TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
सप्तविंशोध्यायः

श्री नारदीयमहापुराणम् - सप्तविंशोध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


सप्तविंशोध्यायः

सनक उवाच ॥

असगृहस्थस्य सदाचारं वक्ष्यामि मुनिसत्तम ॥ यद्वतां सर्वपापानि नश्यंत्येव न संशयः ॥१॥

ब्राह्मे मुहूर्ते चोत्थाय पुरुषार्थाविरोधिनीम् ॥ वृत्तिं संचितयेद्वप्र कृतकेशप्रसाधनः॥२॥

दिवासंध्यासुकर्णस्थब्रह्मसूत्र उदङ्मुखः । कुयान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ॥३॥

शिरः प्रावृत्य वस्त्रेण ह्यंतर्द्धाय तृणैमहीम् ॥ वहन्काष्ठं करेणैक तावन्मौनी भवेद्विजः ॥४॥

पथि गोष्ठे नदीतीरे तडागगृहसन्निधौ ॥ तथा वृक्षस्य च्छायायां कांतारे वह्निसन्निधौ ॥५॥

देवालये तथोद्याने कृष्टभूमौ चतुष्पथे ॥ ब्राह्मणानां समीपे च तथा गोगुरुयोषिताम् ॥६॥

तुषांगारकपालेषु जलमध्ये तथेव च । एवमादिषु देशेषु मलमूत्रं न कारयेत् ॥७॥

शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः ॥ शौचाचारविहीनस्य समस्तं कर्म निष्फलम् ॥८॥

शोचं तु द्विविधं प्रोक्तं बाह्यमाभ्यंतरं तथा॥ मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथांतरम् ॥९॥

गृहीतशिश्र्नश्चोत्थाय शौचार्थं मृदमाहरेत् ॥ न मूषकादिखनितां फलोत्कृष्टां तथैव च ॥१०॥

वापीकूपतडागेभ्यो नाहरेदपि मृत्तिकाम् ॥ शौचं कुर्यात्प्रयत्नेन समादाय शुभां मृदम् ॥११॥

लिंगे मृदेका दातव्या तिस्त्रो वा मेढ्रयो र्द्वयोः ॥ एतन्मूत्रसमुत्सर्गे शोचमाहुर्मनीषिणः ॥१२॥

एका लिंगे गुदे पंच दश वामे तथोभयोः ॥ सप्त तिस्त्रः प्रदातव्याः पादयोर्मृत्तिकाः पृथक् ॥१३॥

एतच्छौचं विडुत्सर्गे गंधलेपापनुत्तये ॥ एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणाम् ॥१४॥

त्रिगुणं तु वनस्थानां यतीनां तच्चतुर्गुणम् ॥ स्वस्थाने पूर्णशौचं स्यात्पथ्यर्द्धं मुनिसत्तम ॥१५॥

आतुरे नियमो नास्ति महापदि तथैव च ॥ गंधलेपक्षयकरं शौचं कुर्याद्विचक्षणः ॥१६॥

स्त्रीणामनुपनीतानां गंधलेपक्षयावधि ॥ व्रतस्थानां तु सर्वेषां यतिवच्छौचमिष्यते ॥१७॥

विधवानां च विप्रेंद्र एतदेव निगद्यते ॥ एवं शौचं तु निर्वर्त्य पश्चाद्वै सुसमाहितः॥१८॥

प्रागास्य उदगास्यो वाप्याचामेत्प्रयतेंद्रियः ॥ त्रिश्चतुधा पिबेदापो गंधफेनादिवर्जिताः ॥१९॥

द्विर्मार्जयेत्कपोलं च तलेनोष्ठौ च सत्तम ॥ तर्जन्यंगुष्ठयोगेन नासारंध्रद्वयं स्पृश्यत् ॥२०॥

अगुंष्ठानामिकाभ्यां च चक्षुः श्रोत्रे यथाक्रमम् ॥ कनिष्ठांगुष्ठयोगेन नाभिदेशे स्पृशेद्विजः ॥२१॥

तलेनोरःस्थलं चैव अंगुल्यग्रैः शिरः स्पृशेत् तलेन चांगुलागै्रवा्र स्पृशेदंसौ विचक्षणः ॥२२॥

