TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
षट्त्रिंशोऽध्यायः

श्री नारदीयमहापुराणम् - षट्त्रिंशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


षट्त्रिंशोऽध्यायः

सनक उवाच ॥

वेदमालेः सुतौ प्रोक्तौ यावुभौ मुनिसत्तम ॥ यज्ञमाली सुमाली च तयोः कर्माधुनोच्यते ॥

तयोराद्यो यज्ञमाली विभेद पितृसंचितम् ॥ धनं द्विधा कनिष्ठस्य भागमेकं ददौ तदा ॥२॥

सुमाली च धन सर्व व्यसनाभिरतः सदा ॥ अपादानादिभिश्र्चैव नाशयामास भो द्विज ॥३॥

गीतवाद्यरतो नित्यं मद्यपानरतोऽभवत् ॥ वेश्याविभ्रमलुब्धोऽसौ परदातोऽभवत् ॥४॥

सर्वस्मिन्नाशमायातेहिरण्ये पितृसंचिते ॥ अपत्दृत्य परं द्रव्यं वारस्त्रीनिरतोऽभवत् ॥५॥

दृष्ट्वा सुमालिनः शीलं यज्ञमाली महामतिः । बभूव दुःखितोऽत्यर्थं भ्रातरं चेदमब्रवीत् ॥६॥

अलममत्यंतकष्टेन वृत्तेनास्मत्कुलेऽनुज ॥ त्वमेक एव दुष्टात्मा महापापरतोऽभवः ॥७॥

एवं निवारयतं तं बहुशो ज्येष्ठसोदरम् ॥ हनिष्यमीति निश्र्चित्य खङ्गहस्तः कचेऽग्रहीत् ॥८॥

ततो महारवो जज्ञे नगरे भृशदारुणः ॥ बबंधुर्नागराश्र्चैनं कुपितास्ते सुमालिनम् ॥९॥

यज्ञमाली ह्यमेयात्मा पौरान्संप्रार्थ्य दुःखितः ॥ बंधनान्मोचयामास भ्रातृस्नेहविमोहितः ॥१०

यज्ञमाली पुनश्र्चापि बिभिदे स्वधनं द्विधा ॥ आददे स्वयमर्द्धं च ददविर्द्धं यवीयसे ॥११

सुमाली त्वतिमूढात्मा तद्धनं चापि नारद ॥ मूर्खैः पाखंडचंडालैर्बुभुजे च सहोद्धतः ॥२॥

असतामुपभो गाय दुर्जनानां विभूतयः ॥ पिचुमंदः फलाढ्योऽपि काकैरेवोपभुज्यते ॥३॥

भ्रात्रा दत्तं धनं तच्च सुमाली नाशयन्मुने ॥ मद्यपानप्रमत्तश्र्च गोमांसा दीन्यभक्षयत् ॥४॥

त्यक्तो बंधुजनैः सर्वैश्र्चांडालस्त्रीसमन्वितः॥ राज्ञापि बाधितो विप्र प्रपेदे निर्जन वनम् ॥५॥

यज्ञमाली सुधीर्विप्र सदा धर्मरतोऽभवेत् ॥ अवारितं ददावन्नं सत्सङ्गगतकल्मषः ॥६॥

पित्रा कृतानि सर्वाणि तडागादीनि सत्तम ॥ अपालयत्प्रयत्नेन सदा धर्मपरायणः ॥७॥

विश्राणितं धनं सर्वं यज्ञमालेर्महात्मनः ॥ सत्पात्रदाननिष्ठस्य धर्ममार्गप्रवर्तिनः ॥८॥

अहो सदुपभोगाय सज्जनानां विभूतयः ॥ कल्पवृक्ष फलं सर्वममरैरेव भुज्यते ॥९॥

धनं विश्राण्य धर्मार्थं यज्ञमाली महामतिः ॥ नित्यं विष्णुगृहे सम्यक्परिचर्य्यापरोऽभवत् ॥२

