TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
नामाशीतितमोऽध्यायः

श्री नारदीयमहापुराणम् - नामाशीतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


नामाशीतितमोऽध्यायः
सूत उवाच ॥
श्रुत्वा तु नारदो विप्राः कुमारवचनं मुनिः ॥ यत्पप्रच्छ पुनस्तच्च युष्मभ्यं प्रवदाम्यहम् ॥१॥
कार्तवीर्यस्य कवंच तथा हनुमतोऽपि च ॥ चरितं च महत्पुण्यं श्रुत्वा भूयोऽब्रवीद्वचः ॥२॥
नारद उवाच ॥
साधु साधु मुनिश्रेष्ठ त्वयातिकरुणात्मना ॥ श्रावितं चरितं पुण्यं शिवस्य च हनूमतः ॥३॥
तन्त्रस्यांस्य क्रमप्राप्तं कथनीयं च यत्त्वया ॥ तत्प्रबूहि महाभाग किं पृष्टान्यद्विदांवर ॥४॥
सनत्कुमार उवाच ॥
अथ वक्ष्ये कृष्णमंत्रान्भुक्तिफलप्रदान् ॥ ब्रह्माद्या यान्समाराध्य सृष्टयादिकरणे क्षमाः ॥५॥
कामः कृष्णपदं डन्तं गोविंद च तथाविधम् ॥ गोपीजनपदं पश्वाद्वल्लभायग्रिसुंदरी ॥६॥
अष्टादशार्णो मंत्रोऽयं दुर्गाधष्ठातृदैवतः ॥ नारदोऽस्य मुनिश्छंदो गायत्री देवता पुनः ॥७॥
श्रीकृष्णः परमात्मा च कामो बीजं प्रकीर्तितम् ॥ स्वाहा शक्तिर्नि योगस्तु चतुर्वर्गप्रसिद्धये ॥८॥
ऋषिं शिरसि वक्रे तु छंदश्व देवताम् ॥ गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः ॥९॥
युगवेदाब्धि निगमैर्द्वाभ्यां वणैर्मनूद्धवैः ॥ पंचगानि प्रविन्यस्य तत्त्वन्यासं समाचरेत् ॥१०॥
ह्रदंतिमादिकांतार्णपराद्यानि चात्मने ॥ मत्यंतानि च तत्वानि जीवाद्यानि न्यसेत्क्रमात् ॥११॥
जीवं प्राणं मतिमहंकारं मनस्तथैव च ॥ शब्दं स्पर्श रुपरसौ गंधं श्रोत्रं त्वचं तथा ॥१२॥
नेत्रं च रसनां घ्राणं वाचं पाणिं पदेंद्रियम् ॥ पायुं शिश्रमथाकाशं वायुं वह्रिं जलं महीम् ॥१३॥
जीवं प्राण च सर्वांगे मत्यादित्रितयं ह्रदि ॥ मूर्द्धास्यह्रद्वह्य पादेष्वथ शब्दादिकान्न्यसेत् ॥१४॥
कर्णादिस्वस्वस्थानेषु श्रोत्रादिनींद्रियाणि च ॥ तथा वागादींद्रयाणि स्वस्वस्थानेषु विन्यसेत् ॥१५॥
मूद्ध स्यह्रदुह्यपादेष्वाकाशादीन्न्यसेत्ततः ॥ ह्रत्पुंडरीकमर्कैन्दुवह्रिबिंबान्यनुक्रमात् ॥१६॥
द्विषटह्यष्टदशकलाव्याप्तानि च तथा मतः ॥ भूताष्टां गाक्षिपदगैर्वणैः प्रग्विन्न्यद्धृदि ॥१७॥
अथाकाशदिस्थलेषु वासुदेवादिकांस्ततः ॥ वासुदेवः संकर्षणः प्रद्युम्न्श्वानिरुद्धकः ॥१८॥
नारायण क्रमशः परमेष्टयादिभिर्युताः ॥ परमेष्ठिमांच्छौचविश्वनिष्ठत्तिसर्वकाः ॥१९॥
श्वेतानिलाग्न्यबुभूमिवर्णैः प्राग्वत्प्रविन्यसेत् ॥ स्वबीजाद्यं कोपतत्वं नृसिंह व्यापकेन च ॥२०॥
प्राग्वद्विन्यस्य सर्वांगे तत्त्वन्यासोऽयमीरेतः ॥ मकारद्या आद्यवर्णाः सर्वे स्युश्वंद्रभूषिताः ॥२१॥
वासुदेवादिका ज्ञेया ङेता साधकसत्तमैः ॥ प्राणायामं ततः कृत्वा पूरकुम्भकरेचकैः ॥२२॥
चतुर्भिः षडिर्द्वाभ्यां च मूलमंत्रेण मंत्रवित् ॥ केचिदाहुरिहाचार्याः प्राणायामोत्तरं पुनः ॥२३॥
पीठन्यासं विधायाथ न्यासानन्यान्समाचरेत् ॥ दशतत्त्वादि विन्यस्य वक्ष्यमाणविधानतः ॥२४॥
मूर्तिपंजरनामानं पूर्वोक्तं विन्यसेदूबुधः ॥ सर्वांगे व्यापकं कृत्वा किरीटमनुना सुधीः ॥२५॥
ततस्तापुटं मंत्रं व्यापय्य करयोस्त्रिशः ॥ पंचांगुलीषु करयोः पंचांगं विन्यसेत्ततः ॥२६॥
त्रिशी मूलेन मूर्द्धादिपादांतं व्यापकं न्यसेत् ॥ सकृद्वयापय्य तारेण मंत्रन्यासं ततश्वरेत् ॥२७॥
शिरोललाटे भ्रूमध्ये कर्णयोश्वक्षुषोस्तथा ॥ घ्राणयोर्वदने कंठे ह्रदि नाभौ तथा पुनः ॥२८॥
कट्यां लिंगे जानुनोश्व पादयोर्विन्यसेत्क्रमात् ॥ ह्रदंतान्मंत्रवर्णाश्व ततो मूर्ध्नि ध्रुवं न्यसेत् ॥२९॥
पुनर्नयनयोरास्ये ह्रदि गुह्ये च पादयोः ॥ विन्यसेद्धृदयांतानि मनोः पंचपदानि च ॥३०॥
भूयो मुन्यादिकं न्यस्त पंचांगं पूर्ववन्न्यसेत् ॥ अथ वक्ष्ये महागुह्यं सर्वन्यासोत्तमोत्तमम् ॥३१॥
यस्य विज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः ॥ आणि माद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः ॥३२॥
यस्याराधनतो मंत्री कृष्णसांनिध्यतां व्रजेत् ॥ ताराद्याभिर्व्यात्दृतिभिः संपुटं विन्यसेन्मनुम् ॥३३॥
मंत्रेण पुटिताश्वापि प्रणद्यांस्ततो न्यसेत् ॥ गायत्र्या पुटितं मंत्रं विनसेन्मातृकास्थले ॥३४॥
मंत्रेण पुटितां तां च गायत्रीं विन्यसेत्क्रमात् ॥ मातृकापुटितं मूलं विन्यसेत्साधकोत्तमः ॥३५॥
मूलेन पुटितां चैव मातृकां विन्यसेत्क्रमात् ॥ तृचं न मातृकावर्णान्पूर्व तत्तत्स्थले सुधीः ॥३६॥
