TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
षट्‍षष्टितमोऽध्यायः

श्री नारदीयमहापुराणम् - षट्‍षष्टितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


षट्‍षष्टितमोऽध्यायः
सनत्कुमार उवाच ॥
ततः श्वासानुसारेण दत्वा पादं महीतले ॥ समुद्रमेखले देवि पर्वतस्तनमंडले ॥१॥
विष्णुपत्नि नमस्तुभ्यं पादस्पर्श क्षमस्व मे ॥ इति भूमिं तु संप्रार्थ्य विहरेच्च यथाविधि ॥२॥
रक्षःकोणे ततो ग्रामाद्धत्वा मंत्रमुदीरयेत् ॥ गच्छंतु ऋषयो देवाः पिशाचा ये च गुह्यकाः ॥३॥
पितृभूतगणाः सर्वे करिष्ये मलमोचनम् ॥ इति तालत्रयं दत्वा शिरः प्रावृत्य वाससा ॥४॥
दक्षिणाभिमुखं रात्रौ दिवा स्थित्वा ह्युदङ्‌मुखः ॥ मलं विसृज्य शौचं तु मृदाद्धिः समुपाचरेत् ॥५॥
एका लिंगे गुदे तिस्त्रो दश वामकरे मृदः ॥ करयोः सप्त वै तद्यात्रित्रिवारं च पादयोः ॥६॥
एवं शौचं विद्यायाथं गंडूषान्द्वाद शैव तु ॥ कृत्वा वनस्पपिं चाथ प्रार्थन्मनुनामुना ॥७॥
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ॥ श्रियं प्रज्ञां च मेधां च त्वं नो देहि वनस्पते॥८॥
संप्रार्थ्यैव् दंतकाष्ठं द्वादशांगुलसंमितम् ॥ गृहीत्वा काममंत्रेण कुर्यान्मंत्री समाहितः ॥९॥
कामदेवपदं डेन्तं तथा सर्वजनप्रियम् ॥ त्द्ददंतः कामबीजाढ्यं दन्तांश्वानेन शोधयेत् ॥१०॥
जिह्रोल्लेखो वाग्भवेन मूलेन क्षालयेन्मुखम् ॥ देवागारं ततो गत्वा निर्माल्यमपसार्य च ॥११॥
परिधायांबरं शुद्धं मंगलारार्तिकं चरेत् ॥ अस्त्रेण पात्रं मूलेन ज्वालयेच्च तम् ॥१२॥
संपूज्य पात्रमादायोत्थाय घंटां च वादयेत् ॥ सुगोघृतप्रदीपेन भ्रामितेन समंततः ॥१३॥
वाद्यैर्तीतैर्मनोज्ञैश्व देवस्यारार्तिकं  भवेत् ॥ इति नीराजनं कृत्वा प्रार्थयित्वा निजेश्वर्म् ॥१४॥
स्त्रातुं यायान्निम्गगादौ कीर्तयन्देवतागुणान् ॥ गत्वा तीर्थं नमस्कृत्य स्त्रानीयं च निधाय वै ॥१५॥
मूलाभिमंत्रितमृदमादाय कटिदेशतः ॥ विलिप्यवादपर्यंत क्षालयेत्तीर्थवारिणा ॥१६॥
ततश्व पञ्चभिः पादौ प्रक्षाल्यांर्तजले पुनः ॥ प्रविश्य नाभिमात्रे तु मृदं वामकरस्य च ॥१७॥
मणिबन्धे हस्ततले तदग्रे च तथा पुनः ॥ कृत्वांगुल्या गांगमृदमादायास्त्रेण तत्पुनः ॥१८॥
निजोपरि च मंत्रज्ञो भ्रामयित्वा त्यजेत्सुधी ॥ तलस्थां च षडंगेषु तन्मंत्रै प्रविलेपयेत् ॥१९॥
निमज्य क्षालयेत्सभ्यग्‍ मलस्त्रानमितीरितम् ॥ विबहव्येष्टमयं सर्वमांतरं स्त्रानमाचरेत् ॥२०॥
अनंता दित्यसंकाशं निजभूषायुधैर्युतम् ॥ मंत्रमूर्ति प्रभुं तत्पादोदकसंभवाम् ॥२१॥