कालेन गच्छता तौ तु वृद्धभावमृपागतौ ॥ यज्ञमाली सुमाली च ह्यैककाले मृतावृभौ ॥२

हरिपूजारतस्याहस्य यज्ञमालिमहात्मनः॥ हरिः संप्रेषयामास विमानं पार्षदा वृत्तम् ॥२२॥

दिव्यं विमानमारुह्य यज्ञमाली महामतिः ॥ पूज्यमानः सुरगणैः स्तुयमानो मुनीश्र्वरः ॥२३॥

गंधर्वैर्गीयमानश्र्च सेवितश्र्चाप्सरोगणैः॥ कामधेन्वा पुष्यमाणश्र्चित्राभरणभूषितः ॥२४॥

कोमलैस्तुलसीमाल्यैर्भूषितस्तेजसां निधिः ॥ गच्छन्विष्णुपदं दिव्यंमनुजं पथि दृष्टवान् ॥२५॥

ताड्यमानं यमभटैः क्षुत्तुडभ्यां परिपीडितम् ॥ प्रेतभूतं विवस्रं च दुःखितं पाशवेष्टितम् ॥ इतस्ततः प्रधावन्तं विलपंतमनाथवत् ॥२६॥

कोशन्तं च रुदंतं च दृष्ट्वा मनसि विव्यथे ॥२७॥

यज्ञमालीदयायुक्तो विष्णुदूतान्समीपगान् ॥ कोऽयं भटैर्बाध्यमानं इतयपृच्छत्कृतांजलिः ॥२८॥

अथ ते हरिदूतास्तं यज्ञमालिमहौजसम् ॥ असौ सुमाली भ्राता ते पापात्मेति समब्रुवन् ॥२९॥

यज्ञमाली समाकर्ण्य व्याख्यातं विष्णुकिंकरैः ॥ मनसा दुःखमापन्नः पुनः पप्रच्छ नारद ॥३

कथमस्य भवेन्मोक्षः संचितैः पापसंचयैः॥ तदुपायंत्रदध्वं मे यूयं हि ममबांधवाः ॥३

सख्यं साप्तपदीनं स्यादित्याहुर्धर्मकोविदाः॥ सता साप्तपदी मैत्री सत्सतां त्रिपदी तथा ॥३२॥

सत्सतामपि ये संतस्तेषा मत्रा पद पद ॥३३॥

तस्मान्मे बांधवा यूयं मां नेतुं समुपागताः ॥ यतोऽयं मम भ्रातापि तदिहोच्यताम् ॥३४॥

यज्ञमालिवचः श्रुत्वा विष्णुदूता दयालवः ॥ पुनःस्मितमुखाः प्रोचुर्यज्ञमालिहरिप्रियम् ॥३५॥

विष्णुदूता ऊचुः । यज्ञमालिन्महाभाग नारायणपरायण ॥ उपायं तव वक्ष्यामः सुमालिप्रेममुक्तिदम् ॥३६॥

कृतं यत्सुमहत्कर्म त्वया प्रोक्तनजन्मनि ॥ प्रवक्ष्यामः समासेन तच्छ्रणुष्व समाहितः ॥३७॥

पुरा त्वं वैश्यजातीयो नाम्ना विश्र्वरंभरः स्मृतः ॥त्वया कृतानि पापानि महांत्यगणितानि वै ॥३८॥

सुकर्मवासनाहीनो मातापित्रोर्विरोधकृत् ॥ एकदा बंधुभिस्त्यक्तः शोकसंतापपीडितः ॥३९॥

क्षुधाग्निनापि संतप्तः पाप्तवान्हरिमंदिरम् ॥ तदा वृष्टिरभूतत्र तत्स्थानं पंकिलं ह्यभूत ॥४

दूरीकृतस्त्वया पंकस्तत्स्थाने स्थातुमिच्छया ॥ उपलेपनतां प्राप्तं तत्स्थानं विष्णुमंदिरे ॥४

त्वयोषितं तु तद्रात्रौ तस्मिन्देवालये द्विज ॥ दंशितश्र्चैव सर्पेण प्राप्तं पञ्चत्वमेव च ॥४२॥

