॥१३५॥
अथ विष्णुर्महेशानमिद वचनमुक्तवान्‍ ॥ हनूमता समा नास्ति कृत्स्नब्रह्माण्डमण्डले ॥१३६॥
श्रुतिदेवाद्यगम्यं हि पदं तव कपिस्थितम्‍ ॥ सर्वोपनिषदव्यक्तं त्वत्पदं कपि सर्वयुक्त ॥१३७॥
यमादिसाधर्नैर्योगैर्न क्षणं ते पदं स्थिरम्‍ ॥ महायोगिह्रदंभोजे परं स्वस्थं हनूमति ॥१३८॥
वर्षकोटिसहंस्त्र तु सहस्त्राब्दैरथा न्वहम्‍ ॥ भक्त्या संपूजितोऽपीश पादो नो दर्शितस्त्वया ॥१३९॥
लोके वादो हि सुमहाञ्छंभुर्नारायणाप्रियः ॥ हरिप्रियस्तथा शंभुर्न तादृग्भाग्य मस्ति मे ॥१४०॥
तच्छुत्वा वचनं शंभुर्विष्णोः प्राह मुदान्वितः ॥ न त्वया सदृशो मह्यं प्रियोऽन्योऽस्ति हरे क्कचित्‍ ॥१४१॥
पार्वती वा त्वया तुल्यावर्तते नैव भिद्यते ॥ अथ देवाय महते गौतमः प्रणिपत्य च ॥१४२॥
व्या जिज्ञपदमेयात्मन्देवैर्हि करुणानिधे ॥ मध्याह्रोऽयं व्यतिक्रांतो भुक्तिवेलाखिलस्य च ॥१४३॥
अथाचम्य महादेवो विष्णुना सहितो विभुः ॥ प्रविश्य गौतमगृहं भोजनायोपचक्रमे ॥१४४॥
रत्नांगुलीयैरथ नूपुराभ्यां दुकूलंबधेन तडित्सुकांच्या ॥ हारैरैनेकैरथ कण्ठनिष्कज्ञोपवीतोत्तरवाससीच ॥१४५॥
विलंबिचंचन्मर्णिकुंडलेन सुपुष्पधम्मिल्लवरेण चैव ॥ पंचांगगंधस्य विलेपनेन बाह्यगदैः कंकणकांगुलीयैः ॥१४६॥
अथो विभूषितः शिवो निविष्ट उत्तमासने ॥ स्वसंमुखं हरिं तथा न्यवेशयद्वरासने ॥१४७॥
देव श्रेष्ठौ हरीशौ तावन्योन्याभिमुखस्थितौ ॥ सुवर्णभाजनस्थान्नं ददौ भक्त्या स गौतमः ॥१४८॥
त्रिंशत्प्रभेदान्भक्ष्यांस्तु पायसं च चतुर्विधम्‍ ॥ सुपक्कं पाकजातं च कल्पितं यच्छतद्वयम्‍ ॥१४९॥
अपक्कं मिश्रकं तद्वत्रिंशतं परिकल्पितम्‍ ॥ शतं शतं सुकन्दानां शाकानां च प्रकल्पितम्‍ ॥१५०॥
पंचविंशतिधा सर्पिःसंस्कृतं व्यंजनं तथा ॥ शर्कराद्यं तथा चूतमो चाखर्जूरदाडिमम्‍ ॥१५१॥
द्राक्षेक्षुनागरंगं च मिष्टं पक्कं फलोत्करम्‍ ॥ प्रियालकं जम्बुफलं विकंकतफलं तथा ॥१५२॥
एवमादीनि चान्यानि द्रव्याणीशे समर्प्य च ॥ दत्वापोशानकं विप्रो भुंजध्वमिति चाब्रवीत्‍ ॥१५३॥
भुजातेषु च सर्वेषु व्यजनं सूक्ष्मविस्तृतम्‍ ॥ गौतमः स्वयमादाय शिवविष्णू अवीजयत्‍ ॥१५४॥
परिहासमथो कर्तुमियेष परमेश्वरः ॥ पश्य विष्णो हनूमन्तं कथं भुक्ते स वानरः ॥१५५॥
वानरं पश्यति हरौ मण्डकं विष्णुभाजने ॥ चिक्षेप मुनिसंघेषु पश्यत्स्वपि महेश्वरः ॥१५६॥
हनूमते दत्तवांश्व स्वोच्छिष्टं पायसदिकम्‍ ॥ त्वदुच्छिष्टमभोज्यं तु तवैव वचनाद्विभो ॥१५७॥
अनर्हं मम नैवेद्यं पत्रं फलादिकम्‍ ॥ मह्यं निवेद्य सकलं कूप एव विनिःक्षिपेत ॥१५८॥
अभुक्ते त्वर्द्वचो नूनं भुक्ते चापि कृपा तव ॥ बाणलिंगे स्वयंभूते चन्द्रकांते ह्रदि स्थिते ॥१५९॥
चांद्रायण समं ज्ञेयं शम्भोर्नैवेद्यभक्षणम्‍ ॥ भुक्तिवेलेयमधुना तद्वैरस्य कथांतरात्‍ ॥१६०॥
भुक्त्वा तु कथयिष्यामि निर्विशंकं विभुंक्ष्व तत्‍ ॥ अथासौ जलसं स्कारं कृतवान्‍ गौतमो मुनिः ॥१६१॥
आरक्तसुस्निग्धसुसूक्ष्मगात्राननेकधाधौतसुशोभितांगान्‍ ॥ तडागतोयैः कतबीजघर्षितैर्विशौधितैस्तैः करकानपूरयतः ॥१६२॥
