TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
अष्टमोऽध्यायः

श्री नारदीयमहापुराणम् - अष्टमोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


अष्टमोऽध्यायः

सनक उवाच ॥

एवमौर्वाश्रमे ते द्वे बाहुभार्ये मुनीश्वर ॥ चक्राते भक्तिभावेन शुश्रूषां प्रतिवासरम् ॥१॥

गते वर्षार्द्धके काले ज्येष्ठा राज्ञी तु या द्विज ॥ तस्याः पापमतिर्जाता सपत्न्याः संपदं प्रति ॥२॥

ततस्तया गरो दत्त कनिष्ठायै तु पापया ॥ न स्व प्रभावं चक्रे वै गरो मुनिनिषेवया ॥३॥

भूलेपनादिभिः सम्यग्यतः सातुदिनं मुनेः ॥ चकार सेवां तेनासौ जीर्णपुण्येन कर्मणा ॥४॥

ततो मास त्रयेऽतीते गरेण सहितं सुतमू ॥ सुषाव सुशुभे काले शुश्रूषानष्टकिल्बिषा ॥५॥

अहो सत्संगतिर्लोके किं पापं न विनाशयेत् ॥ न तदातिसुखं किं वा नराणां पुण्यकर्मणा ॥६॥

ज्ञानाज्ञानकृतं पापं यच्चान्यत्कारितं परैः ॥ तत्सर्वं नाशयत्याशु परिचर्या महात्मनाम् ॥७॥

जडोऽपि याति जूज्यत्वं सत्संगाज्जगतीतलं ॥ कलामात्रोऽपि शीतांशुः शंभूना स्वीकृतो यथा ॥८॥

सत्संगांतेः परामृद्धिं ददाति हि नृणां सदा इहामुत्र च विप्रेन्द्र सन्तः पूज्यतमास्ततः ॥९॥

अहो महद्गुणान्वक्तुं कः समर्थो मुनीश्वर ॥ गर्भं प्राप्तो गरो जीर्णो मासत्रयमहोऽद्रुतम् ॥१०॥

गरेण सहितं पुत्रं दृष्ट्वा तेजोनिधिर्मुनिः ॥ जातकर्म चकारासौ तन्नाम सगरेति च ॥११॥

पुपोष सगरं बालं तन्माता प्रीतिपूर्वकम् ॥ चौलोपवीतकर्माणि तथा चक्रे मुनीश्वरः ॥१२॥

शास्त्राण्यध्यापयामास राजयोग्यानि मंत्रवित् ॥ समर्थं सगरं दृष्ट्वा किंचिदुद्भिन्नशैशवम् ॥१३॥

मन्त्रवत्सर्वशस्त्रास्त्रं दत्त वान्स मुनीश्वरः ॥ सगरः शिक्षितस्तेन सम्पगौर्वर्षिणा मुने ॥१४॥

बभूव बलवान्धर्मी कृतज्ञो गुणवान्सुधीः॥ं धर्मज्ञः सोऽपि सगरो मुनेरमिततेजसः॥

समित्कुशांबुपुष्पादि प्रत्यहं समुपानयत् ॥१५॥

स कदाचिद्गणनिधिः प्रणिपत्य स्वमातरम् ॥ उवाच प्रांजलिर्भूत्वा सगरो विनयान्वितः ॥१६॥

सगर उवाच ॥ मातर्गतः पिता कुत्र किंनामा कस्य वंशजः ॥ तत्सर्वं मे समाचक्ष्व श्रोतुं कौतूहलं मम ॥१७॥

पित्रा विहीना ये लोके जीवंतोऽपि मुतोपमाः ॥१८॥

दरिद्रोऽपि पिता यस्य ह्यास्ते स धनदोपमः ॥ यस्य माता पिता नास्ति सुखं तस्य न विद्यते ॥१९॥