धारां च ब्रह्मरंध्रेण प्रविशतीं निजां तनुम् ॥ तया संक्षालयेत्सर्वमंतर्द्देहगतं मलम् ॥२२॥
तत्क्षणाद्विरजा मंत्री जायते स्फटिकोपमः ॥ ततः श्रौतोक्तविधिना स्त्रात्वा मन्त्री समाहितः ॥२३॥
मंत्रस्नानंततः कुर्यात्तद्विधानमथोच्यते ॥ देशकालौ च संकीर्त्य प्राणायामषडंगकैः ॥२४॥
कृत्वार्कमंडलात्तीर्थान्याह्रयेन्मुष्तिमुद्रया ॥ ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते खेः ॥२५॥
तेन सत्येन मे देव तीर्थं दिवाकर ॥२६॥
गंगे च यमुने चैव गोदावरि सरस्वति ॥ नर्मदे सिंधुकावेरि जलेऽस्मिन्संसनिधिं कुरु ॥२७॥
इत्यावाह्य जले तानि सुधाबीजेन योजयेत् ॥ गोमुद्रयामृतीकृत्य कवचेनावगुंठय च ॥२८॥
संरक्ष्यास्त्रेण तत्पश्वाच्चक्रमुद्रां प्रदर्शयेत् ॥ वह्रयर्कैंदुमंडलानि तत्र संचितयेद्धुधः ॥२९॥
मंत्रयेदर्कमन्त्रेण सुधाबीजेन तज्जलम् ॥ मूलेन चैकादशधा तत्र संमंत्र्य भावयेत् ॥३०॥
पूजायंत्रं च तन्मध्ये खांतादावाह्य देवताम् ॥ स्त्रापयित्वार्चयेत्तां च मानसैरुपचारकैः ॥३१॥
सिंहासनस्थां तां नत्वा तज्जलं प्रणमेत्सुधीः ॥ आधारः सर्वभूतानां विष्णारेतुलतेजसः ॥३२॥
तद्रूपाश्व ततो जाता आपस्ताः प्रणमाम्यहम् ॥ इति नत्वा समारुन्ध्य सप्तच्छिद्राणि साधकः ॥३३॥
निमज्य सलिले तस्मिन्मूलं देवाकृतिं स्मरेत् ॥ निमज्ज्योन्मज्ज्य त्रिश्वैवं सिंचेत्कं कुभमुद्रया ॥३४॥
त्रिर्मूलेन चतुर्मंत्रैरभिषिंन्निजांतनुम् ॥ चत्वारो मनवस्तेऽकथ्यन्ते तांत्रिका मुने ॥३५॥
सिसृक्षोनिंखिलं विश्वं मुहुः शुक्रं प्रजापतेः ॥ मातरः सर्वभूतानामापो देव्यः पुनंतु माम् ॥३६॥
अलक्ष्मीर्मलरुपा या सर्वभूतेषु संस्थिता ॥ क्षालंयति च तां स्पर्शादापो देव्यः पुनंतु माम् ॥३७॥
यन्मे केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि ॥ ललाटे कर्णयोरक्ष्णोरापस्तद्धन्तु वो नमः ॥३८॥
आयुरोग्यमैश्वर्यमरिपक्षक्षयं शुभम् ॥ सन्तोषः क्षांतिरास्तिक्यं विद्या भवतु वो नमः ॥३९॥
विप्रपादोदकं पीत्वा शालाग्रामशिलाजलम् ॥ पिबेद्विरुद्ध्म नो कुर्यादेषां तु नियतो विधिः ॥४०॥
पृथिव्यां यानि तीर्थानि दक्षांघ्रौ तानि भूसुरे ॥ स्वेष्टदेवं समुद्वास्य मन्त्री मार्तंडमण्डले ॥४१॥
ततस्तीरं समागत्य वस्त्रं संक्षाल्य यत्नतः ॥ वाससी परिधायाथ कुर्यात्सन्ध्यादिकं सुधीः ॥४२॥
रोगाद्यशक्तो मनुजः कुर्यात्तत्राघमर्षणम् ॥ अथवा भस्मना स्त्रातो रजोभिश्वैव वाऽक्षमः ॥४३॥