विन्यसेन्न्यासषटं च षोढा न्यासोऽयमीरितः ॥ अनेन न्यासवर्येण साक्षात्कृष्णसमो भवेत् ॥३७॥
न्यासेन पुटितं दृष्ट्रा सिद्धगंधर्वकिन्नराः । देवा अपि नमंत्येनं किंपुनमार्नवा भुवि ॥३८॥
सुदर्शनस्य मंत्रेण कुर्याद्दिग्बंधंत ततः ॥ देवं ध्यायन्स्वह्रदये सर्वाभीष्टप्रदायकम् ॥३९॥
उत्फुल्लकुसुम व्रातनम्रशाखैर्वरद्रुमैः ॥ सस्मेयमंजरीवृंदवल्लरीवेष्टितैः शुभैः ॥४०॥
गलत्पगधूलीभिः सुरभीकृतादिङ्‌मुखः ॥ स्मरेच्छिशिरितं वृंदावन् मंत्री समाहितः ॥४१॥
उन्मीलन्नवकंजालिविगन्मधुसंचयैः ॥ लुब्धांतः करणैर्गुजद्दिरेफपटलैः शुभम् ॥४२॥
मरालपरभृत्कीरकपोतनिकरैर्मुहुः ॥ मुखरीकृतमानृत्यन्मायूरकुलमंजुलम् ॥४३॥
कालिंद्या लोककल्लोलविप्रुषैर्मंदवाहिभिः ॥ उन्निद्रांबुरुहव्रातरजोभिर्धूसरैः शिवैः ॥४४॥
प्रदीपित स्मरैगौष्ठसुंदरीमृदुवाससाम् ॥ विलोलनपरैः संसेवितं वा तैर्निरंतरम् ॥४५॥
स्मरेत्तदंते गीवार्नभूरुहं सुमनोहरम् ॥ तदधः स्वर्णवेद्यां च रत्नपी ठमनुत्तमम् ॥४६॥
रत्नकुट्टिपीठेऽस्मिन्नरुणं कमलं स्मरेत् ॥ अष्टपत्रं च तन्मध्ये मुंकुद्दं संस्मरेत्स्थितम् ॥४७॥
फुल्लेंदीवरकांतं च केकिबर्हावतं सकम् ॥ पीतांशुकं चंद्रमुखं सरसीरुहनेत्रकम् ॥४८॥
कौस्तुभोद्धासितांगं च श्रीवत्सांकं सुभूषितम् ॥ व्रजस्त्रीनेत्रकमलाभ्यर्चित गोगणावृतम् ॥४९॥
गोपवृंदयुतं वंशीं वादयंतं स्मरेत्सुधीः ॥ एवं ध्यात्वा जपेदादावयुतद्वितयं बुधः ॥५०॥
जुहुयादरुणांभोजैस्तद्दशांशं समाहितः ॥ जपेत्पश्वान्मंत्रसिद्धयै भूतलक्षं समाहितः ॥५१॥
अरुणैः कमलैहुत्वा सर्वसिद्द्धिश्वरो भवेत् ॥ पूर्वोक्ते वैष्णवे पीठे मूर्ति संकल्प्य मूलतः ॥५२॥
तस्यामावाह्य चाभ्यर्चेद्धोपीजनमनोहरम् ॥ मुखे वेणुं समभ्यर्च्य वनमालां च कौस्तुभम‍ ॥५३॥
श्रीवत्सं च त्दृद्दि प्रार्च्य ततः पुष्पांजलिं क्षिपेत् ॥ ततः श्वेतां च तुलसीं शुल्कचंदनपंकिलाम् ॥५४॥
रक्तां च तुलसीं रक्तचंदनाक्तां क्रसात्सुधीः ॥ अर्पयेद्दक्षिणे वामभागे ध्यायन्सुरेश्वरम् ॥५५॥
हयमारद्वयेनैव ह्रदि मूर्न्धि तथा पुनः ॥ पद्मद्वयं च विधिवत्ततः शीर्षे समर्पयेत् ॥५६॥
तुलसीद्वयमंभो जद्वयमश्वारियुग्मकम् ॥ ततः सर्वाणि पुष्पाणि सर्वाङेषु समर्पयेत् ॥५७॥
दक्षिणे वासुदेवाख्यं स्वच्छं चैतन्यमव्ययम् ॥ वामे च रुक्मिणी तद्वन्नित्यां रक्तां रजोगुणाम् ॥५८॥
एवं संपूज्य गोपालं कुर्यादावरनार्चनम् ॥ यजेद्दामसुदामौ च वसुदामं च किंकिणीम् ॥५९॥
पूर्वा द्याशासु दामाद्या ङेंनमोन्तध्रुवादिकाः ॥ अग्निनैऋतिवाय्यीशकोणेषु ह्रदयादिकान् ॥६०॥
दिक्ष्वस्त्राणि समभ्यर्च्य पत्रेषु महिषीर्यजेत् ॥ रुक्मिंणी सत्यभामा च नाग्रजित्यभिधा पुनः ॥६१॥
सुविंदा मित्रविंदा च लक्ष्मणा चर्क्षजा ततः ॥ सुशीला च लसद्रम्यचित्रितांबरभूषणा ॥६२॥
ततो यजेद्दलाग्रेषु वसुदेवञ्च देवकीम् ॥ नंदगोपं यशोदां च बलभद्रं सुभद्रिकाम् ॥६३॥
गोपान् गोपीश्व गोविंदविलीनमतिलोचनान् ॥ ज्ञानमुद्राभयकरौ पितरौ पीतपांडुरौ ॥६४॥
दिव्यमाल्यांबरालेपभूषणे मातरौ पुनः ॥ धारयंत्यौ चरुं चैव पायसीं पूर्णपात्रिकाम् ॥६५॥
अरुणश्यामले हारमणिकुंडलंमडिते ॥ बलः शंखेंदुधवलो मुशलं लांगलं दधत् ॥६६॥
हालालोलो नीलवासा हलवानेककुंडलः ॥ कला या श्यामला भद्रा सुभद्रा भद्रभूषणा ॥६७॥
वराभयुता पीतवसना रुढयौवना ॥। वेणुवीणाहेमयष्टिशंख श्रृंगादिपाणयः ॥६८॥
गोपा गोप्यश्व विविधप्राभृतान्नकरांबुजाः ॥ मंदारादींश्व तद्वाह्ये पूजयेत्कल्पपादपान् ॥६९॥
मंदारश्व तथा संतानको वै पारिजातकः ॥ कल्पद्रुमस्ततः पश्वाद्द्धरिचन्दनसंज्ञकः ॥७०॥
मध्ये दिक्षु समभ्यर्च्य बहिः शुक्रादिकान्यजेत् ॥ तदस्त्राणि च संपूज्य यजेत्कृष्णाष्टकेन च ॥७१॥
कृष्णं च वासुदेवं च देवकीनन्दनं तथा ॥ नारायणं यदुश्रेष्ठं वार्ष्णैयं धर्मपालकम् ॥७२॥
असुराकांतभूभारहारिणं पूजयेत्ततः ॥ एभिरावरणैः पूजा कर्तव्यासुरवैरिणः ॥७३॥
संसारसागरोतीर्त्यै बुधैः ॥ एवं पूजादिभिः सिद्धा भवद्वश्रवणो यमः ॥७४॥
त्रिकालपूजनं चास्य वक्ष्ये सर्वार्थसिद्धिदम् ॥ श्रीमदुद्यानसंवीतिहेमभूरत्नमंडपे ॥७५॥
लसत्कपद्रुमाधस्थरत्नाब्जपीठसंस्थितम् ॥ सुत्रामरत्नसंकाशं गुडस्निग्धालकं शिशुम् ॥७६॥
चलत्कन ककुंडलोल्लसित्चारुगंडस्थलं सुघोणधरमद्धुतास्मितमुख्यवुतं सुन्दरम् ॥
स्फुरद्विमलरत्नयुक्कनकसूत्रनद्धं दधत्सुवर्णपरिमंडितं सुभगपौंडरीकं नखम्॥७७॥
समुद्‌धूसरोरस्थले धेनुधूल्या सुपुष्टांगमष्टापदाकल्पदीप्तम् ॥
