TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
त्रिसप्ततितमोऽध्यायः

श्री नारदीयमहापुराणम् - त्रिसप्ततितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


त्रिसप्ततितमोऽध्यायः
सनत्कुमार उवाच ॥
अथ रामस्य मनवो वक्ष्यंते सिद्धिदायकाः ॥ येषामाराधनान्मर्त्यास्तरंति भवसागरम् ॥१॥
सर्वेषु मंत्रवर्येषु श्रेष्ठं वैष्णवमुच्यते ॥ गाणपत्येषु सौरेषु शाक्तशैवेष्वभीष्टदम् ॥२॥
वैष्णवेष्वपि मंत्रेषु राममंत्राः फलाधिका ॥ गाणपत्यादिमंत्रेभ्यः कोटिकोटिगुणाधिकाः ॥३॥
विष्णुशय्यास्थितो वह्रिरिंदुभूषितमस्तकः ॥ रामाय ह्रदयांतोऽयं महाघौघविनाशनः ॥४॥
सर्वेषु राममंत्रषु ह्रातिश्रेष्ठः षडक्षरः ॥ ब्रह्महत्यासहस्त्राणि ज्ञातज्ञातकृतानि च ॥५॥
स्वर्णस्तेय सुरापानगुरुतल्पायुतानि च ॥ कोटिकोटिसहस्त्राणि ह्युपपानि यानि वै ॥६॥
मंत्रस्योच्चारनात्सद्यो लयं यांति न संशयः ॥ ब्रह्मा मुनिः स्याद्धा यत्री छंदो रामश्व देवता ॥७॥
आद्यं बीजं च इच्छक्तिर्विनियोगोऽखिलाप्तये ॥ षड्‌दीर्घभाजा बीजेन षडंगानि समाचरेत् ॥८॥
ब्रह्मरंध्रे भ्रूवोर्मध्ये हन्नाभ्योर्गृह्यपादयोः ॥ मंत्रवर्णान्क्रमान्न्यस्य केशवादीन्प्रविन्यसेत् ॥९॥
पीठन्यासादिकं कृत्वा ध्यायेद्धदि रघूत्तमम् ॥ कालांभोधरकांत च वीरा सनसमास्थितम् ॥१०॥
ज्ञानमुद्रां दक्षहस्ते दधतं जानुनीतरम् ॥ सरोरुहकरां सीतां विद्युदाभां च पार्श्वगाम् ॥११॥
पश्यंतीं रामवक्राब्जं विविधाक्ल्पभूषिताम् ॥ ध्यात्वैवं प्रजपेद्वर्णलक्षं मंत्री दशांशतः ॥१२॥
कमलैर्जु हुयाद्वह्रौ ब्राह्मणान्भोजयेत्ततः ॥ पूजयेद्वैष्णवे पीठे विमलादिसमन्विते ॥१३॥
मूर्ति मूलेन संकल्प तस्यामावाह्य साधकः ॥ सीतां वामे समासीनां तन्मन्त्रेण प्रपूजयेत् ॥१४॥
रमासीपदं ङेंत द्विठांतो जानकीमनुः ॥ अग्रेः शार्ङं च सम्पूज्य शरान्पार्श्वद्वयेऽर्चयेत् ॥१५॥
केशरेषु षडंगानि पत्रेष्वेतान्समर्चयेत् ॥ हनुमंतं च सुग्रीवं भरतं सबिभीषणम् ॥१६॥
लक्ष्मणांगदशत्रुघ्नान् जांबवंतं क्रमात्पुनः । वाचयंतं हनूमंतमग्रतो धृतपुस्तकम् ॥१७॥
यजेद्धरतशत्रुघ्नौ पार्श्वयोर्धृतचामरौ ॥ धृतातपत्रं हस्ताभ्यां लक्ष्णमं पृष्ठतोऽर्चयेत् ॥१८॥
ततोऽष्टपत्रे सृष्टिं च जपंतं विजयं तथा ॥ सुराष्ट्रं राष्ट्रपालं च अकोपं धर्मपालकम् ॥१९॥
सुमंतं चेति सम्पूज्य लोके शानायुधैर्युतान् ॥ एवं समाराध्य जीवन्मुक्तः प्रजायते ॥२०॥
चंदनाकैः  प्रजुहुयाज्जातेपुष्पैः समाहित ॥ राजवश्याय कमलैर्धनधान्यदिसिद्धये ॥२१॥