धर्महीनो यथा मुर्खः परत्रेह च निन्दितः ॥ मातापितृविहीनस्य अज्ञस्याप्यविवेकिनः ॥

अपुत्रस्य वृथा जन्म ऋृणग्रस्तस्य चैव हि ॥२०॥

चन्द्रहीना यथा रात्रिः पद्महीनं यथा सरः ॥ पतिहीना यथा नारी पितृहीनस्तथा शिशुः ॥२१॥

धर्महीनो यथा जंतुः कर्महीनो यथा गृही ॥ पशुहीनं यथा वैश्य स्तथा पित्रा विनार्भकः ॥२२॥

सत्यहीनं यथा वाक्य सुधाहिना यथा सभा ॥ तपो यथा द्याहीनं तथा पित्रा विनार्भकः ॥२३॥

वृक्षहींन यथारण्यं जलहीना यथा नदी ॥ वेगहीनो यथा वाजी तथा पित्रा विनार्भकः ॥२४॥

यथा लघुतरो लोके मातर्याच्ञापरो नरः ॥ तथा पित्रा विहीनस्तु बहुदुःखान्वितः सुतः ॥२५॥

इतीस्ति सुतेनैषा श्रुत्वा निःश्वस्य दुःखिता ॥ संपृष्टं तद्यथावृत्तं सर्वं तस्मै न्यवेदयत् ॥२६॥

तच्छुत्वा सगरः क्रुद्धः कोपसंरक्त लोचनः॥ हमिष्यामीत्थरातीन्स प्रतिज्ञामकरोत्तदा ॥२७॥

प्रदक्षिणीकृत्य मुनिं जननीं च प्रणम्य सः ॥ प्रस्थापितः प्रतस्थे च तेनैव मुनिना तदा ॥२८॥

और्वाश्रमाद्विनिष्कान्तः सगरः सत्यवाक् शुचिः ॥ वशिष्ठं स्वकुलाचार्यं प्राप्तः प्रीतिसप्रन्वितः ॥२९॥

प्रणम्य गुरवे तस्मै वशिष्ठाय महात्मने ॥ सर्व॥ विज्ञापयामास ज्ञानदृष्ट्या विजानते ॥३०॥

ऐन्द्रास्त्रं वारुणं ब्राह्ममाग्नेयं सगरो नृपः ॥ तेनैव मुनिनाऽवाप खङ्गं वज्रोपमं धनुः॥३१॥

ततस्तेनाभ्यनुज्ञातः सगरः सौमनस्यवान् ॥ आशीर्भिरर्चितः सद्यः प्रतस्थ्ज्ञे प्रणिपत्य तम् ॥३२॥

एकेनैव तु चापेन स शूरः परिपन्थिनः ॥ सपुत्रणैत्रान्सगणानकरोत्स्वर्गवासिनः॥३३॥

तच्चापमुक्तबाणाग्निसंतप्तास्तदरातयः ॥ केचिद्विनष्टा संत्रस्तास्तथा चान्ये प्रदुद्रुवुः ॥३४॥

केचिद्विशीर्ण केशाश्च वल्मीकोपरि संस्थिताः ॥ तृणान्यभक्षयन्केचिन्नग्राश्च विविशुर्जलम् ॥३५॥

शकाश्च यवनाश्चैव तथा चान्ये महीभृतः॥ सत्वरं शरणं जग्मुर्वशिष्ठं प्राणलोलुपाः ॥३६॥

जितक्षितिबा्रहुपुत्रो रिपून्गुरुसमीपगान् ॥ चारैर्विज्ञातवान्सद्यः प्राप्तश्चाचार्यसन्निधिम् ॥३७॥

तमागतं बाहुसुतं निशम्य मुनिर्व शिष्ठः शरणागतांस्तान् ॥ त्रातुं च शिष्याभिहितं च कर्तुं विवारयामास तदा क्षणेन ॥३८॥

