TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
नवतितमोऽध्यायः

श्री नारदीयमहापुराणम् - नवतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


नवतितमोऽध्यायः
सनत्कुमार उवाच ॥
अथातो विप्र नित्यानां प्रयोगादिसमन्वितम्‍ ॥ पटलं तेऽभिधा स्यामि नित्याभ्यर्चनदीपकम्‍ ॥१॥
ललितायास्त्रिभिवर्णैः सकलार्थोऽभिधीयते ॥ शेषेण देवीरुपेण तेन स्यादिदमीरितम्‍ ॥२॥
अशेषतो जगत्कूत्स्त्रं हल्लेखात्मकमुच्यते ॥ तस्याश्वार्थस्तु कथितः सर्वतंत्रेषु गोपितः ॥३॥
व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना ॥ तयोर्विमर्श ईकारो बिंदुना तन्निफाल नम‍ ॥४॥
पिंडकर्तंरि बीजाख्या मन्त्रा मालाभिधाः क्रमात्‍ ॥ एकार्णवन्तो द्वयर्णाश्व त्रिदिङ्‌मुखमुखार्णकाः ॥५॥
वृत्तिजार्णंल्लिखेदंकैर्व्यत्यस्तक्रमयोगतः ॥ तैर्भेदयोजनं कुर्यात्संदर्भाणामशेषतः ॥६॥
देव्यात्मकं समुदयं विश्रांति च शिवात्मकम्‍ ॥ उभयात्मकमण्यात्मस्वरुपं तैश्व भावयेत्‍ ॥७॥
काले नान्यच्च दुःखात्तिवासनानाशनो ध्रुवम्‍ ॥ पराहंतामयं सर्वस्वरुपं चात्मविग्रहम्‍ ॥८॥
सदात्मकं स्फुरताख्यमरोषोपाधिवर्जितम्‍ ॥ प्रकाशर्रुपमात्मत्वे वस्तु तद्धासते परम्‍ ॥९॥
यत एवमतो लोके नात्स्यमंत्रं यदक्षरम्‍ ॥ यद्विद्येति समाख्यातं सर्वथाः सदा ॥१०॥
वासरेषु तु तेष्वेवं सर्वापत्तरकं भवेत्‍ ॥ तद्विधानं च वक्ष्यामि सम्यगासवकल्पनम्‍ ॥११॥
गौडी पैष्टी तथा माध्वीत्यवं तत्रिविधं स्मृतम्‍ ॥ गुडमुष्णोदके क्षिप्त्वा समालोड्य विनिक्षिपेत्‍ ॥१२॥
घटे काचमये तस्मिन्‍ धातकोसुमनोरजः ॥ खात्वा भूमौ संध्ययोस्तु करैः संक्षोभ्य भूयसा ॥१३॥
मासमात्रे गते तस्मिन्निमग्रे रजसि द्रुतम्‍ ॥ संशोध्य पूजयेत्तेन गौडी सा गुडयोगतः ॥१४॥
एवं मधुसमायोगान्माध्वी पैष्टीं श्रृणु प्रिय ॥ अध्यर्द्धद्विगुणे तोये श्रपयेत्तंदुलं शनैः ॥१५॥
दिनत्रयोषिते तस्मिन्धात्र्यंकुररजः क्षिपेत्‍ ॥ दिनमेकं धृते निवाते स्थापयेत्ततः ॥१६॥
उदकै लोंलित पश्वाद्धलितं पैष्टिकं मधु ॥ वृक्षजं फलजं चेति द्विविधं क्रियते मधु ॥१७॥
तन्निर्माणं श्रृणुष्वाद्य यदास्वादान्मनोलयः ॥ मृद्वीकां वाथ खर्जूरफलं पुष्पमथापि वा ॥१८॥
मधूकस्यांभसि क्षिप्त्वा शृतमर्द्धावशेषितम्‍ ॥ प्राक्‌सृतास्वलेशेन मिलितं दिवसद्वयात्‍ ॥१९॥
गालितं स्वादु पूजार्हं मनोलयकरं शुभम्‍ ॥ वार्क्षं तु नालिकरें स्याद्धिंतालस्याथ तालतः ॥२०॥
फलकांडात्स्नुतं दुग्धं नीतं सद्यो रसावहम्‍ ॥ नालिके रफलांतस्थसलिले शशिना युते ॥२१॥
अर्द्ध्पूगफलोत्थं तु रसं संक्षिप्य तापयेत्‍ ॥ आतपे सद्य एवैतदासवं देवताप्रियम्‍ ॥२२॥
आसवैरेभिरुदितैरर्घ्यं देव्यै निवेदयेत्‍ ॥ देवैः कृत्वा ततः सद्यो तद्यात्तत्सिद्धये द्वयम्‍ ॥२३॥
साधको नियताहारः समाधिस्थः पिबेत्सदा ॥ न कदाचित्पिबोत्सिद्धो देव्यर्थमानिवेदितम्‍ ॥२४॥
पानं च तावत्कुर्वीतं यावता स्यान्मनोलयः ॥ ततः करोतिः चेत्सद्यः पातकी भवति ध्रुवम्‍ ॥२५॥
देवतागुरुशिष्टान्यं पिबन्नासवमाशया ॥ पातकी राजदंड्यश्व रिक्थोपासक एव च ॥२६॥
साध्यसाधकयोरेतत्काम्य एव समीरितम्‍ ॥सिद्धस्य सर्वदा प्रोक्तं यतोऽसौ तन्मयो भवेत्‍ ॥२७॥
पूजयेत्प्राक्तोपस्तु प्रोक्तरुपाश्व ताः क्रमात्‍ ॥ उपचारैरासवैश्व मत्स्यैर्मांसैस्तु संस्कृतैः ॥२८॥
अथ काम्यार्चनं वक्ष्ये प्रयोगांश्वापि नारद ॥ येषामाचरणात्सिद्धिं साधको लभते ध्रुवम्‍ ॥२९॥