लक्ष्मीकामः प्रजुहुयात्प्रसूनैर्विल्वसंभवैः आज्याक्तैर्नीलकमलैर्वशयेदखिलं जगत् ॥२२॥
घृताक्तशतपर्विभिर्दीर्घायुश्व निरामयः ॥ रक्तोत्पलानां होमेन धनं प्राप्नोति वांछितम् ॥२३॥
पालाशकुसुमैर्हुत्वा मेधावी जायते नरः ॥ तज्जतांभः पिबेत्प्रातर्वत्सरात्कविराड्‌ भवेत् ॥२४॥
तन्मंत्रितान्नं भुंजीत महारोगप्रशांतये ॥ रोगोक्तौषधहोमेन तद्रोगान्मुच्यते क्षणात् ॥२५॥
नदीतीरे च गोष्ठे वा जपेल्लक्षं पयोब्रतः ॥ पायसेनाज्ययुक्तेन हुत्वा विद्यानिधिर्भवेत् ॥२६॥
परिक्षीणाधिपत्यो यः शाकाहारो जलांतरे ॥ जपेल्लक्षं च जुहुयाद्विल्वपुष्पैर्दशांशतः ॥२७॥
तदैव पुनराप्नोति स्वाधिपत्यं न संशयः ॥ उपोष्य गङातीरांते स्थित्वा लक्षं जपेन्नरः ॥२८॥
दशाशं कमलैर्हुत्वा विल्वोत्थैर्वा प्रसूनकैः ॥ मधुरत्रसंयुक्तैराज्यश्रियमवाप्नुयात् ॥२९॥
मार्गमासे जले स्थित्वा कन्दमूलफलाशनः लक्षं जप्त्वा दशांशेन पायसैर्जुहुयद्वसौ ॥३०॥
श्रीरामचन्द्रसदृशः पुत्रः पौत्रोऽपि जायते ॥ अन्येऽपि बहवः संति प्रयोगा मन्त्रराजके ॥३१॥
किंतु प्रयोगकर्तृणां परलोको न विद्यते ॥ षटोणं वसुपत्रं च तद्वाह्यार्कदलं लिखेत् ॥३२॥
षट्कोणेषु षडर्णानि सन्त्रस्य विलिखेद्‌बुधः ॥ अष्टपत्रे तथाष्टार्णांल्लिखेत्प्रणवगर्भितान् ॥३३॥
कामबीजं रविदले मध्ये मन्त्रावृताभिधाम् ॥ सुदर्शनावृतं बाह्ये दिक्षु युग्मावृतं तथा ॥३४॥
वज्रोल्लसद्धूमिगेहं कन्दर्पांकुशपाशकैः ॥ भूम्या च विलसत्कोणं यन्त्रराजमिदं स्मृतम् ॥३५॥
भूर्जेऽष्टगन्धैः संलिख्य पूजयेदुक्तवर्त्मना ॥ षट्कोणेषु दलार्काब्जान्यावेष्टवुतयुग्मतः ॥३६॥
केशरेष्वष्टपत्रस्य स्वरंद्वंद्व्म लिखेद्‍ बुधः ॥ बहिस्तु मातृकां चैव मन्त्रं प्राणनिधायनम् ॥३७॥
यन्त्रमेतच्छुभे घस्त्रे कण्ठे वा दक्षिणे भुजे ॥ मूर्ध्नि  वा धारयेन्मंत्री सर्वपापेः प्रमुच्यते ॥३८॥
सुदिने सुभनक्षत्रे सुदेशे शल्यवर्जिते ॥ वश्याकर्षणाविद्वेष्सद्रावणोच्चटनादिकम् ॥३९॥
पुष्यद्वयं तथादित्यार्द्रामघासु यथाक्रमम् ॥ दूर्वोत्था लेखनी वश्ये तथाकृष्टौ करंजजा ॥४०॥
नारास्थिजा मारणे तु स्तंभने राजवृक्षजा ॥ शांतिपुष्टयायुषां सिद्धयै सर्वापच्छमनाय च ॥४१॥
विभ्रमोत्पादने चैव शिलायां विलिखेद्‍ बुध ॥ खरचर्मणि विद्वेषे ध्वजे तूच्चाटनाय च ॥४१॥
शत्रूणां ज्वरसन्तापशोकमारणकर्मणि ॥ पीतवस्त्रं लिखित्वा तु साधयेत्साधकोत्तमः ॥४३॥
वश्याकृष्टौ चाष्टगन्धैः सम्पूज्य च यथाविधि ॥ चितांगारादिना चैव ताडनोच्चाटनादिकम् ॥४४॥
विषार्कक्षीरयोगेन मारणं भवति ध्रुवम् ॥ लिखित्वैवं यंत्रराजं गन्धपुष्पादिभिर्यजेत् ॥४५॥
