TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
चतुस्त्रिंशोऽध्यायः

श्री नारदीयमहापुराणम् - चतुस्त्रिंशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


चतुस्त्रिंशोऽध्यायः

॥ श्री नारद उवाच ॥

समाख्यातानि सर्वाणि योगाङ्गानि महामुने ॥ इदानीमपि सर्वज्ञ यत्पृच्छामि तदुच्यताम् ॥

योगोभक्तिमतामेव सिध्यतीति त्वयोदितम् ॥ यस्य तुष्यति सर्वेशस्तस्य भक्तिश्र्च शाश्र्वतम् ॥२॥

यथा तुष्यति सर्वेशो देवदेवो जनार्दनः॥ तन्ममाख्याहि सर्वज्ञ मुने कारुण्यवारिघे ॥३॥

सनक उवाच ॥ नारायणं परं देवं सच्चिदानन्दविग्रहम् ॥ भज सर्वात्मना विप्र यदि मुक्तिमभीप्ससि ॥४॥

रिपवस्तं न हिसन्ति न बाधंते ग्रहाश्र्चतम् ॥ राक्षसाश्र्च न चेक्षन्ते नरं विष्णुपरायणम् ॥५॥

भक्तिद्यस्य देवदेवे जनार्दने ॥ श्रेयांसि तस्य सिध्यन्ति भक्तिमन्तोऽधिकास्ततः॥६॥

पादौ तौ सफलौ पुंसां यौ विष्णुगृहगामिनौ ॥ तौ करौ सफलौ ज्ञेयौ विष्णुपूजापरौ तु यौ ॥७॥

ते नेत्रे सुफले पुंसां पश्यतो ये जनार्दनम् ॥ सा जिह्वा प्रोच्यते सद्भिर्हरिनामपरा तु या ॥८॥

सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ तत्त्वं गुरुसमं नारित न देवः केशवात्परः ॥९॥

सत्यं वच्मिहितं वच्मि पुनः पुनः ॥ असारेऽस्मिंस्तु संसारे सत्यं हरिसमर्चनम् ॥१०

संसारपाशं सुदृढं महामोहप्रदायकम् ॥ हरिभक्तिकुठारेण च्छित्त्वात्यन्तसुखी भव ॥११

तन्मनः संयुतं विष्णौ सा वाणी यत्परायणा ॥ ते श्रोत्रे तत्कथासारपूरिते लोकवंदिते ॥२॥

आनन्दमक्षरं शून्यमवस्था त्रितयैरपि ॥ आकाशमध्यगं देवं भज नारद संततम् ॥३॥

स्थानं न शक्यते यस्य स्वरूपं वा कदाचन ॥ निर्देष्टुं मुनिशार्दूल द्रष्टुं वाप्य कृतात्मभिः ॥४॥

समस्तैः करणैर्युक्तो वर्त्ततेऽसौ यदा तदा ॥ जाग्रदित्युच्यते सद्भिरन्तर्यामी सनातनः ॥५॥

यदान्तःकरणैर्युक्तः स्वेच्छया विचरत्यसौ ॥ स्वपन्नित्युच्यते ह्यात्मा यदा स्वापविवर्जितः ॥६॥

न बाह्यकरणैर्युक्तो न चान्तः करणैस्तथा ॥ अस्वरूपो यदात्मासौ पुण्यापुण्यविवर्जितः॥७॥

सर्वोपाधिविनिर्मुक्तो ह्यानंदो निर्गुणो विभुः ॥ परब्रह्ममयो देवः सुषुप्त इति गीयते ॥८॥

भावनामयमेतद्वै जगत्सस्थावरजङ्गमम् ॥ विद्युद्विलोलं विप्रेन्द्र भज तस्माज्जनार्दनम् ॥९॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ॥ वर्तते यस्य तस्यैव तुष्यते जगतां पतिः ॥२

सर्व भूतदयायुक्तो विप्रपूजापरायणः ॥ तस्य तुष्टो जगन्नाथो मधुकैटभमर्द्दनः ॥२

सत्यकथायां च रमते सत्यकथां च करोति यः ॥ सत्सङ्गो निरहंकारस्तस्य प्रीतो रमापतिः ॥२२॥

नामसंकीर्त्तन विष्णो क्षुत्तुट्प्रस्खलितादिषु ॥ करोति सततं यस्तु तस्य प्रीतो ह्यधोक्षजः ॥२३॥

यातु नारी पतिप्राणा पतिपूजापरायणा ॥ तस्यास्तुष्टो जगन्नाथो ददाति स्वपदं मुने ॥२४॥

असूयारहिता ये तु ह्यहंकारविवर्जिताः ॥ देवपूजापराश्र्चैव तेषां तुष्यति केशवः ॥२५॥

तस्माच्छृणुष्व देवर्षे भजस्व सततं हरिम् ॥ मा कुरुष्व ह्यहंकारं विद्युल्लोलश्रिया वृथा ॥२६॥