चैत्रे दमनकैरर्चेत्पूर्णायां मदनोत्सवम्‍ ॥ वैशाखे मासि पूर्णायां पूजयेद्धेमपुष्पकैः ॥३०॥
ज्यैष्ठयां फलैर्यजेंद्देवीं कदलीपनसाम्रजैः ॥आषाढ्यां चन्द्नैरेलाजातीकंकोलकुंकुमैः ॥३१॥
श्रावण्यामागमोक्तेन विधिनार्चेत्पवित्रकैः ॥ प्रौष्ठपद्यां गन्धपुष्पैर्यजेद्वा केतकीसुमैः ॥३२॥
आश्वयुज्यां कन्यकाचां भूषावस्त्रधनादिभिः ॥ कार्ति क्यां कुंकुमैश्वैव निशि दीपमणैरपि ॥३३॥
सचंद्रैर्मार्गशीर्ष्यां तु नालिकेरैरपूपकैः ॥ पौष्यां गुडैर्गवां दुगधैः समर्चयेत्‍ ॥३४॥
स्वर्णरौप्यैः पंकजैस्तु माघ्यां सौगनिभादिभिः ॥ फाल्गुन्यां विविधैर्द्रव्यैः फलैः पुष्पैः सुगंधिभिः ॥३५॥
पर्वताग्रे यजेद्देवीं पलाशकुसुमैर्निशि ॥ सिद्धद्रव्यैश्व सप्ताहात्खेचरामलनं भवेत्‍ ॥३६॥
अरण्ये वटमूले वा कुंजे वा धरणीभृताम्‍ ॥ कदम्बजातिपुष्पाभ्यां सिद्धद्रव्यैः शिवां यजेत्‍ ॥३७॥
मासेन सिद्धा यक्षिण्य़ प्रत्यक्षा वांछितप्रदाः ॥ केतकीकुसुमैः सिद्धाश्वेटका वारिधेस्तटे ॥३८॥
आज्ञामभीष्टां कुर्वन्ति रणे मायां महाद्धुताम्‍ ॥ वसूनि मालां भूषां च दद्युरस्येहयानिशम्‍ ॥३९॥
पीठमृक्षद्रुमैः कृत्वा देवीं यजेन्निशि ॥ शाल्मलैः कुसुमैः सिद्धद्रव्यैर्मासं तु निर्भयम्‍ ॥४०॥
श्मशानदेशे विप्रेंद्र सिद्धयंत्यस्य पिशाचकाः ॥ अश्मपातप्रहारद्यैर्जीयादाभिर्द्विषश्विरम्‍ ॥४१॥
र्निजने विपिने रात्रौ मासमात्रं तु निर्भयः ॥ यजेद्दवीं चक्रगतां सिद्धद्रव्यसमन्विताम्‍ ॥४२॥
मालतीजातपुन्नागकेतकीमरुभिः क्रमात्‍ ॥ तेन सिद्धयंति वेतालास्तानाह्येच्छया चरेत्‍ ॥४३॥
श्मशाने चंडिकागेहे निर्जने विपिनेऽपि वा ॥ मध्यरात्रे यजेद्देवीं कृष्णवस्त्रविभूषणैः ॥४४॥
कृष्णचक्रेऽतिकृष्णां तामतिक्रुद्धाशयो यजेत्‍ ॥ साध्य योनिं तदग्रे तु बलिं छिंदन्निवेदयेत्‍ ॥४५॥
सिद्धद्रव्यसमेतं तु मासात्तद्धललोचनात्‍ ॥ जायन्ते भीषणाः कृत्यास्ताभ्यः सिद्धिं निवेदयेत्‍ ॥४६॥
विश्वसंहारसंतुष्टाः पुनरेत्य निजेच्छाया ॥ देव्या ललाटनेत्रे स्युः प्रार्थिते तु तिरोहिताः ॥४७॥
रक्तभूषांबरालेपमालाभूषिताविग्रहाः ॥ उद्याने निर्जने देवीं चक्रे सचिंत्य पूजयेत्‍ ॥४८॥
कह्रारचंपकाशोकपाटलाशतपत्रकैः ॥ सिद्धद्रव्यसमोपेतैर्मायाः सिद्धयंति मासतः ॥४९॥
यासां प्रसादलाभेन कामरुपो भवेन्नरः ॥ याभिर्विश्वजयी विश्वचारी विश्वविनोदवान्‍ ॥५०॥
षडाधाराब्जमध्ये तु चक्रं संचिंत्य पूजयेत्‍ ॥ चंद्रचं दनकस्तूरीमृगनाभिमहोदयैः ॥५१॥
त्रिकालज्ञो भवेद्देवीं तेषु सम्यग्विचिंतयेत्‍ ॥ पूर्णप्रतीतौ भव्यानि विकलेऽभव्यमीरितम्‍ ॥५२॥
देवीं चक्रेण सहितां स्मरेद्धक्तियुतो नरः ॥ विवेका विभवा विश्वा वितता च प्रकीर्तिता ॥५३॥
कामिनी खेचरी गर्वा पुराणा परमेश्वरी ॥ गौरी शिवा ह्यमेया च विमला विजया परा ॥५४॥
पवित्रा पीडनी विद्या विश्वेशी शिववल्लभा ॥ अशेषरुपा स्वानंदांबुजाक्षी चाप्यनिंदिता ॥५५॥
वरदा वाक्यदा वाणी विविधा वेदविग्रहा ॥ विद्या वागीश्वरी सत्या संयता च सरस्वती ॥५६॥
निर्मलानन्दरुपा ह्यमृता मानदा तथा ॥ पूषा चैव तथा तुष्टिः पुष्टिश्वापि रतिर्धृतिः ॥५७॥
चंद्रिका कांतिर्ज्योत्स्त्रा श्रीः प्रीतिरंगदा ॥ देवीनामानि चैतानि चुलुके सलिले स्मरन्‍ ॥५८॥
मातृकासहितां विग्रां त्रिरावृत्त्यामृतात्मिकाम्‍ ॥ ताडीं सारस्वती जिह्रां दीपाकारां स्मरन्पिबेत्‍ ॥५९॥
अब्दाच्चतुर्विधं तस्य पांडित्यं भुवि जायते ॥ एवं नित्यसुषःकाले यः कुर्याच्छुद्धमानसः ॥६०॥