त्रिलोहवेष्टितं कृत्वा धारयेसाधकोत्तमः ॥ बीजं रामाय ठद्वंद्वं मन्त्रोऽयं रसवर्णकः ॥४६॥
महा सुदर्शनमनुः कथ्यते सिद्धिदायकः ॥ सुदर्शनमहाशब्दाच्चक्रराजेश्वरेति च ॥४७॥
दुष्टांतकदुष्टभयानकदुष्टभयंकरम् ॥ छिंधिद्वयं भिंधियुग्मं विदारययुगं ततः ॥४८॥
परमन्त्रान् ग्रसद्वद्वं भक्षयद्वितयं ततः ॥ त्रासयद्वितयं वर्मास्त्राग्निजायांतिमो मनुः ॥४९॥
अष्टषष्टक्षरः प्रोक्तो यंत्रसंवेष्टने त्वयम् ॥ तारो हद्धगवान् ङेतो ङेंतो हि रघुनन्दनः ॥५०॥
रक्षोघ्रविशदायांते मधुरादिप्रसन्न च ॥ वरदायामितांते नुतेजसेपदमीरयेत् ॥५१॥
बालायांते तु रामाय विष्णवे ह्रदयांतिमः ॥ सप्तचत्वारिंशदर्णो मालामन्त्रोऽयमीरितः ॥५२॥
विश्वमित्रो मुनिश्वास्य गायत्री छंद ईरितम् ॥ श्रीरामो देवता बीजं ध्रुवः शक्तिश्व ठद्वयम् ॥५३॥
षड्‌दीर्घस्वरयुगमायाबीजेनांगानि कल्पयेत् ॥ ध्यानपूजादिकं सर्वमस्य पूर्ववदाचरेत् ॥५४॥
अयमाराधितो मन्त्रः सर्वान्कामान्प्रयच्छति ॥ स्वकामसत्यवाग्लक्ष्मीताराढ्यः पञ्चवर्नकेः ॥५५॥
षडंक्षरः षडिधः स्याच्चुतुर्वर्गफलप्रदः ॥ ब्रह्मा संमोहनः शक्तिर्दक्षिणामूर्तिसंज्ञकः ॥५६॥
अगस्त्यः श्रीशिवः प्रोक्तास्ते तेषां मुनयः क्रमात् ॥ अथवा कामबीजा देर्विश्वामित्रो मुनिः स्मृतः ॥५७॥
छ्न्दः प्रोक्तं च गायत्री श्रीरामो देवता पुनः ॥ बीजशक्तिराधमांत्यं मन्त्रार्णैः स्यात्षडंगकम् ॥५८॥
बीजैः षड्‌दीर्घयुक्तैर्वा मंत्रार्णान्पूर्ववन्न्यसेत् ॥ ध्यायेत्कल्पतरोर्मूले सुवर्णमयमण्डपे ॥५९॥
पुष्पकाख्यविमानांतः सिंहासनपरिच्छदे ॥ पद्मे वसुदले देवमिंद्रनीलसमप्रभम् ॥६०॥
वीरासनसमासीनं ज्ञानमुद्रोपशोभितम् ॥ वामोरुन्यस्ततद्धस्तसीतालक्ष्मणसेवितम् ॥६१॥
रत्नाकल्पं विभुं ध्यात्वा वर्णलक्षं जपेन्मनुम् ॥ यद्वा स्मारादिमन्त्राणां जयाभं च हरिं स्मरेत् ॥६२॥
यंजनं काम्यकर्माणि सर्वं कुर्यात्षडर्णवत् ॥ रामश्व चन्द्रभ द्रांतो ङेनमोतो ध्रुवादिकः ॥६३॥
मन्त्रावष्टाक्षरौं ह्येतौ तारांत्यौ चेन्नवाक्षरौ ॥ एतेषां यजनं सर्वं कुर्यान्मत्री षडर्णवत ॥६४॥
जानकीवल्लभो ङें तो द्विठांतः कवचादिकः ॥ दक्षार्णोऽयं विशिष्टोऽस्य मुनिः स्वराट् ॥६५॥
छन्दश्व देवता सीता पतिर्बीजं तथादिमम् ॥ स्वाहा शक्तिश्व कामेन कुर्यादंगानि षट् क्रमात् ॥६६॥  
शिरोललाटभूमध्यतालुकण्ठेषु ह्रद्यपि ॥ नाभ्यांध्रिजानुपादेषु दशार्णान्विन्यसेन्मनोः ॥६७॥
अयोघ्यानगरे रत्नचित्र्सौवर्णमण्डपे ॥ मंदारपुष्पैबद्धविताने तोरणान्विते ॥६८॥