चकार मुण्डाञ्शबरान्यवनॉंल्लम्बमूर्द्धजान् ॥ अन्धांश्च श्मश्रुलान्सर्वान्मुण्डान्वेदबहिष्कृतान् ॥३९॥

वसिष्ठमुनिना तेन हतप्रायान्निरीक्ष्य सः॥ प्रहसन्प्राह सगरः स्वगुरुं तपसो निधिम् ॥४०॥

॥ सगर उवाच ॥

भो भो गुरो दुराचारानेतान्रक्षसि तान्वृथा ॥ सर्वथाहं हनिष्यामि मत्पितुर्देशहारकान् ॥४१॥

उपेक्षेत समर्थः सन्धर्मस्य परिपन्थिनः॥ स एव सर्वनाशाय हेतुभूतो न संशयः ॥४२॥

बान्धवं प्रथमंमत्वा दुर्जनाः सकलं जगत् ॥ त एव बलहीनाश्चेद्रजन्तेऽत्यन्तसाधुताम् ॥४३॥

अहो मायाकृतं कर्म खलाः कश्मलचेतसः ॥ तावत्कुर्वन्ति कार्याणि यावत्स्यात्प्रबलं बलम् ॥४४॥

दासभावं च शत्रूणां वारस्त्रीणां च सौत्दृदम् ॥ साधुभावं च सर्पाणां श्रेयस्कामो न विश्वसेत् ॥४५॥

प्रहासं कुर्वते नित्य यान्दन्तान्दर्शयन्खलाः ॥ तानेव दर्शयन्त्याशु स्वसामर्थ्य विपर्यये ॥४६॥

पिशुना जिह्वया पूर्वं परुषं प्रवदन्ति च ॥ अतीव करुणं वाक्य वदन्त्येव तथाबलाः ॥४७॥

श्रेयस्कामो भवेद्यस्तु नीतिशास्त्रा र्थकोविदः ॥ साधुत्वं समभावं च खलानां नैव विश्वेसेत् ॥४८॥

दुर्जनं प्रणतिं यान्त मित्रं कैतवशीलितम् ॥ दुष्टां भार्यां च विश्वस्तो मृत एव न संशयः ॥४९॥

मा रक्ष तस्मादेतान्वै गोरुपव्याघ्रक्रर्मिणः ॥ हत्वैतानखिलान् दुष्टांस्त्वत्प्रसादान्प्रहीं भजे ॥५०॥

वशिष्ठस्तद्वचः श्रुत्वा सुप्रीतो मुनिसत्तमः ॥ कराभ्यां सगरस्याङ्गं स्पृशन्निदमुवाच ह ॥५१॥

॥ वसिष्ठ उवाच ॥

साधु साधु महाभाग सत्यं वदसि सुव्रत ॥ तथापि मद्वचः श्रुत्वा परां शान्तिं लभिष्यासि ॥५२॥

मयैते निहिताः पूर्वं त्वत्प्रतिज्ञाविरोधिनः ॥ हतानां हनने कीर्तिः का समुत्पद्यते वद ॥५३॥

भूमीश जन्तवः सर्वे कर्मपाशेन यन्त्रिताः ॥ तथापि पापैर्निहताः किमर्थं हंसि तान्पुनः ॥५४॥

देहस्तु पापजनितः पूर्वमेवैनसा हतः॥ आत्मा ह्यभेद्यः पूर्णत्वाच्छास्राणामेष निश्चयः ॥५५॥

स्वकर्मफलभोगानां हेतुमात्रा हि जन्तवः॥ कर्माणि दैवमूलानि देवाधीनमिदं जगत् ॥५६॥

यस्माद्दैवं हि साधूनां रक्षिता दुष्टशिक्षिता ॥ ततो नरैरस्वतन्त्रैः किं कार्यं साध्यते वद ॥५७॥