स योगी ब्रह्मविज्ञानी तथात्मवित्‍ ॥ अनुग्रहेक्तचक्रस्थां देवीं ताभिर्वृतां स्मरेत्‍ ॥६१॥
चंपर्केदविरैर्मासादारोग्यमुपजायते ॥ ज्वरभूतग्रोहोन्मदशीतकाकामला क्षिह्रत्‍ ॥६२॥
दंतकर्णज्वरशिरःशूलगुल्मादि कुक्षिजाः ॥ व्रणप्रमेहच्छर्घशांग्रहण्यामात्रिदोषजाः ॥६३॥
सर्वे तथा शमं यांति पूजया परमेश्वरी ॥ द्रव्य्म चक्रस्य निर्माणि काश्मीरं समुदी रितम्‍ ॥६४॥
सिंदूरं गैरिकं लाक्षा दरदं चंदनद्वयम्‍ ॥ बिलद्वारे लिखेत्र्यस्त्रं षोडशस्त्र्य्संयुतम्‍ ॥६५॥
दरदेनास्य मध्यस्थां पूजयेत्पर मेश्वरीम्‍ ॥ ताभिस्तच्छक्तिभिः साकं सिद्धद्रव्यैः सुंगांधिभिः ॥६६॥
कुसुमैर्मासमात्रेण नागकन्यासमन्वितम्‍ ॥ पातालादिषु लोकेषु रमयत्य निशं चिरम्‍ ॥६७॥
यक्षरक्षसगंधर्वसिद्धविद्याहरांगनाः ॥ पिशाचा गुह्यका वीराः किन्नरा भुजगास्तथा ॥६८॥
सिद्धयंति पूजयात्तत्र तथा तत्प्रोक्तकालतः ॥ किंशुकैर्भूषणावाप्तौ पाटलैर्गजसिद्धये ॥६९॥
रक्तोत्पलैरश्वसिद्धौ कुमुदैश्वरसिद्धये ॥ उत्पलैरुष्ट्रसंसिद्वयै तगरैः पशुसिद्धये ॥७०॥
जंबीरेर्महिषावाप्त्यै  लकुचैरजसिद्धये ॥ दाडिमैर्निधिसंसिद्धयै मधुकैर्गानसिद्धये ॥७१॥
बकुलैरंगनासिद्धयै कह्रारैः पुत्रसिद्धये ॥ शतपत्रैर्जयावाप्त्यै केतकैर्वाहनाप्तये ॥७२॥
सौरभाढ्यैः प्रसनैस्तु नित्यं सौभाग्यसिद्धये ॥ पूजयेन्मासमांत्र वा द्विगुणं त्रिगुणं तु वा ॥७३॥
यावत्फलावाप्तिकांक्षी शर्कराघृतपायसैः ॥ सचक्रपरिवारां तां देवी सलिलमध्यगाम्‍ ॥७४॥
तर्प्पयेत्कुसुमैः सार्घ्यैः सर्वोपद्रवशान्तये ॥ घृतैः पूर्णायुषः सिद्धयै क्षौद्दैः सौभाग्यसिद्धये ॥७५॥
दुग्धैरारोग्यसंसिद्धयै त्रिभिरैश्वर्यसिद्धये ॥ नालिकेरोद कैः प्रीत्यै हिमतोयैरनृपाप्तये ॥
सर्वार्थसिद्धय तौयैरभिषिंचेन्महेश्वरीम्‍ ॥७६॥
पूर्गोद्याने यजेद्देवीं सिद्धद्रव्यैर्दिवानिशम्‍ ॥ निवसंस्तत्र तत्पुष्पैर्जायते मनमथोपमः ॥७७॥
पूर्णासु नियतं देवीं कन्यकायां समर्चयन्‍ ॥ कृत्याः परेरिता मंत्रा विमुखांस्तान्‍ ग्रसंति वै ॥७८॥
लिंगत्रयमयीं देवीं चक्रस्था भिश्व शक्तिभिः ॥ पूजयन्निष्टमखिलं लभतेऽत्र परत्र च ॥७९॥
शतमानकृतैः स्वर्णपुष्पैः सौरभ्यवासितैः ॥ पूजयन्मासमात्रेण प्राग्जन्माद्यैर्वि मुच्यते ॥८०॥
तथा रत्नैश्व नवाभिर्मासं तु यदि पूजयेत्‍ ॥ विमुक्तसर्वपापौघैस्तां च पश्यति चक्षुषा ॥८१॥
अंशुकैरर्चयेद्देवीं मासमात्रं सुगंधिभिः ॥ मुच्यते पापकृत्यादिदुःखौघैरितरैरपि ॥८२॥
देवीरुपं स्वमात्मानं चक्रं शक्तिः समंततः ॥ भावयान्विषयैः पुष्पैः पूजयंस्तन्मयो भवेत्‍ ॥८३॥
षोडशाना तु नित्यानां प्रत्येक तिथयः क्रमात्‍ ॥ तत्तत्तिथौ तद्धजनं जपहोमादिकं चरेत्‍ ॥८४॥
घृतं च शर्करा दुग्धमपूपं कदलीफलम्‍ ॥ क्षौद्रं गुदं नालिकेरफलं लाजा तिलं दधि ॥८५॥
पृथुकं चणकं मुद्रपायसं च निवेदयेत्‍ ॥ कामेश्वर्यादिशक्तिनां सर्वासामापि चोदितम्‍ ॥८६॥
आद्याया ललितायास्तु सर्वाण्येतानि सर्वदा ॥ निवेदयेच्च जुहुयाद्वह्रौ दद्यान्नृणामपि ॥८७॥
तत्तद्विद्याक्षरप्रोक्तमौषधं तत्प्रमाणतः ॥ संपिष्य गुटिकीकृत्य ताभिः सर्वं च साधयेत्‍ ॥८८॥
रविवारेऽरूणांभोजैः कुमुदैः सोमवारके ॥ भौमे रक्तोत्पलैः सौम्ये वारे तगरसंभवैः ॥८९॥
गुरुवारे सुकह्रारैः शुक्रवारे सितांबुजैः ॥ नीलोत्पलैर्मंदवारे पूजयेदिष्टमादरात्‍ ॥९०॥
निवेदयेत्क्रमात्तेषु रविवारादिषु क्रमात्‍ ॥ पायसं दुग्धकदलीनवनीतसिताघृतम्‍ ॥९१॥