सिंहासनसमासीन पुष्पकोपरि राघवम् ॥ रक्षोभिर्हरिभिर्देवैः सुविमानगतैः शुभैः ॥६९॥
संस्तूयमानं मुनिभिः प्रह्रैश्व परिसेवितम् ॥ सीतालंकृतवामांगं लक्ष्णनोपशो भितम् ॥७०॥
श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् ॥ एवं ध्यात्वा जपेन्मंत्री वर्णलक्षं समाहितः ॥७१॥
दशांशः कमलैर्होमो यजनं च षडर्णवत् ॥ रामो ङेन्तो धनुष्पाणिङेतोऽते वह्रिसुंदरी ॥७२॥
दशाक्षरोऽयं मंत्रोऽस्य मुनिर्ब्रह्मा विराट्र पुनः ॥ छन्दस्तु देवता प्रोक्तो रामो राक्षसमर्दनः ॥७३॥
आद्यं बीजं द्विठः शक्तिर्बीजेनांगानि कल्पयेत् ॥ वर्णन्यासं तथा ध्यानं पुरश्वर्यार्चनादिकम‍ ॥७४॥
दशाक्षरोक्तवत्कुर्याच्चापबाणधरं स्मरेत् ॥ तारो नमो भगवते रामान्ते चंद्रभद्रकौ ॥७५॥   
ङेंतावर्काक्षरौ मंत्रौ ऋषिध्यानादि पूर्ववत ॥ श्रीपूर्वं जयपूर्वं च तद्दिधा रामनाम च ॥७६॥
त्रयोदशाक्षरो मंत्रो मुनिर्ब्रह्या विराट्‍ स्मृतम्‍ ॥ छन्दस्तु देवता प्रोक्तो रामः पापौघनाशनः ॥७७॥
षडंगानि प्रकुर्वीत्‍ द्विरावृत्त्या पदत्रयैः ॥ ध्यानार्चनादिदिकं सव ह्रास्य कुर्याद्दशार्णवत्‍ ॥७८॥
तारो नमो भगवते रामयांते महापदम॥ पुरुषाय ह्रदंतोऽयं मनुरष्यादशाक्षरः ॥७९॥
विश्वामित्रो मुनिश्छदो धृती रामोऽस्य देवता ॥ तारो बीजं नमः शक्तिश्वंद्राक्ष्यब्ध्यग्न्रिषड्‌भुजैः ॥८०॥
वर्णैमंत्रोत्थितैः कुर्यात्षंडगानि समाहितः ॥ निश्शाणभेरीपटहशंखतुर्यादिनिःस्वनैः ॥८१॥
प्रवृत्तनृत्ये परितो जयमंगलभाषिते ॥ चंदनागरुकस्तूरीकर्पूरादिसुवासिते ॥८२॥
नानाकुसुमसौरभ्यवाहिगंधवहान्विते ॥ देवगंधर्वनारीभिर्गायन्तीभिरल कृते ॥८३॥
सिंहासने समासीनं पुष्पकोपरि राघवम्‍ ॥ सौमित्रिसीतासहितं जटामुकुशोभितम्‍ ॥८४॥
चापबाणधरं श्यामं ससुग्रीवविभी षणम्‍ ॥ हत्वा रावणमायांतं कृतत्रैलोक्यरक्षणम्‍ ॥८५॥
एवं ध्यात्वा जपेद्वर्ण लक्षं मत्री दशांशथ ॥घृताक्तैः पायसैर्हृत्वा यजनं पूर्वच्चरेत्‍ ॥८६॥
प्रणवो हृदयं सीतापतये तदनंतरम्‍ ॥ रामाय हनयुग्मंते वर्मास्त्राग्निप्रियांतिमः ॥८७॥
एकोनविंशद्वर्णोऽयं मंत्रः सर्वार्थसाधकः ॥ विश्वामित्रो मुनिश्वास्तानुष्टुप्छन्द उदाहृतम्‍ ॥८८॥
देवता रामभद्रो जं बीजं शक्तिर्नम इति ॥ मंत्रोत्थितैः क्रमाद्वर्णैस्ततो ध्यायेच्च पूर्ववत्‍ ॥८९॥
पूजनं काम्यकर्मादि सर्वमस्य षडर्णवत्‍ ॥ तारः स्वबीजं कमला रामभद्रेति संपठेत्‍ ॥९०॥
महेष्वासपदांते तु रघुवीर नृपोत्तम्‍ ॥ दशास्यांतकशब्दांते मां रक्ष देहि संपठेत्‍ ॥९१॥
परमांते मे श्रियं स्यान्मंत्रो बाणगुणाक्षरः ॥ बीजैर्वियुक्तो द्वात्रिंशदर्णोऽयं फलदायकः ॥९२॥