शरीरं मृत्युसंयुक्तं जीवितं चाति चञ्चलम् ॥ राजादिभिर्धनं बाध्यं सम्पदः क्षणभंगुराः ॥२७॥

किं न पश्यसि देवर्षे ह्यायुषार्द्धं तु निद्रया ॥ हतं च भेजनाद्यैश्र्च कियदायुः समाहृतम् ॥२८॥

कियदायुर्बालभावद्वावत्कियद्वृथा ॥ कियद्विषयभोगैश्र्च कदा धर्मान्करिष्यति ॥२९॥

बालभावे च वार्द्धक्ये न घटेताच्युतार्चनम् ॥ वयस्येव ततो धर्मान्कुरु त्वमनहंकृतः ॥३

मा विनाशं व्रज मुने मग्नः संसारगह्वरे ॥ वपुर्विनाशनिलयमापदां परमं पदम् ॥३

शरीरं भोगनिलयं मलाद्यैः परिदूषितम् ॥ किमर्थं शाश्र्वतधिया कुर्यात्पापं नरो वृथा ॥३२॥

आसारभूते संसारे नानादुः खसमन्विते ॥ विश्र्वासो नात्र कर्त्तव्यो निश्र्चितं मृत्युसंकुले ॥३३॥

तस्माच्छृणुष्व विप्रेन्द्र सत्यमेतद्ब्रवीम्यहम् ॥ देहयोगनिवृत्त्यर्थं सद्य एव जनार्दनम् ॥३४॥

मानं त्यक्त्वा तथा लोभं कामक्रोधविवर्जितः ॥ भजस्व सततं विष्णुं मानुष्यमतिदुर्लभम् ॥३५॥

कोटिजन्मसहस्त्रेषुस्थावरादिषु सत्तम ॥ संभ्रांतस्य तु मानुष्यं कथंचित्परिलभ्यते ॥३६॥

तत्रापि देवताबुद्धिर्दानबुद्धिश्र्च सत्तम ॥ भोगबुद्धिस्तथा नृणां जन्मान्तरतपःफलम् ॥३७॥

मानुष्यं दुर्लभं प्राप्य यो हरिं नार्चयेत्सकृत् ॥ मूर्खः कोऽस्ति परस्तस्माज्जडबुद्धिरचेतनः ॥३८॥

दुर्लभं प्राप्य मानुष्यंनार्चयन्ति च ये हरिम् ॥ तेषामातीव मूर्खाणां विवेकः कुत्र तिष्ठति ॥३९॥

आराधितो जगन्नाथो ददात्यभिमतं फलम् ॥ कस्तं न पूजयेद्विप्र संसाराग्निप्रदीपितः ॥४

चंडालोऽपि मुनिश्रेष्ठ विष्णुभक्तो द्विजाधिकः ॥ विष्णुभक्तिविहीनश्र्च द्विजोऽपि श्र्वपचाधमः ॥४

तस्मात्कामादिकं त्यक्त्वा भजेत हरिमव्ययम् ॥ यस्मिंस्तुष्टेऽखिलं तुष्येद्यतः सर्वगतो हरिः ॥४२॥

यथा हस्तिपदे सर्वं पदमात्रं प्रलीयते ॥ तथा चराचरं विश्र्वं विष्णावैव प्रलीयते ॥४३॥

आकाशेन यथा व्याप्तं जगत्स्थावरजंगमम् ॥ तथैव हरिणा व्याप्तं विश्र्वमेतच्चराचरम् ॥४४॥

जन्मनो मरणं नृणां जन्म वै मृत्युसाधनम् ॥ उभे ते निकटे विद्धि तन्नाशो हरिसेवया ॥४५॥

ध्यातः स्मृतः पूजितो वा प्रणतो वा जनार्दनः ॥ संसारपाशविच्छेदी कस्तं न प्रतिपूजयेत् ॥४६॥

यन्नामोच्चांरणादेव महापातकनाशनम् ॥ यं समभ्यर्च्य विप्रर्षे मोक्षभागी भवेन्नरः ॥४७॥

अहो चित्रमहो चित्रमहो चित्रमिदं द्विज ॥ हरिनाम्नि स्थिते लोकः संसारे परिवर्त्तते ॥४८॥

भूयोभूयोऽपि वक्ष्यामि सत्यमेतत्तपोधन ॥ नीयमानो यमभटैरशक्तो धर्मसाधनैः ॥४९॥

यावन्नेन्द्रियवैकल्यं यावद्य्वाधिर्न बाधते ॥ तावदेवार्चयेद्विष्णुं यदि मुक्तिमभीप्सति ॥५

मातुर्गर्भाद्विनिष्क्रान्तो यदा जन्तुस्तदैव हि ॥ मृत्युः संनिहितो भूयात्तस्माद्धर्मपरो भवेत् ॥५

