TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
चत्वारिंशोऽध्यायः

श्री नारदीयमहापुराणम् - चत्वारिंशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


चत्वारिंशोऽध्यायः

सनक उवाच ॥

अतः परं प्रवक्ष्यामि विभूति वैष्णवीं मुने ॥ यां श़ृण्वतां कीर्तयतां सद्यः पापक्षयो भवेत् ॥

वैवस्वतेंऽतरे पूर्वं शक्रस्य च बृहस्पतेः ॥ संवादः सुमहानासीत्तं वक्ष्यामि निशामय ॥२॥

एकदा सर्वभोगाढ्यो विबुधैः परिवारितः ॥ अप्सरोगणसंकीर्णो बृहस्पतिमभापत ॥३॥

सनक उवाच ॥

बृहस्पते महाभाग सर्वतत्त्वार्थकोविद ॥ अतीतब्रह्मणः कल्पे सृष्टिः कीदृग्विधा प्रभो ॥४॥

इन्द्रस्तु कीदृशः प्रोक्तो विबुधाः कीदृशाः स्मृताः ॥ तेषां च कीदृशं कर्म यथावद्वक्तुमर्हसि ॥५॥

बृहस्पतिरुवाच ॥ न ज्ञायते मया शक्र पूर्वेद्युश्र्चरितं विधेः॥ वर्तमानदिनस्यापि दुर्ज्ञेयं प्रतिभाति मे ॥६॥

मनवः समतीताश्र्च तान्वक्तुमपि न क्षमः ॥ यो विजानाति तं तेऽद्य कथयामि निशामय ॥७॥

सुधर्म इति विख्यातः कश्र्चिदास्ते पुरे तव ॥ भुञ्जनो दिव्यभोगांश्र्च ब्रह्मलोकदिहागतः ॥८॥

स वा एत द्विजानाति कथयामि निशामय ॥ एवमुक्तस्तु गुरुणा शक्रस्तेन समन्वितः ॥९॥

देवतागणसंकीर्णः सुधर्मनिलयं ययौ ॥१०

समागतं देवपतिं बृहस्पतिसमन्वितम् ॥ दृष्ट्वा यथार्हं देवर्षे पूजयामास सादरम् ॥११

सुधर्मेणार्चितः ॥ शक्रो दृष्ट्वा तच्छ्रियमुत्तमाम् ॥ मनसा विस्मयाविष्टः प्रोवाच निवयान्वितः ॥२॥

इंद्र उवाच । अतीतब्रह्मकल्पस्य वृत्तांत वेत्सि चेद्ब्रुध ॥ तदाख्याहि समायात एतत्प्रष्टुं सयाजकः ॥३॥

गतनिद्रांश्र्च देवांश्र्च येन जानासि सुव्रत ॥ तद्वदस्वाधिकः कस्मादस्मद्भ्य़ोऽपि दिविस्थितः॥१४॥

तेजसा यशसा कीत्य्रा च परंतप ॥ दानेन वा तपोभिर्वा कथमेताद्दशः प्रभो ॥१५॥

इत्युक्तो देवराजेन सुधरर्मा प्रहसंस्तदा ॥ प्रोवाच विनयाविष्टः पूर्ववृत्तं यथाविधि ॥६॥

सुधर्म उवाच ॥

चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ॥ एकस्मिन् दिवसे शक्र मनवश्र्च चतुर्दश ॥७॥

इंद्राश्र्चतुर्दश प्रोक्ता देवाश्र्च विविधाः पृथक् ॥ इंद्राणां चैव सर्वेषां मन्वादीनां च वासव ॥८॥

तुल्यता तेजसा लक्ष्म्या प्रभावेण बलेन च ॥ तेषां नामानि वक्ष्यामि श़ृणुष्व सुसमाहितः ॥९॥

स्वायंभुवो मनुः पूर्वं ततः स्वारोचिषस्तथा ॥ उत्तमस्तामसश्र्चैव रैवतश्र्चाक्षुषस्तथा ॥२