विश्वामित्रो मुनिश्वास्यानुष्टुप्छंद उदाह्रतम्‍ ॥ देवता रामभद्रोऽत्र बीजं शक्तिरिंदिरा ॥९३॥
बीजत्रयाद्यैः कुर्वीत पदैः सर्वेण मंत्रवित्‍ ॥ पंचांगानि च विन्यस्य मंत्रवर्णान्र्कमान्न्यसेत‍ ॥९४॥
मूर्ध्नि भाले द्दशोः श्रोत्रे गंडयुग्मे सनासिके ॥ आस्ये दोःसंधियुगले स्तनत्दृन्नाभिषु क्रमात्‍ ॥९५॥
कटौ मेदे पायुपादसंधिष्वर्णान्न्यसेन्मनीः ॥ ध्यानार्चनादिकं चास्य पूर्ववत्समु पाचरेत्‍ ॥९६॥
लक्षत्रच पुरश्वर्या पायसैर्हवनं मतम्‍ ॥ ध्यात्वा रामं पीतवर्ण जपेल्लक्षं समाहितः ॥९७॥
दशांशं कमलैर्हृत्वा धनैर्धनपतिर्भवेत्‍ ॥ तारो माया रमाद्वंद्वं दाशरथाय त्दृच्च वै ॥९८॥
एकादशाक्षरो मंत्रो मुन्या द्यर्चास्य पूर्ववत्‍ ॥ त्रैलोक्यांते तु नाथाय ह्र्दंतो वसुवर्णवान्‍ ॥९९॥
अस्यापि पूर्ववत्संर्वं न्यासध्यानार्चनादिकम्‍ ।आंजनेयपदांते तु गुरवे हृदयांतिमः ॥१००॥
मंत्रो नवाक्षरोऽस्यापि यजनं पूर्ववन्मतम्‍ ॥ ङेंतं रामपद पश्वाद्धऋदयं पंचवणवत्‍ ॥१०१॥
मुनिध्यानार्चनं चास्य प्रोक्तं सर्वं षडर्णवत्‍ ॥ रामांते चंद्रभद्रौ च ङेंतौ पावकवल्लभा ॥१०२॥
मंत्रौ द्वौ च समाख्यातौ मुन्याद्यर्चादि पूर्ववत ॥ वह्रिः शेषान्वितश्वैव चंद्रभूषितमस्तकः ॥१०३॥
एकाक्षरो रघुपतेर्मंत्रः कल्पद्रुमोऽपरः ॥ ब्रह्मा मुनिः स्याद्रायत्री छंदो रामोऽस्य देवता ॥१०४॥
षड्‌दीर्घाढ्येन मंत्रेण षडंगानि समाचरेत्‍ ॥ सरयूतीरमंदाखेदिकाप्खजासने ॥१०५॥
श्यामं वीरासनासीनं ज्ञानमुद्रोपशोभितम्‍ ॥ वामोरुन्यस्त तद्धस्तं सीतालक्ष्मणसंयुतम्‍ ॥१०६॥
अवेक्षमाणमात्मानं मन्मथामिततेजसम्‍ ॥ शुद्धस्फटिकसंकाशं केवलं मोक्षकांक्षया ॥१०७॥
चिंतये त्परमात्मानमृतुलंक्षं जपेन्मनुम्‍ ॥ सर्व्व षडर्ववच्चास्य होमनित्यार्चनादिकम्‍ ॥१०८॥
वह्रिः शेषासनो भांतः केवलो द्वयक्षरो मनुः ॥ एकाक्षरोक्त वत्सर्वं मुनिध्यानार्चनादिकम्‍ ॥१०९॥
तारमानारमानंगचास्त्रबीजैर्द्विवर्णकः ॥ त्र्यक्षरो मंत्रराजः स्यात्षडिधः सकलेष्टदः ॥११०॥
व्द्यक्षरश्वंद्रभद्रांतो द्विविधश्वतुरक्षरः ॥ एकार्णोक्तवदेतेषां मुनिध्यार्चनादिकम्‍ ॥१११॥
तारो रामश्वतुर्थ्यंतो वर्मास्त्रं वह्रिवल्लभा ॥ अष्टर्णोऽयं महामंत्री मुन्याद्यर्चा षडर्णवत्‍ ॥११२॥
तारो मया ह्रदंते स्याद्रामाय प्रणवांतिमः ॥ शिवोमाराममंत्रोऽयमष्टार्णः सर्वसिद्धदः ॥११३॥
ऋषिः सदाशिवः प्रोक्तो गायत्री छंद ईरितम्‍ ॥ शिवोमारामचंद्रोऽत्र देवताअ परिकीर्त्तितः ॥११४॥
षडीर्ययामाय यातु ध्रुवपंचार्णयुक्तया ॥ षडंगानि विधायाथ ध्यायेद्धदि सुरार्चितम्‍ ॥११५॥