शरीरं पापंसंभूतं पापेनैव प्रवर्तते ॥ पापमूलभिदं ज्ञात्वा कथं हन्तुं समुद्यतः ॥५८॥

आत्मा शुद्धोऽपि देहस्थो देहीति प्रोच्यते बुधैः॥ तस्मादिदं वपुर्भुप पापमूलं न संशयः॥५९॥

पापमूलवपुर्हन्तः का कीर्तिस्तव बाहुज ॥ भविष्यतीति निश्वित्य नैतान्हिंसीस्ततः सुत ॥६०॥

इति श्रुत्वा गुरोर्वाक्यं विरराम स कोपतः ॥ स्पृशन्करेण सगरं नन्दनं मुनयस्तदा ॥६१॥

अथार्थर्वनिधिस्तस्य सगरस्य महात्मनः ॥ राज्याभिषेकं कृतवान्मुनिभिः सह सुव्रतैः ॥६२॥

भार्याद्वयं च तस्यासीत्केशिनी सुमति स्तथा ॥ काश्यपस्य विदर्भस्य तनये मुनिसत्तम ॥६३॥

राज्ये प्रतिष्ठिते दृष्ट्वा मुनिरौर्वस्तपोनिधिः ॥ वनादागत्य राजानं संभाष्य स्वाश्रमं ययौ ॥६४॥

कदाचित्तस्य भूपस्य भार्याभ्यां प्रार्थितो मुनिः ॥ वरं ददावपत्यार्थमौर्वो भार्गवमन्त्रवित् ॥६५॥

क्षणं ध्यानस्थितो भूत्वा त्रिकालज्ञो मुनीश्वरः॥ केशिनीं सुमतिं चैव इदमाह प्रहर्षयन् ॥६६॥

॥और्व उवाच ॥

एका वंशधरं चैकमन्या षडयुतानि च ॥ अपत्यार्थं महाभागे वृणुतां च यथेप्सितम् ॥६७॥

अथ श्रुत्वा वचस्तस्य मुनेरौर्वस्य नारद ॥ केशिन्येकं सुतं वव्रे वंशसन्तानकारणम् ॥६८॥

तथा षष्टिसहस्राणि सुमत्या ह्यभवन्सुताः॥ नाम्नासमंजाः केशिन्यास्तनयो मुनिसत्तम ॥६९॥

असमंजास्तु कर्माणि चकारोन्मतचेष्टितः॥ तं दृष्ट्वा सागराः सर्वे ह्यासन्दुर्वत्तचेतसः ॥७०॥

तद्बालभावं संदुष्टं ज्ञात्वा बाहुसुतो नृपः॥ चिन्तयामास विधिवत्पुत्रकर्म विगर्हितम् ॥७१॥

अहो कष्टतरा लोको दुर्जनानां हि संगतिः ॥ कारुकैस्ताड्यते वह्निरयःसंयोगमान्नतः ॥७२॥

अंशुमान्नाम तनयो बभूव ह्यसमंजसः ॥ शास्त्रज्ञो गुणवान्धर्मी पितामहहिते रतः ॥७३॥

दुर्वुत्ताः सागराः सर्वे लोकोपद्रव कारिणः॥ अनुष्ठानवतां नित्यप्नन्तराया भवन्ति ते ॥७४॥

हुतानि यानि यज्ञेषु हवींषि विधित्रद्दिजैः॥ बुभुजे तानि सर्वाणि निराकृत्य दिवौकसः॥७५॥

स्वर्गादाहृत्यं सततं रम्भाद्या देवयोषितः॥ भजन्ति सागरास्ता वै कचग्रहबलात्कृताः॥७६॥

पारिजातादिवृक्षाणां पुष्पाण्याहृत्य ते खलाः॥ भूषयंति स्वदेहानि मद्यपानपरायणाः॥७७॥

साधुवृत्तीः समाजह्रुः सदावाराननाशयन् ॥ मित्रैश्च यो द्रुमारब्धा बलिनोऽत्यन्तपापिनः॥७८॥

