TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
चतुर्दशाघिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - चतुर्दशाघिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


चतुर्दशाघिकशततमोऽध्यायः
सनातन उवाच ॥
श्रृणु विप्र प्रवक्ष्यामि पंचम्यास्ते व्रतान्यहम्‍ ॥ यानि भक्तया समास्थाय सर्वा कामानवाप्नुयात्‍ ॥१॥
प्रोक्ता मत्स्यजयंती तु पंचमी मधुशुल्कगा ॥ अस्यां मत्स्यावतारार्चा भक्तैः कार्या महोत्सवा ॥२॥
श्रीपंचमीति चैषोक्ता तत्र कार्यं श्रियोऽर्चनम्‍ ॥ गंधाद्यैरुपचारैस्तु नैवेद्यैः पायसादिभिः ॥३॥
यो लक्ष्मीं पूजयेच्चात्र तं वै लक्ष्मीर्न मुंचति ॥ पृथ्वीव्रतं तथा चांद्रं हयग्रीवव्रतं तथा ॥४॥
कार्यं तत्तद्विधानेन तत्तत्सिद्धिमभीत्सुभिः ॥ अथ वैशाखपंचम्यां शेषं चाभ्यर्च्य मानवः ॥५॥
सर्वैर्नागनैर्युक्तमभीष्टं लभते फलम्‍ ॥ तथा ज्येष्ठस्य पंचम्यां पितृनभ्यर्चयेत्सुधीः ॥६॥
सर्वकामफलावाप्तिर्भवेद्वै विप्रभोजनैः ॥ अथाषाढस्य पंचम्यां वायुं सर्वगतं मुने ॥७॥
ग्रामाद्वहिर्विनिर्गत्य धरोपस्थे समास्थितः ॥ ध्वजं च पंचवर्णं तु वंशदंडाग्रसंस्थितम्‍ ॥८॥
समुच्छ्रितं निदध्यात्तु कल्पिताब्जे तु मध्यतः ॥ ततस्तन्मूलदेशे तु दिक्षु सर्वासु नारद ॥९॥
लोकपालान्समभ्यर्च्य कुर्याद्वायुपरीक्षणम्‍ ॥ प्रथमादिषु यामेषु यो यो वायुः प्रवर्तते ॥१०॥
तस्मै तस्मै दिगीशाय पूजां समक्‍ प्रकल्पयेत्‍ ॥ एवं स्थित्वा निराहारस्तत्र यामचतुष्टयम्‍ ॥११॥
सायमागत्य गेहं स्वं भुक्ता स्वल्पं समाहितः ॥ लोकपालान्नमस्कृत्य स्वप्याद्धूमितले शुचौ ॥१२॥
यः स्वप्नो जायते तस्यां रात्रौ यामे चतुर्थके ॥ स एव भविता नूनं स्वप्न इत्याह वै शिवः ॥१३॥
अशुभे तु समुत्पत्रे शिवपूजापरायणः ॥ सोपवासो नयेदष्टयामं तद्दिनमेव व ॥१४॥
भोजयित्वा द्विजानष्टौ ततः शुभफलं लभेत्‍ ॥ व्रतमेतत्समुदितं शुभाशुभनिदर्शनम्‍ ॥१५॥
नृणां सौभाग्यजनकमिह लोके परत्र च ॥ श्रावणे कृष्णपंचम्यां व्रतं ह्यन्नसमृद्धिदम्‍ ॥१६॥
चतुर्थ्यां दिनशेषे तु सर्वाण्यन्नानि नारद ॥ पृथक्‍ पात्रेषु संस्थाप्य जलैराप्लावयेत्सुधीः ॥१७॥
ततो पात्रांतरे तत्तु निष्कास्यांबु निधापयेत्‍ ॥ प्रातर्भानौ समुदिते पितृंश्वैव तथा ऋषीन्‍ ॥१८॥
देवांश्वाभ्यर्च्य सुस्नातं कृत्वा नैवेद्यमग्रतः ॥ तदन्नं याचकेभ्यस्तु प्रयच्छेत्प्रीतमानसः ॥१९॥
सर्वं दिनं क्षिपेदेवं प्रदीषे तु शिवालये ॥ गत्वा संपूजयेद्देवं लिंगरुपिणमीश्वरम्‍ ॥२०॥
गंधपुष्पादिभिः सम्यक्पूजयित्वा महेश्वरम्‍ ॥ जपेत्पञ्चाक्षरीं विद्यां शतं चापि सहस्त्रकम्‍ ॥२१॥