रामं त्रिनेत्रं सोमार्द्धधारिणं शूलिनं वरम्‍ ॥ भस्मोद्धूलितसर्वांगं कपर्दिनमुपास्महे ॥११६॥
रामाभि रामां सौंदर्यसीमां सोमावतंसिनीम्‍ ॥ पाशांकुशधनर्बाणधरां ध्यायेस्त्रिलो चनाम्‍ ॥११७॥
एवं ध्यात्वा जपेद्वर्णलक्षं त्रिमधुरान्वितैः ॥ विल्वपत्रैः फलैः पुष्पैस्तिलैर्वा पंकजैर्हुनेत्‍ ॥११८॥
स्वयमायांति निधयः सिद्धयश्व सुरोप्सिताः ॥ तारो माया च भरताग्रजराममनोभवः ॥११९॥
वह्रिजायाद्वादशार्णो मंत्रः कल्पद्रुमोऽपरः ॥ अंगिराश्व मुनिश्छंदो गायत्री देवता पुनः ॥१२०॥
श्रीरामो भुवनाबीजं स्वाहाशक्तिः समीरितः ॥ चंद्रकैमुनिभूनेत्रैर्मंत्रार्णैरंगकल्पनम्‍ ॥१२१॥
ध्यानपूजादिकं चास्य सर्वं कुर्यात्षडर्वणवत्‍ ॥ प्रणवो सीतापते रामश्व ङेंतिमः ॥१२२॥
हनद्वयांते वर्मास्त्रं मंत्रः षोडशर्वणवान्‍ ॥ अगस्त्योऽस्य मुनिश्चंदो बृहती देवता पुनः ॥१२३॥
श्रीरामोऽहं तथा बीजं रां शक्तिः समुदीरिता ॥ रामा ब्धिवह्रिवेदाक्षिवर्णैः पंचांगकल्पना ॥१२४॥
ध्यानपूजादिकं सर्वमस्य कुर्यात्षडर्णवत्‍ ॥ तारो हृच्चैव ब्रह्मण्यसेव्याय पदमीरयेत्‍ ॥१२५॥
रामायांकुंठशब्दांतं तेजसे च समीरयेत्‍ ॥ उत्तमश्लोकधुर्याय स्वं भृगुः कामिकान्वितः ॥१२६॥
दंडार्पितां प्रिये मंत्रो रामरामाक्षरो मतः ॥ ऋषिः शुक्रस्तथानुष्टुप्छंदो रामोऽस्य देवता ॥१२७॥
पादैः सर्वेणपंचांगं कुर्याच्छेषं षडर्णवते ॥ लक्षं जपो दशांशेन जुहुयात्पायसैः सुधीः ॥१२८॥
सिद्धमंत्रस्य भुक्तिः स्यान्मुक्तिः पातकनाशनम्‍ ॥ आदौ धाशरथायांते विद्महे पदमुच्चरेत्‍ ॥१२९॥
ततः सीतावल्लभाय धीमहीति समुच्चरेत्‍ ॥ तन्नो रामः प्रचो वर्णो दयादिति च संवदेत्‍ ॥१३०॥
एषोक्तारा मगायत्री सर्वाभीष्टफलप्रदा ॥ पद्मासीतापदं ङेंत ठद्वयांतः षडक्षरः ॥१३१॥
वाल्मीकिश्व मुनिश्र्छंदो गायत्री देवता पुनः ॥ सीता भगवती प्रोक्ता श्रीं बीजं वह्रिसुन्दरी ॥१३२॥
शक्तिः षड्‌दीर्घयुक्तेन बीजेनां गानि कल्पयेत्‍ ॥ ततो ध्यायन्महादेवीं सीतां त्रैलोक्यपूजिताम्‍ ॥१३३॥
तप्तहाटकवर्णाभां पद्मयुग्मं करद्वये ॥ सद्रत्नभूषणस्फूर्जद्दिव्यदेहां शुभात्मिकाम्‍ ॥१३४॥
नानावस्त्रां शशिमुखीं पद्माक्षीं मुदितांतराम्‍ ॥ पश्यंती राघवं पुण्यं शय्यार्घ्यां षड्‌गुणेश्वरीम्‍ ॥१३५॥
एवं ध्यात्वा जपे द्वर्णलक्षं मंत्री दशांशतः ॥ जुहुयात्कमलेः फुलैः पीठे पूर्वोदित यजेत्‍ ॥१३६॥
मूर्तिं संकल्प्य मूलेन तस्यामावाह्य जानकीम्‍ ॥ संपूज्य दक्षिणे राममभ्यर्च्या ग्रेऽनिलात्मजम्‍ ॥१३७॥
