TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
दशोत्तरशततमोऽध्यायः

श्री नारदीयमहापुराणम् - दशोत्तरशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


दशोत्तरशततमोऽध्यायः
नारद उवाच ॥
पुराणसूत्रमखिलं श्रुतं तव मुखाद्विभो ॥ मरीचये यथा प्रोक्तं बह्यणा परमेष्ठिना ॥१॥
अधुना तु महाभाग तिथीनां वै कथानकम्‍ ॥ क्रमतो मह्यमाख्याहि यथा स्याद्धतनिश्चयः ॥२॥
यस्मिन्मासे तु या पुण्या तिथिर्येन उपासिता ॥ यद्विधानं च पूजादेस्तत्सर्वं वद सांप्रतम्‍ ॥३॥
सनातन उवाच ॥
श्रृणु नारद वक्ष्यामि तिथीनां ते व्रतं पृथक्‌ ॥ तिथीशानुक्रमादेव सर्वसिद्धि विधायकम्‍ ॥४॥
चैत्रे मासि जगद्वह्या ससज प्रथमेऽहनि ॥ शुल्कपक्षे समग्रं वै तदा सूर्योदये सति ॥५॥
वत्सरादौ वसंतादौ बलिराज्ये तथैव च ॥ पूर्वविद्धैव कर्यव्या प्रतिपत्सर्वदा बुधैः ॥६॥
तत्र कार्या महाशांतिः सर्वकल्मणनाशिनी ॥ सर्वोत्पातप्रशमनी कलिदुष्कृतहारिणी ॥७॥
आयुःप्रदा पुष्टिकरी धनसौभाग्यवर्द्धिनी ॥ मंगल्या च पवित्रा च लोकद्वयसुखावहा ॥८॥
तस्यामादौ तु संपूज्यो ब्रह्या वह्रिवपुर्धरः ॥ पाद्यार्घ्यपुष्पधूपैश्व वस्त्रालंकारभोजनैः ॥९॥
होमैर्बल्युपहारैश्व तथा ब्राह्मणतर्पणैः ॥ ततः क्रमेण देवेभ्यः पूजा कार्या पृथक्पृथक्‍ ॥१०॥
कृत्वोंकार नमस्कारं कुशोदाकतिलाक्षतैः ॥ सवस्त्रं सहिरण्यं च ततो दद्याद्दिजातये ॥११॥
दक्षिणां वेदविदुषे व्रतसंपूर्तिहेतवे ॥ एवं पूजाविशेषेण व्रतं स्यात्सौरिसंज्ञकम ॥१२॥
आरोग्यदं नृणां विप्र तस्मिन्नेव दिने मुने ॥ विद्याव्रतमपि प्रोक्तमस्यामेव तिथौ मुने ॥१३॥
तिलकं नाम च प्रोक्तं कृष्णेनाजातशत्रवे ॥ अथ ज्येष्ठे सिते पक्षे पक्षत्यां दिवसोदये ॥१४॥
देवोद्यानभवं हृद्यं करवीरं समर्चयेत्‍ ॥ रक्ततन्तुपरिधानं गंधधूपविलोपनैः ॥१५॥
प्ररुढसप्तधान्यैश्व नारगैर्बीजपूरकैः ॥ अभ्युक्ष्याक्षततोयेन मंत्रेणेत्थं क्षमापयेत्‍ ॥१६॥
करवीर वृषावास नमस्ते भानुवल्लभ ॥ दंभोलिमृडदुर्गादिदेवानां सततं प्रियं ॥१७॥
आकृष्णेनेति वेदोक्तमंत्रेणेत्थं क्षमापयेत्‍ ॥ एवं भक्तया समभ्यच्य दत्त्वा विप्राय दक्षिणाम्‍ ॥१८॥
प्रदक्षिणं ततः कुर्यात्पश्वात्स्वभवनं व्रजेत्‍ ॥ नभःशुल्के प्रतिपदि लक्ष्मीबुद्धिप्रदायकम्‍ ॥१९॥
धर्मार्थकाममोक्षाणाम निदानं परमं व्रतम्‍ ॥ सोमवारं समारभ्य सार्धनासत्रयं द्विज ॥२०॥
कार्तिकासितभूतायामुपोष्यं व्रतत्परः ॥ पूर्णायां शिवमभ्यर्च्य सुवण वंशसंयुतम्‍ ॥२१॥
वायनं सुमहत्पुण्यं देवताप्रीतिवर्धकम्‍ ॥ दद्याद्विप्राय संकल्प्य धनवृद्धये मुनीश्वर ॥२२॥
भाद्रशुल्कप्रतिपदि व्रतं नाम्ना महत्तमम्‍ ॥ व्रतं मौनाह्रयं केचि त्प्राहुरत्र शिवोऽर्च्यते ॥२३॥
नैवेद्यं तु पचेन्मौनी षोडशत्रिगुणानि च ॥ फलानि पिष्टक्कानि दद्याद्विप्राय षोडश ॥२४॥
देवाय षोडशान्यानि भुज्यंते षोडशात्मना ॥ सौवर्णं शिवमभ्यर्च्य कुम्भोपरि विधानवित्‍ ॥२५॥
तत्सर्वं धेनुसहितमाचार्य्याय प्रदापयेत्‍ ॥ इदं कृत्वा व्रतं विप्र देव देवस्य शूलिनः ॥२६॥
