TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
द्विनवतितमोऽध्यायः

श्री नारदीयमहापुराणम् - द्विनवतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


द्विनवतितमोऽध्यायः
सूत उवाच ॥
एतच्छुत्वा नारदस्तु कुमारस्य वचो मुदा ॥ पुनरप्याह सुप्रीतो जिज्ञासुह श्रेय उत्तमम्‍ ॥१॥
नारद उवाच ॥
साधु साधु महाभाग सर्वलोक्कोपकारकम्‍ ॥ महातंत्रं त्वया प्रोक्तं सर्वतंत्नोत्तमोतमम्‍ ॥२॥
अधुना श्रोतुमिच्छामि पुराणाक्यानमुत्तमम्‍ ॥ यस्मिन्यस्मिन्पुराणे तु यद्यदाख्यानकं मुने ॥
तत्सर्वं मे समाचक्ष्व सर्वज्ञस्त्वं यतो मतः ॥३॥
सूत उवाच ॥
तच्छुत्वा वचनं विप्रा नारदस्य शुभावह्रम्‍ ॥ पुराणाख्यानसंप्रश्रं कुमारः प्रत्युवाच ह ॥४॥
सनत्कुमार उवाच ॥
पुराणाख्यानकं विप्र नानाकल्पसमुद्धवम्‍ ॥ नानाकथासमायुक्तमद्धुंत बहुविस्तरम्‍ ॥५॥
ऋषिः सनातनश्वायं यथा वेद तथाऽपरः ॥ न वेद तस्मात्पृच्छ त्वं बहुकल्पविदां वरम्‍ ॥६॥
श्रुत्वेत्थं नारदो वाक्यं कुमारस्य महात्मनः ॥ प्रणम्य विनयोपेतः सनातनामथाब्रवीत्‍ ॥७॥
नारद उवाच ॥
ब्रह्मन्पुराणविच्छ्रेष्ठ ज्ञानविज्ञानतत्पर ॥ पुराणानां विभागं मे साकल्ये नानुकीर्तय ॥८॥
यस्मिञ्‌ श्रुते श्रुतं सर्वं ज्ञाते कृते कृतम्‍ ॥९॥
वर्णाश्रमाचारधर्मं साक्षात्कारमुपैष्यति ॥ कियंति च पुराणानि कियत्संख्यानि मानतः ॥१०॥
किंकिमाख्यानयुक्तानि तद्वद्वस्व मम प्रभो ॥ चातुर्वर्ण्याश्रया नानव्रतादीनां कथास्तथा ॥११॥
सृष्टिक्रमेण वंशानां कथाः सम्यक्प्रकाशय ॥ त्वत्तोऽधिको न चान्योऽस्ति पुराणाख्यानवित्प्रभो ॥१२॥
तस्मादाख्याहि मह्यं त्वं सर्वसन्दे हभंजनम्‍ ॥ सूत उवाच ॥ ततः सनातनो विप्राः श्रुत्वा नारदभाषितम्‍ ॥१३॥
नारायणं क्षणं ध्यात्वा प्रोवाचाथ विदां वरः ॥ सनातन उवाच ॥ साधु साधु मुनिश्रेष्ठ सर्वलोकोपकारिका ॥१४॥
पुराणाख्या न विज्ञाने यज्जाता नैष्ठिकी मतिः ॥ तुभ्यं समभिधास्यामि यत्प्रोक्तं ब्रह्मणा पुरा ॥१५॥
मरीच्यादिऋषिभ्यस्तु पुत्रस्नेहावृतात्मना ॥ एकदा ब्रह्मणः पुत्रो मरीचिर्नाम विश्रुतः ॥१६॥
स्वाध्यायश्रुतसंपन्नो वेदवेदा गपारगाः ॥ उपसृत्य स्वपितरं ब्रह्माणं लोकभावनम्‍ ॥१७॥
प्रणभ्य भक्तया पप्रच्छ इदमेव मुनीश्वर ॥ पुराणाख्यानममलं यत्त्वं पृच्छसि मानद ॥१८॥
मरीचिरुवाच ॥ भगवन्देवदेवेश लोकानां प्रभवाप्यय ॥ सर्वज्ञ सर्वकल्याण सर्वाध्यक्ष नमोऽस्तु ते ॥१९॥
पुराणबीजमाख्याहि मह्यं शुश्रूषवे पितः ॥ लक्षणं च प्रमाणं चं वक्तारं पृच्छकं तथा ॥२०॥
ब्रह्योवाच ॥ श्रृणु वत्स प्रवक्ष्यामि पुराणानां समुच्चयम्‍ ॥ यस्मिञ्ज्ञाते भवे ज्ज्ञांत वाड्‌मयं सचराचरम्‍ ॥२१॥
पुराणमेकमेवासीत्सर्वकल्पेषु मानद ॥ चतुर्वर्गस्य बीजं च शतकोटिप्रविस्तरम्‍ ॥२२॥
प्रवृत्तिः सर्वशा स्त्राणां पुराणादभवत्ततः ॥ कालेनाग्रहणं दृष्ट्रां पुराणस्य महामतिः ॥२३॥
हरिर्व्यासस्वरुपेण जायते च युगे युगे ॥ चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा ॥२४॥
तदष्टादशधा कृत्वा भूर्लोके निर्द्दिशत्यपि ॥ अद्यापि देवलोके तु शतकोटिप्रविस्तरम्‍ ॥२५॥
अस्त्येव तस्य सारस्तु चतुर्लक्षेण वर्ण्यते ॥ ब्राह्यं पाद्मं वैष्णवं च वायवीयं तथैव च ॥२६॥
भागवतं नारदीयं मार्कंडेयं च कीर्तितम्‍ ॥ आग्नेयं च भविष्यं च ब्रह्मवैवर्त्तलिंगके ॥२७॥