पृष्ठे लक्ष्मणमभ्यर्च्य षट्‌कोणेष्वंगपूजनम्‍ ॥ पत्रेषु मंत्रिमुख्यांश्व बाह्ये लोकेश्वरान्पुनः ॥१३८॥
वज्राद्यानपि संपूज्य सर्वसिद्धी श्वरो भवेत्‍ ॥ जातीपुष्पैश्वन्दनाक्तै राजवश्याय होमयेत्‍ ॥१३९॥
कमलैर्धनधान्याप्तिलाब्जैर्वशयन्‍ जगत्‍ ॥ विल्वपत्रैः श्रियः प्राप्त्यै दूर्वाभी रोगशांतये ॥१४०॥
किं बहूक्तेन सौभाग्यं पुत्रान्पौत्रान्परं सुखम्‍ ॥ धनं धान्यं च मोक्षं च सीताराधनतो लभेत्‍ ॥१४१॥
शक्रः सेंदुर्लक्षणाय ह्रदयं सप्तवर्णवान्‍ ॥ अगस्त्योऽस्य मुनिश्छंदो गायत्री देवता पुनः ॥१४२॥
लक्ष्मणाख्यो महावीर श्वाढ्यं द्वीजशक्तिके ॥ षड्‌दीर्घाढ्येन बीजेन षडंगानि समाच रेतू ॥१४३॥
द्विभुजं स्वर्णरुचिरतनुं पद्मनिभेक्षणम्‍ ॥ धनुर्बाणकरं रामसेवासंसक्तमानसम्‍ ॥१४४॥
ध्यात्वैवं प्रजपेद्वर्णलक्षं मंत्री दशांशतः ॥ मध्वाक्तैः पाय सैर्हुत्वा रामपीठे प्रपूजयेत्‍ ॥१४५॥
रामवद्यजनं चास्य सर्वसिद्धिप्रदो ह्ययम्‍ ॥ साकल्पं रामपूजायां यदीच्छीन्नियंत नरः ॥१४६॥
तेन यत्नेन कर्त्तव्यं लक्ष्मणार्चमादरात्‍ ॥ श्रीरामचंद्रभेदास्तु बहवः संति सिद्धिदाः ॥१४७॥
तत्साधकैः सदा कार्यं लक्ष्मणाराधनं शुभम्‍ ॥ अष्टोत्तरसहस्त्रं वा शतं वा सुसमाहितैः ॥१४८॥
लक्ष्मणस्य मौर्जर्‍यो मुमुक्षुभिरंतद्रितैः ॥ अजप्त्वा लक्ष्मणमनुं राममंत्रान्‍ जपंति ये ॥१४९॥
न तेषां जायते सिद्धिर्हानि रवे पदे पदे ॥ यो जपेल्लक्ष्मणमनुं नित्यमेकांतमस्थितः ॥१५०॥
मुच्यते सर्वपापेभ्यः सर्वान्कामान वाप्नुयात्‍ ॥ जयप्रधानो मंत्रोऽयं राज्यप्राप्यैक साधनम्‍ ॥१५१॥
नष्टराज्यात्पये मंत्रं जपेल्लक्षं समाहितः ॥सोऽचिरान्नष्टराज्यं स्वं प्राप्नोत्येव न संशयः ॥१५२॥
ध्यायन्राममयोध्यायमभिषिक्त मनन्यधीः ॥ पञ्चायुतं मनुं जप्त्वां नष्टराज्यमवाप्नुयात्‍ ॥१५३॥
नागपाशविनिर्मुक्त ध्यात्वा लक्ष्मणमादरात्‍ ॥ अयुतं प्रजपेन्मंत्रं निगडानुसुच्यते धुर्वम्‍ ॥१५४॥
वातात्मजेनानीताभिरोषधीभिर्गतव्यथम्‍ ॥ ध्यात्वा लक्षं जपन्मंत्रमल्पमृत्युं जयेद्धुवम्‍ ॥१५५॥
घातयंतं मेघनादं ध्यात्वा लक्षं जपेन्मनुम्‍ ॥ दुर्जयं वापि वेगेन जयेद्रिपुकुलं महत्‍ ॥१५६॥
ध्यात्वा शूर्पणखानासाछेदनोद्युक्तमानसम्‍ ॥ सहस्त्रं प्रजपेन्मंत्र पुरुहूतादिकान्‍ जयेत्‍ ॥१५७॥
रामपादाब्जसेवार्थं कुतोद्योगमथो स्मरन्‍ ॥ प्रजपल्लँक्षमेकांते महारागात्प्रमुच्यते ॥१५८॥
त्रिमासं विजिताहारो नित्यं सप्तसहस्त्रकम्‍ ॥ अष्टोत्तरशंतैः पुष्पैर्निश्लिद्रैः शातपत्रकैः ॥१५९॥