एतदृष्ट्वातिदुःखार्ता देवा इंद्रपुरोगमाः ॥ विचारं परमं चक्रुरेतेषां नाशहेतवे ॥७९॥

निश्चित्य विबुधाः सर्वे पातालान्तरगोचरम् ॥ कपिलं देवदेवेशं ययुः प्रच्छन्नरूपिणः ॥८०॥

ध्यायन्तमात्मनात्मानं परानंदैकविग्रहम् ॥ प्रणम्य दण्डव द्रूमौ तुष्टुवुत्रिदशास्ततः ॥८१॥

देवा ऊचुः ॥ नमस्ते योगिने तुभ्यं साङ्खययोगरताय च ॥ नररूपप्रतिच्छन्नविष्णवे जिष्णवे नमः ॥८२॥

नमः परेशभक्ताय लोकानुग्रहहेतवे ॥ संसारारण्यदावाग्ने धर्मपालनसेतवे ॥८३॥

महते वीतरागाय तुभ्यं भूयो नमो नमः ॥ सागरैः पीडितानस्प्नांस्रायस्व शरणागतान् ॥८४॥

॥ कपिल उवाच ॥

ये तु नाशमि हेच्छंति येशोबलधनायुषाम् ॥ त एव लोकान्बाधन्ते नात्राश्चर्यं सुगेत्तमाः ॥८५॥

यस्तु बाधितुमिच्छेन जनान्निरपराधिनः ॥ तं विद्यात्सर्वलोकेषु पापभोगरतं सुराः ॥८६॥

कर्मणा मनसा वाचा यस्त्वन्यान्बाधते सदा ॥ तं हन्ति दैवमेवाशु नात्र कार्या विचारणा ॥८७॥

अल्पैरहोभिरे वैते नाशमेष्यन्ति सागराः ॥ इत्युक्ते मुनिना तेन कपिलेन महात्मना ॥ प्रणम्य तं यथान्यायं गता नाकं दिवौकसः ॥८८॥

अत्रान्तरे तु सगरो वशिष्ठाद्यैर्महर्षिभिः ॥ आरेभे हयमेधाख्यं यज्ञं क र्तुमनुत्तमम् ॥८९॥

तद्यज्ञे योजितं सप्तिमहृत्य सुरेश्वरः ॥ पाताले स्थापयामास कपिलो यत्र तिष्ठति ॥९०॥

गूढविग्रहशक्रेण हृतमश्वं तु सागराः॥ अन्वेष्टुं बभ्रभुर्लोकान् भूरादींश्च सुविस्मिताः ॥९१॥

अदृष्टसप्तयस्ते च पातालं गन्तुमुद्यताः ॥ चख्नुर्महीतलं सर्वमेकैको योजनं पृथक् ॥९२॥

मृत्तिकां खनितां ते चौदधितीरे समाकिरन् ॥ तद्वारेण गताः सर्वे पातालं सगरात्मजाः ॥९३॥

विचिन्वन्ति हयं तत्र मदोन्मत्ता विचेतसः ॥९४॥

तत्रापश्यन्महात्मानं कोटिसूर्यसमप्रभम् ॥ कपिलं ध्याननिरतं वाजिनं च तदन्तिके ॥९५॥

ततः सर्वे तु संरब्धा मुनिं दृष्ट्वाऽतिवेगतः ॥ हन्तुमुद्युक्तमनसो विद्रवन्तः समासदन् ॥९६॥

हन्यतां हन्यतामेष वध्यतां वध्यतामयम् ॥ गृह्यतां गृह्यतामाशु इत्यूचुस्ते परस्परम् ॥९७॥

हृताश्वं साधुभावेन बकवद्ध्य़ानतत्परम् ॥ सन्ति चाहो खला लोके कुर्वन्त्याडम्बरं महत् ॥९८॥