कटीलस्थले चारुजंघान्तयुग्मं पिनद्धं क्कणत्किंकिणीजालदाम्रा ॥७८॥
हसन्तं हसद्वंधुजीवप्रसूनप्रभापाणिपादांबुजोदारकांत्या ॥
दधानं करे दक्षिणे पायसान्न सुहैयंगवीनं तथा वामहस्ते ॥७९॥
लसद्रोपगोपीगवां वृंदमध्ये स्थितं वासवाद्यैः सुरैरर्चिताघ्रिम् ॥
महीभारमरारातियूथांस्ततः पूतनादीन्निहंतुं प्रवृत्तम ॥८०॥
एवं ध्यात्वार्च्चद्देवं पूर्ववत्स्थिरमा नसः ॥ दघ्ना गुडने नैवेद्यं दत्वा दशशतं जपेत् ॥८१॥
मध्यांदिने यजेदेवं विशिष्टरुपधारिणम् ॥ नारदाद्यैर्मुनिगणैः सुरवृन्दैश्व पूजितम् ॥८२॥
लसद्वोपगोपीगवां वृन्दमध्यस्थित सांद्रमेघप्रभं सुन्दरांगम् ॥
शिखंडिच्छपीडमब्जायताक्षं लसच्चिल्लिकं पूर्णचद्राननं च ॥८३॥
चलत्कुण्डलोल्ला सिगंडस्थलश्रीभरं सुन्दरं मंदहांस सुनासम ॥
सुकार्तस्वराभांबर दिव्यभूषं क्कणत्किंकिणीजालमत्तानुलेपम् ॥८४॥
वेणुं धमंतं स्वकरे दधानं सव्ये दरं यष्टिसुदारवेषम् ॥ दक्षे तथैवेप्सितदानदक्षं ध्यात्वारयन्नेदंजमिंदिराप्त्यै ॥८५॥
एवं ध्यात्वार्चयेत्कृष्णं पूर्ववद्वैष्नवोत्तमः ॥ अपूपायसान्नाद्यैनैवेद्यं परिकल्पयेत् ॥८६॥
हुत्वा चाष्टोत्तरशतं पयोऽन्नैः सर्पिणाप्लुतैः ॥ स्वस्वदिक्षु बलिं दद्याद्दिशेदाचमनं ततः ॥८७॥
अष्टोत्तरसहस्त्रं च प्रजपेन्मंत्रसुत्तमम् ॥ अह्रो मध्ये यजेदेवं यःकृष्ण वैष्णवोत्तमः ॥८८॥
देवाः सर्वे नमस्यंति लोकानां वल्लभो नरः ॥ मेधायुः श्रीकांतियुक्तः पुत्रैः पौत्रैश्व वर्द्धते ॥८९॥
तृतीयकालपूजायामस्ति कालविकल्पना ॥ सायाह्रे निशि वेत्यत्र वदंत्येके विषश्वितः ॥९०॥
दशाक्षरेण चेद्रात्रौ सायाह्रेऽष्टादशार्णतः ॥ उभर्यामुभयेनैव कुर्यादित्यपरे जगुः ॥९१॥
सायाह्रे द्वारवत्यां तु चित्रोद्यानोपशोभिते ॥ अष्टसाहस्त्रसंख्यातैर्भवनैरुपमंडिते ॥९२॥
हंससारससंकीर्णकमलोत्पलशालिभिः ॥ सरोभिर्निर्मलांभोभिः परीते भवनोत्तमे ॥९३॥
उद्यत्प्रद्योतनोद्योतद्युतौ श्रीमणिमंडले ॥ हेमांभोजासनासीनं कृष्णं त्रैलोक्यमोहनम् ॥९४॥
मुनिवृंदैः परिवृतमात्मतत्त्वविनिर्णये ॥ तेभ्यो मुनिभ्यः स्वं धाम दिशंतं परमक्षरम् ॥९५॥
उन्निद्रेंदीवरश्यामं पद्मपत्रायत्रेक्षणम् ॥ स्निग्धं कुंतलसंभिन्नकिरीटमालिनम् ॥९६॥
चारुप्रसन्नवदनं स्फुरन्मकुंडलम् ॥ श्रीवत्स वक्षसं भ्राजत्कौस्तुभ सुमनोहरम् ॥९७॥
काश्मीरकपिशोरस्कं पीतकौशेयवाससम् ॥ हारकेयूरकटककटिसूत्रैरलंकृतम् ॥९८॥
ह्रतविश्वंभ राभूरिभारं मुदितमानसम् ॥ शंखचक्रगदापद्मराजद्धुजचतुष्टयम् ॥९९॥
एवं ध्यात्वार्चयेन्मन्त्री स्यादंगैः प्रथमावृतिः ॥ द्वितीया महिषीभस्तु तृतीयायां समर्चयेत् ॥१००॥
नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् ॥ विष्वक्सेनं च शैनेयं दिक्ष्वग्रे विनतासुतम् ॥१०१॥
लोकपालैश्व वज्राद्यैः पूजयेद्वैष्णवोत्तमः ॥ एवं संपूज्य विधिवत्पायसं विनिदयेत् ॥१०२॥
तर्पयित्वा खंडमिश्रदुग्धबुद्धया जलैरिह ॥ जपेदष्टशतं मन्त्री भावयन्पुरुषोत्तमम् ॥१०३॥
पूजासु होमं सर्वासु कुर्यान्मध्यंदिनेऽथवा ॥ आसनादर्घ्यपर्यंतं कृत्वा स्तुत्वा नमेत्सुधीः ॥१०४॥
समर्थात्मानमुद्वास्य स्वीयह्रत्सरसीरुहे ॥ विन्यस्य तन्मयो भूत्वा पुनरात्मानमर्चयेत् ॥१०५॥
सायाह्रे वासुदेवं यो नित्यमेवं समर्चयेत् ॥ सर्वान्कामानवाप्यांते स याति परमां गतिम ॥१०६॥  
रात्रौ चेन्मदनाक्रांतचेतसं नन्दन्दनम् ॥ यजेद्रासपरिश्रांतं गोपीमंडलमध्यगम् ॥१०७॥
विकसत्कुंदकह्रारमल्लिकाकुसुमोद्धतैः ॥ रजोभिर्धूसरैमंदमारुतैः शिशिरीकृते ॥१०८॥
उन्मीलनवकैरवालिविगलन्माध्वीकलब्धांतरं भ्राम्यन्मत्तमिलिंदगीतललिते सन्मल्लिकोज्जृभ्भिते ॥
पीयूषांशुकरैर्विशालितहरित्प्रांते स्मरोद्दीपने कालिन्दीपुलिनांगणे स्मितमुखं वेणुंरणंतं मुहुः ॥१०९॥
अन्तस्तोयलसन्नवांबुदघटासंघट्टकारत्विषं चंचच्चिकमंबुजायतदृशं बिम्बाधरं सुन्दरम् ॥
मायूरच्छदबद्धमौलिवि लसद्द्धस्मिल्लमालं चलं दीप्यत्कुण्डलरत्नश्मिविलसदंडद्वयोद्धसितम् ॥११०॥
कांचीनूपुरहारकंकलसत्केयूरभूषान्वितं गोपीनां द्वितयां तरे सुललितं वन्यप्रसूनस्त्रजम् ॥
अन्योन्यं विनिबद्धगोपदयितादोर्वल्लिवीतं लसद्रासक्रीडनलोलुपं मनसिजाक्रांतं मुकुन्दं भजेत् ॥१११॥
विविधश्रुतिभिन्नमनोज्ञमनोज्ञतरस्वरसप्तकमूर्छनतान गणैः ॥ भ्रममाणममूभिरुदारमणिस्फुटमंडनसिंजितचारुतम् ॥११२॥
इतरेतबद्धकरप्रमददागण कल्पितरासविहारविधौ ॥ मणिशंकुगमप्यमुना वयुषा बहुधा विहितस्वकदिव्यतनुम् ॥११३॥
