TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
दशमोऽध्यायः

श्री नारदीयमहापुराणम् - दशमोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


दशमोऽध्यायः

नारद उवाच ॥

विष्णुपादग्रसंभूता या गङ्गेत्यभिधीयते ॥ तदुत्पत्तिं वद भ्रातरनुग्राह्योऽस्मि ते यदि ॥१॥

सनक उवाच ॥

श़ृणु नारद वक्ष्यामि गङ्गोत्पत्तिं तवानघ ॥ वदतां श़ृण्वतां चैंव पुण्यदां पापनाशिनीम् ॥२॥

आसीदिंद्रादिदेवानां जनकः कश्यपो मुनिः॥ दक्षात्मजे तस्य भार्ये दितिश्चादितिरेव च ॥३॥

अदितिर्देवमातास्ति दैत्यानां जननी दितिः ॥ ते तयोरात्मजा विप्र परस्परजयैषिणः ॥४॥

सदा सपूर्वदेवास्तु यतो दैत्याः प्रकीर्तिताः ॥ आदिदैंत्यो दितेः पुत्रो हिरण्यकशिपुबर्ली ॥५॥

प्रह्लादस्तस्य पुत्रोऽभूत्सुमहान्दैत्यसत्तमः ॥ विरोचन स्तस्य सुतो बभूव द्विजभक्तिमान् ॥६॥

तस्य पुत्रोऽतितेजस्वी बलिरासीत्प्रतापवान् ॥ स एव वाहिनीपालो दैत्यानामभवन्मुनेः ॥७॥

बलेन महता युक्तो बुभुजे मेदिनीमिमाम् ॥ विजित्य वसुधां सर्वां स्वर्ग जेतुं मनो दधे ॥८॥

गजाश्च यस्यायुतकोटिलक्षास्तावन्त एवाश्वरथा मुनींद्र ॥ गजे गजे पंचशती पदातेः किं वर्ण्यते तस्य चमूर्वरिष्ठा ॥९॥

अमात्यकोट्यग्रसरावमात्यौ कुम्भाण्डनामप्यथ कूपकर्णः ॥ पित्रा समं शौर्यपराक्रमाभ्यां बाणो बलेः पुत्रशताग्रजोऽभूत् ॥१०॥

बलिः सुराञ्जेतुमनाः प्रवृत्तः सैन्येन युक्तो महता प्रतस्थे ॥ ध्वजातपत्रैंर्गगगनाबुराशेस्तरङ्गविद्युत्स्मरणं प्रकुर्वन ॥११॥

अवाप्य वृत्रारिपुरं सुरारी रुरोघ दैत्यैंर्मृगराजगाढैः ॥ सुराश्च युद्धाय पुरात्तथैव विनिर्ययुर्वज्रकरादयश्च ॥१२॥

ततः प्रववृते युद्धं घोरं गीर्वाणदैत्ययो कल्पांतमेघानिर्घोषं डिंडिंमध्वनिसंभ्रमम् ॥१३॥

मुमुचुः शरजालानि दैंत्याः सुमनसां बले ॥ देवाश्च दैत्यसेनासु संग्रामेऽत्यन्तदारुणे ॥१४॥

जहि दारय भिंधीति छिंधि मारय ताडय ॥ इत्येवं सुमहान्घोषो वदतां सेनयोरभूत् ॥१५॥

शरदुन्दुभिनिध्वानैः सिंहनादैंःसुरद्विषाम् ॥ भाङ्कारैः स्यन्दनानां च बाणकेङ्कारनिःस्वनैः ॥१६॥

अश्वानां हेषितैश्चैव गजानां बृहितैस्तथा ॥ टङ्कारैर्धनुषां चैव लोकः शब्दमयोऽभवत् ॥१७॥

सुरासुरविनिर्मुक्तबाणनिष्पेषजानले ॥ अकालप्रलय मेने निरीक्ष्य सकलं जगत् ॥१८॥

बभौ देवद्विषां सेना स्फुरच्छस्रौघधारिणी ॥ चलद्विद्युन्निभा रात्रिश्छदिता जलदैरिव ॥१९॥

तस्मिन्युद्धे महाघोरैर्गिरीन् क्षिप्तान् सुरारिभिः ॥ नाराचैश्चूर्णयामासुर्देवास्ते लघुविक्रमाः ॥२०॥

केचित्संताडयामासुर्नागैर्नागान्रथान्रेथैः ॥ अश्वैरश्वाश्च केचित्तु गदादण्डैरथार्द्दयन् ॥२१॥

परिघैस्ताडिताः केचित्पेतुः शोणितकर्द्दमे ॥ समुत्क्रांतासवः केचिद्विमानानि समाश्रिताः ॥२२॥

ये दैत्या निहता दैवैः प्रसह्य सङ्गरे तदा ॥ ते देवभावमापन्ना दैतेयान्समुपाद्रवन् ॥२३॥

अथ दैत्यगणाः क्रुद्धास्ताड्यमानाः सुरैर्भृशम् ॥ शस्त्रैर्बहुविधैद्दैवान्निजध्नुरतिदारुणाः ॥२४॥

दृषद्भिर्भिदिपालैश्च खङ्गैः परशुतोमरैः ॥ परिघैश्छुरिकाभिश्च कुन्तैश्चक्रै श्च शङ्कुभिः ॥२५॥

मुसलैरङ्कुशैश्चैव लाङ्गलैः पट्टिशैस्तथा ॥ शक्तयोपलैः शतघ्नीभिः पाशैश्च तलमुष्टिभिः ॥२६॥

