TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
द्विपञ्चाशत्तमोऽध्यायः

श्री नारदीयमहापुराणम् - द्विपञ्चाशत्तमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


द्विपञ्चाशत्तमोऽध्यायः
सनंदन उवाच ॥
अथ व्याकरणं वक्ष्ये संक्षेपात्तव नारद ॥ सिद्धरुपप्रंबधेन मुखं वेदस्य सांप्रतम्‍ ॥१॥
सुप्तिङ्‍तं पदं सुपां सप्त विभक्तयः ॥ स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ॥२॥
संबोधने च लिंगादावुक्ते कर्मणि कर्तरि ॥ अर्थत्प्रातिपादिकं धातुप्रत्यव्यवर्जितम्‍ ॥३॥
अमौसशी द्वितीया स्यात्तत्कर्मं क्रियते च यत ॥ द्वितीया कर्मणि प्रोक्तान्तरांतरेण संयुते ॥४॥
टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता ॥ येन क्रियते तत्करणं सः कर्ता स्यात्करोति यः ॥५॥
ङेभ्यांभ्यसश्वतुर्थी स्यात्संप्रदाने च कारके ॥ यस्मै दित्सा धारयेद्वै रोचते संप्रदानकम्‍ ॥६॥
पंचमी स्यान्ङसिभ्यांग्यो ह्यपादाने च कारके ॥ यतोऽपैति समादत्ते अपदत्ते च यं यतः ॥७॥
ङ्सोसामश्व षष्ठी स्यात्स्वमिसंबंधमुख्यके ॥ ङ्योस्सुपः सप्तमी तु स्यात्सा चाधिकरणे भवेत्‍ ॥८॥
आधाए चापि विप्रेंद् रक्षार्थानाम प्रयोगतः ॥ ईत्सितं चानीप्सितं यत्तदपादानकं स्मृतम्‍ ॥९॥
पंचमी पर्यपाङ्योगे इतरर्तेऽन्यदिङ्‍मुखे ॥ एतैर्योगे द्वितीया स्यात्कर्मप्रवचनीयकैः ॥१०॥
लक्षणेत्थंभूतोऽभिरभागे चानुपरिप्रति ॥ अंतरेषु सहार्थे च हनि ह्युपश्व कथ्यते ॥११॥
द्वितीया च चतुर्थी  स्याच्चेष्टायां गतिकर्मणि ॥ अप्राणिषु विभक्ति द्वे मन्यकर्मण्यनादरे ॥१२॥
नमःस्वस्तिस्वधास्वहालंवषड्योग ईरिता ॥ चतुर्थी चैव तादर्थ्ये तुमर्थाद्धाववाचिनः ॥१३॥
तृतीया सहयोगे स्यात्कुत्सितेंऽगे विशेषणे ॥ काले भावे सप्तमी स्यादेर्योगे च षष्ठयपि ॥१४॥
स्वामीश्वराधिपतिभिः साक्षिदायासूतकैः ॥ निर्धारणे द्वे विभक्ति षष्ठी हेतुप्रयोगके ॥१५॥
स्मृत्यर्थकर्मणि तथा करोतेः प्रतिय नके ॥ हिंसार्थानां प्रयोग च कृतिकर्मणि कर्तरि ॥१६॥
न कर्तृकर्मणोः षष्ठी निष्ठादिप्रतिषादिका ॥ एता वै द्विविधा ज्ञेयाः सुबादिषु विभक्तिषु ॥ भूवादिषु तिडतेषु लकारा दश वै स्मृताः ॥१७॥
तिप्तसंतीति प्रथमो मध्यमः सिपूथस्थोत्तमः ॥ मिव्वस्मसः परस्मै तु पादानां चा मपनेदम्‍ ॥१८॥
त आतें‍ऽते प्रथमो मध्यःसे आथे ध्वे तथोत्तमः ॥ ए वहे मह आदेशा ज्ञेया ह्यान्ये लिङादिषु ॥१९॥
नाम्नि प्रयुज्यमाने तु प्रथमः भवेत्‍ ॥ मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मद ॥२०॥
भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः ॥ लडीरितो वर्तमाने भूतेऽनद्यतने तथा ॥२१॥