एवमा चम्य विप्रेंद्र शुद्धिमाप्नोत्यनुत्तमाम् ॥ दंतकाष्ठं ततः खादेत्सत्वचं शस्तवृक्षजम् ॥२३॥

बिल्वासनापामार्गणां निम्बाम्रार्कादिशाखिनाम् ॥ प्रक्षाल्य वारिणा चैव मंत्रेणाप्यभिमंत्रितम् ॥२४॥

आयुर्बलं यशो वर्चः प्रजाः पशूवसूनि च ॥ ब्रह्म प्रज्ञां च मेधां च त्वन्नो धेहि वनस्पते ॥२५॥

कनिष्ठाग्रसमं स्थौल्ये विप्रः खादेद्दशांगुलम् ॥ नवांगुलं क्षत्रियश्च वैश्यश्चाष्आंगुलोन्मितम् ॥२६॥

शूद्रो वेदांगुलमितं वनिता च मुनीश्वर ॥ अलाभे दैतकाष्ठानां गंडूषैर्भानुसंमितैः ॥२७॥

मुखशुद्धिर्विधीयेत तृणपत्रसमन्वितैः ॥ करेणादाय वामेन संचर्वेद्वामदंष्ट्रया ॥२८॥

द्विजान्संघर्ष्य गोदोहं ततः प्रक्षाल्य पाटयेत् ॥ जिह्वामुल्लिख्य ताभ्यां तु दलाभ्यां नियतेंद्रियः ॥२९॥

प्रक्षाल्य प्रक्षिपदे दूरे भूयश्चाचम्य पूर्ववत् ॥ ततः स्नानं प्रकुवर्तीत नद्यादौ विमले जले ॥३०॥

तटं प्रक्षाल्य दर्भाश्च विन्यस्य प्रविशेज्जलम् ॥ प्रणम्य तत्र तीर्थानि आवाह्य रविमंडलात् ॥३१॥

गंधाद्यैर्मंडलं कृत्वा ध्यात्वा देवं जनार्दनम् ॥ स्नायान्मंत्रान्स्मन्पुण्यांस्तीर्थानि च विरिंचिज ॥३२॥

गंगे च यमुने चैव गोदावरि सरस्वति ॥ नर्मदे सिंधुकावेरि जलेऽस्मिन्सन्निधं कुरु ॥३३॥

पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा ॥ आगच्छंतु महाभागाः स्नानकाले सदा मम ॥३४॥

अयोध्या मथुरा माया काशी कांची ह्यवंतिका ॥ पुरी द्वारावती ज्ञेया सप्तैता मोक्षदायिकाः ॥३५॥

ततोऽघमर्षण जप्त्वा यतासुर्वारिसंप्लुतः ॥ स्नानांगं तर्पण कृत्वाचम्यार्ध्यं भानवेऽर्पयेत् ॥३६॥

ततो ध्यात्वा विवस्वंतं जलान्निर्गत्य नारद ॥ परिधायाहतं धौतं द्वितीयं परिवीय च ॥३७॥

कुशासने समाविश्य संध्याकर्म समारभेत् ॥ ईशानाभिमुखो विप्र गायत्र्याचम्य वे द्विज ॥३८॥

ऋतमित्यभिमंत्र्यार्थ पुनरेवाचमेद् बुधः ॥ ततस्तु वारिणात्मानं वेष्टयित्वा समुक्ष्य च ॥३९॥

संकल्प्य प्रणवान्ते तु ऋषिच्छंदःसुरान्स्मरन् ॥ भूरादिभिर्व्यात्दृतिभिः ॥ सप्तभिः प्रोक्ष्य मस्तकम् ॥४०॥

न्यासं समाचरेन्मंत्री पृथगेव करांगयोः ॥ विन्यस्य हृदये तारं भूः शिरस्यथ विन्यसेत् ॥४१॥

भुवः शिखायां स्वश्चैव कवचे भुर्भुवोऽक्षिषु ॥ भूर्भुवः स्वस्तथात्रास्त्रं दिक्षु तालत्रयं न्यसेत् ॥४२॥

तत अवाहयेत्संध्या प्रात५ कोकनदस्थिताम् ॥ आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि ॥४३॥

गायत्रि च्छंदसां मातर्ब्रह्मयोने नमोऽस्तु ते ॥ मध्याह्ने वृषीरूढां शुक्लांबरसमावृताम् ॥४४॥