इत्युच्चरन्तो जहसुः कपिलं ते मुनीश्वरम् ॥ समस्तेंद्रियसंदोहं नियम्यात्मानमात्मनि ॥९९॥

आस्थितः कपिलस्तेषां तत्कर्म ज्ञात वान्नहि ॥१००॥

आसन्नमृत्यवस्ते तु विनष्टमतयो मुनिम् ॥ पद्भिः संताडयामासुर्बाहू च जगृहुः परे ॥१०१॥

ततस्त्यक्तसमाधिस्तु स मुनिर्विस्मितस्तदा ॥ उवाच भावगम्भीरं लोकोपद्रवकारिणः ॥२॥

ऐश्वर्यमदमत्तानां क्षुधितानां च कामिनाम् ॥ अहंकारविमूढानां विवेको नैव जायते ॥३॥

निधेराधारमात्रेण मही ज्वलति सर्वदा ॥ तदेव मानवा भुक्त्वा ज्वलंतीति किमद्भुतम् ॥४॥

किमत्र चित्रं सुजनं बाधन्ते यदि दुर्जनाः ॥ महीरूहां श्चानुतटे पातयन्ति नदीरयाः ॥५॥

यत्र श्रीर्यौवनं वापि शारदा वापि तिष्ठति ॥ तत्राश्रीर्वृद्धता नित्यं मूर्खत्वं चापि जायते ॥६॥

अहो कनकमा हात्म्यमाख्यातुं केन शक्यते ॥ नामसाम्यादहो चित्रं धञूरोऽपिमदप्रदः ॥७॥

भवेद्यदि खलस्य श्रीः सैव लोकविनाशिनी ॥ यथा सखाग्नेः पवनः पन्नगस्य यथा विषम् ॥८॥

अहो धनमदान्धस्तु पश्यन्नपि न पश्यति ॥ यदि पश्यत्या महितं स पश्यति न संशयः॥९॥

इत्युक्तवा कपिलः कु्रद्धो नेत्राभ्यां ससृजेऽनलम् ॥ स वह्निः सागरान्सर्वान्भस्मासादकरोत्क्षणात् ॥१०॥

यन्नेजानलं दृष्ट्वा पातालतलवासिनः॥ अकालप्रलयं मत्वा चुक्रुशुः शोकलालसाः ॥११॥

नदग्नितापिताः सर्वे दन्दशूकाश्च राक्षसाः ॥ सागरं विविशुः शीघ्रं सतां कोपो हि दुःसहः ॥१२॥

अथ तस्य महीपस्य समागम्याध्वर तदा ॥ देवदूत उवाचेदं सर्वं वृत्तं हि यक्षते ॥१३॥

एतत्समाकर्ण्य वचः सगरः सर्ववित्प्रभुः॥ दैवेन शिक्षिता दुष्टा इत्युवाचाति हर्षितः ॥१४॥

माता वा जनको वापि भ्राता वा तनयोऽपि वा ॥ अधर्मं कुरुते यस्तु स एव रिपुरिष्यते ॥१५॥

यस्त्वधर्मेषु निरतः सर्वलोक विरोधकृत् ॥ तं रिपुं परमं विद्याच्छास्राणामेष निर्णयः ॥१६॥

सगरः पुत्रनाशेऽपि न शुशोच मुनीश्वरः ॥ दुर्वुत्तनिधनं यस्मात्सतामुत्साहकारणम् ॥१७॥

यज्ञेष्वनधिकारत्वादपुत्राणामिति स्मृतेः॥ पौत्रं तमंशुमन्तं हि पुत्रत्वे कृतवान्प्रभुः॥१८॥

असमञ्जस्सुतं तं तु सुधियं वाग्विदांवरम् ॥ युयोज सारविद्भयो ह्यश्वानयनकर्मणि ॥१९॥

स गतस्तद्विलद्वारे दृष्ट्वा तं मुनिपुङ्गवम् ॥ कपिलं तेजसां राशिं साष्टाङ्गंप्रणनामह ॥२०॥