एवं धात्वार्चयेन्मन्त्री स्यादंगैः प्रथमावृतिः ॥ श्रीकामः सस्वराद्यानि कलाब्जैष्णवोत्तमः ॥११४॥
यजेत्केशवकीर्त्यादिमिथुनानि च षोडेश ॥ इन्द्राद्यानपि वज्रादीन्पूजयेत्तदनन्तरम् ॥११५॥
पृथुं सुवृत्तं मसृणं वितस्तिमात्रोन्नतं कौ विनिखन्य शंकुम् ॥ आक्रम्य पद्धयमितरेतरैस्तु हस्तैर्भ्रमाऽयं खलु रासगोष्ठी ॥११६॥
संपूज्यैव च पयसा ससितो पलसर्पिषा ॥ नैवेद्यमर्चयित्वा तु चषकैर्नृपसंख्यकैः ॥११७॥
मत्री मिथुनेष्वर्पयेत्कामात्‍ ॥ विधाय पूर्ववच्छेषं सहस्त्रं प्रजपेन्मनुम्‍ ॥११८॥
स्तुत्वा नत्वा च संप्रार्थ्य पूजाशेष समापयेत् ॥ एवं यः पूजयेत्कृष्णं द्धेःपदं भवेत् ॥११९॥
अणिमाद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः ॥ भुक्त्वेह विविधान्भोगांनते विष्णुपदं व्रजेत् ॥१२०॥
एवं पूजादिभिः सिद्धे मना यानि साधयेत् ॥ अष्टविंशतिवारं वा त्रिकालं पूजयेत्सुधीः ॥१२१॥
स्वजाकविहितान् भूयः परिवारांश्व ॥ प्रातर्द्दघ्ना गुडाक्तेन मध्याह्रं पयसा पुनः ॥१२२॥
नवनीतयुतेनाथ सायह्री तर्पयेत्पुनः ॥ ससितोपलमि श्रेण पयसा वैष्णवोत्तमः ॥१२३॥
तर्पयामिपदं योज्यं मंत्रांते नामसु ॥ द्वितीयांतेषु तु पुनः पुजाशेषं समापयेत् ॥१२४॥
अभ्युक्ष्य तत्प्रसादाद्धिरामानं प्रपिबेदपः ॥ तत्तूप्तस्तमथोद्वास्य तन्मयः प्रजमेन्मनुम् ॥१२५॥
अथ द्रव्याणि काम्येषु प्रोच्यंते तर्पणेषु च ॥ तानि प्रोक्त विधानानामाश्रित्यान्यतमं भजेत् ॥१२६॥
पायसं दाधिकं चाज्यं गौडान्नं कृसर पयः ॥दधीनि कदली मोचा चिंचा रजस्वला तथा ॥१२७॥
अपूपा मोदका लाजाः पृथुका नवनीतकम् ॥ द्रव्यषोडशकं ह्येतत्कथितं पद्मजादिभिः ॥१२८॥
लाजांते पृथुकं प्राक्च समर्प्य च सितोपलम् ॥ चतुःसप्ततिवारं यःप्रातरेवं प्रतर्पयेत् ॥१२९॥
ध्यात्वा कृष्णपदं मंत्री मंडलादिष्टमाप्नुयात् ॥ धारोष्णपक्कपयसा नवनीतं दधीनि च ॥१३०॥
दौग्धाम्रभाज्यं मत्स्यंडी क्षौद्रं कीलालमेव च ॥ पूजयेन्नवभिर्द्रव्यैः प्रत्येकं रविसंख्यया ॥१३१॥
एवमष्टोतरशतसंख्याकं तर्पणं पुनः ॥ यः कुर्याद्वैष्णवश्रेष्ठः पूर्वोक्त फलमाप्नुयात् ॥१३२॥
किं बहूक्तेन सर्वेष्टदायकं तर्पणं त्विदम् ॥ ससितोपलधारोष्णदुग्धबुद्धया जलेन वै ॥१३३॥
कृष्णं प्रतपर्यन् ग्रामं व्रजन्प्राप्नोति साधकः ॥ धनवस्त्राणि भोज्यं च परिवारगणैः सह ॥१३४॥
यावत्संतर्पयेन्मंत्री तावत्संख्यं जपेन्मनुम् ॥ तर्पणेनैव कार्याणि साधयेदखिलन्यपि ॥१३५॥
काम्यहोममथो वक्ष्ये साधकानां हिताय च ॥ श्रीपुष्पैर्जुहुयान्मंत्री श्रियमिच्छन्ननिंदिताम् ॥१३६॥
साज्येनान्नेन जुहुयात्घृतान्नस्य समृद्धये ॥ वन्यपुष्पैर्द्विजान् जातीपुष्पैश्व पृथिवीपतीन् ॥१३७॥
असितैः कुसुमै वैश्यान् शूद्रन्नीलोतलैस्तथा ॥ वशयेल्लावर्णैः सर्वानंबुजेर्युवतीजनम् ॥१३८॥
गोशालासु कृतो होमः पायसेन ससर्पिषा ॥ गवां शांतिं करोत्याशु गोपालो गोकुलेश्वरः ॥१३९॥
शिक्षावेषधरं कृष्णं किंकिणीजालशोभितम् ॥ ध्यात्वा प्रतर्पयेन्मंत्री दुग्धबुद्धया शुभैर्जलैः ॥१४०॥
धनं धान्य सुतान्कीर्ति प्रीतस्तस्मै ददाति सः ॥ ब्रह्मवृक्षसमिद्धिर्वा कुशैर्वा तिलतंदुलैः ॥१४१॥
जुहुयादयुतं मंत्री त्रिमध्वाक्तैर्हुताशने ॥ वशये द्धाह्यणांश्वाथ राजवृक्षसमुद्धवैः ॥१४२॥
प्रसूनैः क्षत्रियान्वैश्यान्कुरंडकुसुमैस्तथा ॥ पाटलोत्थैश्व कुसुमैशयेदंतिमन्सुधीः ॥ १४३॥
श्वेतपद्मै रक्तपद्मैश्वंपकैः पाटलैः क्रमात् ॥ हुत्वायुतं त्रिमध्वाक्तैर्वशयेत्त्द्वूरांगनाः ॥१४४॥
नित्यं हयारिकुसुमौर्निशीथे त्रिमधुप्लुतैः ॥ वरस्त्री र्वशयेत्प्राज्ञः सम्यग्र्धुत्वा दिनाष्टकम्‍ ॥१४५॥
अयुतत्रितयं रात्रौ सिध्दाथैस्त्रिमधुप्लुतैः ॥ प्रत्यहं जुह्यतो मासात्सुरेशोऽपि वशीभवेत्‍ ॥१४६॥
आह्रत्य बल्लवीवस्त्राण्यारुढं नीपभूरुहे ॥ स्मरेत्कृष्णं जपेद्रात्री सहस्त्रं खेंद्वहात्सुधीः ॥१४७॥
हठादाकर्षयेच्छीघ्रसुर्वशीमपि साधकः ॥ बहुना किमिहोक्तेन मंत्रोऽयं सर्ववश्यकृत् ॥१४८॥
रहस्यं परमं चाथ वक्ष्ये मोक्षप्रदं नृणाम् ॥ ध्यायेत्स्वह्रत्सरसिजे देवकीनंदनं विभुम् ॥१४९॥
श्रीमत्कुन्देंदुगौरं सरसिजनयनं सकलभयहरं पीतवस्त्रं मुरारिम् ॥१५०॥
एवं ध्यात्वा पुमांसं स्फुटह्रदयसरोजनासीनमाद्यं सांद्राभोदाच्छबिंबाद्धुतकनकनिभं संजपेदर्कलक्षम् ॥
मन्वोरेकं द्वितारांतरितमथ हुनेदर्कसाहस्त्रमिध्मैः क्षीरिद्रूत्थर्यथोक्तेः समधु घृत्सितेनाथवा पायसेन ॥१५१॥
एवं लोकेश्वराराध्यं कृष्णं स्वह्रदयांबुजे ॥ ध्यायन्ननुदिनं मंत्री त्रिसहस्त्रं जपेन्मनुम‍ ॥१५२॥