अथ सन्ध्यादिकं कुर्याण स्थित्वां चैवासने शुभे ॥ केशवेन तथा नारायणेन माधवेन च ॥४४॥
संप्राश्यं तोयं गोविंदविष्णुभ्यां क्षालयेत्करौ ॥ मधुसूदनत्रिविक्रमाभ्यामोष्ठौ च मार्जयेत् ॥४५॥
वामनश्र्रीधराभ्यां च मुखं हस्तौ स्पृशेत्ततः ॥ ह्रषीकेशपद्मनाभाभ्यां स्पृशेच्चरणौ ततः ॥४६॥
दामोदरेणमूर्द्धानं मुखं संकर्षणेन च ॥ वासुदेवेन प्रद्युम्नेन स्पृशेन्नासिके ततः ॥४७॥
अनिरुद्धपुरुषोत्तमाभ्यां नेत्रे स्पृशेत्ततः ॥ अधोक्षजनृसिंहाभ्य श्रवणे संस्पृशेत्तथा ॥४८॥
नाभिं स्पृशेदच्युतेन जनार्दनेन वक्षसि ॥ हरिणा विष्णुनांसौ च वैष्णवाचमनं त्विदम् ॥४९॥
प्रणवाद्यैर्डे मोंतैः केशवादिकनामभिः ॥ मुखे नसोः प्रदेशिन्याऽनामया नेत्रकर्णयोः ॥५०॥
कनिष्ठया नाभिदेशं सर्वत्रांगुष्ठयोजनम् ॥ आत्मविद्याशिवैस्तत्त्वैं स्वाहांतैः शैव्मीरितम् ॥५१॥
दीर्घतयेंदुयुग्व्योमपूर्वकैश्व पिबेज्जलम् ॥ आत्मविद्याशिवैरेव शैवं स्वाहावसानिकैः ॥५२॥
वाग्लज्जाश्री मुखैः प्रोक्तं शाक्तं स्वाहावसानिकैः ॥ वाग्लज्जाश्रीमुखैः प्रोक्तं द्विजाचमनमर्थदम् ॥५३॥
तिलंक च ततः कुर्याद्वाले सुष्ठु गदाकृति ॥ नंदकं ह्रदये शंखचक्रे चैव भुजद्वये ॥५४॥
शार्ङबाणं मस्तके च विन्यसेत्क्रमशः सुधीः ॥ कर्णमूले पार्श्वयोश्व पृष्ठे नाभौ ककुद्यपि ॥५५॥
एवं तु वैष्णवः कुर्यान्मृद्धिस्तीर्थोद्धवादिभिः ॥ अग्निहोत्रोद्धवं भस्म गृहीत्वा त्र्यंबकेण तु ॥५६॥
किंवाग्निरिति मंत्रेणाभिमंत्र्य पञ्चमन्त्रकैः ॥ क्रमात्तत्पुरुषाघोरसद्योजातादिनामभिः ॥५७॥
पञ्च कुर्यास्त्रिपुंड्राणि भालांसोदरह्रत्सु च ॥ शैवः शाक्तस्त्रिकोणाभं नारीवद्वा समाचरेत् ॥५८॥
कृत्वा तु वैदिकी संध्यां तांत्रिकीं च समाचरेत् ॥ आचम्य विधिवन्मन्त्री तीर्थान्यावाह्य पूर्ववत् ॥५९॥
ततस्त्रिवारं दर्भेण भूमौ तोयं विनिःक्षिपेत् ॥ सप्तधा तज्जलेनाथ मूर्द्धानमभिषेचयेत् ॥६०॥
ततश्व प्राणानायम्य कृत्वा न्यासं षडंगकम् ॥ आदाय वामहस्तेंऽबु दक्षेणाच्छाद्य पाणिना ॥६१॥
वियद्वाय्वग्नितोयक्ष्माबीजैः संमंत्र्य मंत्रवित् ॥ मूलेन तस्मात् श्वोतद्धिर्बिन्दुभिस्तत्त्वमुद्रया ॥६२॥
स्वशिरः सप्तधा प्रोक्ष्यावशिष्टं तत्पुनर्जलम् ॥ कृत्वा तदक्षरं मंत्री नासिकांतिकमानयेत् ॥६३॥
जलं तेजोमयं तच्चाकृष्यांतश्वेडया पुनः ॥ प्रक्षाल्यांर्तगतं तेन कल्पषं तज्जलं पुनः ॥६४॥
कृष्णवर्णं पिंगलया रेचयेत्स्वाग्रतस्तथा ॥ क्षिपेदस्त्रेण तत्पश्वात्कल्पिते कुलिशोपले ॥६५॥
एतद्धि सर्वपापघ्नं प्रोक्तं चैवाघमर्षणम् ॥ ततश्व हस्तौ प्रक्षाल्य प्राग्वदाचम्य मंत्रवित् ॥‌६६॥