अहो कष्टमहो कष्टमहोकष्टमिदं वपुः ॥ विनश्र्वरं समाज्ञाय धर्मं नैवाचरत्ययम् ॥५२॥

सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ दम्भाचारं परित्यज्यं वासुदेवं समर्चयेत् ॥५३॥

भूयो भूयो हितं वच्मि भुजमुद्धृत्य नारद ॥ विष्णुः सर्वत्मना पूज्यस्त्याज्यासूया तथानृतम् ॥५४॥

क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् ॥ धर्मक्षयकरः क्रोधस्तमात्तं परिवर्जयेत् ॥५५॥

काममूलमिदं जन्म कामः पापस्य कारणम् ॥ यशःक्षयकरः कामस्तस्मात्तं परिवर्जयेत् ॥५६॥

समस्तदुःखजालानां मात्सर्यं कारणं स्मृतम् ॥ नरकाणां साधनं च तस्मात्तदपि संत्यजेत् ॥५७॥

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥ तस्मात्तदभिसंयोज्य परात्मनि सुखी भवेत् ॥५८॥

अहो धैर्यमहो धैर्यमहो धैर्यमहो नृणाम् ॥ विष्णौ स्थिते जगन्नाथे न भजंति मदोद्धताः ॥५९॥

अनाराध्य जगन्नाथं सर्वधातारमच्युतम् ॥ संसारसागरे मग्नाः कथं पारं प्रयांति हि ॥६

अच्युतानंतगोविंदनामोच्चारणभेषजात् ॥ नश्यंति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥६

नारायण जगन्नाथ वासुदेव जनार्द्दन ॥ इतीरयन्ति ये नित्यं ते वै सर्वत्र वन्दिताः ॥६२॥

अद्यापि च मुनिश्रेष्ठ ब्रह्माद्या अपि देवताः ॥ यत्प्रभावं न जानन्ति तं यहि शरणं मुने ॥६३॥

अहो मौर्खमहो मौर्ख्य दुरात्मनाम् ‍ ॥ ह्रत्पद्मसंस्थितं विष्णुं न विजानन्ति नारद ॥६४॥

श्रृणुष्व मुनिशार्दूल भूर्याभूयो वदाम्यहम् ‍ ॥ हरिः श्रद्वावतां तुष्येन्न धनैर्न च बान्धवैः ॥६५॥

बन्धुमत्त्वं धनाढ्यत्वं पुत्रवत्त्वं च सत्तम ॥ विष्णुभक्तिमतां नृणां भवेज्जन्मनि जन्मनि ॥६६॥

पापमूलमयं देहः पापकर्मरतस्तथा ॥ एतिद्विदित्वा सततं पूजनीयो जनार्द्दनः ॥६७॥

पुत्रमित्रकलत्राद्या बहवः स्युश्र्च संपदः ॥ हरिपूजारतानां तु भवेत्येव न संशयः ॥६८॥

इहामुत्र सुखप्रेप्सुः पूजयेत्सततं हरिम् ॥ इहामुत्रासुखप्रेप्सुः परनिन्दापरो भवेत् ॥६९॥

धिग्जन्म भक्तिहीनानां देवदेवे जनार्द्दने ॥ सत्यपात्रदानशून्यं यत्तद्धनं धिक्पुनः पुनः ॥७

न नमोद्विष्णवे यस्य शरीरं कर्मभेदिने ॥ पापानामकरं तद्वै विज्ञेयं मुनिसत्तम ॥७

सत्पात्रदानरहितं यद्रव्यं येन रक्षितम् ॥ चौर्येण रक्षितमिव विद्धि लोकेषु निश्र्चितम् ॥७२॥

तडिल्लोलश्रिया मत्ताः क्षणभंगुरालिनः ॥ नाराधयंति विश्र्वेशं पशुपाशविमोचकम् ॥७३॥

सृष्टिस्तु द्विविधा प्रोक्ता दैवासुरविभेदतः ॥हरिभक्तियुता दैवी तद्धीना ह्यासुरी महा ॥७४॥

तस्माच्छृणुष्व विप्रेंद्र हरिभक्तिपरायणाः ॥ श्रेष्ठाः सर्वत्र विख्याता यतो भक्तिः सुदुर्लभा ॥७५॥

असूयारहिता ये च विप्रत्राणपरायणाः ॥ कामादिरहितो ये च तेषां तुष्यति केशवः ॥७६॥

संमार्जनादिना ये तु विष्णुशुश्रूषणे रताः॥ सत्पात्रदा ननिरताः प्रयंति परमं पदम् ॥७७॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे हरिभक्तिलक्षणं नाम चतुस्त्रिंशोऽध्यायः ॥३४

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:49:28.6600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अब्जुग

  • न. नवलविशेष ; अदभुत . [ ? ] 
RANDOM WORD

Did you know?

हिंदू स्त्रियांच्या मंगळसूत्रातील काळ्या मण्यांचे महत्त्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site