TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
त्रयोदशोऽध्यायः

श्री नारदीयमहापुराणम् - त्रयोदशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


त्रयोदशोऽध्यायः

धर्मराज उवाच ॥

देवतायतनं यस्तु कुरुते कारयत्यपि ॥ शिवस्यापि हरेर्वापि तस्य पुण्यफलं श़ृणु ॥१॥

मातृतः पितृतश्चैव लक्षकोटिकुलान्वितः ॥ कल्पत्रयं विष्णुपदे तिष्ठत्येव न संशयः ॥२॥

मृदैव कुरुते यस्तु देवतायतनं नरः ॥ यावत्पुण्यं भवेत्तस्य तन्मे निगदतः श़ृणु ॥३॥

दिव्यदेहधरो भूत्वा विमानवरमास्थितः॥ कल्पत्रयं विष्णुपदे तिष्ठत्येव न संशयः ॥४॥

मृदैव कुरुते यस्तु देवतायतनं नरः ॥ यावत्पुण्यं भवेत्तस्य तन्मे निगदतः श़ृणु ॥५॥

दिव्यदेहधरो भूत्वा विमानवरमास्थितः ॥ कल्पत्रयं विष्णुपदे स्थित्वा ब्रह्मपुरं व्रजेत् ॥६॥

कल्पद्वयं स्थितस्तत्र पुनः कल्पं वसेद्दिवि ॥ ततस्तु योगिनामेव कुले जातो दयान्वितः ॥७॥

वैष्णवं योगमास्थाय मुक्तिं व्रजति शाश्वतीम् दारुभिः कुरुते यस्तु तस्य स्याद्दिगुणं फलम् ॥८॥

त्रिगुणं चेष्टाकाभिस्तु शिलाभिस्तच्चतुर्गुणम् ॥ स्फाटिकाभिः शिलाभिस्तु ज्ञेयं दशगुणोत्तरम् ॥९॥

ताम्रीभिस्तच्छतगुणं हेम्ना कोटिगुणं भवेत् ॥ देवालयं तडागं वा ग्रामं वा पालयेत्तु यः ॥१०॥

कर्तुः शतगुणं तस्य पुण्यं भवति भूपते ॥ देवालयस्य शुश्रूषां लेपसेचन मंडनैः ॥११॥

कुर्याद्यत्सततं भक्तया तस्य पुण्यमनन्तकम् ॥ वेतनाद्विष्टितो वापि पुण्यकर्मप्रवर्तिताः ॥१२॥

ते गच्छंति धराधाराः शाश्वतं वैष्णवं पदम् ॥ तडागार्द्धफलं राजन्कासारे परिकीर्तितम् ॥१३॥

कूपे पादफलं ज्ञेयं वाप्यां पद्माकरोन्मितम् ॥ वापीशतगुणं प्रोक्तं कुल्यायां भूपतेः फलम् ॥१४॥

दृषाद्भिस्तु धनी कुर्यान्मृदा निष्किञ्चनो जनः ॥ तयोः फलं समानं स्यादित्याह कमलोद्भवः ॥१५॥

दद्यादाढ्यस्तु नगरं हस्तमात्रमकिंचनः ॥ भुवं तयोः समफलं प्राहुर्वेदविदो जनाः ॥१६॥

धनाढ्यः कुरुते यस्तु तडागं फलसाधनम् ॥ दरिद्रः कुरुते कूपं समं पुण्यं प्रकीर्तितम् ॥१७॥

आश्रमं कारयेद्यस्तु बहुजन्तूपकारकम् ॥ स याति ब्रह्मभुवनं कुलत्रयसमन्वितः ॥१८॥

धेनुर्वा ब्राह्मणो वापि यो वा को वापि भूपते ॥ क्षणार्द्ध तस्य छायायां तिष्ठन्स्वर्गं नयत्यमुम् ॥१९॥

आरामकारका राजन्देवतागृहकारिणः ॥ तडागग्रामकर्त्तारः पूज्यन्ते हरिणा सह ॥२०॥

सर्वलोकोपकारार्थं पुष्पा रामं जनेश्वर ॥ कुर्वते देवतार्थं वा तेषां पुण्यफलं श़ृणु ॥२१॥