शूलैर्ना लीकनाराचैः क्षेपणीयैस्समुद्ररैः ॥ रथाश्वनागपदगैः सङ्कुलो ववृधे रणः ॥२७॥

देवाश्च विविधास्त्राणि दैतेयेभ्यः समाक्षिपन् ॥ एवमष्टसहस्राणि युद्धमासीत्सुदारुणम् ॥२८॥

अथ दैत्यबले वृद्धे पराभूता दिवौकसः ॥ सुरलोकं परित्यज्य सर्वे भीताः प्रदुद्रुवुः ॥२९॥

नररूपपरिच्छन्ना विचेरुरवनीतले ॥ वैरोचनिस्त्रिभुवनं नारायणपरायणः ॥३०॥

बुभुजेऽव्याहतैश्वर्यप्रवृद्धश्रीर्महाबलः ॥ इयाज चाश्वमेधैः स विष्णुप्रीणनतत्परः ॥३१॥

इन्द्रत्वं चाकरोत्स्वर्गे दिक्पालत्वं तथैव च ॥ देवानां प्रीणनार्थाय यैः क्रियन्ते द्विजैर्मखाः॥३२॥

तेषु यज्ञेषु हविर्भुङ्क्ते स दैत्यराट् ॥ अदितिः स्वात्मजान्वीक्ष्य देवमातातिदुःखिता ॥३३॥

वृथात्र निवसमीति मत्वागाद्धिमवाद्रिरिम् ॥ शक्रस्यैश्वर्यमिच्छंती दैत्यानां च पराजयम् ॥३४॥

हरिध्यानपरा भूत्वा तपस्तेपेऽतिदुष्करम् ॥ किंचित्काल समासीना तिष्ठंती च ततः परम् ॥३५॥

पादेनैकेन सुचिरं ततः पादाग्रमात्रतः ॥ कंचित्काल फलाहारा ततः शीर्णदलाशना ॥३६॥

ततो जलाशना वायुभोजनाहारवर्जिता ॥ सच्चिदानन्दसन्दोहं ध्यायत्यात्मानमात्मना ॥३७॥

दिव्याब्दानां सहस्रं सा तपोऽतप्यत नारद ॥ दुरन्तं तत्तपंः श्रुत्वा दैतेया मायिनोऽदितिम् ॥३८॥

देवतारूपमास्थाय संप्रोचुर्बलिनोदिताः ॥ किमर्थं तप्यते मातः शरीरपरिशोषणम् ॥३९॥

यदि जानन्ति दैतेया महद्दुखं ततो भवेत् ॥ त्यजेदं दुःखबहुलं कायशोषणकारणम् ॥४०॥

प्रयाससाध्यं सुकृतं न प्रशंसन्ति पण्डिताः ॥ शरीरं यत्नतो रक्ष्यं धर्मसाधनतत्परैः॥४१॥

ये शरीर मुपेक्षन्ते ते स्युरात्मविघातिनः ॥ सुखं त्वं तिष्ठ सुभगे पुत्रानस्मान्न खेदय ॥४२॥

मात्रा हीना जना मातर्मृतप्राया न संशयः ॥ गावो वा पशवो वापि यत्र गावो महीरुहाः ॥४३॥

न लभन्ते सुखं किंचिन्मात्रा हीना मृतोपमाः ॥ दरिद्रो वापि रोगी वा देशान्तरगतोऽपि वा ॥४४॥

मातुर्दर्शनमात्रेण लभते परमां मुदम् ॥ अन्ने वा सलिले वापि धनादौ वा प्रियासु च ॥४५॥

कदाचिद्विमुखो याति जनो मातरि कोऽपि न ॥ यस्य माता गृहे नास्ति यत्र धर्मपरायणा ॥ साध्वी च स्त्री पतिप्राणा गन्तव्यं तेन वै वनम् ॥४६॥

धर्मश्च नारायणभक्तिहीनो धनं सद्भोगविवर्जितं हि ॥ गृहं च भार्यातनयैर्विहीनं यथा तथा मातृविहीनमर्त्यः ॥४७॥

तस्माद्देवि परित्राहि दुःखार्तानात्मजांस्तव ॥ इत्युक्तप्यादितिर्दैत्यैर्न चचाल समाधितः ॥४८॥

एवमुक्त्वासुराः सर्वे हरिध्यानपरायणाम् ॥ निरीक्ष्य क्रोधसंयुक्ता हन्तुं चक्रुर्मनोरथम् ॥४९॥

कल्पान्तमेघनिर्घोषाः क्रोधसंरक्तलोचनाः ॥ दंष्ट्रग्रैर सृजन्वह्निं सोऽदहत्काननं क्षणात् ॥५०॥

शतयोजनविस्तीर्ण नानाजीवसमाकुलम् ॥ तेनैव दग्धा दैतेया ये प्रधर्षयितुं गताः ॥५१॥

सैवावशिष्टा जननी सुराणामब्दाच्छतादच्युतसक्तचित्ता ॥ संरक्षिता विष्णुसुदर्शनेन दैत्यान्तकेन स्वजनानुकम्पिना ॥५२॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गोत्पतौ बलिकृतदेवपराजयवर्णनन्नाम दशमोऽध्यायः ॥१०

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:24:32.0970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धरिया

  • पु. पोलादी टोंक बसविलेला बांबूचा भाला . - खानगिखाते नोकर लोकांच्या पोशाखासंबंधी नियम ४१ . 
  • पु. पोलादी टोंक बसविलेला बांबूचा भाला . - खानगिखाते नोकर लोकांच्या पोशाखासंबंधी नियम ४१ . 
RANDOM WORD

Did you know?

Are the advertisements necessary on your pages?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site