वैवस्वतो मनुश्र्चैव सूर्यसावर्णिरष्टमः ॥ नवमो दक्ष सावर्णिः सर्वदेवहिते रतः ॥२

दशमो ब्रह्मसावर्णिर्द्धर्मसावर्णिकस्ततः ॥ ततस्तु रुद्रसावर्णी रोचमानस्ततः स्मृतः ॥२२॥

भौत्यश्र्चतुर्दशः प्रोक्त एते हि मनवः स्मृताः॥ देवानिद्रांश्र्च वक्ष्यामि श़ृणुष्व विबुधर्षभ ॥२३॥

यामा इति समाख्याता देवाः स्वायंभुवेंऽतरे ॥ शचीपतिः समाख्या तस्तेषामिंद्रो महामतिः ॥२४॥

परावताश्र्च तुषिता देवाः स्वारोचिषेऽतरे ॥ विपश्र्चिन्नाम देवेन्द्रः सर्वसंपत्समन्वितः ॥२५॥

सुधामानस्तथा सत्याः शिवाश्र्चाय प्रर्तदनाः ॥ तेषामिंद्रः सुशांतिश्र्च तृतीये परिकीर्तितः ॥२६॥

सुताः पाराहराश्र्चैव सुत्याश्र्चासुधियस्तथा ॥ तेषामिंद्रः शिवः प्रोक्तः शक्र स्तामसकेंऽतरे ॥ विभुनामा देवपतिः पञ्चमः परिकीर्तितः ॥२७॥

अमिताभादयो देवाः षष्ठेऽपि च तथा श़ृणु ॥ आर्याद्या विबुधाः प्रोत्कास्तेषा मिंद्रो मनोजवः ॥२८॥

आदित्यवसुरूद्राद्दा देवा वैवस्वतेंऽतरे॥ इन्द्रः पुरंद्ररः प्रोत्कः सर्वकामसमन्वितः ॥२९॥

अप्रमेयाश्व विबुधाः सुतपाद्याः प्रकीर्तिताः ॥ विष्णुपूजाप्रभावेण तेषामिंद्रो बलिः स्मृतः ॥३

पराद्या नवमे इन्द्रश्र्चाद्भुत उच्यते ॥ सुवासनाद्या विबुधा दशमे परिकीर्तिताः ॥३

शांतिर्नाम च तत्रेंद्रः सर्वभोगसमन्वितः ॥ विहंगमाद्या देवाश्र्च तेषामिंद्रो वृषः स्मृतः ॥३२॥

एकादशे द्वादशे तु निबोध कथायामि ते ॥ ऋभुनामा च देवेंद्रो हरिनाभास्तथा सुराः ॥३३॥

सुत्रामाद्यास्तथा देवास्त्रयोदशतमेऽन्तरे ॥ दिवस्पतिर्महावीर्यस्तेषामिंद्रः प्रकीर्तितः ॥३४॥

चतुर्द्दशे चाक्षुषाद्या देवा इन्द्रः शुचिः स्मृतः ॥ एवं ते मनवः प्रोक्ता इंद्रा देवाश्र्च तत्त्वतः ॥३५॥

एकस्मिन्ब्रह्मदिवसे स्वाधिकारं प्रभुंजते ॥३६॥

लोकेषु सर्वसर्गेषु सृष्टिरेकविधा स्मृता ॥ कर्त्तारो बहवः संति तत्संख्यां वेत्ति कोविदः ॥३७॥

मयि स्थिते ब्रह्मलोके ब्रह्माणो बहवो गताः ॥ तेषां संख्या न संख्यातुं शक्तोऽस्म्यद्य द्विजोत्तम ॥३८॥

स्वर्गलोकमपि प्राप्य यावत्कालं श़ृणुष्व मे चत्वरो मनवोऽतीता मम श्रीश्र्वातिविस्तरा ॥३९॥

स्थातव्यं च मयात्रैव युगकोटिशतं प्रभो ॥ ततः परं गमिष्य़ामि कर्मभूमिं शृणुष्व मे ॥४०॥

मया कृतं पुरा कर्म वक्ष्यामि तव सुव्रत ॥ वदतां श़ृण्वतां चैव सर्वपापप्रणाशनम् ॥४

अहमासं पुरा शक्र गृध्रः पापो विशेषतः ॥ स्थितश्र्च भमिभागे वै अमेध्यामिषभोजनः ॥४२॥

एकदाहं विष्णुगृहे प्राकारे संस्थितः प्रभो ॥ पतितो व्याधशस्त्रेण सायं विष्णोर्गृहांगणे ॥४३॥

मयि कंठ गतप्राणे भषणो मांसलोलुपः ॥ जग्राह मां स्ववक्रेण श्र्वभिरन्यैश्र्चरन्द्रुतः ॥४४॥

वहन्मां स्वमुखेनैव भीतोऽन्यैर्भषणैस्तथा ॥ गतः प्रदक्षिणाकारं विष्णोस्तन्मंदिरं प्रभो ॥४५॥

तेनैव तुष्टिमापन्नो ह्यतरात्मा जगन्मयः ॥ मम चापि शुनश्र्चापि दत्तावन्परमं पदम् ॥४६॥

प्रदक्षिणाकारतया गतस्यापीदृशं फलम् ॥ संप्राप्तं विबुधश्रेष्ठ किं पुनः सम्यगर्चनात् ॥४७॥

इत्युक्तो देवराजस्तु सुधर्मेण महात्मना ॥ मनसा प्रीतिमापन्नो हरिपूजारतोऽभवत् ॥४८॥

तथापि निर्जराः सर्वे भारते जन्मालिप्सवः ॥ समर्चयंति देवेशं नारायणमनामयम् ॥ तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः ॥४९॥

नारायणानुस्मरणोद्यतानां महात्मनां त्यक्तपरिग्रहणाम् ॥ कथं भवत्युग्रभवस्य बंधस्तत्सङ्गलुब्धा यदि मुक्तिभाजः ॥५

ये मानवाः प्रतिदिनं परिमुक्तसङ्गा नारायणं गरुडवाहनमर्चयंति ॥ ते सर्वपापनिकरैः परितो विमुक्ता विष्णोः पदं शुभतरं प्रतियांति त्दृष्टाः ॥५

ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरंति ॥ ध्यानेन तेन हताकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबंति ॥५२॥

ये मानवा हरिकथाश्रवणास्तदोषाः कृष्णांध्रिपद्मभजने रतचेतनाश्र्च ॥ ते वै पुनंति च जगंति शरीरसंगात् संभाषणादपि ततो हरिरेव पूज्यः ॥५३॥

हरिपूजापरा यत्र महांतः शुद्धबुद्धयः ॥ तत्रैव सकलं भद्रं यथा निम्ने जलं द्विज ॥५४॥

हरिरेव परो बन्धुर्हरिरेव परा गतिः॥ हरिरेव ततः पूज्यो यतश्र्चेतन्यकारणम् ॥५५॥

स्वर्गापवर्गफलदं सदानंदं निरामयम् ॥ पूज्यस्व मुनिश्रेष्ठ परं श्रयो भविष्यति ॥५६॥

पूजयंति हरिं ये तु निष्कामाः शुद्धमानसाः ॥ तेषां विष्णुः प्रसन्नात्मा सर्वान्कामान् प्रयच्छति ॥५७॥

यत्स्वेतच्छृणुयाद्वापि पठेद्वा सुसमाहितः ॥ स प्राप्नोत्यश्र्वमेधस्य फलं मुनिवरोत्तम ॥५८॥

इत्येतत्ते समाख्यातं हरिपूजाफलं द्विज ॥ संकोचविस्ताराभ्यां तु किमन्यत्कथयामि ते ॥५९॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्ये चत्वारिंशोऽध्यायः ॥०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:55:22.6800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हातावर हात मारणें

  • संमति दर्शविणें 
  • टाळी देणें. खूण पटली असें दाखविणें 
  • टाळी देणें. वचन देणें. ‘ व्दिजागमाचा हरि हेतु जाणे l अवरुर हस्तावरि हस्त होणे ll"- सारुह ५.२४. 
  • ‘ त्यांनीं हातावर हात मारुन एकमेकांना वचनें दिलीं. ’-मोरप्र २५. 
RANDOM WORD

Did you know?

Is there any reference in Vedas or puranas for eating non-veg food?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.