कृताञ्जलिपुटो भूत्वा विनये नाग्रतः स्थितः॥ उवाच शान्तमनसं देवदेवं सनातनम् ॥२१॥

अंशुमानुवाच ॥

दौःशील्यं यत्कृतं ब्रह्मन्मत्पितृव्यैः क्षमस्वतत् ॥ परोपकारनिरताःक्षमासारा हि साधवः॥२२॥

दुर्जनेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः॥ नहि संहरते ज्योत्सनां चंद्रश्चाण्डालवेश्मनः ॥२३॥

बाध्यमानोऽपि सुजनःसर्वेषां सुखकृद्भवेत्॥ ददाति परमांतुष्टिं भक्ष्यमाणोऽमरैः शशी ॥२४॥

दारितश्छिन्न एवापि ह्यामोदेनैव चन्दनः॥ सौरभं कुरुते सर्वं तथैव सुजनो जनः॥२५॥

क्षान्त्या च तपसा चारैस्तद्गुणज्ञा मुनीश्वराः॥ संजातं शासितुं लोकांस्त्वां विदुः पुरुषोत्तम ॥२६॥

नमो ब्रह्मन्मुने तुभ्यं नमस्ते ब्रह्ममूर्त्तये ॥ नमो ब्रह्मण्यशीलाय ब्रह्मध्यानपराय च ॥२७॥

इति स्तुतो मुनिस्तेन प्रसन्नवदनस्तदा ॥ वरं वरयं चेत्याह प्रसन्नोऽस्मि तवानघ ॥२८॥

एवमुक्ते तु मुनिना ह्यंशुमान्प्रणिपत्यतम् ॥ प्रापयास्मत्पिन्तृब्राह्मं लोकमित्यभ्यभाषत ॥२९॥

ततस्तस्यातिसंतुष्टो मुनिः प्रोवाच सादरम् ॥ गङ्गामानीय पौत्रस्ते नयिष्यति पितृन्दिवम् ॥३०॥

त्वत्पौत्रेण समानीता गङ्गा पुण्यजला नदी ॥ कृत्वैतान्धूतपापान्वै नयिष्यति परं पदम् ॥३१॥

प्रापयैनं हयं वत्स यतः स्यात्पूर्णमध्वरम् ॥ पितामहान्तिक प्राप्य साश्वं वृत्तं न्यवेदयत् ॥३२॥

सगरस्तेन पशुना तं यज्ञं ब्राह्मणैः सह विधाय तपसा विष्णुमाराध्यापपदंहरेः॥३३॥

जज्ञे ह्यंशुमतः पुत्रो दिलीप इतिविश्रुतः॥ तस्माद्भगीरथो जातो यो गङ्गामानयद्दिवः ॥३४॥

भगीरथस्य तपसा तुष्टो ब्रह्मा ददौ मुने ॥ गङ्गां भगीरथायाः चिंतयामा स धारणे ॥३५॥

ततश्च शिवमाराध्य तद्वारा स्वर्णदीं भुवम् ॥ आनीय तज्जैलः स्पृष्ट्वा पूतान्निन्ये दिवं पितृन् ॥३६॥

भगीरथान्वये जातः सुदसो नाम भूपतिः ॥ तस्य पुत्रो मित्रसहः सर्वलोकेषु विश्रुतः ॥३७॥

वसिष्ठशापात्प्राप्तः स सौदासो राक्षसीं तनुम् ॥ ग़ङ्गाबिन्दुनिषेवेणंपुनर्मुक्तो नृपोऽभवत् ॥३८॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम अष्टमोऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:23:00.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

drying tube

  • शुष्कन नलिका 
RANDOM WORD

Did you know?

घर के मंदिर में कौनसी बातों का ध्यान रखना चाहिये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site