सायाह्रोक्तेन विधिना संपूज्य हवनं पुनः ॥ कृत्वा पूर्वोक्तविधिना मन्त्री तद्धुतमानसः ॥१५३॥
एवं यो भजते नित्यं विद्वान् गोपालनंदनम् ॥ समुत्तीर्य भवांभोधिं स याति परमं पदम् ॥१५४॥
मध्ये कोणेषु बाह्येष्वनलपुरपुटस्यालिखेत्कर्णिकायां कंदर्प साध्ययुक्तं विवरगतषडर्णंद्विषः केशरेषु ॥
शक्तिः श्रीपूर्विकाणिद्विनवलिपिमनोरक्षराणिच्छदानां मध्ये वर्णान्दशान्तो दशलिपिमनुवर्यस्य वैकैकशोऽब्जम् ॥१५५॥
भूसद्मनाभिवृतमस्त्रमन्मथेन गोरोचनाविलिखितं तपनीयसूच्या ॥
पट्टे हिरण्यरचिते गुलिकीकृतं तद्धोपालयंत्रमखिलादमेतदुक्तम् ॥१५६॥
संयातसिक्तमभिजप्तमिमं महद्धिर्धार्यं जगत्रवशीकरणैकदक्षम् ॥
रक्षायशः सुतमहीधनधान्यलक्ष्मीसौभाग्यलिप्सुभिरजस्त्रमनर्घ्यवीर्यम् ॥१५७॥
स्मरस्त्रिविक्रमाक्रांतश्वाक्रीष्टयाय त्दृदित्यसौ ॥ षडक्षरोऽयं संप्रोक्तः सर्वसिद्धिकरो मनुः ॥१५८॥
क्रोडः शान्तीदुवह्ययाढ्यो माया बीज प्रकीर्तितम् ॥ गोविंदवह्रिचन्द्राढ्यो मनुः श्रीबीजमीरितम् ॥१५९॥
आभ्यामष्टादशलक्लिपिः स्याद्विंशत्यक्षरो मनुः ॥ शालग्रामे मणौ यत्रे मंडले प्रतिमासु वा ॥१६०॥
नित्यं पूजा हरेः कार्या न तु केवलभूतले ॥ एवं यो भजंते कृष्णं स याति परमां गतिम‍ ॥१६१॥
विंशार्णस्य मुनिर्ब्रह्मा गायत्री छन्द ईरितम् ॥ कृष्णश्व देवता कामो बीजं शक्तिर्द्विठो बुधैः ॥१६२॥
रामग्निवेदवेदाब्धेनैत्राणैरंगकल्पनम् ॥ मूलेन व्यापकं कृत्वा मनुना पुटितानथ ॥१६३॥
मातृकार्णान्न्यसेत्तत्तत्स्थानेषु सुसमाहितः ॥ दशतत्त्वानि विन्यस्य मूलेन व्यापकं चरेत् ॥१६४॥
मंत्रन्यासं ततः कुर्याद्देवताभावसिद्धये ॥ शीर्ष ललाटे भ्रूमध्ये नेत्रयोः कर्णयोस्तथा ॥१६५॥
नसोर्वक्रे च चिबुके कण्ठे दोर्मूलके ह्रदि ॥ उदरे नाभि देशे लिंगे मूलसरोरुहे ॥१६६॥
कट्यां जान्वोर्जघयोश्व गुल्फयोः पादयोः क्रमात ॥ न्यसेद्धदंतान्मंत्राणां सृष्टिन्यासोऽयमीरितः ॥१६७॥
ह्रदये चोदरे नाभौ लिंगे मूलसरोरुहे ॥ कट्यां जान्वोर्जंघयोश्व गुल्फयोः पादयोस्तथा ॥१६८॥
मूर्न्धि कपोले भ्रूमध्ये नेत्रयोः कर्णयोर्नसोः ॥वदने चिबुके कंठे दोर्मूले विन्यसेत्क्रमात् ॥१६९॥
नमोतान्मंत्रवर्णाश्व स्थितिसोऽयमीरितः ॥ पादुयोर्गुल्फयोश्वैव जंघयोर्जानुनोस्तथा ॥१७०॥
कट्यां मूले ध्वजे नाभौ जठरे ह्रदये पुनः ॥ दोर्मूले कंठदेशे च चिबुके वदने नसोः ॥१७१॥
कर्णयोर्नेत्रयोश्वैव भ्रूमध्ये निटिले तथा ॥ मूर्ध्नि न्यसेन्मंत्रवर्णान्संहाराख्योऽयमीरितः ॥१७२॥
पुनः सृष्टिस्थितिन्यासौ विधाय वैष्णवोत्तमः ॥ मूर्तिपंजरनामानं विन्यसेत्पूर्वत्ततः ॥१७३॥
पुनः षडंगः कृत्वार्थ ध्यायेत्कृष्णं ह्रदंबुजे ॥ द्वारवत्यां सहस्त्रार्कभास्वरैर्भवनोत्तमैः ॥१७४॥
अनल्पैः कल्पवृक्षैश्व परीते मणिमण्डपे ॥ ज्वलद्रत्न मयस्तंभद्वारतोरणकुड्यक्‍ ॥१७५॥
फुल्लप्रफुल्लसच्चित्रवितानालंबिमौक्तिके ॥ पद्मरागस्थलीराजद्रत्नघैश्व मध्यतः ॥१७६॥
अनारतगल द्रत्नधाराढ्यस्वस्तरोरधः ॥ रत्नप्रदीपावलिभिः प्रदीपितादिगंपते ॥१७७॥
उद्यदादित्यसंकाशमणिसिंहासनांबुजे ॥ समासीनोऽच्युतो ध्येयो द्रुतहा टकसन्निभः ॥१७८॥
समानोदितचंद्रार्कताडित्कोटिसमुद्युतिः ॥ सर्वागंसुंदरः सौम्यः सर्वाभरणभूषितः ॥१७९॥
पीतवासाः शंखचक्रगदांभोजल सत्करः ॥ अनाहतोच्छलद्रत्नधारौघकलशं स्पृशान् ॥१८०॥
वामपादांबुजाग्रेण मुष्णताः पल्लवच्छविम् ॥ रुक्मिणीसत्यभामेऽस्य मूर्ध्नि रत्नौघ धारया ॥१८१॥
सिंचंत्यौ दक्षवामस्थे स्वदोस्थकलशोत्थया ॥ नाग्रजिती सुनंदा च दिशंत्यौ कलशौ तयोः ॥१८२॥
ताभ्यां च दक्षवामस्थमित्रविंदासुलक्ष्मणे ॥ रत्ननद्याः समुद्धृत्य रत्नपूर्णौ घटौ तयोः ॥१८३॥
जांबवती सुशीला च दिशंत्यो दक्षवामके ॥ बहिःषोडश साहस्त्रसंख्याकाः परितः प्रियाः ॥१८४॥
ध्येयाः कनकरत्नोघधारायुक्कलशोज्वलाः ॥ तद्वहिश्चानिधयः पूरयंतो धनैर्धराम् ॥१८५॥
तद्वहिर्वृष्णयः सर्वे पुरोवच्च स्वरादय ॥ एवं ध्यात्वा जपेल्लक्षपंचकं तद्दशांशतः ॥१८६॥
अरुणैः कमलेर्हुत्वा पीठे पूर्वोदिते यजेत् ॥ विलिप्य गंधपंकेन लिखेददष्टदलांबुजम् ॥१८७॥
कर्णिकाया च षटकोण ससाध्यं तत्र मन्मथम् ॥ शिष्टैस्तु सप्तदशभिरक्षरैर्वेष्टयेत्स्वरम् ॥१८८॥
प्राग्रक्षोऽनिलकोणेषु श्रियं शिष्टेषु संविदम् ॥ षट्‌सु संधिषु षटर्णे केसरेषु त्रिशत्रिशः ॥१८९॥
विलिखेत्स्मरगायत्रीं मालामंत्र दलाष्टके ॥ षटशः संलिख्य तद्वाह्ये वेष्टयेन्मातृकाक्षरैः ॥१९०॥