सावित्रीं रुद्रयोनिं चावाहयेद्रुद्रवादिनीम् ॥ सायं तु गरुडारूढां पीतांबरसमावृताम् ॥४५॥

सरस्वतीं विष्णुयोनिमाह्वयेद्विष्णुवादिनीम् । तारं च व्यात्दृतीः सप्त त्रिपदां च समुच्चरन् ॥४६॥

शिरः शिखां च संपूर्य कुभयित्वा विरेचयेत् ॥ वाममध्यात्परैर्वायुं क्रमेण प्राणसंयमे ॥४७॥

द्विराचामेत्ततः पश्चात्प्रातः सूर्यश्चमेति च ॥ आपः पुनंत मध्याह्ने सायमग्निश्चमेति च ॥४८॥

आपोहिष्ठेति तिसृभिर्माज्रनं च ततश्चरेत् ॥ सुमित्रिया न इत्युक्त्वा नासास्पृष्टजलेन च ॥४९॥

द्विषद्वर्गं समुत्सार्य द्रुपदां शिरसि क्षिपेत् ॥ ऋत च सत्यमेतेन कृत्वा चैवाघमर्षणम् ॥५०॥

अंतश्चरसि मंत्रेण सकृदेव पिबेदपः ॥ ततः सूर्याय विधिवद्रन्धं पुष्पं जलांजलिम् ॥५१॥

क्षिप्त्वोपतिष्ठेद्देवर्षे भास्करं स्वस्तिकांजलिम् ॥ ऊर्द्धबाहुधोबाहुः क्रमात्कल्यादिके त्रिके ॥५२॥

उदुत्यं चित्रं तच्चक्षुरित्येतत्रितयं जपेत् ॥ सौराञ्छैवान्वैष्णवांश्च मंत्रानन्यांश्च नारद ॥५३॥

तेजोऽसि गायत्र्यसीति प्रार्थयेत्सवितुर्महः ॥ ततोऽङ्गानि त्रिरावत्य ध्यायेच्छक्तीस्तदात्मिकाः ॥५४॥

ब्रह्माणि चतुराननाक्षवलया कुम्भं करैः स्रुक्स्रवौ बिभ्राणा त्वरुणेंदुकांतिवदना ऋग्रूपिणी बालिका ॥

हंसारोहणकेलिखणखणमणेर्बिंबार्चिता भूषिता गायत्री परिभाविता भवतु नः संपत्समृद्ध्य़ै सदा ॥५५॥

रुद्राणी नवयौवना त्रिनयना वैयाघ्रचर्मांबरा खट्वांगत्रिशिखाक्षसूत्रवलयाऽभीतिश्रियै चास्तु नः ॥

विद्युद्दामजटाकलापविलसद्बालेंदुमौलिर्मुदा सावित्री वृषवाहना सिततनुर्ध्येया यजूरूपिणी ॥५६॥

ध्येया सा च सरस्वती भगवती पीतांबरालंकृता श्यामा श्यामतनुर्जरोपरिलसद्गत्रांचिता वैष्णवी ॥

तार्क्ष्यस्था मणिनूपुरांगदलसद्ग्रैवेयभूषोज्ज्वला हस्तालंकृतशंखचक्रसुगदापद्माश्रियै चास्तु नः ॥५७॥

एवं ध्यात्वा जपेत्तिष्ठन्प्रातर्मयाह्नके तथा ॥ सायंकाले समासीनो भक्तया तद्गतमानसः ॥५८॥

सहस्रपरमां देवीं शतमध्यां दशावराम् ॥ त्रिपदां प्रणवोपेता भूर्भुवःस्वरूपक्रमाम् ॥५९॥

षट्तारः संपुटो वापि व्रतिनश्च यतेर्जपः ॥ गृहस्थस्य सतारः स्याज्जप्य एवंविधो मुने ॥६०॥

ततो जप्त्वा यथाशक्ति सवित्रे विनिवेद्य च ॥ गायत्र्यै च सवित्रे च प्रक्षिपेदंजलिद्वयम् ॥६१॥

ततो विसूज्य तां विप्र उत्तरे इति मंत्रत ब्रह्मणेशेन हरिणानुज्ञाता गच्छ सादरम् ॥६२॥