नद्याः सैकतवेदिकां नवतरां संछाद्य सूक्ष्मांबरैः शुद्धैः श्वेततरैरथोपरि घटांस्तोयेन पूर्णान्क्षिपेत‍ ॥ लिप्त्वा नालक जातिमास्तपुटकं तत्कौलकं कारिकाचूर्णं चन्दनचन्द्रश्मिविशदां मालां पुटांतं क्षिपेत्‍ ॥ यामस्यापि पुनश्व वारिवसनेनाशोघ्य कुम्भेन  तच्चंद्रप्रन्थिमथो निधाय बकुलं क्षिप्त्वां तथा पाटलम्‍ ॥१६३॥
शेफालीस्तबकमथो जलं च तत्र, विन्यस्य प्रथमत्‍ एव तोयशुद्धिम्‍ ॥ कृत्वाथो मृदुतरं सूक्ष्मवप्त्वखण्डेनावेष्टेत्सृणिकमुखं च सूक्ष्मचन्द्रम्‍ ॥१६४॥
अनातपप्रदेशे तु निधाय करकानथ ॥ मन्दवातसमोपते सूक्ष्मव्यजन वीजिते ॥१६५॥
सिंचच्छीतैर्जलैश्वापि वासितैः सृणिणकामपि ॥ संस्कृताः स्वायतास्त्रत्र नरा नार्योऽथवा नृपाः ॥१६६॥
तत्कन्या वा क्षालितांगा धौतपदास्सुवारसः ॥ मधुपितमानिर्जासमसांद्रमगुरुद्धवम्‍ ॥१६७॥
बाहुमूले च कंठे च विलिप्यासांद्रमेव च ॥ मस्तके जावकं न्यस्य पंचगंधविलेपनम्‍ ॥१६८॥
पुष्पनद्धसुकेशास्तु ताः शुभा स्युः सुनिर्मलाः ॥ एवमेवार्चितां नार्य आप्तकुंकुमविग्रहाः ॥१६९॥
युवत्यश्वारुसर्वांग्यो नितरां भूषणैरपि ॥ एतदृग्वनिताभिर्वा नरैर्वा दापयेज्जलम्‍ ॥१७०॥
तेऽपि प्रादानसमये सूक्ष्मवस्त्राल्पवेष्टनम्‍ ॥ अथ वामकरे न्यस्य करकं प्रेक्ष्य तत्र हि ॥१७१॥
दोरिकान्यस्तुमुन्सुच्य ततस्तोयं प्रदायेत्‍ ॥ एवं स कारयामास गौतमो भगवान्मुनिः ॥१७२॥
महेशादिषु सर्वेषु भुक्तवत्सु महात्मसु ॥ प्रक्षालितांघ्रिहस्तेषु गधोद्वर्तितपाणिषु ॥१७३॥
उच्चाससमासीने देवेदेवे महेश्वरे ॥ अथ नीचसमासीना देवाः सर्षिगणास्तथा ॥१७४॥
मणिपात्रेषु संवेष्टय पूगखंडात्सुधूपितान्‍ ॥ अकोणान्वर्तृलान्स्थूलानसूक्ष्मानकृशानपि ॥१७५॥
श्वेतपत्राणि संशोध्य क्षिप्त्वा कर्पूरखंडकम्‍ ॥ चूर्णं च शंकरायाथ निवेदयति गौतमे ॥१७६॥
गृहाण देव तांबूलमित्युक्तवचने मुनी ॥कपे गृहाण तांबूलं प्रयच्छ मम खंडकान्‍ ॥१७७॥
उवाच वानरो नास्ति मम शुद्धिर्महेश्वर ॥ अनेकफलभोक्तृत्वाद्वानरस्तु कथं शुचिः ॥१७८॥
तच्छुत्वा तु विरुपाक्षः प्राह वानरसत्तमम्‍ ॥ मद्वाक्यादखिलं शुद्धयेन्मद्वाक्यादमृतं विषम्‍ ॥१७९॥
मद्वाक्यादखिला वेदा मद्वाक्याद्देवतादयः ॥ मर्द्वाक्याद्ध मी विज्ञानं मद्वाक्यान्मोक्ष उच्यते ॥१८०॥
पुराणान्यागमाश्वैव स्मृतयो मम वाक्यतः ॥ अतो गृहाण तांबूलं मम देहि सुखंडकान्‍ ॥१८१॥
हरिर्वामकरेणाधात्तांबूलं पूगखंडकम्‍ ॥ ततः पत्राणि संगृह्य तस्मै खंडान्समर्पयते ॥१८२॥
कर्पूरमग्रतो दत्तं गृहीत्वाभक्षयच्छिवः ॥ देवे तु कृततांबूले पार्वती मंदराचलात्‍ ॥१८३॥
जयाविजययोर्हस्त गृहीत्वायान्मुनेर्गृहम‍ ॥ देवपादौ ततो नत्वा विनम्रवदनाभवत ॥१८४॥
उन्नमय्य मुखे तस्या इदमाह त्रिलोचनः ॥ त्वदर्थं देवदेवेशि अपराधः कृतो मया ॥१८५॥
यत्त्वां विहाय भुक्तं हि तथान्यच्छृणु सूंदरि ॥ यत्त्वां स्वमंदिरे त्यक्ता महदेनो मया कृतम्‍ ॥१८६॥
क्षंतुमर्हसिः देवेशि त्यक्तकोपा विलोकय ॥ न बभाषेऽप्येवमुक्ता सारुंधत्या विनिर्ययौ ॥१८७॥
निर्गच्छंते मुनि र्ज्ञात्वा दंडवत्प्रणनाम ह ॥ अथोवाच शिवा तं च गौतम त्वं किमिच्छसि ॥१८८॥
अथाम गौतमो देवीं पार्वती प्रेक्ष्य सस्तिताम्‍ ॥ कृतकृत्यो भवेयं वै भुक्तायां मदृगृहे त्वयि ॥१८९॥