भूबिंब च लिखेद्वाह्ये श्रीमायादिग्विदिक्ष्वपि ॥ भूग्रहं चतुरस्त्रं स्यादष्टवज्रविभूषितम् ॥१९१॥
एतद्यंत्रं हाटका हाटकादिपट्टेष्वालिख्य पूर्ववत् ॥ संस्कृत धारयेद्यो वै सोऽर्च्यते त्रिदशैरपि ॥१९२॥
स्याद्धायत्री वामदेवपुष्पबाणौ तु ङेतिमौ ॥ विद्महेधीमहियुतौ तन्नोऽनंगः प्रचोदयात् ॥१९३॥
जप्या जपादौ गोपालमनूनां जनरंजनी ॥ ह्रदय्म कामदेवाय ङेंतं सर्वजनप्रियम् ॥१९४॥
उक्ता सर्वजनांते तु समोहनपदं तथा ॥ ज्वल ज्वल प्रज्वलेति प्रोच्य सर्वजनस्य च ॥१९५॥
ह्रदयं मम च ब्रूयाद्वशंकुरुयुगं शिरः ॥ प्रोक्तो मदनमंत्रोऽष्टत्वारिंशद्धिरक्षरैः ॥१९६॥
जपादौ स्मरबीजाद्यो जगत्रयशीकरः ॥ पीठ प्राग्वसम्भ्यर्च्य मूर्ति संकल्प्य मूलतः ॥१९७॥
तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेत् ॥ आसनादिविभूषांतं पुनर्न्यासक्रमाद्यजेत् ॥१९८॥
सृष्टिं स्थितिं षडंगं च किरीटं कुंडलद्वयम ॥ शंख चक्रं गदां पद्मं मालां श्रीवत्सकौस्तुभौ ॥१९९॥
गन्धपुष्पैः समभ्यर्च्य मूलेन वैष्णवोत्तमः ॥ षटोणेषु षडंगानि दिग्दलेषु क्रमाद्यजेत् ॥२००॥
वासुदेवादिकान्कोणेषु तु शांत्यादिकांस्ततः ॥ पत्राग्रगा महिष्योऽष्टौ यजेत्साधकसत्तमः ॥२०१॥
ततः षोडशसाहस्त्रं सकृदेवार्चयेत्प्रियाः ॥ इंद्रनीलमुकुंदांश्व करालानंदकच्छपान् ॥२०२॥
शंखपद्मौ ततः पश्वान्निधीनष्टौ क्रमाद्यजेत् । तद्वहिर्लोकपालांश्व वज्राद्यानपि पूजयेत् ॥२०३॥
एवं सप्तावृत्तिवृतं कृष्णमभ्यर्च्य चादरात् ॥ प्रीणयेद्दधिखंडाज्यमिश्रेण तु पयोंऽधसा ॥२०४॥
दिव्योपचारं दत्वाथ स्तुत्वा नत्वा च केशवम् । उद्वासयेत्स्वह्रदये परिवारगणैः सह ॥२०५॥
न्यस्यात्मानं समभ्यर्च्य तन्मयो विहरेत्सुधीः ॥ रत्नाभिषेकध्यानेज्या विंशत्यर्णाश्रितेरिता ॥२०६॥
एवं यो भजते मन्त्रं स समृद्धेः पदं भवेत् ॥ जपहोमार्चनद्यानैर्यो मनुं प्रजपेदमुम् ॥२०७॥
तद्वेशम पूर्यते रत्नैः रवर्णधान्यैरनार तम् ॥ पृथ्वी करे तस्य सर्वसस्यसमाकुला ॥२०८॥
पुत्रैर्मित्रैः सुसंपन्नः प्रयात्यंते परां गतिम् ॥ वह्रावभ्यर्च्य गोविंदं शुल्कपुष्पैः सतंदुलैः ॥२०९॥
आज्याक्तैरयुतं हुत्वा भस्म तन्मूर्ध्नि धारयेत् ॥ तस्यान्नादिसमृद्धिः स्यात्तद्वशे सर्वयोषितः ॥२१०॥
रक्तांभोजैस्त्रिमध्वक्तैर्हुनेल्लक्षं समाहितः ॥ श्रिया तस्यैंद्रमैश्वर्यं तृणलेशायते ध्रुवम् ॥२११॥
त्रिमध्वकैः सितैः पुष्पैरष्टोत्तरसहस्त्रकम‍ ॥ यो हुनेप्रत्यहं मासात्पुरोधा नृपते र्भवेत ॥२१२॥
एवमादिप्रयोगांश्व साधयेन्मनुनामुना ॥ मन्त्रराजमथो वक्ष्ये दशार्णं सर्वसिद्धिदम् ॥२१३॥
स्मृतिः सद्यान्विता साक्षिर्लोहितो जनवल्लभा ॥ पवनोऽग्निप्रियांतोऽयं दशार्णो मन्त्र ईरितः ॥२१४॥
नारदोऽस्य मुनिश्छंदो विराट्‌ कृष्णोऽस्य देवता ॥ कामो बीजं वह्रिजाया शक्तिः प्रोक्ता मनीषिभिः ॥२१५॥
आचक्रं च विचक्रं च सुचकं तदनन्तरम् ॥ त्रैलोक्यरक्षणं चक्रमसुरांतकचक्रकम् ॥२१६॥
एतैर्डठद्वयातैश्व चक्रैः पंचांगकं मनोः ॥ ततस्तारपुटं मन्त्रं व्यापय्य करयोस्त्रिशः ॥२१७॥
सेंदून्ह्रदंतान्मंत्रार्णान्मंत्रार्णान्प्रणवांतरितान्न्यसेत् ॥ दक्षांगुष्ठाच्च वामांगुष्ठांतमंगुलिपर्वसु ॥२१८॥
सृष्टिन्यासोऽयमुदितः स्थितिन्यासोऽधुनोच्यते ॥ न्यसेद्धामकनिष्ठादिकनिष्ठांतं स्थितौ सुधीः ॥२१९॥
वामांगुष्ठान्न्यसेद्दक्षां गुष्ठांतं संह्रतौ तथा ॥ संह्रतिर्दोषसंघातहारिणी परिकीतता ॥२२०॥
विद्याप्रदश्व सृष्टंयतो वर्णिनां शुद्धचेतसाम् ॥ स्थित्यंतः स्यादृहस्थाना मेवं काम्यदिरुपतः ॥२२१॥
संहारतो मुनींद्राणां विरक्तानां च सर्वशः ॥ पुनः स्थितिक्रमेणार्णान्मनोरंगुलिषु न्यसेत् ॥२२२॥
पुनश्वक्रैश्व पूवोक्तैः करयोर्न्यसेत ॥ ततो मूलेन पुटितान्माकार्णान्सबिंदुकान् ॥२२३॥
विन्यसेन्मातृकान्यासस्थानेषु प्रणतः सुधीः ॥ ततस्तारपुटं मूलं व्यापकत्वेन विन्यसेत् ॥२२४॥
संहारसृष्टिभेदेन दशतत्त्वानि विन्यसेत् ॥ नमोंतमूलमंत्रार्णपदायाम्यानि चात्मने ॥२२५॥
मत्यतानि च तत्त्वानि पृथिव्याद्यानि च क्रमात् ॥ पृथ्वी जलं तथा वह्रिर्वायुराकाशमेव च ॥२२६॥
अहंकारो महत्तत्वं प्रकृतिं पुरुषं परम् ॥ प्रविन्यसेन्मस्तके च नेत्र योः श्रोत्रयोर्नसोः ॥२२७॥
वदने ह्रदये नाभौ लिंगे जान्वोश्व पादयोः । प्रणवांतरितान्वर्णन्हदंतान्विन्यस्न्मनोः ॥२२८॥
सृष्टिन्यासोऽयमाख्यातः स्थितिन्यासं श्रृणु द्विज ॥ ह्रदि नाभौ ध्वजे जान्वोः पादयोर्मस्तके पुनः ॥२२९॥