तत्र यावन्ति पर्णानि कुसुमानि भवन्ति च ॥ तावद्वर्षाणि नाकस्थो मोदते कुलकोटिभिः ॥२२॥

प्राकारकारिणस्तस्य कंटकावरणप्रदाः ॥ प्रयान्ति ब्रह्मणः स्थानं युगानामेकसप्ततिम् ॥२३॥

तुलसीरोपणं ये तु कुर्वते मनुजेश्वर ॥ तेषां पुण्यफलं राजन्वदतो मे निशामय ॥२४॥

सप्तकोटिकुलैर्युक्तो मातृतः पितृतस्तथा ॥ वसैत्कल्पशतं साग्रं नारायणपदे नृप ॥२५॥

ऊर्द्धपुण्ड्रधरो यस्तु तुलसीमूलमृत्स्रया ॥ गोपिकाचन्दनेनापि चित्रकूटमृदापि वा ॥ गङ्गामृत्तिकया चैव तस्य पुण्यफलं श़ृणु ॥२६॥

विमानवरमा रूढो गन्धर्वाप्सरसां गणैः ॥ संगीयमानचरितो मोदते विष्णुमंदिरे ॥२७॥

पत्राणि तुलसीमूलाद्यावन्ति पतितानि वै ॥ तावन्ति ब्रह्महत्यादिपातकानि हतानि च ॥२८॥

तुलस्यां सेचयेद्यस्तु जलं चुलुकमात्रकम् ॥ क्षीरोदवासिना सार्द्ध वसेदाचंद्रातारकम् ॥२९॥

ददाति ब्राह्मणानां यः कोमलं तुलीसदलम् ॥ स याति ब्रह्मसदने कुलत्रितयसंयुतः ॥३०॥

शालग्रामेऽर्पयेद्यस्तु तुलस्यास्तु दलानि च ॥ स वसेद्विष्णुभवने यावदाभूतसंप्लवम् ॥३१॥

कण्टकावरणं यस्तु प्राकारं वापि करायेत ॥ सोऽप्येकविंशतिकुलैर्मोदते विष्णुमंदिरे ॥३२॥

योऽर्च्चयेद्धरिपादाब्जं तुलस्याः कोमलैर्दलैः॥ न तस्य पुनरावृत्तिवैष्णुलोकान्नरेश्वर ॥३३॥

द्वादश्यां पौर्णमास्यां यः क्षीरेण स्नापयेद्धरिम् ॥ कुलायुतयुतः सोऽपि मोदते वैष्णवे पदे ॥३४॥

प्रस्थमात्रेण पयसा यः स्नापयति केशवम् ॥ कुलायुतायुतयुतः सोऽपि विष्णुपुरे वसेत् ॥३५॥

घृतप्रस्थेन यो विष्णु द्वादश्यां स्रापयेन्नरः ॥ कुलकोटियुतो राजन्सायुज्यं लभते हरेः ॥३६॥

पञ्चामृतेन यः स्नानमेकादश्यां तु कारयेत् ॥ विष्णोः सायुज्यकं तस्य भवेत्कुलशतायुतैः ॥३७॥

एकादश्यां पौर्णमास्यां द्वादश्यां वा नृपोत्तम ॥ नालिकेरोदकैर्विष्णुं स्नापयेत्तत्फलं श़ृणु ॥३८॥

दशजन्मार्जितैः पापैर्विमुक्तो नृपसत्तम ॥ शतद्वयकुलैर्युक्तो मोदते विष्णुना सह ॥३९॥

इक्षुतोयेन देवेशं यः स्नापयति भूपते ॥ केशवं लक्षपितृभिः सार्द्धं विष्णुपदं व्रजेत् ॥४०॥

पुष्पोदकेन गोविन्द तथा गन्धोदकेन च ॥ स्नापयित्वा हरिं भक्तया वैष्णवं पदमाप्नुयात् ॥४१॥

जलेन वस्त्र पूतेन यः स्नापयति माधवम् ॥ सर्वपापविनिर्मुक्तो विष्णुनः सह मोदते ॥४२॥

क्षीराद्यैः स्नापयेद्यस्तु रविसंक्रमणे हरिम् ॥ स वसेद्विष्णुसदने त्रिसप्तपुरुषैः सह ॥४३॥