दिग्भ्यो दिग्देवताभ्यश्च नमस्कृत्य कृतांजलिः ॥ प्रातरादेः परं कर्म कुर्यादपि विधानतः ॥६३॥

प्रातर्मध्यंदिने चैव गृहस्थः स्नानमाचरेत् ॥ वानप्रस्थश्च देवर्षे स्नायात्रिषवणं यतिः ॥६४॥

आतुराणां तु रोगाद्यैः पांथानां च सकृन्मतम् ॥ ब्रह्मयज्ञं ततः कुर्याद्दर्भपाणिर्मुनीश्वर ॥६५॥

दिवोदितानि कर्माणि प्रमादादकृतानि चेत् ॥ शर्वर्याः प्रथमे यामे तानि कुर्याद्यथाक्रमम् ॥६६॥

नोपास्ते यो द्विजः संध्यां धूर्तबुद्धिरनापदि ॥ पाषंडः स हि विज्ञेयः सर्वधर्मबहिष्कृतः ॥६७॥

यस्तु संध्यादिकर्माणि कूटयुक्तिविशारदः ॥ परित्यजति तं विद्यान्महापातकिनां वरम् ॥६८॥

ये द्विजा अभिभाषंते त्यक्तसंध्यादिकर्मणः ॥ ते यांति नरकान्घोरान्यावच्चंद्रार्कतारकम् ॥६९॥

देवार्चनं ततः कुर्यार्द्वश्वदेवं यथाविधि ॥ तत्रत्यमतिथिं सम्यगन्नाद्यैश्च प्रपूजयेत् ॥७०॥

वक्तव्या मधुरा वाणी तेष्वप्यभ्यागतेषु तु ॥ जलान्नकंदमूलैर्वा गृहदानेन चार्चयेत् ॥७१॥

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥ सतस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥७२॥

अज्ञातगोत्रनामानमन्यग्रामादुपागतम् ॥ विपश्चितोऽतिथिं प्राहुर्विष्णुवत्तं प्रपूजयेत् ॥७३॥

स्वग्रामवासिनं त्वेकं श्रोत्रियं विष्णुतत्परम् ॥ अन्नाद्यैः प्रत्यहं विप्र पितृनुद्दिश्य तर्पयेत् ॥७४॥

पंचयज्ञपरित्यागी ब्रह्महेत्युच्यते बुधैः ॥ कुर्यादहरहस्तस्मात्पंचयज्ञान्प्रयत्नतः ॥७५॥

देवयज्ञौ भूतयज्ञः पितृयज्ञस्तथैव च ॥ नृयज्ञो ब्रह्मयज्ञश्च पंचयज्ञान्प्रचक्षते ॥७६॥

भृत्यमित्रादिसंयुक्तः स्वयं भुञ्जीत वाग्यतः ॥ द्विजानां भोज्यमश्रीयात्पात्रं नैव परित्यजेत् ॥७७॥

संस्थाप्य स्वासने पादौ वस्त्रार्द्धं परिधाय च ॥ मुखेन वमितं भुक्त्वा सुरापीत्युच्यते बुधैः ॥७८॥

खादितार्द्धं पुनः खादेन्मोदकांश्च फलानि च ॥ प्रत्यक्षं लवणं चैव गोमांसाशीति गद्यते ॥७९॥

अपोशाने वाचमने अद्यद्रव्येषु च द्विजः ॥ शब्द न कारयेद्विप्रस्तं कुर्वन्नारकी भवेत् ॥८०॥

पथ्यमन्नं प्रभुञ्जीत वाग्यतोऽन्नमकुत्सयन् ॥ अमृतोपस्तरणमसि अपोशानं भुजेः पुरः ॥८१॥

अमृतापिधानमसि भोज्यान्तेऽपः सकृत्पिबेत् ॥ प्राणाद्या आहुतीर्दत्त्वाचम्य भोजनमाचरेत् ॥८२॥

ततश्चाचम्य विप्रेंद्र शास्त्रचिंता परो भवेत् ॥ रात्रावपि यथाशक्ति शयनासनभोजनैः ॥८३॥

एवं गृही सदाचारं कुर्यात्पतिदिनं मुने ॥ यदाऽऽचारपरित्यागी प्रायश्चित्ती तदा भवेत् ॥८४॥