ततः प्राह शिवा विप्रं गौतमं रचितांजलिम्‍ । भोक्ष्यामि त्वदूगृहे विप्र शंकरानुमतेन वै ॥१९०॥
अथ गत्वा शिवं विंशे लब्धानुज्ञस्त्वरागतः ॥ भोजयामास गिरिजां देवीं चारुंधतीं तथा ॥१९१॥
भुक्ताथ पार्वती सर्वगंधपुष्पाद्यलंकृता ॥ सहानुचर कन्याभिः सहस्त्राभिर्हरः ययौ ॥१९२॥
अथाह शंकरो देवीं गच्छ गौतममंदिरम्‍ ॥ संध्योपास्तिमहं कृत्वा ह्यागमिष्ये तवांतिकम्‍ ॥१९३॥
इत्युक्ता प्रययौ देवी गौतमस्यैव मदिरम्‍ ॥ संध्यावदनकामास्तु सर्व एव विनिर्गताः ॥१९४॥
कृतसंध्यास्तडागे तु महेशाद्याश्व कृत्स्नशः ॥ अथोत्तरमुखः शंभुः र्यास कृत्वा जजाप ह ॥१९५॥
अथ विष्णुर्महातेजा महेशमिदमब्रवीत ॥ सर्वैर्नमस्यते यस्तु सर्वैरेव समर्च्यते ॥१९६॥
हूयते सर्वयज्ञेषु स भावन्किं जपिष्यति ॥ रचितांजलयः सर्वे त्वामेवैकसुपासिते ॥१९७॥
स भवान्देवदेवेशः कस्मै विरचितांजलिः ॥ नमस्कारादिपुण्यानां फल दस्त्वं महेश्वर ॥१९८॥
तव कः फलदोः वंद्यः को वा त्वत्तोऽधिको वद ॥ तच्छुत्वा शंकरः प्राह देवदेवं जनार्दनम्‍ ॥१९९॥
ध्याये न किंचेद्वोविंदू नमस्ये ह न किंचन्‍ ॥ किंतु नास्तिकजंतूनां प्रवृत्त्यर्थमिदं मया ॥२००॥
दर्शनीयं हरे चैतन्यथा पापकारिणः ॥ तस्माल्लोकोपकारार्थमिदं सर्वं कृतं मया ॥२०१॥
ओमित्युक्ता हरिथं तं नत्वा समतिष्ठत ॥ अथ ते गौतमगृहं प्राप्ता देवर्षस्तदा ॥२०२॥
सर्वे पूजामथो चक्रुर्देवदेवाय शूलिने ॥ देवो हनूमता सार्द्धं गायन्नास्ते मुनीश्वर ॥२०३॥
पञ्चाक्षरीं महाविद्यां सर्व एव तदाऽजपन्‍ ॥ हनुमत्करमालंब्य देवाभ्यां संगतो हरः ॥२०४॥
एकशय्यासमांसीनौ ताबुभौ देवंदपती ॥ गायन्नास्ते च हनुमांस्तुंबुरुप्रमुखास्तथा ॥२०५॥
नानाविधविलासांश्व चकार परमेश्वरः ॥ आहूय पार्वतीमीश इंद वाक्यमुवाच ह ॥२०६॥
रचयिष्यामि धम्मिल्लमेहि मत्पुरतः शुभे ॥ देव्याह न च युक्तं तद्धर्त्रा शुश्रूषणं स्त्रियः ॥२०७॥
केशप्रसादकृतावनर्थांतरमापतेत्‍ ॥ केशप्रसाधने देव तत्त्वं सर्वं न चेप्तितम्‍ ॥२०८॥
अथ बंधे कृते पश्वादंसप्रांतप्रमार्जनम्‍ ॥ ततश्वरमसंलग्न केशपुष्पाअदिमार्जनम्‍ ॥२०९॥
एतस्मिन्वर्तमाने तु महात्मानो यदागमन ॥ तदा किमुत्तरं वाच्यं तव देवादिवंदित ॥२१०॥
नायांति चेदथ विभो भीतिर्नाशमुपैष्यति ॥ एवं हि भाषमाणां तां करेणाकृष्य शंकरः ॥२११॥
स्वोर्वोः संस्थापयित्वैव विस्त्रस्य कचबंधनम्‍ ॥ विभज्य च कराभ्यां स प्रससार नखैरपि ॥२१२॥
विष्णुदत्तां पारिजातस्त्रजं कचगतामपि ॥ कृत्वा धम्मिल्लमकरोदथ मालां करागताम्‍ ॥२१३॥
मल्लिकास्त्रजमादाय बबंध कचबंधने ॥ कल्पप्रसूनमालां च ब्रह्मदत्तां महेश्वरः ॥२१४॥
पार्वतीवसने गूढगन्धाढ्ये च समाददात्‍ ॥ अथांसपृष्ठ संलग्रमार्जनं कृतवान्‍ विभुः ॥२१५॥
श्लथन्नीवेरधी देव्या वस्त्रवेष्टादधोगतः ॥ किमिंद देवि चेत्युक्ता नीवीबंध चकार ह ॥२१६॥
नासा भूषणमेतत्ते सत्यमेव वदामि ते ॥ ततः प्राह शिवा शंभुं स्मित्वा पर्वतंनंदिनी ॥२१७॥
अहो त्वन्मंदिरे शंभो सर्ववस्तू समृद्धिमत्‍ ॥ पूर्वमेव मया सर्वं ज्ञातप्रायमभूत्किल ॥२१८॥
सर्वद्रविणसंपत्तिर्भूषणैरवगम्यते ॥ शिरो विभूषितं देव ब्रह्मशीर्षस्य मालया ॥२१९॥