मास्मयोगे च लङ्‌ वाच्यो लिडाशिषि च धातुतः ॥ विध्यादौ स्यादाशिषि च लिङितो द्विविधो मुने ॥२२॥
लिडतीते परोक्षे स्यात्‍ श्वस्तने लुङू भविष्यति ॥ स्यादनद्यतने लूट च भविष्यति तु धातुतः ॥२३॥
भूर्तं लुङ्‌ तिपस्यपौ च क्रियायां लृङ्‍ प्रकीर्तितः ॥ सिद्धोदाहरणं विद्धि संहितादिपुःसरम्‍ ॥२४॥
दंडाग्रं च दधीदं च मधूदकं पित्रर्षभः ॥ होतकारस्तथा सेयं लांगलीषा मनीषया ॥२५॥
गंगोदकं तवल्कार ऋणार्णं मुनीश्वर ॥ शीतार्तश्व मुनिश्रेष्ठ सेंद्रः सौकार इत्यपि ॥२६॥
वध्वासनं पित्रर्थो नायको लवणस्तथा ॥ त आद्या विष्णव ह्यत्र तस्मा अर्घो गुरा अधः ॥२७॥
हरेऽव विष्णोऽवेत्येषादसोमादप्यमी अघाः ॥शौरी एतौ विष्णू इमौ दुर्गे अमू नो अर्जुनः ॥२८॥
आ एवं च प्रकृत्यैतं तिष्ठंति मुनिसत्तम॥ षडत्र षण्मातश्व वाक्छुरो वाग्घरिया ॥२९॥
हरिशशंते विभुश्विंत्यस्तच्छेषो यच्चरस्तथा ॥ प्रश्रस्त्वथ हरिष्षष्ठः कृष्णष्टीकत इत्यापि ॥३०॥
भवान्षष्ठश्व षट्‌ सन्तः षट्ते तल्लेप एव च ॥ चक्रिंश्छिंघि भवाञ्छौर्भवाञ्शौरीरित्यपि ॥३१॥
सम्यङ्‍ङनंतोंगच्छाया कृष्णं वंदे मुनीश्वर ॥ तेजांसि मंस्यते गङा हरिश्छेता मरश्शिवः ॥३२॥
राम काम्यः कृप पूज्यो हरिः पूज्योऽर्च्य एव हि ॥ रामो दृष्टोऽबला अत्र सुप्ता इष्टा इमा यतः ॥३३॥
विष्णुर्नम्यो रविरयं गी फलं प्रातरच्युतः ॥ भकैर्वंद्योऽप्यंतरात्मा भो भो एष हरिस्तथा ॥ एष शार्ङी सैषः संहितैवं प्रकीर्तिता ॥३४॥
रामेणाभिहितं करोमि सततं रांम भजे सादरम्‍ ॥ रामेणापह्यतं समस्तदुरितं रामाय तुभ्यं नमः ॥ रामान्मुक्तिमभीत्सिता मम सदा रामस्य दासोऽस्म्यहम्‍ ॥ रामे रंजत मे मनः सुविशदं हे राम तुभ्यं नमः ॥३५॥
सर्व इत्यादिकां गोपाः सखा चैव पतिर्हरिः ॥३६॥
सुश्रीर्भानुः स्वयंभूश्व कर्ता रौ गौस्तु नौरिति ॥ अनङान्गोधुग्लिट्‍ च द्वे त्रयश्वत्वार एव च ॥३७॥
राजा पंथास्तथा दंडी ब्रह्महा पंच चाष्ट च ॥ अष्टौ अयं मुने सम्राट सविभ्रद्वपुडमनः ॥३८॥
प्रत्यङ्‍ पुमान्महान्‍ धीमान्‍ विद्वान्षट्‌ पिपठीश्व दोः ॥ उशनासाविमे पुंसि स्युरक्तलविरामकाः ॥३९॥
राधा सर्वा गतिर्गोपी स्त्री श्रीर्धेनुर्वधूः खसा ॥ गौर्नौरुपान द्‌द्यौर्गौः क्षुत्‍ ककुप्संवित्तु वा क्कचित्‍ ॥४०॥
रुग्विवडुद्धाः स्त्रियास्तपः कुलं सोमपमक्षि च ॥ ग्रामण्यंबुखलप्वेवं कर्तृ चातिरि वातिनृ ॥४१॥
खनडुच्च विमलद्यु वाश्वत्वारीदमेव च ॥ एतद्द्धह्याहश्व दंडी असृक्किंचित्त्यदादि च ॥४२॥
एतद्वे भिद्धवाक्‍गवाङ्‌ गोअक्‍ गोङ्‌गोक्‍ गोङ्‍ ॥ तिर्यग्यकृच्छकृच्चैव ददद्धवत्पत्तुदत्‍ ॥४३॥
दीव्यद्धनुश्व पिपठीः पयोऽदःसुपुमांसि च ॥ गुणद्रव्य क्रियायोगांस्त्रिलिंगांश्व कति ब्रुवे ॥४४॥