नेत्रयोः कर्णयोर्घाणे वदने विन्यसेत्क्रमात् ॥ पदोर्जान्वोलिंगदेशे नाभौ ह्रदि मुखे नसोः ॥२३०॥
कर्णयोर्नेत्रयोर्मूर्ध्न्रि संहाराख्योऽयमीरितः ॥ सृष्टयंतो वर्णिना न्यासः स्थित्यंतो गृहमेधिनाम् ॥२३१॥
यतेर्वैरेराग्ययुक्तस्य संहारांतः प्रकीर्तितः ॥ चतुर्द्धा वर्णिनां चैव गृहस्थानां च पंचधा ॥२३२॥
यतीना च त्रिधा न्यासः प्रोक्तोऽयं क्रमतः शुभः ॥ केचिद्धिरक्ते गृहगे संहारांतं विदुर्बुधाः ॥२३३॥
विभूतिपंजरं न्यासं कुर्यादिष्टाप्तये ततः ॥ मनोर्दशावृत्तिमयं कृष्णसाणिध्यकारकम् ॥२३४॥
आधारे च ध्वजे नाभौ त्दृदिकंठे मुखे शये ॥ ऊर्वोश्व कंधरायां च नाभौ कुक्षौ तथा ह्रदि ॥२३५॥
स्तनयोः पार्श्वयोः श्रोण्योर्मस्तके वदने तथा ॥ नेत्रयोः कर्णयोर्नासापुट्योश्व कपोलयोः ॥२३६॥
एवं दक्षिणदोर्मूलसंध्यग्रेष्वंगुलीषु च ॥ ततः शिरसि तत्पूर्वाद्याशासु स्वकलासु च ॥२३७॥
दोष्णोः सक्थ्नोः शिरोक्ष्यास्यकंठह्रज्जठरेषु च ॥ मूलाधारे लिंगदेशे जानुनीः पादयोस्तथा ॥२३८॥
श्रोत्रगंडांसवक्षोपजपार्श्वलिगेषु विन्यसेत् ॥ ऊर्वोर्जान्वोघयोश्व पादयोर्विन्यसेत्क्रमात् ॥२३९॥
विभूतिपंजराख्योऽयं न्यासः सर्वार्थसिद्धिदः ॥ अनेन न्यासवर्येण साक्षात्कृष्णनुर्भ वेत् ॥२४०॥
मूर्तिपंजरनामानं न्यासं पूर्वोदितं न्यसेत् ॥ ततो दशांगपंचागौ न्यासवर्यौ न्यसे क्रमात् ॥२४१॥
त्दृदि मूर्ध्नि शिखायां च सर्वांगे दिक्षु पार्श्वयोः ॥ कट्या पृष्ठे तथा मूर्ध्नि विन्यसद्वैष्णवोत्तमः ॥२४२॥
पंचांगानि न्यसेद्धूयश्वक्रैः प्राग्वत्समाहितः ॥ अन्योऽप्यष्टादशार्णोक्तः कर्तव्यो न्याससंचयः ॥२४३॥
ततः किरीटमंत्रेण व्यापकं रचयेत्सुधीः ॥ वेणुबिल्वादिमुद्रांश्व दर्शयेत्साधकोत्तमः ॥२४४॥
सुदर्शनस्य मंत्रेण कुर्याद्दिग्बंधनं ततः ॥ अनंगुष्ठाश्व ऋजवः करशाखा भवंति चेत् ॥२४५॥
ह्रह्मुद्रेयं समाख्याता शिरोमुद्रा तथा भवेत् ॥ अधोंगुष्ठा तु या मुष्टिः शिखामुद्रयमीरिता ॥ प्रसारितकरांगुल्योर्वर्मद्रेयमीरिता ॥२४६॥
नाराचमुष्ट्या धृतबाहुयुग्म अंगुष्ठतर्जन्युदितो ध्वनि स्तु । विष्वग्विसुक्ता कथितास्त्रमुद्रा यत्राक्षिणी तर्जनिमध्यमे च ॥२४७॥
ओष्ठे वामकरांगुष्ठो लग्नस्यस्य कनिष्ठिका ॥ दक्षिणांगुष्ठसंसक्ता तत्कनिष्ठां प्रसारिता ॥२४८॥
तर्जनी मध्यमानामा किंचित्सकुंच्य चालिता ॥ वेणुमुद्रेयसुदिता सुगुप्ता प्रेयसी हरेः ॥
नोच्यंते तत्र सिद्धत्वान्मालाश्रीवत्सकौस्तुभाः ॥२४९॥
वामांगुष्ठं समुद्रं तमपरकरांगुष्ठाकेनाथ बद्धा संपीड्याग्रं च दक्षांगुलिभिरपि च तां वामहस्तांगुलिभिः ॥
गाढं बद्धा स्वकीये ह्रदयसरसिजे स्थापयेत्कामबीजं प्रोच्चार्यैषा तु गोप्या सकलसुखकरी विल्वमुद्रा मुनी द्रैः ॥२५०॥
कायेन मनसा वाचायत्पापं समुपार्जितम् ॥ मुद्राया ज्ञान मात्रेण सर्वं नाशमुपैष्यति ॥२५१॥
ध्यानं जपस्त्रिकालार्चा कार्या पूर्वोदिता मनोः ॥ सर्वेष्वेकः क्रमः प्रोक्तो दशार्णाष्टादशार्णयोः ॥२५२॥
एवं सिद्धे मनौ मंत्री प्रयोगान्कर्तुमर्हति ॥ उद्दंडबाहुदोर्दंडधृतगोवर्द्धनाचलम् ॥२५३॥
अन्यहस्तांगुलीव्यक्तस्वरवं शार्पिताताननम् ॥ ध्यायन्कृष्णं जपेन्मंत्रं व्रजेच्छत्रं विना सुधीः ॥२५४॥
वर्षवाताशनिभ्योऽपि भयं तस्य न जायते ॥ मोघमेघौघव्राताद्धगतेन्द्रं तं स्मरन्हुनेत् ॥२५५॥
लोणैरेयुतसंख्यैःस्यादनावृष्टिर्न संशयः ॥ क्रीडंतमर्कजातीरे मज्जनस्नापनादिभिः ॥२५६॥
तच्छीकरजलासारैः सिच्यमानं प्रियाजनैः । ध्यात्वायुतं पयः सिक्तैर्हुनेद्वा नीरत्पणैः ॥२५७॥
वृष्टिर्भवत्याकालेऽपि महती नात्र संशयः ॥ सदाहमोहैरार्तस्य विस्फोटकज्वरादिभिः ॥२५८॥
अमुमेव स्मरन्मूर्ध्नि जपेच्छांतिर्भवेत्क्षणात् ॥ अथवा गरुडारुढं प्रद्युम्नबलसंयुतम् ॥२५९॥
निजज्वरनिष्पिष्टज्वराभिष्टुतमच्युतम् ॥ ध्यात्वा मूर्ध्नि जपेन्मंत्रं ज्वरमुक्तो भवेन्नवरी ॥२६०॥
ध्यात्वैवमग्रावभ्यर्च्य यथोकैश्वतुरंगुलैः ॥ जुहुयादमृताखण्डैरयुतं ज्वरशांतये ॥२६१॥
शिलीमुखविनिर्भिन्नभीष्मतापहरं हरिम् ॥ ध्यात्वा जपेत्स्पृशन्नात पाणिभ्यां ज्वरशांतये ॥२६२॥
सांदीपनाय ददत्म पुत्रं ध्यात्वायुतं हुनेत् ॥ यथोक्तैरमृताखंडैरपमृत्युनिवृत्तये ॥२६३॥
सपार्थं मृतपुत्रायार्पयंत च द्विजन्मने ॥ सुतं घ्यात्वा जपेल्लक्षं पुत्रपौत्रादिवृद्धये ॥२६४॥
पुत्रजीव फलैर्हुत्वायुतं मधुरसंप्लुतेः ॥ तत्कोष्ठेधिते वह्रौ सुतान्दीर्घायुषो लभेत् ॥२६५॥
क्षीरदुक्कासंपूर्णमभ्यर्च्य कलशं निशि ॥ प्रातर्ज्जप्त्वायुतं नारीमभिषिंचेद्दिषड्‌दिनम् ॥२६६॥