दूषितां स्वतनुं दृष्ट्वा पलिताद्यैश्च सत्तम ॥ पुत्रेषु भार्यां निःक्षिप्य वनं गच्छेत्सहैव वा ॥८५॥

भवेत्रिषवणस्नायी नखश्मश्रुजटाधरः ॥ अधःशायी ब्रह्मचारी पञ्चयज्ञपरायणः ॥८६॥

फलमूलाशनो नित्यं स्वाध्यायनिरस्तथा ॥ दयावान्सर्वभूतेषु नारायणपरायणः ॥८७॥

वर्जये दूग्रामजातानि पुष्पाणि च फलानि च ॥ अष्टौ ग्रासांश्च भुञ्जीत न कुया्रद्रात्रिभोजनम् ॥८८॥

अत्यन्तं वर्जयेत्तैलं वानप्रस्थसमाश्रमी ॥ व्यवायं वर्जयेच्चैव निद्रालस्ये तथैव च ॥८९॥

शंखचक्रगदापाणिं नित्यं नारायण स्मरेत् ॥ वानप्रस्थः प्रकुर्वीत तपश्चांद्रायणादिकम् ॥९०॥

सहेत शीततापादिवह्निं परिचरेत्सदा ॥ यदा मनसि वेराग्यं जातं सर्वेषु वस्तुषु ॥९१॥

तदैव संन्यसेद्विप्र पतितस्त्वन्यथा भवेत् ॥ वेदांताभ्यासनिरतः शांतो दांतो जितेंद्रियः ॥९२॥

निर्द्वंद्वो निरहंकारो निर्ममः सर्वदा भवेत् ॥ शमादिगुणसंयुक्तः कामक्रोधविवर्जिः ॥९३॥

नग्नो वा जीर्णकौपीनो भवेन्मुंडो यतिर्द्विजः ।ं समः शत्रौ च मित्रे च तथा मानापमानयोः ॥९४॥

एकरात्रं वसेद्ग्रामे त्रिरात्रं नगरे तथा ॥ भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्यतिः ॥९५॥

अनिंदिद्विजगृहे व्यंगारे भुक्तिवर्जिते ॥ विवादरहिते चैव भिक्षार्थं पर्यटेद्यतिः ॥९६॥

भवेत्रिषवणस्नायी नारायणपरायणः॥ जपेच्च प्रणव नित्यं जितात्मा विजितेंद्रियः॥९७॥

एकान्नादी भवेद्यस्तु कदाचिल्लंपटो यतिः ॥ न तस्य निष्कृतिर्दृष्टा प्रायश्चित्तायुतैरपि ॥९८॥

लोभाद्यदि यतिविप्र तनुपोषपरो भवेत् ॥ स चंडालसमो ज्ञेयो वर्णाश्रमविगर्हितः ॥९९॥

आत्मानं चिंतयेद्द्रेव नारायणमनामयम् ॥ निर्द्वंद्वं निर्ममं शांतं मायातीतममत्सरम् ॥१००॥

अव्ययं परिपूण्रं च सदानन्दैकाविग्रहम् ॥ ज्ञानस्वरूपममलं परं ज्योतिः सनातनम् ॥१॥

अविकारमनाद्यंतं जगच्चैतन्यकारणम् ॥ निर्गुणं परमं ध्यायेदात्मानं परतः परम् ॥२॥

पठेदुपनिषद्वाक्यं वेदांतार्थांश्च चिंतयेत् ॥ सहस्रशीर्षं देवं च सदा ध्यायेज्जितेंद्रियः॥३॥

एवं ध्यानपरो यस्तु यतिव्रिंगतमत्सरः ॥ स याति परमानंदं परं ज्योतिः सनातनम् ॥४॥

इत्येवमाश्रमाचारान्यः करोति द्विजः क्रमात् ॥ स याति परमं स्थानं यत्र गत्वा न शोचयति ॥५॥

वर्णाश्रमाचाररताः सर्वपापविवर्जिताः ॥ नारायणपरा यांति तद्विष्णोः परमं पदम् ॥६॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सदाचारेषु गृहस्थवानप्रस्थयतिधर्मनिरूपणं नाम सप्तविंशोध्यायः ॥२७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:42:24.0330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

सुतकातील नियमांबद्दल मार्गदर्शन करावे.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site