पूजयित्वा विधानेन पायसं च सशर्करम्‍ ॥ निवेद्य प्रजपेन्मंत्रं कुष्ठरोगात्पुमुच्यते ॥१६०॥
विजने विजिताहारः षण्मासं विधिनामुना ॥ क्षयरोगात्प्रमुच्येत सत्यं सत्यं न संशयः ॥१६१॥
अभिमंत्र्य जलं प्रातर्मंत्रेण त्रिः समाहितः ॥ त्रिसंध्य वा पिबेन्नित्यं मुच्यते सर्वरोगतः ॥१६२॥
दारिद्य्रं च पराभूतं जायते धनदोपमः ॥ विषादिदोषसंस्पर्शो न भवेत्तु  कदाचन ॥१६३॥
मनुना मंत्रितैस्तोयैः प्रत्यहं क्षालयेन्मुखम्‍ ॥ मुखनेत्रादिसंभूताञ्जयेद्दोगांश्व दारुणान्‍ ॥१६४॥
पीत्वाभिमंत्रितं त्वंभः कुक्षिरोगान्‍ जयेद्धुवम्‍ ॥ लक्ष्मणप्रतिमां कृत्वा दद्याद्धक्तया विधानतः ॥१६५॥
स सर्वेभ्योऽथ रोगेभ्यो मुच्यते नात्र संशयः ॥ कन्यार्थी विमलापाणिग्रहनासक्तमानसः ॥१६६॥
ध्यायन्‍ लक्षं जपेन्मंत्री अब्जैर्हृत्वा दशांशतः ॥ ईप्सितां लभते कन्यांशीघ्रमेव न संशयः ॥१६७॥
दीक्षितं जृंभणास्त्राना मंत्रेषु नियतव्रतम्‍ ॥ ध्यात्वा च विधिवान्नित्यं जपेन्मासत्रयं मनुम्‍ ॥१६८॥
पुजापुरःसरं सप्तसहस्त्रं विजितेंद्रियः ॥ सर्वासामपि विद्यानां तत्त्वज्ञो जायते नरः ॥१६९॥
विश्वामित्रक्रतुवरे कृताद्धुतपराक्रमम्‍ ॥ ध्यायँल्लक्षं जपेन्मंत्रं मुच्यते महतो भयात्‍ ॥१७०॥
कृतानित्यक्रियः शुद्ध स्त्रिकालं प्रजपेन्मनुम्‍ ॥ सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्‍ ॥१७१॥
दीक्षितो विधिवन्मंत्री गुणैर्विगतकल्मषः ॥ स्वाचारनियतो दांतो गृहस्थो विजिरेंद्रियः ॥१७२॥
ऐहिकाननपेक्ष्यैव निष्कामो योऽर्चयेद्विभुम्‍ ॥ स सर्वान्पुण्य पापौघान्दग्ध्वा निर्मलमानसः ॥१७३॥
पुनरावृत्तिरहितः शाश्वंत पदमश्नुते ॥ सकामो वांछितान्‍ लब्ध्वा भुक्ता भोगान्‍ मनोगतान्‍ ॥१७४॥
जातिस्मरश्विरं भूत्वा याति विष्णोः परं पदम्‍ ॥ निद्राचन्द्रान्विता पश्वाद्धरताय ह्रदंतिमः ॥१७५॥
सप्ताक्षरो मनुश्वास्य मुन्याद्यर्चादि पूर्ववत्‍ ॥बक्‍ सेंदुश्व शत्रुघ्रपरं ङेंत हृदंतिमः ॥१७६॥
सप्ताक्षरोऽयं शत्रुघ्नमंत्रः सर्वेष्टसिद्धिदः ॥१७७॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहपाख्याने सनत्कुमारविभागे तृतीयपादे रामाद्युपासनावर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥७३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T04:24:22.7970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

antineoplastics

  • न./अ.व. कर्करोगरोधके 
RANDOM WORD

Did you know?

What are the names for Ekadashi (11th day in fortnight)?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site