समुत्थाय च मंत्रज्ञस्ताम्रपात्रे सुमादिकम् ॥ प्रक्षिप्यार्घं प्रदद्याद्वै मूलांतैर्मंमुच्चरन् ॥६७॥
रवि मंडलसंस्थाय देवायार्घ्यं प्रकल्पयेत् ॥ दत्वार्घं त्रिरनेनाथ देवं रविगतं स्मरेत् ॥६८॥
स्वकल्पोक्तां च गायत्रीं जपेदष्टोत्तरः शतम् ॥ अष्टांविंशतिवारं वा गुह्येतिमनुनार्पयेत् ॥६९॥
उद्यदादित्यंसंकाशां पुस्तकाक्षकराबुजाम् ॥ कृष्णाजिनांबरां ब्राह्मीं ध्यायेत्तारांकितेऽम्बरे ॥७०॥
मध्याहि वरदां देवीं पार्वतीं संस्मरेत्पराम् ॥ शुक्लांबरां वृषारुढां त्रिनेत्रां रविबिंबगाम् ॥७१॥
वरं पाशं च शूलं च दधानां नृकरोटिकाम् ॥ सायाह्रे रतभूषाढ्यां पीतकौशेयवाससाम् ॥७२॥
श्यामरंगां चतुर्हस्तां शंखचक्रलसत्क्रराम् ॥ गदापद्मधरां देवीं सूर्यासनकृताश्रयाम् ॥७३॥
ततो देव पितृंश्वापि विधानवित् ॥ तर्पयित्वा स्वेष्टदेवं तर्पयेत्कल्पमार्गतः ॥७४॥
गुरुपंक्तिं च संतर्प्य सांगं सावरणं तथा ॥ सायुधं वैनतेयं संतर्प यामीति तर्पयेत् ॥७५॥
नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् ॥ विष्वक्सेनं च शैलेयं वैष्णयः परितर्पयेत् ॥७६॥
एवं संतर्प्य विप्रेंद्र दत्त्वार्घ्यं च विवस्वते ॥ पूजागारं समागत्य प्रक्षाल्यांघ्री उपस्पृशेत् ॥७७॥
अग्निहोत्रस्थितानग्रीन हुत्वोपस्थाय यत्नतः ॥ पूजास्थलं समागत्य द्वारपूजां समाचरेत् ॥७८॥
गणेशं चोर्द्धशाखायां महालक्ष्मी च दक्षिणे॥ सरस्वती वामभागे दक्षे बिघ्नेश्वरं पुनः ॥७९॥
क्षेत्रपालं तथा वामे दक्षे गंगां प्रपूजयेत् ॥ वामे च यमुनां दक्षे धातारं वामतस्तथा ॥८०॥
विधातारं शंखपद्मनिधींश्व वामदक्षयोः ॥ द्वारपालांस्ततोऽभ्यर्चेत्तत्तत्कल्पोदितान्सुधीः ॥८१॥
नंदः सुनंदश्वंडश्व प्रचंडः प्रचलो बलः ॥ भद्रः सुभद्रश्वेत्याद्या वैष्णवा द्वारपालकाः ॥८२॥
नंदी भृगी रिटी स्कंदो गणेशोमामहेश्वराः ॥ वृषभश्व महाकालः शैवा वै द्वारपालकाः ॥८३॥
ब्राह्मयाद्या मातरोऽष्टौ तु शक्तयो द्वाःस्थिताः स्वयम् ॥ सेंदुः स्वनामाघर्णाद्या डेनमोंता इमे स्मृताः ॥८४॥
ततः स्थित्वासने धीमानाचम्य प्रयतः शुचिः ॥ दिव्यांतरिक्षमौमांश्व विघ्रानुत्सार्य यत्नतः ॥८५॥
केशवाद्यां मातृकां तु न्यसद्वैष्णवसत्तमः ॥ केशव कीर्तिसंयुक्तः कांत्या नारायणस्तथा ॥८६॥
माधववस्तुष्टिसहितो गोविंदः पुष्टिसंयुतः ॥ विष्णुस्तु धृतिसंयुक्तः शांतियुङ्‌मधुसूदन ॥८७॥
त्रिविक्रमः क्रियायुक्तो वामनो दयितायुतः ॥ श्रीधरो मेधया युक्तो ह्रषीकेशश्व हर्षया ॥८८॥