जपं निवेद्य देवाय भवाय भवरुपिणे ॥ स्तुत्वा सर्वैवैदिकैश्व पौराणैश्वाप्यनाकुलः ॥२२॥
प्रार्थयेद्देवमीशानं शश्वत्सर्वान्नसिद्धये ॥ शारदीयानि चान्नानि तथा वासंतिकान्यपि ॥२३॥
स्युस्तैः समृद्धोऽहं भूयां जन्मनि जन्मनि ॥ एवं संप्रार्थ्य देवेशं गृहमागत्य वै स्वकम्‍ ॥२४॥
दत्वान्नं ब्राह्मनादिभ्यः पक्कं भुञ्जीत वाग्यतः ॥ एतदन्नव्रतं विप्र विधिनाऽऽचरितं नृभिः ॥२५॥
सर्वान्नसंपज्जनकं परलोके गतिप्रदम्‍ ॥ श्रावणे शुक्लपञ्चम्यां नृभिरास्तिक्यतत्परैः ॥२६॥
द्वारसोभयतो लेख्या गोमयेन विषोल्बणाः ॥ गंधाद्यैः पूजयेत्तांश्व तथेंद्रानीमनंतरम्‍ ॥२७॥
संपूज्य स्वर्णरुप्यादिदध्यक्षतकुशांबुभिः ॥ गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यसंचयैः ॥२८॥
ततः प्रदक्षिणीकृत्य तद्दव्यं संप्रणाम्य च ॥ संप्रार्थ्य भक्तिभावेन विप्राग्र्येषु समर्पयेत्‍ ॥२९॥
यदिदं स्वर्णरौप्यादि द्रव्यं वै विप्रसात्कृतम्‍ ॥ तदनंतफलं भूयान्मम जन्मनि जन्मनि ॥३०॥
इत्येवं ददतो द्रव्यं भत्किभावेन नारद ॥ प्रसन्नः स्याद्धनाध्यक्षः स्वर्णादिकसमृद्धिदः ॥३१॥
एत द्वतं नरः कृत्वा विप्रान्संभोज्य भक्तितः ॥ पश्वात्स्वयं च भुञ्जीत दारापत्यसुहृदृतः ॥३२॥
भाद्रे तु कृष्णपंचम्यां नागान्‍ क्षीरेण तर्पयेत्‍ ॥३३॥
यस्तस्याऽऽसप्तमं यावत्कुलं सर्पात्सुनिर्भयम्‍ ॥ भाद्रस्य शुक्लपंचम्यां पूजयेद्दषिसत्तमान्‍ ॥३४॥
प्रातर्नद्यादिके स्नात्वा कृत्वा नित्यमतंद्रितः ॥ गृहमागत्य यत्नेन वेदिकां कारयेन्मृदा ॥३५॥
गोमयेनोपलिप्याथ कृत्वा पुष्पोपशोभिताम्‍ ॥ तत्रास्तीर्य कुशान्विप्र ऋषीन्सप्त समर्चयेत्‍ ॥३६॥
गन्धैश्व विविधैः पुष्पैर्धूपैर्दीर्षिः सुशोभनैः ॥ कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ॥३७॥
जमदग्निर्वसिष्ठश्व सप्तैते ऋषयः स्मृताः ॥ एतेभ्योऽघ्य च विधिवत्क्लयित्वा प्रदाय च ॥३८॥
नैवेद्यं विपद्धीमान्श्यामाकाद्यैरकृष्टकैः ॥ तन्निवेद्य विसृज्येमान्स्वयं चाद्यात्तदेव हि ॥३९॥
अनेन विधिना सप्त वर्षाणि प्रतिवत्सरम्‍ ॥ कृत्वा व्रतांते वरयेदाचार्यान्‍ सप्त वैदिकान्‍ ॥४०॥
प्रतिमाः सप्त कुर्वीतं सुवर्णेनं स्वशक्तितः ॥ जतिलाः साक्षसूत्राश्व कमण्डलुसमन्विताः ॥४१॥
संस्थाप्य कलशेष्वेतांस्ताम्रेषु मृन्मयेषु वा ॥ स्त्रापयेद्विधि वद्धक्तया पृथक्पंचामृतैरपि ॥४२॥
उपचारैः षोडशभिस्ततः संपूज्य भक्तितः ॥ अर्घ्यं दत्वा ततो होसं तिलव्रीहियवादिभिः ॥४३॥
सहस्त्रोमा इति ऋत्वा नाममन्त्रैस्तु वा पृथक्‍ ॥ पुण्यैर्मन्त्रैस्तथैवान्यैर्हुत्वा पूर्णाहुतिं चरेत्‍ ॥४४॥