शुक्लपक्षे चतुर्द्दश्यामष्टम्यां पूर्णिमादिने ॥४४॥

एकादश्यां भानुवारे द्वादश्यां पञ्चमीतिथौ ॥ सोमसूर्योपरागे च मन्वादिषुयुगादिषु ॥४५॥

अर्द्धोदये च सूर्यस्य पुष्यार्के रोहिणीबुधे ॥ तथैव शनिरोहिण्यां भौमाश्विन्यां तथैव च ॥४६॥

शन्यां भृगुमृगे चैवभृगुरेवतिसङ्गमे ॥ तथा बुधानुराधायां श्रवणार्के तथैव च ॥४७॥

तथा च सोमश्रवणे हस्तयुक्तेबृहस्पतौ ॥ बुधाष्टम्यां बुधाषाढे पुण्ये चान्ये दिने तथा ॥४८॥

स्नापयेत्पयसा विष्णुं शान्तिमान् वाग्यतः शुचिः॥ घृतेन मधुना वापि दघ्ना वा तत्फलं श़ृणु ॥४९॥

सर्वयज्ञफलं प्राप्य सर्वपापविवर्जितः ॥ वसेद्विष्णुपुरे सार्द्धं त्रिसप्तपुरुषैर्नृप ॥५०॥

तत्रैव ज्ञानमासाद्य योगिनामपि दुर्लभम् ॥ मोक्षमाप्नोति नृपते पुनरावृत्तिदुर्लभम् ॥५१॥

कृष्णपृक्षे चतुर्दश्यां सोमवारे च भूपते ॥ शिवं संस्नाप्य दुग्धेन शिवसायुज्यमाप्नुयात् ॥५२॥

नालिकेरोदकेनापि शिवं संस्नाप्य भक्तितः ॥ अष्टम्यामिन्दुवारे वा शिवसायुज्यमश्नुते ॥५३॥

शुक्लपक्षे चतुर्दश्यामष्टम्यां वापि भूपते ॥ धृतेन मधुना स्नाप्य शिवं तत्साम्यतां व्रजेत् ॥५४॥

तिलतैलेन संस्नाप्य विष्णुं वा शिवमेव च ॥ स याति तत्तत्सारूप्यं पितृभिः सह सप्तभिः ॥५५॥

शिवमिक्षुरसेनापि यः स्नापयति भक्तितः ॥ शिवलोके वसेत्कल्पं स सप्तपुरुषैः सह ॥५६॥

घृतेन स्नापयेल्लिङ्गमुत्थाने द्वादशीदिने ॥ क्षीरेण वा महाभाग तत्फलं श़ृणु मदिरा ॥५७॥

जन्मायुतकृतैः पापैविर्मुक्तो मनुजो नृप ॥ कोटि संख्यं समृद्धृत्य स्वकुलं शिवतां व्रजेत् ॥५८॥

सम्पूज्य गन्धकुसुमौर्विष्णुं विष्णुतिथौ नृप ॥ जन्मायुतार्जितैः पापैर्मुक्तो व्रजति तत्पदम् ॥५९॥

पद्मपुष्पेण यो विष्णुं शिवं वा पूजयेन्नरः ॥ स याति विष्णुभवनं कुलकोटिसमन्वितः ॥६०॥

हरिं च केतकीपुष्पैः शिवं धतूरजैर्तिशि ॥ संपूज्य पापनिर्मुक्तो वसेद्विष्णुपुरे युगम् ॥६१॥

हरिं तु चाम्पकैः पुष्पैरर्कपुष्पैश्च शंकरम् ॥ समभ्यर्च्य महाराज तत्तत्सालोक्यमाप्नुयात् ॥६२॥

शंकर स्याथवा विष्णोर्घृतयुक्तं च गुग्गुलुम् ॥ दत्त्वा धूपे नरो भक्तया सर्वपापैः प्रमुच्यते ॥६३॥

तिलतैलान्वितं दीपं विष्णोर्वा शंकरस्य वा ॥ दत्त्वा धूपे नरो भक्तया सर्वपापैः प्रमुच्यते ॥६३॥

तिलतैलान्वितं दीपं विष्णोर्वा शंकरस्य वा ॥ दत्वा नरः सर्वकामान्संप्राप्नोति नृपोत्तम ॥६४॥

घृतेन दीपं यो दद्याच्छंकरायाथ विष्णवे ॥ स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ॥६५॥