पद्मनाभयुता श्रद्धा लज्जा दामोदरान्विता ॥ वासुदेवश्व लक्ष्मीयुक् संकर्षणसरस्वती ॥८९॥
प्रद्युम्नः प्रीतिसंयुक्तोऽनिरुद्धो रतिसंयुतः ॥ चक्री जयायुतः पश्वाद्नदी दुर्गासमन्वितः ॥९०॥
शार्ङी तु प्रभया युक्तः खडी युक्तस्तु सत्यया ॥ शंखी चंडासमायुक्तो हली वाणीसमायुतः ॥९१॥
मुसली च विलासिन्या शूली विजयान्वितः ॥ पाशी विरजया युक्तो कुशी विश्वासमन्वितः ॥९२॥
मुकुंदो विनतायुक्तो नंदजश्व सुनंदयानंदी स्मृत्या समायुक्तो नरो वृद्धया समन्वितः ॥९३॥
समृद्धियुड्‌नरकजिच्छुद्द्धियुक्च हरिः स्मृतः ॥ कृष्णो बुद्धया युतः सर्त्यो भुक्तया मुक्त्याथ सात्वतः ॥९४॥
सौरिक्षमे सूररमे उमायुक्तो जनार्दनः ॥ भूधरः क्लेदिनीयुक्ती विश्व्मूर्तिश्व क्लिन्नया ॥९५॥
वैकुंठो वसिधायुक्तो वसुदः पुरुषोत्तमः ॥ बली तु परया युक्तो बलानुजपरायणे ॥९६॥
बालसूक्ष्मे वृषघ्रस्तु संध्यायुकू प्रज्ञयाः वृषः ॥ हंसः प्रभासमायुक्तो वराहो निशया युतः ॥९७॥
विमलो धारया युक्तो नृसिंहो विद्युता युतः ॥ केशवादिमातृकाया मुनिर्नारा यणो मतः ॥९८॥
अमृताद्या च गायत्री छंदो विष्णुश्व देवता ॥ चक्राद्यायुधसंयुक्त कुंभादर्शधरं हरिम् ॥९९॥
लक्ष्मीयुतं विद्युदाभं बहुभू षायुतं भजेत् ॥ एकं धात्वा न्य्सेच्छक्तिं श्रीकामपुटिताक्षरम् ॥१००॥
वदेत्तद्विष्णुशक्तिभ्यां हदयं प्रणवादिकम् ॥ त्वगंसृङ्‌मांससमेदोऽस्थिमज्जाशुक्राण्यसून्वदेत् ॥१०१॥
प्राणं क्रोधं तथा मभ्यामन्तादिदशस्वपि ॥ एक मौलौ मुखे चैक द्विक नेत्रे द्विकं श्रुतौ ॥१०२॥
नसोर्द्वयं कपोले च द्वंय द्विरदच्छदे ॥ एकं तु रसनामूले ग्रीवायामेकमेव च ॥१०३॥
कवर्गं दक्षिणे बाहौ चवर्गं वामबाहुके ॥ टतवर्गौ पादयोस्तु पफौ कुक्षिद्वये न्यसेत् ॥१०४॥
पृष्ठवंशे वमित्युक्तं नाभौ भं त्द्ददये तु मम् ॥ या दिसप्तापि धातुस्था हं प्राणे लं तथात्मनि ॥१०५॥
क्षं क्रोधे क्रमतो न्यस्य विष्णु पूजाक्षमो भवेत् ॥ पूर्णोदर्या तु श्रीकंठो ह्यनंतो विजराज्वितः ॥१०६॥
सूक्ष्मेशः शाल्मलीयुक्तो लोलाक्षीयुक्त्रिमूतकः ॥ महेश्वरी वर्तुलाक्ष्याघींशो वै दीर्घघोणया ॥१०७॥
दीर्घमुख्या भारभूतिस्तिथीशो गोमुखीयुतः ॥ स्थावरेशो दीर्घजिह्यायुग्धरः कुडोदरीयुतः ॥१०८॥
उर्द्धकेशया तु झिंटीशो भौतिको विकृतास्यया ॥ सद्यो ज्वालामुखीयुक्तोल्कामुख्यानुग्रहो युतः ॥१०९॥
अक्रूर आस्यया युक्तो महासेनो विद्यया युतः ॥ क्रोधीशश्व महाकाल्या चंडेशन सरस्वती ॥११०॥