नरकस्य तथा माला वक्षस्थलविभूषणम्‍ ॥ शेषश्व वासुकिश्वैव सविषौ तव कङ्कणौ ॥२२०॥
दिशोंऽबरं जटाः केशा भसितं चांगरागकम्‍ ॥ महोक्षो वाहनं गोत्रं कुलं चाज्ञातमेव च ॥२२१॥
ज्ञायते पितरौ नैव विरुपाक्षं तथा वपुः ॥ एवं वदंती गिरिजां विष्णुः प्राहातिकोपनः ॥२२२॥
किमर्थं निंदसे देवि देवदेवं जगत्पतिम्‍ ॥ दुष्प्राणा न प्रिया भद्रे तव नूनमसंयमात्‍ ॥२२३॥
यत्रेशनिंदनं भद्रे तत्र नो मरणव्रतम्‍ ॥ इत्युक्काथ नखाभ्यां हि हरिश्छेत्तुं शिरो गतः ॥२२४॥
महेशस्तत्करं गृह्य प्राह मा साहसं कृथाः ॥ पार्वतीवचनं सर्वं प्रियं मम न चाप्रियम्‍ ॥२२५॥
ममाप्रियं ह्रषीकेश कर्तुं यत्किंचिदिष्यते ॥ ओमित्युक्ताथ भगवांस्तूष्णींभूतोऽभवद्धरिः ॥२२६॥
हनुमानथ देवाय व्यज्ञापयदिदं वचः ॥ अर्थयामि विनिष्कांम मम पूजाव्रतं तथा ॥२२७॥
पूजार्थंमप्यहं गच्छे मामनुज्ञातुमर्हसि ॥ तच्छुत्वा शंकरौ देवः स्मित्वा प्राह कपीश्वरम्‍ ॥२२८॥
कस्य पूजा क्क वा पूजा किं पुष्पं किं दलं वद । को गुरुः कश्व मंत्रस्ते कीदृशं पूजन तथा ॥२२९॥
एवं वदति देवेशे हनुमान्नीतिसंयुतः ॥ वेपमान समस्तांग स्तोतुमेवं प्रचक्रमे ॥२३०॥
नमो देवाय महते शंकरायमितात्मने ॥ योगिने योगधात्रे च योगिनां गुखे नमः ॥२३१॥
योगगम्याय देवाय ज्ञानिनां पतये नमः ॥ वेदानां पतये तुभ्यं देवानां पतये नमः ॥२३२॥
ध्यानाय ध्यानगम्याय ध्यातृणां गुरवे नमः ॥ अष्टमूर्ते नभस्तुभ्यं पशूनां पतये नमः ॥२३३॥
अंबकाय त्रिनेत्रय सोमसूर्याग्निचक्षुषे ॥ सुभृङ्‌राजधत्तूरद्रोणपुष्पप्रियस्य ते ॥२३४॥
बृहतीपूग पुन्नागचपकादिप्रियाय च ॥ नमस्तेऽस्तु नमस्तेऽस्तु भूय एव नमोनमः ॥२३५॥
शिवो हरिमथ प्राह मा भैषर्वद मेऽखिलम्‍ ॥ ततस्त्यक्ता भयं प्राह हनुमान्‍ वाक्यकोविदः ॥२३६॥
शिवलिंगार्चनं कार्यं भस्मोद्धूलितदेहिना ॥ दिवा संपादितैस्तोयैः पुष्पद्यैरपि तादृशैः ॥२३७॥
देव विज्ञापयिष्यामि शिवपूजाविधिं शुभम्‍ ॥ सायंकाले तु संप्राप्ते अशिरःस्नानमाचरेत्‍ ॥२३८॥
क्षालितं वसनं शुष्कं धृत्वाचम्य त्रिरन्यधीः ॥ अथ भस्म समादाय आग्रेंय स्नानमाचरेत ॥२३९॥
प्रणवेन समामंत्र्य अष्टवारमथांपि वा ॥ पञ्चाक्षरेन मन्त्रेण नाम्ना वा येन केनचित्‍ ॥२४०॥
सप्तभिंमंत्रितं भस्म दर्भपाणिः समाहरेत्‍ ॥ ईशानः सर्वविद्यानामुक्त्वा शिरसि पातयेत्‍ ॥२४१।
तत्पुरुषाय विद्महे मुखे भस्म प्रसेचयेत्‍ ॥ अघोरेभ्योऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत्‍ ॥२४२॥
वामदेवाय नमः इति गुह्यस्थाने विनिक्षिपेत ॥ सद्योजातं प्रपद्यामि निक्षिपेदथ पादयोः ॥२४३॥
उद्धूलयेत्समस्तांगं प्रणवेन विचक्षणाः ॥ त्रैवार्णिकानामुदितः स्नानादिविधिरुत्तमः ॥२४४॥
शूद्रादीनां प्रवक्ष्यामि यदुक्तं गुरुना तथा ॥ शिवेति पदमुच्चार्य भस्म संमन्त्रयेत्सुधीः ॥२४५॥
सप्तवारमथादाय शिवायेति शिरत्यथ ॥ शंकराय मुखे प्रोक्त सर्वज्ञाय ह्रदि क्षिपेत्‍ ॥२४६॥
स्थाणवे नम इत्युक्ता मुखे चापि स्वयंभुवे ॥ उच्चार्य पादयोः क्षिप्त्वा भस्म शुद्धमतः परम्‍ ॥२४७॥
नमः शिवायेत्युच्चार्य सर्वांगोद्धूलनं स्मृतम्‍ ॥ प्रक्षाल्य हस्तावाचम्य दर्भपाणिः समाहितः ॥२४८॥