ग्राम्येन वापि तैलेन राजन्नन्येन वा पुनः ॥ दीपं दत्त्वा महाविष्णोः शिवस्यापि फलं श़ृणु ॥६६॥

सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ॥ तत्तत्सालोक्यमाप्नोति त्रिःसप्तपुरुषान्वितः ॥६७॥

यद्यदिष्टतमं भोज्यं ततदीशाय विष्णवे ॥ दत्त्वा तत्तत्पदं याति चत्वारिंशत्कुलान्वितः ॥६८॥

यद्यदिष्टतमं वस्तु ततद्विप्राय दापयेत् ॥ स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ॥६९॥

भू्रणहा स्वर्णदानेन शुद्धो भवति भूपते ॥ अन्नतोयसमंदानं न भूतं न भविष्यति ॥७०॥

अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः ॥ सर्वदानफलं यस्मादन्नदस्य नृपोत्तम ॥७१॥

अन्नदो ब्रह्मसदनं याति वंशायुतान्वितः ॥ न तस्य पुनरावृत्तिरिति शास्त्रेषु निश्चितम् ॥७२॥

सद्यस्तुष्टिकरं ज्ञेयं जलदानं यतोऽधिकम् ॥ अन्नदानान्नृपश्रेष्ठ निर्दिष्ठं ब्रह्मवादिभिः ॥७३॥

महापातकयुक्तो वा युक्तो वाप्युपपातकैः ॥ जलदो मुच्यते तेभ्य इत्याह कलमोद्भवः ॥७४॥

शरीरमन्नजं प्राहुः प्राणानप्यन्नजान्विदुः ॥ तस्मादन्नप्रदो ज्ञेयः प्राणदः पृथिवीपते ॥७५॥

यद्यतुष्टिकरं दानं सव्रकामफलप्रदम् ॥ तस्मादन्नसमं दानं नास्ति भूपाल भूतले ॥७६॥

अन्नदस्य कुले जाता आसहंस्र नृपोत्तम ॥ नरकं ते न पश्यन्ति तस्मादन्नप्रदो वरः ॥७७॥

पादाभ्यङ्गं भक्तियुक्तो योऽतिथेः कुरुते नरः ॥ स स्रातः सर्वतीर्थेषु गङ्गास्नानपुरः सरम् ॥७८॥

तैलाभ्यङ्गं महाराज ब्राह्मणानां करोति यः ॥ स स्नातोऽष्टशतं साग्रं गङ्गायां नात्र संशयः ॥७९॥

रोगि तान्ब्रह्माणान्यस्तु प्रेम्णा रक्षति रक्षकः ॥ स कोटिकुलसंयुक्तो वसेद्ब्रह्मपुरे युगम् ॥८०॥

यो रक्षेत्पृथिवीपाल रङ्कं वा रोगिणं नरम् ॥ तस्य विष्णुः प्रसन्नात्मा सर्वान्कामान्प्रयच्छति ॥८१॥

मनसा कर्मणा वाचा यो रक्षेदामयान्वितम् ॥ सर्वान्कामानवाप्नोति सर्वपापविवर्जितः ॥८२॥

यो ददाति महीपाल निवासं ब्राह्मणाय वै ॥ तस्य प्रसन्नो देवेशः स्वलोकं संप्रयच्छति ॥८३॥

ब्राह्मणाय ब्रह्मविदे यो दद्याद्रां पयस्विनीम् ॥ स याति ब्रह्मसदनमन्येषामतिदुर्लभम् ॥८४॥

अन्येभ्यः प्रतिगृह्यापि यो दद्याद्रां पयस्विनीम् ॥ तस्य पुण्यफलं वक्तुं नाहं शक्तोऽस्मि पण्डित ॥८५॥

कपिलां वेदवि दुषे यो ददाति पयस्विनीम् ॥ स एव रुद्रो भूपाल सर्वपापविवर्जितः ॥८६॥

विप्राय वेदविदुषे दद्यदुभयतोमुखीम् ॥ यतस्य पुण्यं संख्यातु न शक्तोऽब्द शतैरपि ॥८७॥

तस्य पुण्यफलं राजञ्श़ृणु वक्ष्यामि तत्त्वतः ॥ एकतः क्रतवः सर्वे समग्रवरदक्षिणाः ॥८८॥

एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥ संरक्षति महीपाल यो विप्रं भयविह्वलम् ॥८९॥

स स्त्रातः सर्वतीर्थेषु सर्वज्ञेषु दीक्षितः ॥ वस्त्रदो रुद्रभवनं कन्यादो ब्रह्मणः पदम् ‍ ॥९०॥
हेमदो विष्णु भवनं प्रयाति स्वकुलान्वितः ॥ यस्तु कन्यामलंकृत्य ददात्यध्यात्मवेदिने ॥९१॥

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः॥ वस्रदो रुद्रभवनं कन्यादो ब्रह्मणः पदम् ॥ कार्तिक्यां पौर्णमास्यां वा आषाढ्यां वापि भूपते ॥९२॥

वृषभं शिवतुष्ट्यर्थमुत्सृजेत्तत्फलं श़ृणु ॥ सप्तजन्मार्जितैः पापैर्विमुक्तो रुद्ररूपभाकू ॥९३॥

कुलसप्ततिसंयुक्तो रुद्रेण सह मोदते ॥ शिवलिङ्गांकितं कृत्वा महिषं यः समुत्सृजेत् ॥९४॥

न तस्य यातनालोको भवेन्नृपतिसत्तम ॥९५॥

तस्यः विष्णुः प्रसन्नात्मा ददात्यायुर्यशः श्रियम् ॥ क्षीरोदो घृतदश्चैव मधुदो दधिदस्तथा ॥९६॥

दिव्याब्दायुतपर्यंतं स्वर्गलोके महीयते ॥ प्रयाति ब्रह्मसदनमिक्षुदाता नृपोत्तम ॥९७॥

गन्धदः पुण्यफलदः प्रयाति ब्रह्मणः पदम् ‍ ॥ गुडेक्षुरसदश्वैव प्रयाति क्षीरसागरम् ‍ ॥९८॥

भटानां जलदो याति सूर्यलोकमनुत्तमम् ‍ ॥ विद्यादनेन सायुज्यं माधवस्य व्रजेन्नर ॥९९॥

गन्धदः पुण्यफलदः प्रयाति ब्रह्मणः पदम् ॥ गुडेक्षुरसदश्चैव प्रयाति क्षीरसागत्तमम् ॥ नरकादुद्धरन्त्येव जपवानदोहनात् ॥१००॥

सर्वेषामपि दानानां विद्यादानं विशिष्यते ॥ विद्यादानेन सायुज्यं विष्णोर्याति नृपोत्तम ॥१॥

नरस्त्वन्धनदानेन मुच्यते ह्युपपताकैः ॥ शालग्रामशिलादानं महादानं प्रकीर्तितम् ॥२॥

यद्दत्त्वा मोक्षमाप्नोति लिङ्गदानं तथा स्मृतम् ॥ ब्रह्माण्ड कोटिदानेन यत्फलं लभते नरः ॥३॥

तत्फलं समवाप्नोति लिङ्गदानान्न् संशयः ॥ शालग्रामशिलादाने ततोऽपि द्विगुणं फलम् ॥४॥

शाल ग्रामशिलारूपी विष्णुरेवेति विश्रुतः ॥ यो ददाति नरो दानं गृहेषु महतां प्रभो ॥५॥

गङ्गास्नानफलं तस्य निश्चितं नृप जायते ॥ रत्नान्वितसुव तस्य प्रदानन नृपात्तम ॥६॥

भुक्तिमुक्तिमवाप्नोति महादानं यतः स्मृतम् ॥ नरो माणिक्यदानेन परं मोक्षमवाप्नुयात् ॥७॥

घ्रुवलोकमवाप्नोति वज्रदानेन मानवः ॥ स्वर्गं विद्रुमदानेन रुद्रलोकमवाप्नुयात् ॥८॥

प्रयति यानदानेन मुक्तादानेन चैन्दवम् ॥ वै डूर्यदो रुद्रलोकं पुष्परागप्रदस्तथा ॥९॥

पुष्परागप्रदानेन सर्वत्र सुखमश्नुते ॥ अश्वदो ह्यश्वसांनिध्यं चिरं व्रजति भूमिप ॥१०॥

गजदानेन महता सर्वान्कामानवाप्नुयात् ॥ प्रयाति यानदानेन स्वर्गं स्वर्यानमास्थितः ॥११॥