पञ्चांतकः सिद्धगौर्या युक्तश्वाथ शिरोत्तमः ॥ त्रैलोक्यविद्यया युक्तो मन्त्रशक्यैकरुद्रकः ॥१११॥
कूर्मेशः कमठीयुक्तो भूतमात्रैकनेत्रकः ॥ लम्बोदर्या चतुर्वक्रो ह्रजेशी द्राविणीयुतः ॥११२॥
सर्वशो नागरीयुक्तः सोमेशः खेचरीयुतः ॥ मर्यादया लांगलीशो दारुकेशेन रुपिणी ॥११३॥
वारुण्या त्वर्द्धनारीशो उमाकांतो मुनीश्वरः ॥ काकोदर्या तथाषाढी पूतनासंयुतो मतः ॥११४॥
दंडीशो भद्रक लीयुगत्रीशो योगिनीयुतः ॥ मीनेशः शखिनीयुक्तो मेषेशस्तर्जनीयुतः ॥११५॥
लोहितः कालरात्र्या च शिखीशः कुजनीयुतः ॥ छलगण्डः कपर्दिन्या द्विरंडेशश्व वज्रया ॥११६॥
महाबलो जयायुक्तो बलीशः सुमुखेश्वरी ॥ भुजंगो खेतीयुक्तः पिनाकी माधवीयुतः ॥११७॥
खङीशो वारुणीयुक्तो बकेशो वायवीयुतः ॥ श्वेतोरस्को विदारिण्या भृगुः सहजया युतः ॥११८॥
लकुलीशश्व लक्ष्मीयुक् शिवेशो व्यापिनीयुतः ॥ संवर्तके महामाया प्रोक्ता श्रीकंठमातृका ॥११९॥
यत्र स्वीशपदं नोक्तं तत्र सर्वत्र योजयेत् ॥ मुनिस्स्याद्दक्षिणामूर्तिर्गायत्रीछन्द ईरितम् ॥१२०॥
देवता चार्द्धनारीशो विनियोगोऽखिलाप्तये ॥ हलो बीजानि चोक्तानि खराः शक्तय ईरिताः ॥१२१॥
कुर्याद्धगुस्थाकाशेन षडूदीर्घाढ्येन चांगकम् ॥ बंधूकस्वर्णवर्णागं वराक्षांकुशपाशिनम् ॥१२२॥
अद्धैंदुशेखरं त्र्यंक्ष देवंवंद्यं विचिंतयेत् ॥ ध्यात्वैवं शिवशक्तीश्व चतुर्थी हदयांतिमे ॥१२३॥
सौबीजमातृका पूर्वे विन्यसेन्मातृका स्थले ॥ विघ्नेशश्व हिया युक्तो विघ्नराजः श्रिया युतः ॥१२४॥
विनायकस्तथा पुष्टया शांतियुक्तः शिवोत्तमः ॥ विघ्नकृत्स्वस्तिसंयुक्तो विघ्नहर्ता सरस्वती ॥१२५॥
स्वाहया गणनाथश्व एकदंतः सुमेधया ॥ कांत्या युक्तो द्विदंतस्तु कामिन्या गजवक्रकः ॥१२६॥
निरंजनो मोहिनीयुक्तपर्द्दि तुनटीयुतः ॥ दीर्घजिह्रः पार्वतीयुग्ज्वालिन्या शंकुकर्णकः ॥१२७॥
वृषध्वजो नन्दया च सुरेश्या गणनायकः ॥ गजेंद्रः कामरुपिण्या शूर्पकर्णस्तथोमय ॥१२८॥
विरोचरस्तेजोवत्या सत्या लम्बो दरेण च ॥ महानंदश्व विघ्रेश्या चतुमूर्तिस्वरुपिणी ॥१२९॥
सदाशिवः कामदया ह्या मो दो मदजिह्रया ॥ दुसुखी भूतिसंयुक्तः सुमुखी भौतिकीयुतः ॥१३०॥
प्रमोदः सितया युक्त एकपादो रमायुतः ॥ द्विजिह्रो महिषीयुक्तो जभिन्याशूरनाम कः ॥१३१॥
वीरो विकर्णया युक्तः षण्मुखी भृकुटीयुतः ॥ वरदो लज्जया वामदेवशो दीर्घघोणया ॥१३२॥
धनुर्द्धर्या वक्रतुडो द्विरंडो यामिनी युतः ॥ सेनानी रात्रिसंयुक्तः कामाद्यों ग्रामणीयुतः ॥१३३॥
मत्तः शशिप्रभायुक्तो विमत्तो लोलनेत्रया ॥ मत्तवाहश्वंचलया जटी दीप्तिसमन्वितः ॥१३४॥