दर्भाभावे सुवर्णं स्यात्तदभावे गवालुकाः ॥ तदभावे तु दूर्वाः स्युस्तदभावे तु राजतम्‍ ॥२४९॥
संध्योपास्तिं जपं देव्याः कृत्वा देवगृहं व्रजेत्‍ ॥ देववेदीमथो वापि कल्पितं स्थंडिलं तु वा ॥२५०॥
मृण्मयं कल्पितं शुद्धं पद्मादिरचनायुतम्‍ ॥ चातुर्वर्णकरं गैश्व श्वेतेनैकेन वा पुनः ॥२५१॥
विचित्राणि च पद्मानि स्वस्तिकादि तथैव च ॥ उत्पलादिगदागदाशंखत्रिशूलमरुंस्तथा ॥२५२॥
शरोक्तपंच प्रासांद शिवलिंगमथैव च ॥ सर्वकामफलं वृक्षं कुलकं कोलकं तथा ॥२५३॥
षट्कोणं च त्रिकोणं च नवकोणमथापि वा ॥ कोणे द्वादशकांदोलापा दुकाव्यजनानि च ॥२५४॥
चामरच्छत्रयुगलं विष्णुब्रह्मादिकांस्तथा ॥ चूर्णौर्विरचयेद्वेद्यां धीमान्देवालयेऽपि वा ॥२५५॥
यत्रापि देवपूजा स्यात तत्रैवं कल्पयेद्धधः ॥ स्वहस्तरंचितं मुख्यं क्रींत चैव तु मध्यमम्‍ ॥२५६॥
याचितं तु कनिष्ठं स्याद्वलात्कारमथोऽधमम्‍ ॥ अर्हेषु यत्त्वनर्हेषु बलात्कारात्तु निष्फलम्‍ ॥२५७॥
रक्तशालिजपाशाणकलमासितरक्तकैः ॥ तंदुलैर्वीहिमात्रोत्थैः कणैश्वैव यथाक्रमम ॥२५८॥
उत्तमैर्मध्यमै श्वैव कनिष्ठैधमैस्तथा ॥ पद्मादिस्थापनैरेव तत्सम्यग्यागमाचरेत्‍ ॥२५९॥
प्रागुत्तमुखो वापि यदि वा प्राङ्‌मुखो भवेत्‍ ॥ आसनं च प्रवक्ष्यामि यथादृष्टं यथा श्रुतम्‍ ॥२६०॥
कौशं चार्मं चैलतल्पे दारवं तालपत्रकम्‍ ॥ कांबंल कांचनं चैव राजतं ताम्रमेव च ॥२६१॥
गोकरी पार्कजै र्वापि ह्यासनं परिकल्पयेत्‍ ॥ वैयाघ्रं रौरवं चैव हारिण मार्गमेव च ॥२६२॥
चार्मं चतुर्विधं ज्ञेयमथ बंधुकमेव च ॥ यथासंभवमेतेषु ह्यासनं परिक लपयेत्‍ ॥२६३॥
कृतपद्मासनो वापि स्वस्तिकासन एव च ॥ दर्भभस्मसमासीनः प्राणानायम्य वाग्यतः ॥२६४॥
तावत्स देवतारुपो ध्यानं चांतः समाचरेत्‍ ॥ शिखांते द्वादशांगुल्ये स्थितं सूक्ष्मतनुं शिवम्‍ ॥२६५॥
अंतश्वरंतं भूतेषु गुहायां विश्वतोमुखम्‍ ॥ सर्वाभरणसंयुक्तमणिमादिगुणान्वितम्‍ ॥२६६॥
ध्यात्वां तं धारयेच्चिते तद्दीप्त्वा पूरयेत्तनुम्‍ ॥ तया दीप्त्वा शरीरस्थं पापं नाशमुपागतम्‍ ॥२६७॥
स्वर्णपादैरसंपर्काद्रक्तं श्वेतं यथा भवेत्‍ ॥ तद्दादशदलावुत्तमष्ट पंच त्रिरेव वा ॥२६८॥
परिकल्प्यासनं शुद्धं तत्र लिंगं निधाय च ॥ गुहास्थितं महेशानं लिंगेशं चिंत येत्तथा ॥२६९॥
शोधिते कलशे तोयं शोधितं गंधवासितम्‍ ॥ सुगन्धपुष्पं निक्षिप्य प्रणवेनभिमंत्रितम्‍ ॥२७०॥
प्राणायामश्व प्रणवः शुद्रेषु न विधीयते ॥ प्राणायामपदे ध्यानं शिवेर्त्योकारमंत्रितम्‍ ॥२७१॥
गन्धपुष्पाक्षतादीनि पूजाद्रव्याणि यानि च ॥ तानि स्थाप्य समीपे तु ततः संकल्प माचरेत्‍ ॥२७२॥
शिवपूजां करिष्यामि शिवतुष्ट्यथमेव च ॥ इति संकल्पयित्वा तु तत आवाहनादिकम्‍ ॥२७३॥
कृत्वा तु स्त्रानपर्यंतं ततः स्त्रानं प्रकल्पयेत्‍ नमस्तेत्यादिमंत्रेण शतरुद्रविधानतः ॥२७४॥
अविच्छिन्ना तु या धारा मुक्तिदारेति कीर्तिता ॥ तया यः स्नाययेन्मासं जपबुद्रमुखांश्व वा ॥२७५॥
एकवारं त्रिवारं च पंच सप्त नवापि वा ॥ एकादह तथा घारमथैकादधान्वितम्‍ ॥२७६॥
मुक्तिस्नानमिदं ज्ञेयं मोक्षप्रदायकम्‍ ॥ शैवया विद्यया स्नानं केवलं प्रणवेन वा ॥२७७॥