महिषीदो जयत्वेव ह्यपमृत्युं न संशयः ॥ गवां तृणप्रदानेन रुद्रलोकमवाप्नुयात् ॥१२॥

वारुणं लोकमाप्नोति महीश लवणप्रदः ॥ स्वाश्रमाचारनिरताः सर्वभूतहितेरताः ॥१३॥

अदाम्भिका गतासूयाः प्रयान्ति ब्रह्मणः पदम् ॥ परोपदेश निरता वीतरागा विमत्सराः ॥१४॥

हरिपादार्चनरताः प्रायान्ति सदनं हरेः॥ सत्सङ्गाह्लादनिरताः सत्कर्मसु सदोद्यताः ॥१५॥

परापवादविमुखाः प्रयान्ति हरिमन्दिरम् ॥ नित्यं हितकरा ये तु ब्राह्मणेषु च गोषु च ॥१६॥

परस्त्रीसङ्गविमुखा न पश्यन्ति यमालयम् ॥ जितेन्द्रिया जिताहारा गोषुक्षान्ताः सुशीलिनः ॥१७॥

ब्राह्मणेषु क्षमाशीलाः प्रयांति भवनं हरेः ॥ अग्निशुश्रूषवश्चैव गुरुशुश्रूषकास्तथा ॥१८॥

पतिशुश्रूषणरता न वै संसृतिभागिनः ॥ सदा देवार्चनरता हरिनामपरायणाः ॥१९॥

प्रतिग्रहनिवृत्ताश्च प्रयान्ति परमं पदम् ॥ अनाथं विप्रकुणपं ये दहेयुर्नृपोत्तम् ॥२०॥

अश्वमेधसहस्राणां फलमश्नुवते सदा ॥ पत्रैः पुष्पैः फलैर्वापि जलैर्वा मनुजेश्वर ॥२१॥

पूजया रहितं लिङ्गमचर्यत्तेत्फलं श़ृणु ॥ अप्सरोगणगन्धर्वैः स्तूयमानो विमानगः ॥२२॥

प्रयाति शिवसान्निध्यामित्याह कमलोद्भवः॥ चुलुकोदकमात्रेण लिङ्गं संस्नाप्य भूमिप ॥२३॥

लक्षाश्वमेधजं पुण्यं संप्राप्नोति न संशयः ॥ पूजया रहितं लिङ्गं कुसुमैर्योऽर्चयेत्सुधीः ॥२४॥

अश्वमेधायुतफलं भवेत्तस्य जनेश्वर ॥ भक्ष्यैर्भोज्येः फलैर्वापि शून्यं लिङ्गं प्रपूज्य च ॥२५॥

शिवसायुज्यमाप्नोति पुनरावृत्तिवर्जितम् ॥ पूजया रहितं विष्णुं योऽचर्यदर्कवंशज ॥२६॥

जलेनापि स सालोक्यं विष्णोर्याति नरोत्तम ॥ देवतायतने यस्तु कुर्यात्संमार्जनं सुधीः ॥२७॥

यावत्पांसु युगावासं वैष्णवे मन्दिरे लभेत् ॥ शीर्णं स्फटिकलिङ्गं तु यः संदध्यान्नृपोत्तम् ॥२८॥

शतजन्मार्जितैः पापैर्मुच्यते स तु मानवः ॥ यस्ततु देवालये राजन्निपि गोचर्ममात्रकम् ॥२९॥

जलेन सिञ्चेद्भूभागं सोऽपि स्वर्गं लभेन्नरः ॥ गन्धोदकेन यः सिञ्चेद्देवतायतने भुवम् ॥३०॥

यावत्कणानुकल्पं तु तिष्ठत देवसन्निधौ ॥ मृदा धातुविकारैर्वा यो लिम्पेद्देवतागृहम् ॥३१॥

स कोटिकुलमुद्धृत्य याति साम्यं मधुद्विषः॥ शिलाचूर्णेन यो मर्त्यो देवागारं तु लेपयेत् ॥३२॥

स्वस्तिकादीनि वा कुर्यात्तस्य पुण्यम नन्तकम् ॥ यः कुर्याद्दीपरचनां देवतायतने नृप ॥३३॥