ततस्तु सप्त गा दद्याद्वस्त्रालंकारसं युताः ॥ आचार्य पूजयेच्चैव वस्त्रालंकारभूषणैः ॥४५॥
अनुज्ञया गुरोः पश्वान्मूर्तीर्विप्रेषु चार्पयेत्‍ ॥ भोजयित्वा तु तान्भक्तया प्रणिपत्य विसर्जयेत्‍ ॥४६॥
ततश्वष्टैः सहासीनः स्वयं ब्राह्मणशेषितम्‍ ॥ भुंक्ता वै षड्रसोपेतं प्रमुद्यात्सह बंधुमिः ॥४७॥
एतत्कृत्वा व्रत्म सांगं भोगान्भुक्ताथ वाञ्छितान्‍ ॥ सप्तर्षीणां प्रसादेन विमानवरगो भवेत्‍ ॥४८॥
आश्विने शुल्कपञ्चम्यामुपांगललिताव्रतम्‍ ॥४९॥
तस्याः स्वर्णमयीं मूर्ति शक्तया निर्माय नारद ॥ उपचारैः षोदशभिः पूजयेत्ताम विधानतः ॥५०॥
एक्कान्नं फलसंयुक्त सघृतं दक्षिनन्वितम्‍ ॥ द्विजवर्याय दातव्य्म व्रत संपूर्तिहेतवे ॥५१॥
“सवाहना शक्तियुता वरदा पूजिता मया ॥ मातर्मामनुगुह्याथ गम्यताम निजमंडिरम्‍" ॥५२॥
कार्तिके शुल्कपंचम्यां जयाव्रत मनुत्तमम्‍ ॥ कर्तव्यं पापनाशाय श्रद्धया द्विजसत्तम्‍ ॥५३॥
पूजयित्वा जयां विप्र यथाविधि समाहितः ॥ उपचारैः षोडशभिस्ततः शुचिरलंकृतः ॥५४॥
विप्रैकं भोजयेच्चापि तस्मै दत्वा च दक्षिणाम्‍ ॥ विसर्जयेत्ततः पश्वात्स्वयं भुञ्जीत वाग्यतः ॥५५॥
यस्तु वै भक्तिसंयुक्तः स्त्रानं कुर्य्याज्जदिने ॥ नश्यन्ति तस्य पापानि सिंहाक्रांता मृगा यथा ॥५६॥
यदश्वमेधावमृथे फलं स्त्रानेन कीर्तितम्‍ ॥ तत्फलं प्राप्यते विप्रस्त्रानेनापि जयादिने ॥५७॥
अपुत्रो लभते पुत्रं वंध्या गभ च विंदति ॥ रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बंधनात्‍ ॥५८॥
मार्गशुक्ले च पञ्चम्यां नागानिष्ट्रा विधानतः ॥ नागेभ्यो ह्रभयं लब्ध्वा मोदते सह बांधवेः ॥५९॥
पौषेऽपि शुक्लपञ्चम्यां सम्पूज्य मधुसूदनम्‍ ॥ लभते वाञ्छितान्कामान्नात्र कार्या विचारणा ॥६०॥
पंचम्यां प्रतिमासे तु शुक्ले कृष्णे च नारद ॥ पितृणां पूजनं शस्तं नागानां चापि सर्वथा ॥६१॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थपञ्चमीव्रतनिरुपणं नाम चतुर्दशाघिकशततमोऽध्यायः ॥११४॥


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T05:06:29.4170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वहना-वहेती गंगा, रमता साधु

  • बहेता पानी निर्मला, बधा गंधेलाहो। साधु सो रमता भला, दाग न लागे को॥ ( महानु.) वाहतें पाणी शुद्ध निर्मल असतें पण तेंच कुंडांत सांचलेलें घाण राहतें. त्याचप्रमाणें हिंडता, प्रवासी साधु शुद्धचरित असतो. त्यापासून लोकांना पीडा होत नाहीं. 
RANDOM WORD

Did you know?

पंचप्राणांना भोजनापूर्वी आहुती का द्यावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.