मृण्मयैर्नालिकेरस्य शकलैश्वोमिभिस्तथा ॥ कांस्येन मुक्ताशुक्तया च पुष्पादिकेसरेण वा ॥२७८॥
स्नापयेद्देवदेवेशं यथासंभवमीरितैः ॥ श्रृंगस्य च विधिं वक्ष्ये स्त्रानयोग्यं यथा भवेत्‍ ॥२७९॥
पूर्वमंतस्तु संशोध्य बहिरंतस्तु शोधयेत्‍ ॥ सुस्त्रिग्धं लघु कृत्वाथ नागं छिंद्यात्कथंचन ॥२८०॥
नीचैकदेशविन्यस्तद्वारद्रोण्या सुह्यत्तया ॥ कृशानुयुक्तं स्त्रानं तु देवाय परिकल्पयेत्‍ ॥२८१॥
एवं गवयश्रृंगस्य जलपूर्तिरथोच्यते ॥ द्वारे निषिद्वलोहार्द्धसंधिद्वाआसमन्विते ॥२८२॥
योगवक्रं नागदंडं नागाकारं प्रकल्पयेत्‍ ॥ फलस्थाने तु चषकं दंडेन समरंध्रकम्‍ ॥२८३॥
तत्रैव पातयेत्तोयं मूर्द्धयंत्रघटे स्थितम्‍ ॥ पातयेदथ चान्येन वामेनैव करेण वा ॥२८४॥
मुक्तिधारा कृता तेन पवित्र पापनाशनम्‍ ॥ एवं संस्नाप्य देवेशं पंचगव्यैस्तथैव च ॥२८५॥
पञ्चामृतैरथ स्त्राप्य मधुरत्रितयेन च ॥ विभूष्य भूषणैर्देवं पुनः स्नाप्य महेश्वरम्‍ ॥२८६॥
शीतोपचारं कृत्वाथ तत आचमनादिकम्‍ ॥ वस्त्रं तथोपवीतं च गंधद्रव्यकमेव च ॥२८७॥
कर्पूरमगरुं चापि पाटीरमथवा भवेत्‍ ॥।उभयमिश्रितं चापि शिवलिंग्तं प्रपूजयेत्‍ ॥ कृत्स्नं पीठं गंधपूर्णं यद्वा विभवसारतः ॥ तूष्णीमथोपचारं वा कालीयं पुष्पमेव च ॥२८८॥
श्रीपत्रमरु चित्याज्यं यथाशक्तयखिलं यथा । अनेकद्रव्यधूपं च गुग्गुलं केवलं तथा ॥२८९॥
कपिलाघृतसंयुक्तं सर्वधूपं प्रशस्यते । धूपं दत्वा यथाशक्ति कपिलाघृतदीपकान् ॥२९०॥
अथवा पूजामात्रेण दीपान्दत्वोपहारकम् । नैवेद्यमुपपंन्न च दत्वा पुष्पसमन्वितम् ॥२९१॥
मुखशुद्धिं ततः कृत्वा तांबूल मादरात् ॥ प्रदक्षिणनमस्कारौ पूजैव हि समाप्यते ॥२९२॥
गीत्यंगपंचकं पश्वात्तानि विज्ञापयामि ते । गीतिर्वाद्यं पुराणं च नृत्यं हासोक्तिरेव च ॥२९३॥
नीराजनं च पुष्पाणामंजलिश्वाखिलार्पणम् ॥ क्षमापनं चोद्वसनं प्रोक्तं पंचोपचारकम् ॥२९४॥
भूषणं च तथा छ्त्रं चामरव्यजने अपि ॥ उपवीत च कैंकर्यं षोडशानुपचारकान् ॥२९५॥
द्वात्रिंशदुपचारैस्तु यः समाराधयोच्छिवम् ॥ एकेनाह्रा समस्तानां पातकानां क्षयो भवेत् ॥२९६॥
एतच्छुत्वा हनुमतो वचनं प्राह शंकरः ॥ एवमेतत्कपिश्रेष्ठ यदुक्तं पूजनं मम ॥२९७॥
सारभूतमहं तुभुअसुपदेक्ष्यामि सांप्रतम् ॥ आराधनं यथा लिंगे विस्तरेण त्वयोदितम् ॥२९८॥
मत्पादयुगलं प्रार्च्य पूजाफलमवाप्नुहि ॥ ततः प्राह कपिश्रेष्ठी देवेदेवमुमापतिम् ॥२९९॥
गुरुणां लिंगपू जैव नियता परिकल्पिता ॥ तां ॥३००॥
हत्यक्तेश नमस्कृत्य शिवलिंगार्चनाय च ॥ सरसस्तीरमागत्य कृत्वा सैकतवेदिकाम् ॥३०१॥
तालपत्रैर्विरचितमासनं पर्यकल्पयत् ॥ प्रक्षाल्य पादौ हस्तौ व समाचम्य समाहितः ॥३०२॥
भस्मस्नानमथो चक्रे पुनराचम्य वाग्यतः ॥ देववेद्यमथो चक्रे पद्मं च सुमनोहरम् ॥३०३॥
अनंतरं तालपत्रे पद्मासनगतः कपिः ॥ प्राणानायम्य संन्यस्य शुल्कध्यानसमन्वितः ॥३०४॥
प्रणम्य गुरुमीशानं जपन्नासीदतः परम् ॥ अथ देवार्चनं कर्त्तु यत्नमास्थिवान्कपिः ॥३०५॥
पलाशपत्रपुटकद्व यानीतजलं शुचि ॥ शिरः कमंडलुगतं निधायाग्निनिमंत्रितम् ॥३०६॥