मुंडी सुभगया युक्तः खडी दुर्भगया युतः ॥ वरेण्यश्व शिवायुक्तो भगया वृषकेतनः ॥१३५॥
भक्ष्यप्रियो भगिन्या च गणेशो भगिनीयुतः ॥ मेघनादः सुभगया व्यापी स्यात्कालरात्रियुक् ॥१३६॥
गणेश्वरः कालिंकया प्रोक्तां विघ्नेशमातृकाः ॥ गणेशमातृकायास्तु गणो मुनिभिरीतः ॥१३७॥
त्रिवृद्धायात्रिकछन्दो देवः शक्तिगणेश्वरः ॥ षड्‌दीर्घाढ्येन बीजेन कुत्वांगानि ततः स्मरेत् ॥१३८॥
पांशाकुशाभयवारान्दधानं कंजहस्तया ॥ पत्नाश्लिष्टं रक्ततनुं त्रिनेत्रं गणपे भवेत् ॥१३९॥
एवं ध्यात्वा न्यसेत्सवीयबीजपूर्वाक्षरान्वितम् ॥ निवृत्तिश्व प्रतिष्ठा च विद्या शांतिस्तघेधिका ॥१४०॥
दीपिका रेचिका चापि मोचिका च पराभिधा ॥ सूक्ष्मासूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा ॥१४१॥
व्यापिनी व्योमरुपा चानंता सृष्टिः समृद्धिकां ॥ स्मृतिर्मेधा ततः कांतिर्लक्ष्मीर्द्धतिः स्थिरा स्थितिः ॥१४२॥
सिद्धिर्जरा पालिनी च क्षांतिरीश्वरिका रतिः ॥ कामिकां वरदा वाथ ह्रादिनी प्रीतिसंयुता ॥१४३॥
दीर्घा तीक्षणा तथा रौद्रा प्रोक्ता निद्रा च तंद्रिका ॥ क्षुधा च क्रोधिनी पश्वाक्रियाकारी समृत्युका ॥१४४॥
पीता श्वेतारुणा एश्वादसितानंतया युता ॥ उक्ता कलामातृकैवं तत्तद्धकः समाचरेत् ॥१४५॥
कलायुङ्‌मातृकायास्तु मुनिः प्रोक्तः प्रजापतिः ॥ गायत्रीछन्द आख्यात देवता शारदाभिधा ॥१४६॥
हस्वदीर्घांतरस्थैस्व्ह तारैः कुर्यात्षडंगकम् ॥ पद्मचक्रगुणैणांश्व दधतीं च त्रिलोचनाम् ॥१४७॥
पञ्चवक्रां भारतीं तां मुक्ताभूषां भजेत्सुधीः ॥ ध्यात्वैवं तारपूर्वां तां न्यसेन्डन्तकलान्विताम् ॥१४८॥
ततश्व मूलमन्त्रस्य षडंगानि समाचरेत् ॥ ह्रदयादिचतुर्थ्यंते जातीः संयोज्य विन्यसेत् ॥१४९॥
नमः स्वाहा वषट्‌ हुं वौषट्‌ फट्‌ जातय ईरिताः ॥ ततो ध्यात्वेष्टदेवं तं भूषायुधसमन्वितम् ॥१५०॥
न्यस्यांगषटकं तन्मूतौ ततः पूजनमारभेत् ॥१५१॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बुहदुपाख्याने तृतीयपादे संध्या दिनिरुपणं नाम षट्‍षष्टितमोऽध्यायः ॥६६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:41:52.7530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शिखा-शिखानष्ट

  • मुसलमान हे शेंडी ठेवीत नाहींत यावरुन ( ल.) धर्मलंड. ‘ शिखानष्टा दुष्टा करुनि राणें शिक्षा निजकरीं !’ -पु. बा. जोशी. 
RANDOM WORD

Did you know?

अंत्येष्टी म्हणजे काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.