तेन पुण्यप्रभावेन उपलेपकृतेन च ॥ विप्रजन्म त्वया प्राप्तं हरि भक्तिस्तथाचला ॥४२॥

कल्पकोटिशतं साग्रं संप्राप्य हरिसन्निधिम् ॥ वसाद्य ज्ञानमासाद्य परं मोक्षं गमिष्यसि ॥४३॥

अनुजं पातकिश्रेष्ठं त्वं समृद्धर्त्तुमिच्छसि ॥ उपायं तव वक्ष्यामस्तं निबोध महामते ॥४४॥

गोचर्ममात्रभूमेस्तु उपलेपनजं फलम् ॥ दत्त्वोद्धर महाभाग भ्रातरं कृपयान्वितः ॥४५॥

एवमुक्तो विष्णुदूतैर्यज्ञमाली महामतिः ॥ तत्फलं प्रददौ तस्मै भ्रात्रे पापविमुक्तये ॥४६॥

सुमाली भ्रातृदत्तेन पुण्येन गतकल्मेषः ॥ बभूव यमदूतास्तुं तं त्यक्त्वा प्रपलायिताः ॥४७॥

विमानं चागतं सद्यः सर्वभोगसमन्वितम् ॥ तदा सुमाली स्वर्यानमारुह्य मुमुदे मुने ॥४८॥

तावुभौ भ्रातरौ विप्र सुरवृंदनमस्कृतौ ॥ अवापतुर्भृशं प्रीति समालिंग्य परस्परम् ॥४९॥

यज्ञमाली सुमाली च स्तूयमानौ महर्षिभिः॥ गीयमानौ च गंधर्वैर्विष्णुलोकं प्रजग्मतुः ॥५

अवाप्य हरिसालोक्यं सुमाली मुनिसत्तम ॥ यज्ञमाली चोषतुस्तौ कल्पमेकं मुदान्वितौ ॥५

भुक्त्वा भोगान्बहूँस्तत्र यज्ञमाली महामतिः ॥ तत्रैव ज्ञानसंपन्नः परं मोक्ष मुपागतः ॥५२॥

सुमाली तु महाभागो विष्णुलोके मुदान्वितः ॥ स्थित्वा भूमिं पुनः प्राप्य विप्रत्वं समुपागतः ॥५३॥

अतिशुद्धे कुले जातो गुणवान्वेदपारगः ॥ सर्वसंपत्समोपेतो हरिभक्तिपरायणः॥५४॥

व्याहरन्हरिनामानि प्रपेदे जाह्नवीतटम् ॥ तत्र स्नातश्र्च गंगायां दृष्ट्वा विश्र्वेश्र्वरं प्रभुम् ॥५५॥

अवाप परमं स्थानं योगिनामपि दुर्लभम् ॥ उपलेपनमाहात्म्यं कथितं ते मुनीश्र्वर ॥५६॥

तस्मात्सर्वप्रयत्नेन संपूज्यो जगतांपतिः॥ अकामादपि ये विष्णोः सकृत्पूजां प्रकुर्वते ॥५७॥

न तेषां भवबंधस्तु कदाचिदपि जायते ॥ हरिभक्तिरतान्यस्तु हरिवृद्ध्य़ा समर्चयेत् ॥५८॥

तस्य तुष्यंति विप्रेंद्र ब्रह्माविष्णुमहेश्र्वराः ॥ हरिभक्तिपराणां तु संगिनां संगमात्रतः ॥५९॥

मुच्यते सर्वपापेभ्यो महापातकवानपि ॥ हरिपूजापराणां च हरिनामरतात्मनाम् ॥६

शुश्रूषानिरता यांति पापिनोऽपि परां गतिम् ॥६

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुसेवाप्रभावो नाम षट्त्रिंशोऽध्यायः ॥३६

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:51:26.0100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दोन कांकणें जास्त

  • थोडासा सरस 
  • थोडा अधिक. 
RANDOM WORD

Did you know?

कोणतीही ही पूजा करण्याआधी संकल्प कां करावा?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.