शुक्तः कीलालपाश्वैव शुचिश्व ग्रामणीः सुधीः ॥ पटुः स्वयंभूः कर्ता च माता चैव व पिता च ना ॥४५॥
सत्यानाग्युस्तथा पुंसो मतभ्रमरदीर्घपात ॥ धनाकृसोमौ चागर्हस्ताविर्ग्रथास्वर्णन्बहू ॥४६॥
रिमपव्विषाद्वंद्वजातानहो तथा सर्वं विश्वोभये चोभौ अन्यांतरेतराणि च ॥४७॥
उत्तरश्वोत्तमो नेमस्त्वसमोऽथ समा इषः ॥ पूर्वोत्तरोत्तराश्वैव दक्षिणश्वोत्तराधरौ ॥४८॥
अपरश्वतुरोऽप्येतद्यावत्तत्किमसौ द्वयम्‍ ॥ युष्मदस्मच्च प्रथमश्वरमोल्पस्तथार्धकः ॥४९॥
नोरः कतिपयो द्वे च त्रयो शुद्धादयस्तथा ॥ स्वेकाभुविरोधपरि विपर्ययश्वाव्ययास्तथा ॥५०॥
तद्धिताश्वाप्यपत्यार्थे पांडवाः श्रैधरस्तथा ॥ गाग्यौ नाडायनात्रेयौ गांगेयः पैतृष्वस्त्रीयः ॥५१॥
देवतार्थे चेदमर्थे हौद्रं ब्राह्यो हविर्बली ॥ क्रियायुजोः कर्मकर्त्रोर्धौरेयः कौङ्कमं तथा ॥५२॥
भवाद्यर्थे तु कानीनः क्षत्रियो वैदिकः स्वकः ॥ स्वार्थे चौरस्तु तुल्यार्थे चंद्रवन्मुखमीक्षते ॥५३॥
ब्राह्मणत्व्म ब्राह्मणता भावे ब्राह्मण्यमेव च ॥ गोमान्धनी च धनवानस्त्यर्थे प्रमितौ कियान्‍ ॥५४॥
जातार्थे तुंदिलः श्रद्धालुरौन्नत्त्ये तु दंतुरः ॥ स्त्रग्वी तपस्वी मेधावी मायाव्यस्त्यर्थे एव च ॥५५॥
वाचालश्वैव वाचाटो बहुकुत्सितभाषिणी ॥ ईषदपरिसमाप्तौ कल्पब्देशीय एव च ॥५६॥
कविकल्पः कविदेश्यः प्रकारवचने तथा ॥ पटुजातीयः कुत्सायां वैद्यपाशः प्रशंसने ॥५७॥
वैद्यरुपो भूतपूर्वे मतो दृष्टचरो मुने ॥ प्राचुर्यादिष्वन्नमयो मृण्मयः श्रीमयस्तथा ॥५८॥
जातार्थे लज्जितोऽत्यर्थे श्रेयाञ्छ्रेष्ठश्व नारद ॥ कृष्णतरः शुल्क तमः किम आख्यानतोऽव्ययान्‍ ॥५९॥
किंतरां चैवातितरामभिह्युच्चैस्तरामपि ॥ परिमाणे जानुदघ्नं जानुद्वयसमित्यपि ॥६०॥
जानुमात्रं च निर्द्धारे बहूनां च द्वयोः क्रमात्‍ ॥ कतः कतरः संख्येयविशेषावधारने ॥६१॥
द्वितीयश्व तृतीयश्व चतुर्थः षष्ठपंचमौ ॥ एकादशः कतिपयः कतिथः कति नारद ॥६२॥
विंशश्व विंशतितमस्तथा शततमादयः ॥ द्वेधा द्विधा संख्या प्रकारेऽथ मुनीश्वर ॥६३॥
क्रियावृत्तौ पंचकृत्तौ पंचकृत्वो द्विस्त्रिर्बहुश इत्यपि ॥ द्वितयं त्रितयं चापि संख्यायां हि द्वयं त्रयम्‍ ॥६४॥
कुटीरश्व शमीरश्व शुंडारोऽल्पार्थके मतः ॥ स्त्रैणः पौष्णिस्तुंडिभश्व वृंदारककृषी वलौ ॥६५॥
मलिनो विकटो गोमी भौरिकीविधमुत्कटम्‍ ॥ अवटीटोवनाटे निबिडं चेक्षुशाकिनम्‍ ॥६६॥
निबिरीसमेषुकारी  वित्तोविद्याच्चणस्तथा ॥ विद्याचुंचुर्बहुतिथं पर्वतः शृगिणस्तथा ॥६७॥
स्वामी विषमरुप्यं चोपत्यकाधित्यका तथा ॥ चिल्लश्व चिपिटं चिक्कं वातूलः कुतपस्तथा ॥६८॥
वल्लभ हिमेलुश्व कहोड्श्वोपडस्ततः ॥ ऊर्णायुश्व मरुतश्वैकाकी चर्मण्वती तथा ॥६९॥