चतुर्दशाब्दं देहांतं भुक्तभोगः शिवं व्रजेत्‍ ॥ आश्विने सितपक्षत्यां कृत्वाशोकव्रतं नरः ॥२७॥
अशोको जायते विप्रधनधान्यसमन्वितः ॥ अशोकपूजनं तत्र कार्यं नियमतत्परैः ॥२८॥
व्रतांते द्वादशे वर्षे मूर्ति चाशोकशाखिनः ॥ समर्प्य गुरवे भक्तया शिवलोके महीयते ॥२९॥
अस्यामेव प्रतिपदि नवरात्रं समारभेत्‍ ॥ पूर्वाह्र पूजयेद्देवीं घटस्थापनपूर्वकम्‍ ॥३०॥
अंकुरारोपणं कृत्वा यवैर्गोधूममिश्रितैः ॥ ततः प्रतिदिनं कुर्यादेकभुक्तमयाचितम्‍ ॥३१॥
उपवासं यथाशक्ति पूजापाठजपादिकम्‍ ॥ मार्कंण्डेय पुराणोक्तं चरितातत्रितयं द्विज ॥३२॥
पठनीयं नवदिनं भुक्तिमुक्ति अभीत्सता ॥ कुमारीपूजनं तत्र प्रशस्तं भोजनादिभिः ॥३३॥
इत्थं कृत्वा व्रतं विप्र सर्वसिद्धयालयो नरः ॥ जायते भुवि दुर्गायाः प्रसादान्नात्र संशयः ॥३४॥
अथोर्जसितपक्षत्यां नवरात्रोदितं चरेत्‍ ॥ विशेषादन्नकूटाख्यं विष्णुप्रीतिविवर्धनम्‍ ॥३५॥
सर्वपाकैः सर्वदोहैः सैर्वः सर्वार्थसिद्धये ॥ कर्तव्यमन्नकूटं तु गोवर्द्धनसमर्चने ॥३६॥
सायं गोभिः सह श्रीमद्रो वर्द्धनधराधरम्‍ ॥ समर्च्य दक्षिणीकृत्य भुक्तिमुक्ति समाप्नुयात्‍ ॥३७॥
अथ मार्गसिताद्यायां धनव्रतमनुत्तमम्‍ ॥ नक्तं विष्ण्वर्चनं होमैः सौवर्णौ हुतभुक्तनुम्‍ ॥३८॥
रक्तवस्त्रयुगाच्छन्नां द्विजाय प्रतिपादयेत्‍ ॥ एवं कृत्वा धनैर्धान्यैः समृद्धो जायते भुवि ॥३९॥
वह्रिना दग्धपापस्तु विष्णु लोके महीयते ॥ पौषशुल्कप्रतिपदि भानुमभ्यर्च्य भक्तितः ॥४०॥
एकभत्कव्रतो मर्त्यो भानुलोकमवाप्नुयात्‍ ॥ माघशुल्कादिवसे वह्रिं साक्षान्महेश्वरम्‍ ॥४१॥
समभ्यच्य विधानेन समृद्धो जायते भुवि ॥ अथ फाल्गुनशुल्कादौ देवदेवं दिंगबरम्‍ ॥४२॥
धूलिधूसरसर्वांगं जलैरुक्षेत्समंततः ॥ कर्मणां लौलिकेनापि संतुष्टो हि महेश्वरः ॥४३॥
स्वसायुज्यं प्रदिशति भक्तया सम्यक्समर्चितः ॥ वैशाखे तु सिताद्यायां विष्णुं विश्वविहारिणम्‍ ॥४४॥
समभ्यर्च्य विप्रान्संभोजयेद्धती ॥ एवं शुचिसिताद्यायां ब्रह्माणं जगताम गुरुम्‍ ॥४५॥
विष्णुना सहितो ब्रह्या सर्वलोकेश्वरेश्वरः ॥ स्वसायुज्यं प्रदिशति सर्वसिद्धिमवाप्नुयात्‍ ॥४६॥
आसु द्वादशमासानां प्रतिपत्सु द्विजोत्तम्‍ ॥ व्रतानि तुभ्यं प्रोक्तानि भुक्तिमुक्तिप्रदानि च ॥४७॥
व्रतेष्वेतेषु सर्वेषु ब्रह्मचर्यं विधीयते ॥ भोजने तु हविष्यान्नं सामान्यत उदाहृतम्‍ ॥४८॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासप्रतिपद्धनिरुपणं नाम दशोत्तरशततमोऽध्यायः ॥११०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T05:02:11.9030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

elements of symmetry

  • पु./अ.व. सममिति घटक 
  • सममितीची मूलतत्त्वे 
RANDOM WORD

Did you know?

वास्तुशास्त्र पाहणे कितपत विश्वासार्ह आहे? त्याचे परिणाम जाणवतात काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site