तस्य पुण्यं प्रसंख्यातुं नोत्सहेऽब्दशतैरपि ॥ अखण्डदीपं यः कुर्याद्विष्णोर्वा शंकरस्यच ॥३४॥

क्षणे क्षणेऽश्वमेधस्य फलं तस्य न दुर्लभम् ॥ अर्चितं शंकरं दृष्ट्वा विष्णुं वापि नमेत्तु यः ॥३५॥

स विष्णुभवनं प्राप्य मोदते च युगायुतम् ॥ देव्याः प्रदक्षिणामेकां सप्त सूर्यस्य भूमिप ॥३६॥

तिस्रो विनायकस्यापि चतस्रो विष्णुमन्दिरे ॥ कृत्वा तत्तद्रुहं प्राप्य मोदत युगलक्षकम् ॥३७॥

यो विष्णो र्भक्तिभावेन तथैव गोद्विजस्य च ॥ प्रदक्षिणां चरेत्तस्य ह्यश्वमेधः पदे पदे ॥३८॥

काश्यां माहेश्वरं लिङ्गं संपूज्य प्रणमेत्तु यः॥ न तस्य विद्यते कृत्य संसृतिर्नैव जायते ॥३९॥

शिवं प्रदक्षिणं कृत्वा सव्येनैव विधानतः ॥ नरो च च्यवते स्वर्गाच्छंकरस्य प्रसादतः ॥४०॥

स्तुत्वा स्तोत्रैर्जगन्नाथं नारायणमनामयम् ॥ सर्वान्कामानवाप्नोति मनसा यद्यदिच्छति ॥४१॥

देवतायतने यस्तु भक्तियुक्तः प्रनृत्यति ॥ गायते वा स भूपाल रुद्रलोके च मुक्तिभाक् ॥४२॥

ये तु वाद्यं प्रकुर्वन्ति देवतायतने नराः ॥ ते हंसायनमारूढा व्रजन्ति ब्रह्मणः पदम् ॥४३॥

करतालं प्रकुर्वन्ति देवतायतने तु येते सर्वपापनिर्मुक्ता विमानस्था युगायुतम् ॥४४॥

देवतायतने ये तु घण्टानादं प्रकुर्वते ॥ तेषां पुण्यं निगदितुं न समर्थः शिवः स्वयम् ॥४५॥

भेरी मृदङ्गपटहमुरजैश्च सडिण्डिमैः॥ संप्रीणयन्ति देवेशं तेषां पुण्यफलं श़ृणु ॥४६॥

देवस्त्रीगणसंयुक्ताः सर्वकामैः समर्चिताः ॥ स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपञ्चकम् ॥४७॥

देवतामन्दिरे कुर्वन्नरः शङ्खखं नृप ॥ सर्वपापविनिर्मुक्तो विष्णुना सह मोदते ॥४८॥

तालकांस्यादिनिनदं कुर्वन् विष्णु गृहे नरः ॥ सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥४९॥

यो देवः सर्वदृग्विष्णुर्ज्ञानरूपी निरञ्जनः ॥ सर्वधर्मफलं पूर्णं संतुष्टः प्रददाति च ॥५०॥

यस्य स्मरणमात्रेण देवदेवस्य चक्रिणः ॥ सफलानि भवन्त्येव सर्वकर्माणि भूपते ॥५१॥

परमात्मा जगन्नाथः सव्रकर्म्मफलप्रदः ॥ सत्कर्मकर्त्तुभिनित्यं स्मृतः सर्वार्तिनाशनः ॥ तमुद्दिश्य कृतं यच्च तदानन्त्याय कल्पते ॥५२॥

धर्माणि विष्णुश्च फलानि विष्णुः कर्माणि विष्णुश्च फलानि भोक्ता ॥ कार्यं च विष्णुः करणानि विष्णुरस्मान्न किंचिव्द्यातिरिक्तमस्ति ॥५३॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्मानुकथनं नाम त्रयोदशोऽध्यायः ॥१३

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:28:43.4870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

घर लुटणें

  • घरावर तुळशीपत्र ठेवून आपण काहीएक चीजवस्‍तू न घेतां घराबाहेर पडणे व घरातील सर्व मालमत्ता ब्राह्मणास दान म्‍हणून देऊन लुटावयास सांगणें. 
RANDOM WORD

Did you know?

गंध का लावावे ? अधिक माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site