आवाहनादि कृत्वाथ स्नानपर्यंतमेव च ॥ अथ स्नापयितुं देवमादाय कर संपुटे ॥३०७॥
कृत्वा नीरीक्षण देवपीठं नो दृष्टवान्कपिः ॥ लिङुमात्रं करगतं दृष्ट्रा भीतिसमन्वितः ॥३०८॥
इदमाह महायोगी किंवा पापं मया कृतम् ॥ यदेत्पीठरहितं शिवलिङु करस्थितम् ॥३०९॥
ममाद्य मरणं सिद्धं न पीठं चागमिष्यति ॥ अथ रुद्रं जपिष्यामि तदायाति महेश्वरः ॥३१०॥
इति निश्चित्य मनसा जजाप शतरुद्रियम् ॥ यदा तु न समायतो महेशोऽथ कपीश्वरः ॥३११॥
रुद्रं न्यपातयद्धूमौ वीरभद्रः समागतः ॥ किमर्थं रुद्यते भद्र रुदिते कारणं वद ॥३१२॥
तच्छुत्वा प्राह हनुमान्वीरभद्रं मनोगतम् ॥ पीठहीनमिदं लिंगं पश्य मे पाप संचयम् ॥३१३॥
वीरभद्रस्ततः प्राह श्रृत्वा कपिसमीरितम् ॥ यदि नायाति पीठं ते लिंगे मा साहसं कुरु ॥३१४॥
दाहयिष्या म्यहं लोकान्यदि नायाति पीठकम् ॥ पश्य दर्शय मे लिंगं पीठं चात्रागतं वा ॥३१५॥
अथ दृष्ट्रा वीरभद्रो पीठमनागतम् ॥ दग्धुकामोऽखिलाँल्लोकान्वीरभद्रः प्रतापवान् ॥३१६॥
अनलं भुवि चिक्षेप क्षणाद्दगधा मही तदा ॥ अथ सप्ततलान्दग्ध्वा पुनरुर्द्धमवर्तत ॥३१७॥
पञ्चोर्द्धलोकानदहज्जनलोकनिवासिनेः ॥ ललाटनेत्रसंभूतं नखेनादाय चानलम् ॥३१८॥
जंबीरफलसंकाशं कृत्वा कर तले विभुः ॥ तपः सत्यं च संदग्धुसुदतोऽभून्सुनीश्वरः ॥३१९॥
ततस्तु मुनयो दृष्टपोलोकनिवासिनः ॥ दग्धकामं वीरभद्रं गौतमा श्रममागताः ॥३२०॥
न दृष्ट्रा तत्र देवेशं शंकरं स्वात्मनि स्थितम् ॥ अस्तुवन्भक्तिसंयुक्ताः स्तोत्रैर्वेदसमुद्धवैः ॥३२१॥
ॐ वेदवेद्याय देवाय देवाय तस्मै शुद्धप्रभाचिन्त्यरुपाय कस्मै ॥
ब्रह्माद्यधीशाय सृष्टयादिकर्त्रे, विष्णुप्रियायार्तिहंत्रेंऽतकर्त्रे ॥३२२॥
नमस्तेऽखिलाधीश्वरायांबराय नमस्ते चरस्थावर व्यापकाय ॥
नमो वेदगुह्याय भक्तप्रियाय नमः पाकभोक्ते मुखेशाय तुभ्यम् ॥३२३॥
नमस्ते शिवायादिदेवाय कुर्मो नमो व्यालयज्ञोपवीतप्रधर्ते ॥
नमस्ते सुराबिन्दुर्षापनाय त्रयीमूर्तये कालकालाय नाथ ॥३२४॥
धरित्रीमरुद्वयोमतोयेंदुवह्रिप्रभामंडलात्माष्टधामूर्तिधर्त्रे ॥
शिवायशिवघ्नाय वीराय भूयात्सदा नः प्रसन्नो जगन्नाथकेज्यः ॥३२५॥
कलानाथभालाय आत्मा महात्मा मनो ह्रग्रयानो निरुप्यो व वाग्भिः ॥
जगज्जाड्यविध्वंसनो भुक्तिमुक्तिप्रद स्तात्प्रसव्रः सदा शुद्धकीर्तिः ॥३२६॥
यतः संप्रसूतं जगज्जाअमीशत्स्थित येन रक्षावता भवितं च ॥
लयं यास्यते यत्र वाचां विदूरे स वै नः प्रसन्नोऽस्तु कालत्रययात्मा ॥३२७॥
यदादिं च मध्यं च केऽपि विजानन्ति विज्ज अपि स्वानुमानाः ॥
स वै सर्वमूर्तिः सदा नो विभूर्त्यै प्रसन्नोऽस्तु किं ज्ञापयामोऽत्र कृत्यम् ॥३२८॥
एतां स्तुतिमथाकर्ण्य भगनेत्रप्रदः शिवः ॥ विष्णुमाह मुनीनेतानानयस्व मदंतिकम् ॥३२९॥
अथ विष्णुः समागत्य तपोलोकनिवासिनः ॥ मुनीन्सांत्वय्य विश्वेशं दर्शयामास शंकरम् ॥३३०॥
तानाह शंकरो वाक्यं किमर्थं यूयमागताः ॥ तपो लोकाद्धामिलोकं मुनयो मुक्तकिल्बिषाः ॥३३१॥
तच्छुत्वा शूलिनो वाक्यं प्रोचुस्ते मुनिसत्तमाः ॥ देव द्वादशलोकानां दृश्यंते भस्मराशयः ॥३३२॥
स्थितमेकं वनमिदं पश्य तल्लोकसंक्षयम् ॥ तच्छुत्वा गिरिशः प्राह तान्मुनीनूर्द्धरेतसः ॥३३३॥