ज्योत्स्त्रा तमिस्त्राऽष्ठीवच्च कक्षीवघ्रर्मण्वती ॥ आसंदी वच्च चक्रीवत्तूष्णीकां जल्पतक्यपि ॥७०॥
कंभश्व कंयुः कंवश्व नारदकेतिः कंतुः कंतकंपौ शंकस्तथैव च ॥ शंतः शंतिः शंयशंतौ शयोदंयुः शुभंयुवत्‍ ॥७१॥
भवति बभूव भविता भविष्यति भवत्वहवद्धवेच्चापि ॥७२॥
भूयादभूदभविष्यल्लादावेतानि रुपाणि ॥ अत्ति जघासात्तात्स्य त्यत्त्वाददघाद्दिरघसदात्स्यत्‍ ॥७३॥
जुहोति जुहाव जुहवांचकार होता होष्यति जुहोतु ॥ अजुहोज्जुहुयाद्धयादहौषीदहोष्यद्दीव्यति ॥ दिदेव देविता देविष्यति च अदीव्यद्दीव्यद्दीव्याद्वै ॥७४॥
अदेवीददेवीष्यत्सुनोति सुषाव सोता सोष्यति वै ॥ सुनोत्वसुनोत्सुनुयात्सूयादशावीदसोष्युत्तदति च ॥७५॥
तुतोद तोत्ता तोत्स्यति तुदत्वतुदत्तुदेत्तुद्याद्धि ॥ अतौत्सीदतोत्स्यदिति च रुणद्धि रुरोध रोद्धा रोत्स्यति वै ॥७६॥
रुणद्धु अरुणद्रुध्यादरौत्सीदरोत्स्यच्च ॥ तनोति ततान तनिता तनिष्यति तनोत्वनोतनुयाद्धि ॥७७॥
अतनीच्चातानीदतनिष्यत्क्रीणाति चिक्राय क्रेता क्रेष्याति क्रीणात्वति चा ॥ अक्रीणात्क्रीयात्क्रीयादक्रैषीदक्रेष्यच्चोरयति चोरयिता चोरयिष्यति चोरयतु ॥७८॥
अचोरयच्चोरयेच्चो र्यात्‍ अचूचुरदचोरिष्यादित्येवं दश वै गणाः ॥ प्रयोजके भावयति सनीच्छायां बुभूषतिः क्रियासमभिहारे तु पंडितो बोभूयते मुने ॥७९॥
तथा यङ्‌लिकि बोभवीति च पठ्यते ॥ पुत्रीयतीत्यात्मनीच्छायां तथाचारेऽपि नारद ॥ अनुदात्तञितो धातोः क्रियाविनिमये तथा ॥८०॥
निविशादेस्तथा विप्र विजानीह्या त्मनेपदम्‍ ॥ परस्मैपदमाख्यातं शेषात्कर्तरि शाब्दिकैः ॥८१॥
ञित्स्वरितेतश्व उभे यक्च स्याद्धाकर्मणोः। सौकर्यातिशय्म चैव यदा द्योतयितुं मुने ॥८२॥
विवक्ष्यते न व्यापारो लक्ष्ये कर्तुस्तदापरे ॥ लभंते कर्तुतां पश्य पच्यते ह्योदनः स्वयम्‍ ॥८३॥
साधु वासिश्छिनत्त्येवं स्थाली पचति वै मुने ॥ धातोः सकर्मकाद्धावे कर्मण्यपि लप्रत्ययाः ॥८४॥
तस्मै वाकर्मकाद्विप्र भावे कर्तरि कीर्तितः ॥ फलव्यापरयोएकनिष्ठतायामकर्मकः ॥८५॥
धातुस्तयोर्द्धर्भिभेदे सकर्मक उदाह्रतः ॥ गौणे कर्मणि द्रुह्यादेः प्रधाने नीह्यकृष्वहाम्‍ ॥८६॥
बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥ प्रयोज्य कर्मण्यन्येषां ण्यंतानां लादयो मताः ॥८७॥
फलव्यापारयोर्द्धातुराश्रय तु तिडः स्मृताः ॥ फले प्रधानं व्यापारस्तिडःर्थस्तु विशेषणम्‍ ॥८८॥
एधितव्यमेधनीयमिति कृत्ये निदर्शनम्‍ ॥ भावे कर्मणि कृत्याः कर्तरि कीर्तिताः ॥८९॥
कर्ता कारक इत्याद्या भूते भूतादि कीर्तितम्‍ ॥ गम्यादिगम्ये निर्दिष्टं शेषमद्यतने मतम्‍ ॥९०॥
अधिस्त्रीत्यव्ययीभावे यथाशक्ति च कीर्तितम्‍ ