TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
एकादशोऽध्यायः

श्री नारदीयमहापुराणम् - एकादशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


एकादशोऽध्यायः

॥ नारद उवाच ॥

अहो ह्यत्यद्भुतं प्रोक्तं त्वया भ्रातरिदं मम ॥ स वह्निरदितिं मुक्त्वा कथं तानदहत्क्षणात् ॥१॥

वदादितेर्महसत्त्वं विशेषाश्चर्यकारणम् ॥ परोपदेशनिरताः सज्जना हि मुनीश्वराः ॥२॥

सनक उवाच ॥

श़ृणु नारद महात्म्यं हरिभक्तिरतात्मनाम् ॥ हरिध्यानपरान्साधून्कः समर्थः प्रबाधितुम् ॥३॥

हरिभक्तिपरो यत्र तत्र ब्रह्मा हरिः शिवः ॥ देवाः सिद्धा मुनीशाश्च नित्यं तिष्ठंति सत्तमाः ॥४॥

हरिरास्ते महाभाग त्दृदये शान्तचेतसाम् ॥ हरिनामपराणां च किमु ध्यानरतात्मनाम् ॥५॥

शिवपूजारतो वाऽपि विष्णुपूजापरोऽपि वा ॥ यत्र तिष्ठति तत्रैव लक्ष्मीः सर्वाश्च देवताः ॥६॥

यत्र पूजापरो विष्णोर्वह्निस्तत्र न बाधते ॥ राजा वा तस्करो वापि व्याधयश्च न सन्ति हि ॥७॥

प्रेताः पिशाचाः कूष्माण्डग्रहा बालग्रहास्तथा ॥ डाकिन्यो राक्षसाश्चैव न बाधन्तेऽच्युतार्चकम् ॥८॥

परपीडारता ये तु भूतवेतालकादयः ॥ नश्यन्ति यत्र सद्भक्तो हरिलक्ष्म्यर्चने रतः ॥९॥

जितेन्द्रियः सर्वहितो धर्मकर्मपरायणः॥ यत्र तिष्ठति तत्रैव सर्वतीर्थानि देवताः ॥१०॥

निमिषं निमिषार्द्धं वा यत्र तिष्ठन्ति योगिनः ॥ तत्रैव सर्वश्रेयांसि तत्तीर्थं तत्तपोवनम् ॥११॥

यन्नामोच्चारणादेव सर्वे नश्यन्त्युपद्रवाः ॥ स्तोत्रैर्वोप्यर्हणाभिर्वा किमु ध्यानेन कथ्यते ॥१२॥

एवं तेनाग्रिना विप्र दग्धं सासुरकाननम् ‍ ॥ सदितिर्नैव दग्धाभूद्विष्णुचक्राभिरक्षिता ॥१३॥

ततः प्रसन्नवदनः पद्मपत्रायतेक्षणः ॥ प्रादुरासीत्समीपेऽस्याः ॥ शङ्खचक्रगदाधरः ॥१४॥

ईषद्धास्यस्फुरद्दन्तप्रभाभाषितदिङ्मुखः ॥ स्पृशन्करेण पुण्येन प्राह कश्यपवल्लभाम् ॥१५॥

श्रीभगवानुवाच ॥

देवमातः प्रसन्नोऽस्मि तपसाराधितस्त्वया ॥ चिरं श्रान्तासि भद्रं ते भविष्यति न संशयः ॥१६॥

वरं वरय दास्यामि यत्ते मनसि रोचते ॥ मा भैर्भद्रे महाभागे ध्रुवं श्रेयो भविष्यति ॥१७॥

इत्युक्ता देवमाता सा देवदेवेन चक्रिणा ॥ तुष्टाव प्रणिपत्यैनं सर्वलोकसुखावहम् ॥१८॥

अदितिरुवाच ॥

नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दन ॥ सत्त्वादिगुणभेदेन लोकव्यापारकारण ॥१९॥

नमस्ते बहुरूपायारूपाय च महात्मने ॥ सर्वैकरूपरूपाय निर्गुणाय गुणात्मने ॥२०॥

नमस्ते लोकनाथाय परमज्ञानरूपिणे ॥ सद्भक्तजनवात्सल्यशालिने मङ्गलात्मने ॥२१॥

यस्यावताररूपाणि ह्यर्चयन्ति मुनीश्वराः ॥ तमादिपुरुषं देवं नमामि ह्यर्थसिद्धये ॥२२॥

श्रुतयो ये न जानन्ति न जानान्ति च सूरयः ॥ तं नमामि जगद्धेतुं चाष्यपायिनम् ॥२३॥

यस्यावलोकनं चित्रं मायोपद्रवकारणम् ॥ जगद्रूपं जगद्धेतुं तं वन्दे सर्ववन्दितम् ॥२४॥

यत्पादाम्बुजकिञ्जल्कसेवारक्षितमस्तकाः ॥ अवापुः परमां सिद्धिं तं वन्दे कमलाधवम् ॥२५॥

यस्य ब्रह्मादयो देवा महिमानं न वै विदुः ॥ अत्यासन्नं च भक्तानां तं वन्दे भक्तसंगिनम् ॥२६॥

यो देवस्त्यक्तसङ्गानां शान्तानं करुणार्णवः ॥ करोति ह्यात्मनः सङ्गं तं देवं सङ्गवर्जितम् ॥२७॥

यज्ञेश्वरं यज्ञकर्म यज्ञकर्मसु निष्ठितम् ॥ नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ॥२८॥

अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु ॥ प्राप्तवान्परमं धाम तं वन्दे लोकसाक्षिणम् ॥२९॥

हरिरूपी महादेवः शिवरूपी जनार्दनः ॥ इति लोकस्य नेता यस्तं नमामि जगद्गुरुम् ॥३०॥

ब्रह्माद्या अपि देवेशा यन्मायापाशयन्त्रिताः॥ न जानन्ति परं भावं तं वन्दे सर्वनायकम् ॥३१॥

हृत्पद्मस्थोऽपिअयोग्यानां दूरस्थ इव भासते ॥ प्रमाणातीतसद्रावरतं वन्दे ज्ञानसाक्षिणम् ॥३२॥

यन्मुखाद्बोह्मणो जातो बाहुभ्यां क्षत्रियोऽजनि ॥ ऊर्वोर्वैश्यः समुत्पन्नः पद्यां शूद्रोऽभ्यजायत ॥३३॥

मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः ॥ मुखादग्निस्तथेंन्द्रश्च प्राणाद्वायुरजायत ॥३४॥

ऋग्यजुःसामरूपाय सत्यस्वरगतात्मने ॥ षडङ्गरूपिणे तुभ्यं भूयोभूयो नमो नमः ॥३५॥

त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः ॥ त्वमग्निर्निर्ऋतिश्चैव वरुणस्त्वं दिवाकरः ॥३६॥

देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः ॥ गिरयः सिद्धगंधर्वा नद्यो भूमिश्च सागराः ॥३७॥

त्वमेव जगतामीशो यत्रासि त्वं परात्परः ॥ त्वद्रूपमखिलं देव तस्मान्नित्यं नमोऽस्तु ते ॥३८॥

अनाथनाथ सर्वज्ञ भूतदेवेन्द्र विग्रह ॥ दैतेयैर्बाधितान्पुत्रान्मम पाहि जनार्दन ॥३९॥

इति स्तुत्वा देवमाता देवं नत्वा पुनः पुनः ॥ उवाच प्राञ्जर्लिभूत्वा हर्षाश्रुक्षालितस्तनी ॥४०॥

अनुग्राह्यस्मि देवेश त्वया सर्वादिकारण ॥ अकण्टकां श्रियं देहि मत्सुतानां दिवौकसाम् ॥४१॥

अन्तर्य्यामिञ्जगद्रूप सर्वज्ञ परमेश्वर ॥ अज्ञातं किं तव श्रीश किं मामीहयसि प्रभो ॥४२॥

तथापि तव वक्ष्यामि यन्मे मनसि रोचते ॥ वृथापुत्रास्मि देवेश दैतेयः परिपीडिता ॥४३॥

तान्न हिंसितुमिच्छामि यतस्तेऽपि सुता मम ॥ तानहत्वा श्रियं देहि मत्सुतेभ्यः सुरेश्वर ॥४४॥

इत्युक्तो देवेदेवेशः पुनः प्रीतिमुपागतः ॥ उवाच हर्षयन्विप्र देवमातरमादरात् ॥४५॥

श्रीभगवानुवाच ॥

प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुतो ह्यहम् ॥ यतः सपन्तिपुत्रेषु वात्सल्यं देवि दुर्लभम् ॥४६॥

त्वया तु यत्कृतं स्तोत्रं तत्पाठान्त नरास्तु ये ॥ तेषां संपद्वरा पुत्रा न हीयन्ते कदाचन ॥४७॥

त्वात्मजे वान्यपुत्रे वा यः समत्वेन वर्तते ॥ न तस्य पुत्रशोकः स्यादेष धर्मः सनातनः ॥४८॥

अदितिरुवाच ॥

अह वोढुं क्षमा देव त्वामाद्य पुरुषं परम् ॥ असंख्याताण्डरोमाणं सर्वेशं सर्वकारणम् ॥४९॥

यत्प्रभावं न जानन्ति श्रुतयः सर्वदेवताः ॥ तमहं देवदेवेशं धारयामि कथं प्रभो ॥५०॥

अणोरणीयांसमजं परात्परतरं प्रभुम् ॥ धारयामि कथं देव त्वामहं पुरुषोत्तमम् ॥५१॥

महापातकयुक्तोऽपि यन्नामस्मृतिमात्रतः ॥ मुच्यते स कथं देवोग्राम्येषु जनिमर्हति ॥५२॥

यथा शूकरमत्स्याद्या अवतारास्तव प्रभो ॥ तथायमपि को वेद तव विश्वेश चेष्टितम् ॥५३॥

त्वत्पादपद्मप्रणता त्वन्नामस्मृतितत्परा ॥ त्वामेव चिंतये देव यथेच्छसि तथा कुरु ॥५४॥

सनक उवाच ॥

तयोक्तं वचनं श्रुत्वा देवदेवो जनार्दनः ॥ दत्त्वाभयं देवमातुरिदं वचनमब्रवीत् ॥५५॥

श्रीभगवानुवाच ॥

सत्यमुक्तं महाभागे त्वया नास्त्यत्र संशयः ॥ तथापि श़ृणु वक्ष्यामि गुह्याद्गुह्यतरं शुभे ॥५६॥

रागद्वेषविहीनाये मद्भक्ता मत्परायणाः वंहति सततं ते मां गतासूया अदाम्भिकाः ॥५७॥

परोपतापविमुखाः शिवभक्तिपरायणा ॥ मत्कथाश्रवणासक्ता वहन्ति सततं हि माम् ॥५८॥

पतिव्रताः पतिप्राणाः पतिभक्तिपरायणाः वहन्ति सततं देवि स्त्रियोऽपि त्यक्तमत्सराः ॥५९॥

मातापित्रोश्च शुश्रूषुर्गुरुभक्तोऽतिथिप्रियः ॥ हितकृद्ब्रह्मणानां यः स मां वहति सर्वदा ॥६०॥

पुण्यतीर्थरता नित्यं सत्सङ्गनिरतास्तथा ॥ लोकानुग्रहशीलाश्च सततं ते वहन्तिमाम् ॥६१॥

परोपकारनिरताः परद्रव्यपराङ्मुखाः ॥ नपुंसकाः परस्त्रीषु ते वहन्ति च मां सदा ॥६२॥

तुलस्युपासनरताः सदा नामपरायणाः ॥ गोरक्षणपरा ये च सततं मां वहन्ति ते ॥६३॥

प्रतिग्रहनिवृता ये परान्नविमुखास्तथा ॥ अन्नोदकप्रदातारो वहंति सततं हि माम् ॥६४॥

त्वं तु देवि पतिप्राणा साध्वी भूतहिते रता ॥ संप्राप्य पुत्रभावं ते साधयिष्ये मनोरथम् ॥६५॥

इत्युक्त्वा देवदेवेशो ह्यदितिं देवमातरम् ॥ दत्वा कण्ठगतां मालामभयं च तिरोदधे ॥६६॥

सा तु संहृष्टमानसा देवसूर्दक्षनन्दिनी ॥ प्रणम्य कमलाकान्तं पुनः स्वस्थानमाव्रजत् ॥६७॥

ततोऽदितिर्म ह्यभागा सुप्रीता लोकवन्दिता ॥ असूत समये पुत्रं सर्वलोकनमस्कृतम् ॥६८॥

शङ्खचक्रधरं शान्तं चन्द्रमण्डलमध्यगम् ॥ सुधाकलशदध्यन्नकरं वामनसंज्ञितम् ॥६९॥

सहस्रादित्यसंकाशं व्याकोशकमलेक्षणम् ॥ सर्वाभरणसंयुक्तं पीताम्बरधरं हरिम् ॥७०॥

स्तुत्यं मुनिगणैयुक्तं सर्वलोकैकनायकम् ॥ आविर्भूतं हरिं ज्ञात्वा कश्यपो हर्षविह्वलः ॥ प्रणम्य प्राञ्जलिर्भूत्वा स्तोतुं समुपचक्रमे ॥७१॥

कश्यप उवाच ॥

नमोनमस्तेऽखिलकारणाय नमोनमस्तेऽखिलपालकाय ॥ नमोनमस्तेऽमरनायकाय नमोनमो दैत्यविनाशनाय ॥७२॥

नमोनमो भक्तजनप्रियाय नमोनमः सज्जनरंजिताय ॥ नमोनमो दुर्जननाशनाय नमोऽस्तु तस्मै जगदीश्वराय ॥७३॥

नमोनमः कारणवामनाय नारायणायमितविक्रमाय ॥ सशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥७४॥

नमः पयोराशिनिवासनाय नमोस्तु सद्धृत्कमलस्थिताय ॥ नमोऽस्तु सूर्याद्यमितप्रभाय नमोनमः पुण्यकथागताय ॥७५॥

नमोनमोऽर्केन्दुविलोचनाय नमोऽस्तु ते यज्ञफलप्रदाय ॥ नमोऽस्तु यज्ञाङ्गविराजिताय नमोऽस्तु ते सज्जनवल्लभाय ॥७६॥

नमो जगत्कारणकारणाय नमोऽस्तु शब्दादिविवर्जिताय ॥ नमोस्तु ते दिव्यसुखप्रदाय नमो नमो भक्तमनोगताय ॥७७॥

नमोऽस्तु ते ध्वान्तविनाशकाय नमोऽस्तु ते मन्दरधारकाय ॥ नमोऽस्तु ते यज्ञवराहनाम्ने नमो हिरण्याक्षविदारकाय ॥७८॥

नमोऽस्तु ते वामनरूपभाजे नमोऽस्तु ते क्षत्रकुलान्तकाय ॥ नमोऽस्तु ते रावणमर्दनाय नमोऽस्तु ते नन्दसुताग्रजाय ॥७९॥

नमस्ते कमलाकान्त नमस्ते सुखदायिने ॥ स्मृतार्तिनाशिने तुभ्यं भूयो भूयो नमोनमः ॥८०॥

यज्ञेश यज्ञविन्यास यज्ञविघ्नविनाशन ॥ यज्ञरूप यजद्रूप यज्ञाङ्गं त्वां यजाम्यहम् ॥८१॥

इति स्तुतः स देवेशो वामनो लोकपावनः ॥ उवाच प्रहसन्हर्षं वर्द्धयन्कश्यपस्य सः ॥८२॥

श्रीभगवानुवाच ॥

तात तुष्टोऽस्मि भद्रं ते भविष्यति सुरार्चित ॥ अचिरात्साधयिष्यामि निखिलं त्वन्मनोरथम् ॥८३॥

अहं जन्मद्वये त्वेवं युवयोः पुत्रतां गतः ॥ अस्मिञ्जन्मन्यापि तथा साधयाम्युत्तमं सुखम् ॥८४॥

अत्रान्तरे बलिदैत्यो दीर्घसत्रं महामखम् ॥ आरेभे गुरुणा युक्तः काव्येन च मुनीश्वरैः ॥८५॥

तस्मिमन्मखे समाहूतो विष्णुर्लक्ष्मीसमन्वितः ॥ हविःस्वीकरणार्थाय ऋृषिभिर्ब्रह्मवादिभिः॥८६॥

प्रवृद्धैश्वर्यदैंत्यस्य वर्त्तमाने महाक्रतौ ॥ आमंत्र्य मातापितरौ स बटुर्वामनो ययौ ॥८७॥

स्मितेन महयँल्लोकं वामनो भक्तवत्सलः ॥ हविर्भोक्तुमिवायातो बलेः प्रत्यक्षतो हरिः ॥८८॥

दुर्वुत्तो वा सुवृत्तो वा जडो वायं हितोऽपि वा ॥ यो भक्तियुक्तस्तस्यान्तः सदा संनिहितो हरिः ॥८९॥

आयान्त वामनं दृष्ट्वा ऋषयो ज्ञानचक्षुषः ॥ ज्ञात्वा नारायणं देवमुद्ययुः सभ्यसंयुताः ॥९०॥

एतज्ज्ञात्वा दैत्यगुरुरेकांते बलिमब्रवीत् ॥ स्वसारमविचार्यैव खलाः कार्याणि कुर्वते ॥९१॥

शुक्र उवाच ॥

भो भो दैत्यपते सौम्य ह्यपहर्ता तव श्रियम् ॥ विष्णुर्वामनरूपेण ह्यदितेः पुत्रतां गतः ॥९२॥

तवाघ्वरं स आयाति त्वया तस्यासुरेश्वर ॥ न किंचिदपि दातव्यं मग्मतं श़ृणं पण्डित ॥९३॥

आत्मबुद्धिः सुखकरी गुरुबुद्धिर्विशेषतः ॥ परबुद्धिर्विनाशाय स्त्रीबुद्धिःप्रलयंकरी ॥९४॥

शत्रूणां हितकृतद्यस्तु स हन्तव्यो विशेषतः ॥९५॥

बलिरुवाच ॥ एवं गुरो न वक्तव्यं धर्ममार्गविरोधतः ॥ यदादत्ते स्वयं विष्णुः किमस्मादधिकं वरम् ॥९६॥

कुर्वन्ति विदुषो यज्ञान्विष्णुप्रीणनकारणात् ॥ स चेत्साक्षाद्धविर्भोगी मत्तः कोऽभ्यधिको भुवि ॥९७॥

दरिद्रेणापि यत्किंचिद्दीयते विष्णवे गुरो ॥ तदेव परमं दानं दत्तं भवति चाक्षयम् ॥९८॥

स्मृतोऽपि परया भक्तया पुनाति पुरुषोत्तमः ॥ येन केनाप्यर्चितश्चेद्ददाति परमां गतिम् ॥९९॥

हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ॥ अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥१००॥

जिह्वाग्रे वसते यस्य हरिरित्यक्षरद्वयम् ॥ स विष्णुलोकमाप्नोति पुनरावृत्तिदुर्लभम् ॥१॥

गोविंदेति सदा ध्यायेद्यस्तु रागादिवर्जितः ॥ स याति विष्णुभवनमिति प्राहुमनीषिणः ॥२॥

अग्नौ वा ब्राह्मणे वापि हूयते यद्धविर्गुरो ॥ हरिभक्तया महाभाग तेन विष्णुः प्रसीदति ॥३॥

अहं तु हरितुष्ट्यर्थ करोम्यध्वरमुत्तमम् ॥ स्वयमायाति चेद्विष्णुः कृतार्थोऽस्मि न संशयः ॥४॥

एवं वदति दैत्यन्द्रे विष्णुर्वामनरूपधृक् ॥ प्रविवशाध्वस्थानं हुतवह्निमनोरमम् ॥५॥

तं दृष्ट्वा कोटिसूर्याभं योग्यावय वसुन्दरम् ॥ वामनं सहसोत्थाय प्रत्यगृह्णात्कृताञ्जलिः ॥६॥

दत्त्वासनं च प्रक्षाल्य पादौ वामनरूपिणम् ॥ सकुटुंबो वहन्मूर्घ्ना परमां मुदमाप्तवान् ॥७॥

विष्णवेऽस्मै जगद्धाम्ने दत्त्वार्ध्यं विधिवद्बलिः ॥ रोमाञ्चिततनुर्भूत्वा हर्षाश्रुनयनोऽब्रवीत् ॥ बलिरुवाच ॥८॥

अद्य मे सफलं जन्म अद्य मे सफलो मखः ॥ जीवितं सफलं मेऽद्य कृतार्थोऽस्मि न संशयः ॥९॥

अमोघामृतवृष्टिर्मे समायातातिदुर्लभा ॥ त्वदागमनमात्रेण ह्यनायासो महोत्सवः ॥१०॥

एते च ऋषयः सर्वे कृतार्थां नात्र संशयः ॥ यैः पूर्वं हि तपस्तप्तं तदद्य सफलं प्रभो ॥११॥

कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ॥ तस्मातुभ्य नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥१२॥

त्वदाज्ञया त्वन्नियोगं साधयामीति मन्मनः ॥ अत्युत्साहसमायुक्तं समाज्ञापय मां प्रभो ॥१३॥

एवमुक्तो दीक्षितेन प्रहसन्वामनोऽब्रवीत् ॥ देहि मे तपसि स्थातुं भूमिं त्रिपदसंमिताम् ॥१४॥

एतच्छुत्वा बलिः प्राह राज्यं याचितवान्नहि ॥ ग्रामं वा नगरं चापि धनं वा किं कृतं त्वया ॥१५॥

तन्निशम्य बलिं प्राह विष्णुः सर्वशरीरभृत् ॥ आसन्नभ्रष्टराज्यस्य वैराग्यं जनखन्निव ॥१६॥

श्रीभगवानुवाच ॥

श़ृणु दैत्यन्द्र गृह्याद्गुह्यतमं परम् ॥ सर्वसंगविहीनानां किमर्थेः साध्यतेवद ॥१७॥

अहं तु सर्वभूतानामन्तर्यामीति भावय ॥ मयि सर्व मिदं दैत्य किमन्यैः साध्यते वद ॥१८॥

रागद्वेषविहीनानां शान्तानां त्यक्तमायिनाम् ॥ नित्यानंदस्व्रूपाणां किमन्यैः साध्यते धनैः ॥१९॥

आत्मवत्सर्वभूतानि पश्यतां शान्तचेतसाम् ॥ अभिन्नमात्मनः ॥ सर्वं को दाता दीयते च किम् ॥२०॥

पृथ्वीयं क्षत्रियवशा इति शास्त्रेषु निश्चितम् ॥ तदाज्ञायां स्थिताः सर्वे लभन्ते परमं सुखम् ॥२१॥

दातव्यो मुनिभिश्चापि षष्ठांशो भूभुजे बले ॥ महीयं ब्राह्मणानां तु दातव्या सर्व यत्नतः ॥२२॥

भूमिदानस्य माहात्म्य न भूतं न भविष्यति ॥ परं निर्वाणमाप्नोति भूमिदो नात्र संशयः ॥२३॥

स्वल्पामपि महीं दत्त्वां श्रोत्रियायाहिताग्नये ॥ ब्रह्मलोकमवाप्नोति पुनरावृत्तिदुर्लभम् ॥२४॥

भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाग्भवेत् ॥ अतिदानं तु तज्ज्ञेयं सर्वपापप्रणाशनम् ॥२५॥

महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥ दशहस्तां महीं दत्त्वा सर्वपापैः प्रमुच्यते ॥२६॥

सत्पात्रे भूमि दाता यः सर्वदानफलं लभेत् ॥ भूमिदानसमं नान्यत्रिषु लोकेषु विद्यते ॥२७॥

द्विजाय वृत्तिहीनाय यः प्रदद्यान्महीं बले ॥ तस्य पुण्य फलं वक्तुं न क्षमोऽब्दशतैरहम् ॥२८॥

सक्ताय देवपूजासु वृत्तिहीनाय दैत्यप ॥ स्वल्पामपि महीं दद्याद्यः स विष्णुर्न संशयः ॥२९॥

इक्षुगोधूम तुवरीपूगवृक्षादिसंयुता ॥ पृथ्वी प्रदीयते येन स विष्णुर्नात्र संशयः ॥३०॥

वृत्तिहीनाय विप्राय दरिद्राय कुटुम्बिने ॥ स्वल्पामपि महीं दत्त्वा विष्णुसायुज्यमाप्नुयात् ॥३१॥

सक्ताय देवपूजासु विप्रायढकिकां महीम् ॥ दत्त्वा लभेत गङ्गायां त्रिरात्रस्नानजं फलम् ॥३२॥

विप्राय वृत्तिहीनाय सदाचाररताय च ॥ द्रोणिकां पृथिवीं दत्त्वा यत्फलं लभते श़ृणु ॥३३॥

गङ्गातीर्थाश्वमेधानां शतानि विधिवन्नरः ॥ कृत्वा यत्फलमाप्नोति तदाप्नोति स पुष्कलम् ॥३४॥

ददाति खारिकां भूमिं दरिद्राय द्विजाय यः ॥ तस्य पुण्यं प्रवक्ष्यामि वदतो मे निशामय ॥३५॥

अश्वमेधसहस्त्राणि वाजपेयशतानि च ॥ विधाय जाह्नवीतीरे यत्फलं तल्लभेद्धुवम् ॥३६॥

भूमिदानं महादानमतिदानं प्रकीर्त्तितम् ॥ सर्वपापप्रशमनमपवर्गफलप्रदम् ॥३७॥

अत्रेतिहासं वक्ष्यामि श़ृणु दैत्यकुलेश्वर ॥ यच्छुत्वा श्रद्धया युक्तो भूमिदानफलं लभेत् ॥३८॥

आसीत्पुरा द्विजवरो ब्राह्मकल्पे महामतिः ॥ दरिद्रो वृत्तिहीनश्च नाम्ना भद्रमतिर्बले ॥३९॥

श्रुतानि सर्वशास्त्राणि तेन वेददिवानिशम् ॥ श्रुतानि च पुराणानि धर्मशास्त्राणि सर्वशः ॥४०॥

अभवंस्तस्य षट्पत्न्यः श्रुतिः सिन्धुर्यशोवती ॥ कामिनी मालिनी चैव शोभा चेति प्रकीर्तिताः ॥४१॥

आसु पत्नीषु तस्यासञ्चत्वरिंशच्छतद्वयम् ॥ पुत्राणामसुरश्रेष्ठ सर्वे नित्यं बुभुक्षिताः ॥४२॥

अकिञ्चनो भद्रमतिः क्षुधार्त्तानात्मजान्प्रियाः॥ पश्यन्स्वयं क्षुधार्त्तश्च विललापकुलेन्द्रियः ॥४३॥

धिग्जन्म भाग्यरहितं धिग्जन्म धनवर्जितम् ॥ धिग्जन्म धर्मरहितं धिग्जन्म ख्यातिवर्जितम् ॥४४॥

नरस्य बह्वपत्यस्य धिग्जन्मैश्वर्यवर्जितम् ॥ अहो गुणाः सौम्यगता च विद्वत्ता जन्म सत्कुले ॥४५॥

दादिद्याम्बुधिमग्नस्य सर्वमेतन्न शोभते ॥ प्रियाः पुत्राश्च पौत्राश्च बान्धवा भ्रातरस्तथा ॥४६॥

शिष्याश्च सर्वमनुजास्त्यजन्त्यैश्वर्यवर्जितम् ॥ चाण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते ॥४७॥

दरिद्रः पुरुषो लोके शववल्लोकनिन्दितः ॥ अहो संपत्संमायुक्तो निष्ठुरो वाप्यनिष्ठुरः ॥४८॥

गुणहीनोऽपि गुणवान्मूर्खो वाप्यथ पण्डितः ॥ एश्वर्य गुणयुक्तश्चैत्पूज्य एव न संशयः ॥४९॥

अहो दरिद्रता दुःखं तत्राप्याशातिदुःखदा ॥ आशाभिभूताः पुरुषा दुःखम श्नुवतेऽक्षयम् ॥५०॥

आशया दासा ये दासास्ते सर्वलोकस्य ॥ आशा दासी येषां दासायते लोकः ॥५१॥

मानोहि महतां लोके धनमक्षयमुच्यते ॥ तस्मिन्नाशाख्यरिपुणामाने नष्ठे दरिद्रता ॥५२॥

सर्वशास्त्रार्थवेत्तापि दरिद्रो भाति मूर्खवत् ॥ नैष्किञ्चन्यमहग्रास्तानां को विमोचकः ॥५३॥

अहो दुःखमहो दुःखमहो दुःखं दरिद्रता ॥ तत्रापि पुत्रभार्याणां बाहुल्यमतिदुःखदम् ॥५४॥

एवमुक्तवा भद्रमतिः सर्वशास्त्रार्थपारगः ॥ अन्यमैश्वर्यदं धर्मं मनसाऽचिन्तयत्तदा ॥५५॥

भूमिदानं विनिश्चित्य सर्वदानोत्तमोत्तमम् ॥ दानेन योऽनुमंताति स एव कृतावान्पुरा ॥५६॥

प्रापकं परमं धर्मं सर्वकामफलप्रदम् ॥ दानानामुत्तमं दानं भूदानं परिकीर्तितम् ॥५७॥

यद्दत्त्वा समवाप्नोति यद्यदिष्टतम् नरः ॥ इति निश्चत्य मतिमान्धीरो भद्रमतिर्बले ॥५८॥

कौशाम्बींनाम नगरीं कलत्रापत्युग्ययौ ॥ सुघोषनामविप्रेन्द्रं सर्वैश्वर्यसमन्वितम् ॥५९॥

गत्वा यचितवान्भूमिं पञ्चहस्तायतां बले ॥ सुघोषो धर्मनिरतस्तं निरीक्ष्य कुटुम्बिकम ॥६०॥

मनसा प्रीयमाणेन समभ्यर्च्येदमब्रवीत् ॥ कृतार्थोऽहं भद्रमते सफलं मम जन्म च ॥६१॥

मत्कुलं पावनं जातं त्वदनुग्रहतो द्विज ॥ इत्युक्त्वा तं समभ्यर्च्य सुघोषो धर्मतत्परः ॥६२॥

पञ्चहस्तमितां भूमिं ददौ तस्मै महामतिः ॥ पृथिवी वैष्णवी पुण्या पृथिवी विष्णुपालिता ॥६३॥

पृथिव्यास्तु प्रदानेन प्रीयतां मे जनार्दनः ॥ मन्त्रेणानेन दैत्येन्द्र सुघोषस्तं द्विजोत्तमम् ॥६४॥

विष्णुबुद्ध्य़ा समभ्यर्च्य तावतीं पृथिवीं ददौ ॥ सोऽपि भद्रमतिर्विप्रो धीमता याचितां भुवम् ॥६५॥

दत्तवान्हरिभक्ताय श्रोत्रियाय कुटुम्बिने ॥ सुघोषो भूमिदानेन कोटिवंशसमन्वितः ॥६६॥

प्रपेदे विष्णुभवनं यत्र गत्वा न शोचति ॥ बले भद्रमतिश्चापि यतः प्रथितवाञ्छ्रियम् ॥६७॥

स्थितवान्विष्णुभवने सकुटुम्बो युगायुतम् ॥ तथैव ब्रह्मसदने स्थित्वा कोटियुगायुतम् ॥६८॥

ऐन्द्रं पदं समासाद्य स्थितवान्कल्पपञ्चकम् ॥ ततो भुवं समासाद्य सर्वैश्वर्यसमन्वितः ॥६९॥

जाति स्मरो महाभागो वुभुजे भोगमुत्तमम् ॥ ततो भद्रमतिर्द्दैत्य निष्कामो विष्णुतत्परः ॥७०॥

पृथिवीं वृत्तिहीनेभ्यो ब्राह्मणेभ्यः प्रदत्तवान् ॥ तस्य विष्णुः प्रसन्नात्मा तत्त्वैश्वर्यमनुत्तमम् ॥७१॥

कोटिवंशसमेतस्य ददौ मोक्षमनुत्तमम् ॥ तस्माद्दैत्यपते मह्यं सर्वधर्मपरायण ॥७२॥

तपश्चरिष्ये मोक्षाय देहि मे त्रिपदां महीम् ॥ वैरोचनिस्ततो त्दृष्टः कलशं जलपूरितम् ॥७३॥

आददे पृथिवीं दातुं वर्णिने वामनाय ॥ विष्णुः सर्वगतो ज्ञात्वा जलधारावरोधिनम् ॥७४॥

काव्यं हस्तस्थदर्भाग्रं तच्छरे संन्यवेशयत् ॥ दर्भाग्रेऽभून्महाशस्त्रं कोटिसूर्यसमप्रभम् ॥७५॥

अमोघं ब्राह्ममत्युग्रं काव्याक्षिग्रासलोलुपम् ॥ आयाय भार्गवसुरानसुरानेकचक्षुषा ॥७६॥

पश्येति वांदिदेशे च दर्भाग्रं शस्त्रसन्निभम् ॥ बलिर्ददौ महाविष्णोर्महीं त्रिपदसंमिताम् ॥७७॥

ववृधे सोऽपि विश्वात्मा आब्रह्मभुवनं तदा ॥ अमिमीत महीं द्वाभ्यां पद्भ्य़ां विश्वतनुर्हरिः ॥७८॥

स आब्रह्मकटाहांतपदान्येतानि सप्रभः ॥ पादाङ्गुष्ठाग्रानिर्भिन्नं ब्रह्माण्डं विभिदे द्विधा ॥७९॥

तद्वारा बाह्यसलिलं बहुधारं समागतम् ॥ धौतविष्णुपदं तोयं निर्मलं लोकपावनम् ॥८०॥

अजाण्डबाह्यनिलयं धारारूपमवर्त्तत ॥ तज्जलं पावनं श्रेष्ठं ब्रह्मादीन्पावयत्सुरान् ॥८१॥

सप्तर्षिसेवितं चैव न्यपतन्मेरुमृर्द्धनि ॥८२॥

एतदृष्ट्वाद्भुतं कर्म ब्रह्माद्या देवतागणाः ॥ ऋषयो मनवश्चैव ह्यस्तुवन्हर्षविह्वलाः ॥८३॥

देवा ऊचुः ॥ नमः परेशाय परात्मरूपिणे परात्परायापररूपधारिणे ॥ ब्रह्मात्मने ब्रह्मरतात्मवृद्धये नमोऽस्तु तेऽव्याहतकर्मशीलिने ॥८४॥

परेश परमानन्द परमात्मन्परात्पर ॥ सर्वात्मने जगन्मूर्त्ते प्रमाणातीत ते नमः ॥८५॥

विश्वतश्चक्षुषे तुभ्यं विश्वतो बाहवे नमः ॥ विश्वतः शिरसे चैव विश्वतो गतये नमः ॥८६॥

एवं स्तुतो महाविष्णुर्ब्रह्माद्यैः स्वर्द्दि वौकसाम् ॥ दत्त्वाभयं च मुमुदे देवदेवः सनातनः ॥८७॥

विरोचनात्मजं दैत्यं पदैकार्थं बबन्ध ह ॥ ततः प्रपन्नं तु बलिं ज्ञात्वा चास्मै रसातलम् ॥ ददौ तद्वारपालश्च भक्तवश्यो बभुव ह ॥८८॥

नारद उवाच ॥

रसातले महाविष्णुर्विरोचनसुतस्य वै ॥ किं भोज्यं कल्पयामास घोरे सर्पभयाकुले ॥८९॥

सनक उवाच ॥

अमन्त्रितं हविर्यत्तु हूयते जातवेदसि ॥ अपात्रे दीयते यच्च तद्धोरं भोगसाधनम् ॥९०॥

हुतं हविरशुचिना दत्तं सत्कर्म यत्कृतम् ॥ तत्सर्वं तत्र भोगार्हमधःपातफलप्रदम् ॥९१॥

एवं रसातलं विष्णुर्बलये सासुराय तु ॥ दत्त्वाभयं च सर्वेषां सुराणां त्रिदिवं ददौ ॥९२॥

पूज्यमानोऽमरगणैः स्तूयमानो महर्षिभिः ॥ गंधर्वैर्गीयमानश्च पुनर्वामनतां गतः ॥९३॥

एतदृष्ट्वा महत्कर्म मुनयो ब्रह्मवादिनः ॥ परस्परं स्मितमुखाः प्रणेमुः पुरुषोत्तमम् ॥९४॥

सर्वभूतात्मको विष्णुर्वामनत्वमुपागतः ॥ मोहयन्निखिलं लोकं प्रपेदे तपसे वनम् ॥९५॥

एवं प्रभावा सा देवी गङ्गा विष्णुपदोद्भवा ॥ यस्याः स्मरणमात्रेण मुच्यते सर्वपातकैः ॥९६॥ इदं तु गङ्गामाहात्म्यं यः पठेच्छृणुयादपि ॥ देवालये नदीतीरे सोऽश्वमेधफलं लभेत् ॥९७॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गोत्पत्तिर्गङ्गामाहात्म्यं नामैका एकादशोऽध्यायः ॥११॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:26:51.1600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अनसबाबा

  • पु. घोड्याचा एक रोग ; ह्यांत सर्दी किंवा गर्मीपासून फोड होतात . - अश्वप २९५ . 
RANDOM WORD

Did you know?

Gharamadhye Shriramachi ani marutichi pooja karavi ka ? baykani keli tar chalate ka ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site