एवमिष्टं समाराध्य देवीं गंधादिभिर्यजेत्‍ ॥ ग्रहपीडां विजित्याशु सुखानि च समश्र्नुते ॥९२॥
अर्धरात्रे तु साध्यां स्त्रीं स्स्मरन्मदनवह्रिना ॥ दह्रमानां ह्रतस्वांतां मस्तकस्थापितांजलिम्‍ ॥९३॥
विकीर्णकेशीमालोललोचनामरुणारुणाम्‍ ॥ वायुप्रेंखत्पताकास्थपदा पद्मकलेवराम्‍ ॥९४॥
विवेकविधुरां मत्तां मानलजाभयातिगाम्‍ ॥ चिंतयन्नर्चयेच्चक्रं मध्ये देवीं दिगंबराम्‍ ॥९५॥
जपादाडिमबंधूककिंशुकाद्यैः समर्चयेत्‍ ॥ अन्यैः सुगंधिशेफालीकुसुमाद्यैः समर्चयेत्‍ ॥९६॥
त्रिसप्तरात्रादायाति प्रोक्तरुपा मदाकुला ॥ यावच्छरीरपातः स्याच्छापो वानपगास्य सा ॥९७॥
पद्मैरक्तैस्त्रिमध्वक्तैर्होमाल्लक्ष्मीमवाप्नुयात्‍ ॥ तथैव कैरवै रक्तैरंगनाः स्ववशं नयेत्‍ ॥९८॥
समानरुपवत्सायाः शुल्काया गोः पय पयःप्लुतैः ॥ मल्लिकामालतीजातीशतपत्रैर्हुतैर्भवेत्‍ ॥९९॥
कीर्तिविद्याधनारोग्यसौभाग्यवित्तपादिकम्‍ ॥ आरग्वधप्रसूनैस्तु क्षौद्राक्तैर्हवनाद्धवेत्‍ ॥१००॥
स्वर्णादिस्तंभनं शत्रोर्नृपादीनां क्रुधाऽपि च ॥ आज्याक्तैः करवीरोत्थैः प्रसूनैररुणैर्हुतैः ॥१०१॥
रक्तांबराणि वनिता भूपामात्यवशं तथा ॥ भूषावाहनवाणिज्यसिद्धयश्वास्य वांछिताः ॥१०२॥
लवणैः सर्षपैगौरेरितरैर्वाथ होमतः ॥ सतैलाक्तैर्निशामध्ये त्वानयेद्वांछितां वधूम्‍ ॥१०३॥
तैलाक्तैर्जुहुयात्कृष्ण दरपुष्पैर्निशांतरे ॥ मासादरातेस्तर्तिर्ज्वरेण भवति ध्रुवम्‍ ॥१०४॥
आरुष्करैर्घृताभ्यक्तैस्तद्वीजैर्निशि होमतः ॥ शत्रोर्द्दाव्रणानि स्युर्दुःसा ध्यानि चिकित्सकैः ॥१०५॥
तथा तत्तैलसंसिक्तैबीजैरंकोलकैरपि ॥ मरिचैः सर्षपाज्याकौनशि होमानुसारतः ॥१०६॥
वांछिता वनितां काम ज्वरार्तामानयेद्दुतम्‍ ॥ शालिभिश्वाज्यसंसिक्तैर्होमाच्छालीनवाप्नुयात्‍ ॥१०७॥
मुद्धैर्मुद्धं घृतैराज्यं सिद्धैरित्थं हुतैर्भवेत्‍ ॥ साध्यर्क्षवृक्षसंभूतां पिष्टपा दरजः कृताम्‍ ॥१०८॥
राजीमरीचिलोणोत्थां पुत्तलीं जुहुयान्निशि ॥ प्रपदाभ्यां च जंघाभ्यां जानुभ्यामुरुयुग्मतः ॥१०९॥
नाभेरधस्ताद्धदया द्धिन्नेनाकण्ठतस्तथा ॥ शिरसा च सुतीक्ष्णेन च्छित्वा शस्त्रेण वै क्रमात्‍ ॥११०॥
एवं द्वादशधा होमान्नरनारीनराधिपाः ॥ वश्या भवंति सप्ताहाज्ज्व रार्त्ती श्वास्य वांछया ॥१११॥
पिष्टेन गुडयुक्तेन मरिचैर्जीरकैर्युताम्‍ ॥ कृत्वा पुत्तलिकां साध्यनामयुक्तामथो ह्रदि ॥११२॥
सनामहोमंपातघृते पार्च्यता पुनः ॥ स्पृशाव्रिजकराग्रेण सहस्त्रं प्रजपेन्मनुम‍ ॥११३॥
अभ्यर्च्य तदू घृताभ्यक्तं भक्षयेत्तद्धिया जपन्‍ ॥ नरनारीनृपास्तस्य वश्याः स्युर्मराणावधि ॥११४॥
शक्तयष्टगंधं सांपिष्य कन्यया शिशिरे जले ॥ तेन वै तिलकं भाले धारयन्वशयेज्जगत्‍ ॥११५॥
शालि तंदुलमादाय प्रस्थं भांडे नवे क्षिपेत्‍ ॥ समानवर्णवत्साया रक्ताया गोः पयस्तथा ॥११६॥
द्विगुणं तत्र निक्षिप्य श्रपयेत्संस्कृतेऽनले ॥ घृतेन सिक्त सिक्थं तु कृत्वा तत्ससितं करे ॥११७॥
विधाय विद्यामष्टोर्द्धशतं जस्वा हुनेत्ततः ॥ एवं होमो महालक्ष्मीमावहेत्प्रेतिपत्कृतः ॥११८॥
शुक्रवारेष्वपि तथा वर्षान्नृपसमो भवेत्‍ ॥ पंचगम्यां तु विशेषेण प्राग्वद्धोमं समाचरेत्‍ ॥११९॥
तस्यां तिथौ त्रिमध्वक्तैर्मल्लिकाद्यैः सित्तैर्हु नेत्‍ ॥ अन्नाज्याभ्यां च नियतं हुत्वान्नाढ्यो भवेन्नरः ॥१२०॥
यद्यद्धि वांछितं वस्तु तत्तसर्वं तु सर्वदा ॥ घृतहोमादवाप्नोति तथैव तिलतं दुलैः ॥१२१॥