वाराहं च तथा स्कांदं वामनं कूर्मसंज्ञकम्‍ ॥ मात्स्यं च गारुडं तद्वद्वह्यांडाख्यमिति त्रिषट्‌ ॥२८॥
एकं कथानकं सूत्रं वक्तुः श्रोतुः समाहृयम्‍ ॥ प्रवक्ष्यामि समासेन निशामय समाहितः ॥२९॥
ब्राह्मं पुराणं तत्रादौ सर्वलोक हिताय वै ॥ व्यासेनः वेदविदुषा समाख्यातं महात्मनाः ॥३०॥
तद्वै सर्वपुराणाऽग्र्यं धर्मकामार्थमोक्षदम्‍ ॥ नानाख्यानेतिहासाढ्यं दशसाह स्त्रमुच्यते ॥३१॥
देवानां च सुराणां च यत्रोत्पत्तिः प्रकीर्तिताः ॥ प्रजापतीनां च तथा दक्षादीनां मुनीश्वर ॥३२॥
ततो लोकेश्वरस्यात्र सूर्यस्य परमात्मनः ॥ वंशानुकीर्तनं पुण्यं महापातकनाशनम्‍ ॥३३॥
यत्रावतारः कथितः परमानंदरुपिणः ॥ श्रीमतो रामचंद्रस्य चतुर्व्यूहावतारिणः ॥३४॥
ततश्व सोमवंशस्यं कीर्तनं यत्र वर्णितम्‍ ॥ कृष्णस्य जगदीशस्य चरितं कल्मषापहम्‍ ॥३५॥
द्वीपानां चैव सर्वेषां वर्षाणां चाप्यशेषतः ॥ वर्णनं यत्र पातालस्वर्गाणां च प्रदृश्यते ॥३६॥
नरकाणां समाख्यानं सूर्यस्तुतिकथानकम्‍ ॥ पार्वत्याश्व तथा जन्म विवाहश्व निगद्यते ॥३७॥
दक्षाख्यानं ततः प्रोक्तमेकाम्रक्षेत्रवर्णनम्‍ ॥ पूर्वभागोऽयमुदितः पुराणास्य नारद ॥३८॥
अस्योत्तरे विभागे तु पुरुषोत्तमवर्णनम्‍ ॥ विस्तरेण समाख्यांत तीर्थयात्राविधानतः ॥३९॥
अत्रैव कृष्णचरितं विस्तरात्समुदीरितम्‍ ॥ वर्णनं यमलोकस्य पितृश्राद्ध विधिस्तथा ॥४०॥
वर्णाश्रमाणां धर्माश्व कीर्तिता यत्र विस्तरात्‍ ॥ विष्णुधर्मयुगाख्यानं प्रलयस्य च वर्णनम्‍ ॥४१॥
योगानां च समाख्यानं सांख्यानां वर्णनम्‍ ॥ ब्रह्मवादसमुद्देशः पुराणस्य प्रशंसनम्‍ ॥४२॥
एतद्धह्यपुराणं तु भागद्वयसमन्वितम्‍ ॥ वर्णितं सर्वपापघ्नं सर्वसौख्यप्रदायकम्‍ ॥४३॥
सूतशौनकसंवादं भुक्तिमुक्तिप्रदायकम्‍ ॥ लिखित्वैतत्पुराणं यो वैशाख्यां हेमसंयुतम्‍ ॥४४॥
जलधेनुयुतं चापि भक्तया दद्याद्दिजातये ॥ पौराणिकाय संपूज्य वस्त्रभोज्यविभूषणैः ॥४५॥
स वसेद्धह्यणो लोके यावच्चंद्रार्कतारकम्‍ ॥ यःपठेच्छृणुयाद्वापि ब्राह्मानुक्रमणीं द्विज ॥४६॥
सोऽपि सर्वपुराण्यस्य श्रोतुर्वक्तुः फलं लभेत्‍ ॥ श्रृणोति यः पुराणं तु ब्राह्यं सर्वं जितेंद्रियः ॥४७॥
हविष्याशी च नियमात्स लभेद्धह्यणः पदम्‍ ॥ किमत्र बहुनोक्तेन यद्यदिच्छति मानवः ॥तत्सर्वं लभते पुराणस्यास्य कीर्त नात्‍ ॥४८॥
इति श्रीबृहन्ना० पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्राह्मपुराणेतिहासकथनं नाम द्विनवतितमोऽध्यायः ॥९२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T04:46:57.9230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

क्षीण

  • वि. १ क्षयी ; अशक्त ; दुर्बल . २ नाश पावलेला ; नाहींसा झालेला ; संपलेला . ३ सडपातळ ; बारीक ; किरकोळ ; कृश ; रोडया . [ सं . क्षि = क्षय होणें ] 
  • ०पाप वि. ज्याचें पाप नष्ट झालें आहे असा ; निष्पाप . 
  • ०पुण्य वि. ज्याचें पुण्य खर्च झालें आहे , संपलें आहे असा ; ज्याचें पुण्य भोगून झालें आहे , क्षय पावलें आहे असा . 
  • ०शक्ति वि. अशक्त ; निःशक्त . क्षीणायु - वि . मरणोन्मुख ; विनाश जवळ आलेला आहे असा ; अल्पायु . 
More meanings
RANDOM WORD

Did you know?

पिंपळाच्या झाडाला फक्त शनिवारीच स्पर्श का करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.