एवं कृते तु वंध्यापि लभेत्पुत्रांश्विरायुषः ॥ प्रातर्वाचंमाश्वत्थदलंसपुटकं जलम् ॥२६७॥
अष्टोत्तरशतं जप्तं मासं पुत्रार्थिनी पिबेत् ॥ सर्वलक्षणसंपन्नं वंध्यापि लभते सुतम् ॥२६८॥
जित्वा कृत्यां काशिराजप्रेषितां च निजारिणः ॥ तेजसा तस्य नगरं दहंतं भावयन्हरिम् ॥२६९॥
हुनेत्सप्तदिनं मंत्री सुस्नेहाक्तैश्व सर्षपैः ॥ कृत्याकर्तारमेवास्मै कुपिता नाशयेद्धुवम् ॥२७०॥
बदरीद्रुमसंकीर्णे स्थितं दिव्याश्रमे शुभे ॥ स्पृशंत करपद्माभ्यां घंटाकर्णकलेवरम् ॥२७१॥
ध्यात्वैवं जुहुयाल्लक्षं तिलैस्त्रिमधुराप्लुतैः ॥ महापापयुतोऽप्येवं पूतो भवति तत्क्षणात् ॥२७२॥
द्यूतासक्ती रुक्मिबलौ द्वेषंयतं हरिं स्मरन् ॥ जुहुयादिष्टयोर्द्विष्टयै गुलिका गोमयोद्धवाः ॥२७३॥
नित्यं सहस्त्रं सप्ताहान्मिथो विद्वेषयेदरीन् ॥ वर्षंतं गरुडारुढं ज्वलदग्रिमुखैः शरैः ॥२७४॥
धावंतं रिपुसंघातमनुधावतमच्युतम् ॥ ध्यात्वा सप्तसहस्त्रं तु जपेन्मंत्रमनन्यधीः ॥२७५॥
उच्चाटनं भवत्येव शत्रूणां सप्तभिर्दिनैः । ध्यायन्नुत्क्षिप्तवत्सं तु कपित्थफलहारिणम् ॥२७६॥
प्रजपेदयुतं शत्रुमुच्चा टयति तत्क्षणात् ॥ आत्मानं कंसमथनं ध्यायमंचाव्रिपातितम् ॥२७७॥
कंसात्मानं व्यकर्षन्तं गतासुं तं जपेन्मनुम् ॥ रिपुजन्मर्क्षवृक्षोत्थसमिद्धिरयुतं निशि ॥२७८॥
जुहुयादेवमुग्रोऽपि सपत्नो निधनं व्रजेत् ॥ अथवा निंबतैलाकैर्हुनेदेधोभिरक्षजैः ॥२७९॥
अयुतं नियतो रात्रौ मारये दचिरादरीन् ॥ नीशादिष्टदलव्योषकार्पासास्थिकरौर्निशि ॥२८०॥
हुनेदेरेंडतैलार्क्तः श्मशाने रिपुशांतये ॥ न शस्तं मारणं कर्म कुर्य्याच्चेदयुतं हुनेन् ॥२८१॥
पायसैर्वा हुनेत्तावच्छांतये शांतमानसः ॥ पारिजातहरं कृष्णं घ्यायन् लक्षं जपेन्मनुम् ॥२८२॥
सर्वत्रैव जयस्तस्य च कदापि पराजयः ॥ व्याख्यासमुदाकरं कृष्णं रथस्थं भावयञ्जपेत् ॥२८३॥
पार्थे दिशंतं गीतार्थ धर्मवृद्धयै सुमानवः ॥ पालाशपुष्पैर्मध्वक्तैर्लक्षं विद्याप्तये हुनेन ॥२८४॥
राष्ट्रपूर्ग्रामवस्तूनां शरीरस्यापि रक्षणे ॥ विश्वरुपधरं प्रोद्यद्धानुकोटिसमप्रभम् ॥२८५॥
अग्नीषोमात्मकं कृष्णं दुतचामीकरप्र भम् ॥ अर्काग्निद्योतितस्यांघ्रिंपंकज दिव्यभूषणम् ॥२८६॥
नानायुधधरं प्राप्तं विश्वाकाशावकाशकम् ॥ ध्यात्वा लक्ष जपेन्मन्त्रं रक्षणाय समाहितः ॥२८७॥
रक्तैर्वन्यप्रसूनैयां दिनादौ पूजयेद्धरिम् ॥ दिनमध्योक्तविधिना जपेदष्टोत्तरं शतम् ॥२८८॥
सहस्त्रमंडलान्मन्त्री वशयेन्मुखरा न्दिजान्‍ ॥ जातिपुष्पैः क्षत्रियांश्र्व गोपवेषधरं स्मरन्‍ ॥२८९॥
ध्यायन्‍ क्रीडारतं कृष्णं रत्कैरश्वारिपुष्पकैः ॥ वशयेद्वैश्यजातीयान्‍ शूद्रान्नीलोत्पलैः स्मरन्‍ ॥२९०॥
गीतनृत्यरतं श्वेतपुष्पैः साज्यैश्व तंदुलैः ॥ हुत्वान्वहं सप्तदिनं भस्म भाले च मूर्द्धनि ॥२९१॥
धारयन्वशयेत्कांताम सापि तद्वत्पतिं ध्रुवम् ॥ तांबूल कुसुमं वासोऽजनं चंदनमेव च ॥२९२॥
सहस्त्रं मनुना जप्तं दद्यद्यस्मै नराय च ॥ सोऽचिरादेष वशगः सपुत्रपशुबांधवः ॥२९३॥
वृन्दारण्यास्थितं ध्यायन्बल्लवीसंयुतं हरिम् ॥ अपामार्गसमिद्धिस्तु हुत्वा तु वशयेज्जगत् ॥२९४॥
संप्राप्य सद्धरो र्दीक्षां कृष्णं यो विधिनामुना ॥ अर्चयद्वैष्णश्रेष्ठः सोऽष्टसिद्धीश्वरो भवेत् ॥२९५॥
तस्य दर्शनमात्रेण वादिनो निष्प्रभोः स्मृताः ॥ वसेत्सर स्वती वक्रे गृहे चापि सभासदः ॥२९६॥
भुक्ता नानाविधान्भोगानंते विष्णुपदं व्रजेत् ॥२९७॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे तृतीयपादे कृष्णमन्त्रनिरुपणं नामाशीतितमोऽध्यायः ॥८०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T04:33:34.2630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दुर्वा

  • स्त्रीअव . एक प्रकारचे पवित्र मानलेले गवत ; हरळीचा तीन पातींचा शेंडा प्रत्येक . हे गणपतीस वाहतात ; ( सामा . ) हरळी . दूर्वा पहा . [ सं . दूर्वा ] 
  • ( प्र . ) दूर्वा , दूर्वाव्रत , दूर्वाष्टमी इ० पहा . 
  • स्त्रीअव . एक प्रकारचे पवित्र मानलेले गवत ; हरळीचा तीन पातींचा शेंडा प्रत्येक . हे गणपतीस वाहतात ; ( सामा . ) हरळी . दूर्वा पहा . [ सं . दूर्वा ] 
  • ( प्र . ) दूर्वा , दूर्वाव्रत , दूर्वाष्टमी इ० पहा . 
RANDOM WORD

Did you know?

What are the names for Ekadashi (11th day in fortnight)?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site