भूर्लोकस्य तु संदाहे पातालानां तथैव च ॥ सन्देहो नास्ति मुनयः स्थितानां नो रहःस्थले ॥३३४॥
ऊर्द्धपंचकलोकानां दाहे संदेह एव नः ॥ कथमंगावृष्टिश्व कथं नो वा महाध्वनिः ॥३३५॥
तदाकर्ण विभोर्वाक्य शंकरस्य मुनीश्वराः ॥ प्रोचुः प्रांजलयो देवं ब्रह्मदिसुरसंगतम् ॥३३६॥
भीतिरस्माकमधुना वर्तते वीरभद्रतः ॥ स एवांगार वृष्टिं च पिपासुरपिबद्विभोः ॥३३७॥
देवोऽथ वीरमाहूय किं वीरोऽप्याह कपोर्लिंगे पीठाभावादिदं कृतम् ॥३३८॥
तच्छुत्वाह शिवो देवो मुनींस्तान्भयाविह्रलान् ॥ कपोश्वित्तं परिज्ञातुं मया कृतीमिदं द्विजाः ॥३३९॥
मा भैष्ट भवतां सौख्यं सदा संपादयाम्यहम् ॥ इत्युक्ता तु यथापूर्व देवदेवः कृपानिधिः ॥३४०॥
दग्धानप्यखिलाँल्लोकान्पूर्वतः शोभेनान्विभुः ॥ कल्प्यामास विश्वात्मा वीरभद्रमथाब्रवीत् ॥३४१॥
साधु वत्स यतो भद्रं भक्तानामीहसे सदा ॥ ततस्ते विपुला कीर्तिर्लोके स्थास्यति शाश्वती ॥३४२॥
इत्युक्तालिंग्य शिरसि समाघ्राय महेश्वरः ॥ तांबूल वीरभद्राय दत्तवान्प्रीतमानसः ॥३४३॥
अथासौ हनुमानीशपूजनं कृतवान्यथा ॥ समाप्तायां तु पुजायां हनुमान्प्रीतमानसः ॥३४४॥
एकं वनचंर तत्र गंधर्व सविपंचकम् ॥ ददर्श तमथाभ्याह्ग वीणा मे दीयतामिति  ॥३४५॥
गंधर्वो ऽप्याह न मया त्याज्या वीणा प्रिया मम ॥ ममापीष्टेह गंधर्व वीणेत्याह कपीश्वरः ॥३४६॥
यदा न दत्ते गंधर्वो वल्लकीं कपये प्रियाम् ॥ तदा मुष्टिप्रहारेण गंधर्वः पातितः क्षितौ ॥३४७॥
वीणामादाय महतीं स्वरतंतुसमन्विताम् ॥ हनुमान्वानरश्रेष्ठो गायन्प्रागाच्छिवांतिकम् ॥३४८॥
ततो गानेन महता प्रसाद्य जगदीश्वरम् ॥ बृहतीकुसुमैः शुद्धै र्देवपादावपूजयत् ॥३४९॥
ततः प्रसन्नो विश्वात्मा मुनीनां सन्निधौ तदा ॥ दैत्यानां देवतानां च नृपाणां शंकरोऽपि च ॥३५०॥
तस्मै वरमथ प्रादात्कल्पांतं जीवित पुनः ॥ समुलंघने शक्तिं शास्त्रज्ञत्वं बलोन्नतिम् ॥३५१॥
एवं दत्तं वरं प्राप्य महेशेन महात्मना ॥ प्रत्यक्षं मम विप्रेंद्र हनुमान्हर्षमागतः ॥३५२॥
समस्तभूषासु षितांगः स्वदीप्तिमंदीकृतदेवदीप्तिः ॥ प्रसन्न मूर्तिस्तरुणः शिवांशः संभावयामास समस्तदेवान् ॥३५३॥
आज्ञप्तो हनुमांस्तत्र मत्सेवायै मुनीश्वरः ॥ महेशेनाहमप्येनं शशिमौलिमवैमि च ॥३५४॥
किं बहूक्तेन विप्रर्षे यादृशो वानरेश्वरः ॥ बुद्धौ न्याये च वै धैर्य तादृगन्योऽस्ति न क्कचित् ॥३५५॥
इति ते सर्वमाख्यातं चरितं पाप नाशनम् ॥ पठतां श्रृण्वतां चैव गच्छ विप्र यथासुखम् ॥३५६॥
तच्छुत्वा रामभद्रस्य रघुनाथस्य धीमतः ॥ वचनं दक्षिणीकृत्य नत्वा चागां यथागतः ॥३५७॥
एतत्तेऽभिहितं विप्र चरितं च हनूमतः ॥ सुखदं मोक्षदं सारं किमन्यच्छ्रोतुमिच्छसि ॥३५८॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमच्चरित्रं नाम एकोनाशीतितमोऽध्यायः ॥७९॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T04:32:11.8170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

domestic service

  • न. घरकाम 
RANDOM WORD

Did you know?

पत्नीला अर्धांगिनी कां म्हणतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.