अरुणैः पंकजैर्होमं कुर्वंस्त्रिमधुराप्लुतैः ॥ मंडलाल्लभते लक्ष्मीं महतीम श्लाघ्यविग्रहाम्‍ ॥१२२॥
कह्रारैः क्षोद्रसंयुक्तैः पूर्णाद्यः तद्दिनावधि ॥ जुहुयान्नित्यशो भक्तया सहर्स्त्रं विकचैः शुभैः ॥१२३॥
स तु कीर्ति धनं पुत्रान्प्राप्नुयान्नात्र संशयः ॥ चंपकैः क्षौद्रसंसिकैः सहस्त्रहवनाद्धुवम्‍ ॥१२४॥
लभते स्वर्णानिष्काणां शतं मासेन नारद ॥ पाटलैर्घृतसंसिक्तैस्त्रिसहस्त्रं हुतैस्तथा ॥१२५॥
दर्शादि मासाल्लभते चित्राणि वसनानि च ॥ कर्पूरचंदनाद्यानि सुगन्धानि तु मासतः ॥१२६॥
वस्तूनि लभते त्दृद्यैरन्यैर्बोगोपयोगिभिः ॥ शालिभिः क्षीरसिक्ताभिः सप्तमीषु शतं हुतम्‍ ॥१२७॥
तेन शालिनसमृद्धिः स्यान्मासैः षड्‌भिरसंशयम‍ ॥ तिलैर्हुतैस्तु दिवसैर्वर्षादारोग्यमाप्नुयात्‍ ॥१२८॥
स्वजन्मर्क्षत्रिषु तथा दूर्वाभिर्ज्जुहुयान्नरः ॥ निरातंको महाभोगः शतं वर्षाणि जीवति ॥१२९॥
गुडूचीतिलदूर्वाभिस्त्रिषु जन्मसु वा हुनेत ॥ तेनायुःश्रीयशोभोगपुण्यनिध्यादिमान्भवेत्‍ ॥१३०॥
घृतपायसदुग्धस्तु हुतैस्तेषु त्रिषु क्रमात्‍ ॥ आयुरारो ग्याविभ्नरिनृपामात्यो भवेत्तथा ॥१३१॥
सप्तम्यां कदलीहोमात्सौभाग्यं लभतेऽन्वहम्‍ ॥ दूर्वात्रिकैस्तु प्रादेशमानैस्त्रिस्वादुसंयुतैः ॥१३२॥
जुहुयाद्दिनशो घोरे सन्निपातज्वरे तथा ॥ तद्दिनेषु जपोद्विद्यां नित्यशः सलिलं स्पृशन्‍ ॥१३३॥
सहस्त्रवारः तत्तोयैः स्त्रानं पानं समाचरेत्‍ ॥ पाकाद्यमपि तैरव कुर्याद्रोगविमुक्तये ॥१३४॥
साध्यर्क्षवृक्षसंचूर्ण त्र्यूषणं सर्षपं तिलम्‍ ॥ पिष्टं च साध्यपादोत्थरजसा च समन्वितम्‍ ॥१३५॥
कृत्वा पुत्तलिका सम्यग्घृदये नामसंयुताम्‍ ॥ प्राग्वच्छित्वायसैस्तीक्ष्णैः शस्त्रैः पुत्तलिकां हुनेत्‍ ॥१३६॥
एवं दिनैः सप्तभिस्तु साध्यो वश्यो भवेद्दढम्‍ ॥ तथाविधां पुत्तलिकां कुंडमध्ये निखन्य च ॥१३७॥
उपर्याग्निं निधायाथ विद्यया दिनशो हुनेत्‍ ॥ त्रिसहस्त्रं त्रिय मायां सर्षपैस्तद्रसाप्लुतैः ॥१३८॥
शतयोजनदूरादप्यानयेद्वनितां बलात्‍ ॥ वशयेद्वनितां होंमात्कौशिकैर्मधुमिश्रितैः ॥१३९॥
नालिकेरफलोपे तैर्गुडैर्लक्ष्मीमवाप्नुयात्‍ ॥ तथाज्यसिक्तैः कह्रारैः क्षीराक्तिररुणोत्पलैः ॥१४०॥
त्रिमध्वक्तैश्वंपकंश्व प्रसूनैर्बकुलोद्धवैः ॥ मधूकजैः प्रसूनैश्व हुतैः कन्यामवाप्नुयात्‍ ॥१४१॥
पुन्नागजैर्हुतर्वस्त्राण्याज्यैरिष्टमवाप्नुयात्‍ ॥ माहिषैर्महिषीराजैरजान्‍ गव्यैश्व गास्तथा ॥१४२॥
अवाप्नोति हुतैराज्यैः रत्नै रत्नं च साधकः ॥ शालिपिष्टमयीं कृत्वा पुत्तलीं ससितां ततः ॥१४३॥
ह्रद्देशन्यस्तनामार्णां पचेत्तैलाज्ययोर्निशि ॥ तन्मनाश्व दिवारात्रौ विद्याजप्तां तु भक्षयेत्‍ ॥१४४॥
सप्तरात्रप्रयोगेण नरो नारी नृपोऽपि वा ॥ दासवद्वशमायाति चित्तप्राणादि चार्पयेत्‍ ॥१४५॥
हयारिपुष्पैंररुणैः सितैर्वा जुहुयात्तथा ॥ त्रिसप्तरात्रान्महतीमवाप्नोति श्रियन्नरः ॥१४६॥
छागमांसैस्त्रिमध्वक्तैर्होमात्स्वर्णमवाप्नुयात्‍ ॥ क्षीराक्तैः सस्यसंपन्नां भुवनाप्नोति मंडलात्‍ ॥१४७॥
पद्मक्षैर्हवनाल्लक्ष्मीमवाप्नोति त्रिभिर्दिनैः ॥ बिल्वैर्दशांशं जुहुयान्मंत्राद्यैः साधने जपे ॥१४८॥
एवं संसिद्धमंत्रस्तु मंत्रित्रैश्चुलुकोदकैः ॥ फणिदष्टमृतानां तु मुखे संताड्य जीवयेत्‍ ॥१४९॥
तत्कर्णयोर्जपन्विद्यां यष्टया वा जपसिद्धया ॥ संताड्य शीर्षं सहसा मृतमुत्थापयेदिति ॥१५०॥
कृत्वा योनिं कुंडमध्ये तत्राग्नौ विधिवद्धुनेत्‍ ॥ तिलसर्षपगोधूमशालिधान्ययवैर्हुनेत्‍ ॥१५१॥
त्रिमध्वक्तैरेकशो वा समेतैर्वा समृद्धये ॥ बकुलैश्वंपकैरब्जैः कह्रारैररुणोत्पलैः ॥१५२॥
कैरवैर्मल्लिकाकुंदमधूकैरिंदिराप्तये ॥ अशोकैः पाटलैर्विल्वै र्जातीविकंकतैः सितैः ॥१५३॥
नवनीलोत्पलैरश्वरिपुजैः कर्णिकारजेः ॥ होमाल्लक्ष्मीं च सौभाग्यं निधिमायुर्यशो लभेत्‍ ॥१५४॥
दूर्वां गुडूचीमश्वत्थं वटमारग्वधं तथा ॥ सितार्कप्लक्षजं हुत्वा चिरान्मुच्येत रोगतः ॥१५५॥
इक्षुजंबूनालिकेरमोचागुडसितायुतैः ॥ अचलां लभते लक्ष्मीं भोक्ता च भवति ध्रुवम्‍ ॥१५६॥
सर्षपाज्यैर्हुते मृत्युः काष्ठाग्नौ वैरिमृत्यवे ॥ चतुरंगुलजैर्होमाच्चतुरंगबले रिपोः ॥१५७॥
सप्ताहाद्रोगदुःखार्तिर्भवत्येव न संशयः ॥ नित्यं नित्यार्चनं कुर्यात्तथा होमं घृतेन वै ॥१५८॥
विद्याभिमंत्रितं तोयं पिबेत्प्रातस्तदाप्तये ॥ चंदनोशीरकर्पूरकस्तूरीरोचना न्वितैः ॥१५९॥
काश्मीरकालागुरुभिर्मृगस्वेदमयैरपि ॥ पूजयेच्च शिवामेतैर्गंधेः सर्वार्थसिद्धये ॥१६०॥
सर्वाभिरपि नित्याभिः प्रातर्मातृकया समम्‍ ॥ त्रिजप्ताभिः पिबेत्तोयं तथा वाकिसद्धये शिवम्‍ ॥१६१॥
विदध्यात्साधनं प्राग्वद्वर्णलक्षं पयोव्रतः ॥ त्रिस्वादुसिक्तैररुणैरंबुजैर्हवनं चरेत्‍ ॥१६२॥
जपतर्पणहोमार्चासेकसिद्धमनुर्नरः ॥ कुर्यादुक्तान्र्पयोगांश्व न चेत्तन्मनुदेवताः ॥१६३॥
प्राणांस्तस्य ग्रसंत्येव कुपितास्तत्क्षणान्मुने ॥ अनया विद्यया लोके यदसाध्यं न तत्क्कचित्‍ ॥१६४॥
अरण्यवटमूले च पर्वताग्रगुहासु च ॥ उद्यानमध्यकांतारे मातृपादपमूलत्‍ ॥१६५॥
सिंधुतीरे वने चैता यक्षिणी साधयेन्नरः ॥ कमलैः कैरवे रक्तैः सितैः सौगंधिकोत्पलेः ॥१६६॥
सुगंधिशेफाअलिकया न्निमध्वक्तैर्यथाविधि ॥ होमात्सप्तसु वारेषु तन्मंडलात्‍ एव वै ॥१६७॥
विजयं समवाप्नोति समरे द्वंद्वयुद्धके ॥ मल्लयुद्धे शस्त्रयुद्धे वादे द्यूताह्रयेऽपि च ॥१६८॥
व्यवहारेषु सर्वेत्र जयमाप्नोति निश्चितम्‍ ॥ चतुरंगुलजैः पुष्पैर्होमात्संस्तंभयेदरीन्‍ ॥१६९॥
तथैव कर्णिकारोत्थैः पुन्नागोत्थैर्नमेरुजैः ॥ चंपकैः केतकै राजवृक्षजैर्माधवोद्धवैः ॥१७०॥
प्राग्वद्दारेषु जुहुयात्क्रमात्पुष्पैस्तु सप्तभिः ॥ प्रोक्तेषु स्तंभनं शत्रोर्भंगो वा भवति ध्रुवम्‍ ॥१७१॥
शत्रोर्नक्षत्रवृक्षाग्नौ तत्समिद्धिस्तु होमतः ॥ सर्षपाज्यप्लुताभिस्ते प्रणमंत्येव पादयोः ॥१७२॥
मृत्युकाष्ठानले मृत्युपत्रपुष्पफलैरपि ॥ समिद्धिर्जुहुयात्सम्यग्वारेशार्चनपूर्वकम्‍ ॥१७३॥
अरातेश्वतुरंगं तु बलं रोगार्द्दितं भवेत्‍ ॥ तेनास्य विजयो भूयान्निधनेनापि वा पुनः ॥१७४॥
अर्कवारेऽर्कजैरिध्मैः समिद्धेऽग्नौ तदुद्धवैः ॥पत्रैः पुष्पैः फलैः काण्डेर्मूलैश्चापि हुनेत्क्रमात्‍ ॥१७५॥
सवर्णारुणवत्साया घृतसिक्तैस्तु मण्डलात्‍ ॥ अरातिदिङ्‌मुखो भूत्वा कुंडे त्र्यस्त्रे विधानतः ॥१७६॥
पलायते वा रोगार्तः प्रणमेद्वा भयान्वितः ॥ पलाशेध्मानले तस्य पंचांगैस्तद्‌घृताप्लुतैः ॥१७७॥
होमेन सोमवारे च भवेत्प्राग्वन्न संशयः ॥ खादिरेध्मानले तस्य पंचांगैस्तद्‌घृताप्लुतैः ॥१७८॥
वारे भौमस्य हवनात्तदाप्नोति मुनिश्वितम्‍ ॥ अपामार्गस्य सौम्येऽह्री पिप्पलस्य गुरोर्दिने ॥१७९॥
उदुंबरस्य भृगुजे शम्या मांदेऽह्री गोघृतैः ॥ शुभ्रपीतासितश्यामवर्णाद्याः पूर्वत्तथा ॥१८०॥
तत्फलं समवाप्नोति तत्समिद्देपितेऽनले ॥ प्रतिपत्तिथि मारभ्य पंचम्यंतं क्रमेण वै ॥१८१॥
शालीचणकमुद्धैश्व यवमाषैश्व होमतः ॥ माहिषाज्यप्लुतैस्ताभिस्तिथिभिः समवाप्नुयात्‍ ॥१८२॥
षष्ठ्यादिसप्तम्यंतं तु चाजाभवघृतैस्तथा ॥ प्रागुक्तैर्निस्तुषैर्होमात्प्रागुक्तफलमाप्नुयात्‍ ॥१८३॥
तदूर्द्धं पंचके त्वेतैः समस्तैश्व तिलद्वयैः ॥ सितान्नैः पायसैः सिक्तैरावि कैस्तु घृतैस्तथा ॥१८४॥
हवनात्तदवाप्नोति यदादौ फलमीरितम्‍ ॥ एवं नक्षत्रवृक्षोत्थवह्रौ तैस्तैर्मधुप्लुतैः ॥१८५॥
हवनादपि तत्प्रप्तिर्भवत्येव न संशयः ॥ विद्यां संसाध्य पूर्वं तु पश्वादुक्तानशेषतः ॥१८६॥
प्रयोगान्साधयेद्धीमान्‍ मंगलायाः प्रसादतः ॥ संपूज्यं देवतां विप्रकुमारीं कन्यका तु वा ॥१८७॥
सशुभावयवां मुग्धां स्त्रातां धौतांबरां शुभाम्‍ ॥ तथाविधं कुमारं वा संस्थाप्याभ्यर्च्य विद्यया ॥१८८॥
स्पृष्टशीर्षो जपेद्विद्यां शतवारं तथार्चयेत्‍ ॥ प्रसूनैररुणैः शुभ्रैः सौरभाढ्यैरथापि वा ॥१८९॥
दद्याद्वग्ग्गुलधूपं च यावत्कर्मावसानकम्‍ ॥ ततो समाविष्टे तस्मिन्संपूज्य भक्तितः ॥१९०॥
ततस्तामुपचारैस्तैः प्रागुक्तौंर्विद्यया व्रती ॥ प्रजपंस्तां ततः पृच्छेदभीष्टं कथयेच्च सा ॥१९१॥
भूतं भवद्धविष्यं च यदन्यन्मनसि स्थितम्‍ ॥ जन्मांतराण्यतीतानि सर्वं सा पूजिता वदेत्‍ ॥१९२॥
ततस्तां प्राग्वदभ्यर्च्य स्वात्मन्युद्वास्य तां जपेत्‍ सहस्त्रवारं स्थिरधीः पूर्णात्मा विचरेत्सुखी ॥१९३॥
मधुरत्रयसंसिक्तैररुणैरंबुजैः श्रियम्‍ ॥ प्राप्नोति मंडलं होमात्सितैस्तैश्व महद्यशः ॥१९४॥
क्षौद्राक्तैरुत्पलै रक्तैर्हवनात्प्रोक्तकालतः ॥ सुवर्णं समवान्पोति निधिं वसुधाम तु वा ॥१९५॥
क्षीराक्तैः कैरवेर्होमात्प्रोक्तं काममवाप्नु यात्‍ ॥ धान्यानि विविधान्याशु सुभगः स भवेन्नरः ॥१९६॥
आज्याक्तैरुत्पलैर्होमाद्वामाद्वांछितं समवाप्नुयात्‍ ॥ तदक्तैरपि कह्रारैर्हवनाद्राज्वल्लभः ॥१९७॥
पलाशपुष्पैस्त्रिस्वादुयुक्तैस्तत्कलाहोमतः ॥ चतुर्विधं तु पांडित्यं भवत्येव न संशयः ॥१९८॥
लाजैस्त्रिमधुरोपेतैस्तत्कालहवनेन वै ॥ कन्यकां लभते पत्नीं समस्तगुणसंयुताम्‍ ॥१९९॥
नालिकेरफलक्षोदं सासितं सगुडं तु वा ॥ क्षौद्राक्षं जुहुयात्तद्वदयत्नाद्धनदोपमः ॥२००॥
तथैवान्नाज्यहोमेन सतंदुलतिलैरपि ॥ प्रसूनैररुणैस्तद्वत्तथा ॥ बंधूकसंभवैः ॥२०१॥
सितैः प्रसूनर्वाक्सिद्धिं हवनात्समवाप्नुयात्‍ ॥ सितरक्तैस्तु मिलितैरायुरारोग्यमाप्नुयात्‍ ॥२०२॥
दूर्वात्रिकैस्त्रिमध्वक्तैर्हवनात्तु जयेच्च तान्‍ ॥ तथा गुडूच्या होमेन पायसेन तिलेन च ॥२०३॥
श्रीखंडपंक कर्पूरमिलितैः शतपत्रकैः ॥ ॥ हवनाच्छ्रियमाप्नोति यावदन्वयगा भवेत्‍ ॥२०४॥
कुंकुमं हिमतोयेन पिष्ट्रा कर्पूरसंयुतम्‍ ॥ तत्पंक मार्द्दितैर्होमात्कह्रारैर्विकचैः सुमैः ॥२०५॥
राजकल्पः श्रिया भूयाज्जीवेद्वर्षशतं भुवि ॥ निःसपत्नो निरातंको निर्द्वंदो निर्मलाशयः ॥२०६॥
इक्षुकांडस्य शकलैर्हवनाद्वस्त्रमाप्नुयात्‍ ॥ तथैव करवीरोत्थैः प्रसूनैररुणैः सितैः ॥२०७॥
क्षौद्राक्तैः पाटलापुष्पैर्हवनाद्वशयेद्वधः ॥ तथैव पंकजै र्होमाद्रूपाजीवां वंश नयेत्‍ ॥२०८॥
सरुपवत्सासितगोक्षीराक्तसितहोमतः ॥ लभतेऽनुपमां लक्ष्मीमपि पापिष्ठचेतनः ॥२०९॥
सौवीराक्तै स्तु कार्पासबीजस्तत्कालहोमतः ॥ अर्द्धेन्दुकुंडे नियतं वशगा रिपवो मुने ॥२१०॥
अरिष्टपत्रैस्तद्वीजैस्तद्वह्रौ तैस्तथा हुतैः ॥ मृत्युबीजैर्निम्ब तैलसिक्तैर्होमान्निहंति तान्‍ ॥२११॥
रोगार्तांस्तुरगांस्तद्वत्पंचगव्यैर्हुतैर्धुवम्र ॥ अक्षबीजैस्तु तैलाक्तैर्होमः सर्वविनाशनः ॥२१२॥
करंजबीजैः संसिक्तैर्होमाद्वैरी पिशाचवान्‍ ॥ तथैवाक्षतरुद्रूतपंचांगहवनादपि ॥२१३॥
निंबतैलान्वितैरक्षद्रुमबीजैस्तु होमतः ॥ तद्दिने स्यादपस्मारी वैरी भवति निश्चितम्‍ ॥२१४॥
अरातेर्जन्मनक्षत्रवृर्क्षेधनगतेऽनले ॥ तद्योनिपिशितैस्तैश्व हवनान्मृत्युकृद्रिपोः ॥२१५॥
पद्माक्षबीजैः सर्षप तैलाक्तर्हवनात्तथा ॥ जायंते वैरिणः कुष्ठरोगा देहविलोपकाः ॥२१६॥
मार्रचैः सर्षपैर्होमात्तैलाक्तैर्मध्यराजके ॥ दाहज्वरेण ग्रस्तः स्यादरी तिस्तद्दिने ध्रुवम्‍ ॥२१७॥
एवं निग्रहहोमेषु स्वरक्षायै तथान्वहम्‍ ॥ स्निग्धैः संप्राप्तसद्विद्यैर्जपहोमादि कारयेत्‍ ॥२१८॥
मृत्युंजयेन वा तत्तत्प्रयोगस्थाभिरेव वा ॥ विद्याभिरन्यथासिद्धमंत्रमस्याशु नाशयेत्‍ ॥२१९॥
लक्षत्रयं कृते प्रोक्तं त्रेतायां द्विगुणं तथा ॥ त्रिगुणं प्रोक्तं कलौ तत्तु चतुर्गुणम्‍ ॥२२०॥
दशांश हवनं कार्यं तर्पणं तद्द्शांशतः ॥ तद्दशांशं मार्जनं स्पाद्दशांशं द्विजभोजनम्‍ ॥२२१॥
एवं क्रमेण सर्वासा या या संख्या जपस्य सा ॥ कार्या सिद्धयै तु विद्यायास्ततः कुर्यात्प्रयोगकान्‍ ॥२२२॥
द्विगुणी हि जपः कार्यः कामेश्वर्यां मुनीश्वर ॥ सिद्धे मंत्रे प्रयोगांस्तु विदधीत यथा तथा ॥२२३॥
जपो लक्षं समाख्यातो होमादिस्तद्दशांशतः ॥ कर्तव्यो भगमालाया विद्यासिद्धयै मुनीश्वर ॥२२४॥
नित्याक्लिन्नाजपः प्रोक्तो लक्षं होमो दशांशतः कार्यः सिद्धयै तु विद्यायाः प्रयोगान्साधयेत्ततः ॥२२५॥
ततो मौनी पयोभक्षः प्रजपेन्नवलक्षकम्‍ ॥ भेरुंडामन्त्रमुक्तं तु शेषं कुर्यात्प्रयत्नतः ॥२२६॥
लक्षत्रयं जपो वह्रिवासिन्याः समुदीरितः ॥ अन्यत्सर्वंपुरा वच्च कार्य्यं साधकसत्तमैः ॥२२७॥
महावज्रेश्वरीविद्याजपो लक्षत्रयो मतः ॥ हवनादि दशांशेन कार्यं प्रोक्तक्रमेण हि ॥२२८॥
अतंद्रितो जपेल्लक्षमितं दूतीमनुं मुने ॥ तद्दशांशक्रमेणैव होमादिः प्रोक्तमार्गतः ॥२२९॥
त्वरितां प्रजपेल्लक्षप्रमितां तद्दशांशतः ॥ कृत्वा होमादिकं सर्वं विद्यासिद्धियै मुनीश्वरः ॥१३०॥
जपो लक्षं समाख्यातो होमादिस्तद्दशांशथ ॥ विद्यायाः कुलसुन्दर्याः कर्तव्यो द्विजसत्तम्‍ ॥२३१॥
नित्यानित्याजपो विप्रत्रिलक्षप्रमितो मतः ॥ होमादिस्तद्दशांशेन प्रोक्तः प्रोक्तविधानतः ॥२३२॥
त्रिपञ्चाशल्लक्षमुक्तो नियमेन मुनीश्वरे ॥ जपो नित्यपताकाया होमादिस्त द्दशांशतः ॥२३३॥
विजयाया जपः प्रोक्तो लक्षमानेन नारद ॥ अन्यत्पूर्ववदाख्यांत विद्यासिद्धयै तु साधनम्‍ ॥२३४॥
दन्तलक्षप्रमाणेन सर्वमंगलिका जपेत्‍ ॥ तद्दशांशक्रमेणैव होमादि समुदीरितम्‍ ॥२३५॥
अष्टलक्षं हविष्याशी ज्वालामालिनिकां जपेत्‍ ॥ होमादिस्तद्दशांशेन प्रोक्तद्रव्यैः समीरितः ॥२३६॥
चित्राया भूपलक्षं तु जपो होमादिकस्ततः ॥ प्रोक्तेन विधिना कार्यो विद्यासिद्धयै मुनीश्वर ॥२३७॥
एतत्संक्षेपतः प्रोक्तं नित्यापटलमादितः ॥ ज्ञातव्यं सर्वमेवात्र यन्त्रसाधनपूर्वकम्‍ ॥२३८॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे नित्यापटलकथनं नाम नवतितमोऽध्यायः ॥९०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T04:44:46.4300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

main case which is under issue

  • पाटवले जात असलेले मुख्य प्रकरण 
RANDOM WORD

Did you know?

जुळी मुले झाली असतां शांति करावी काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site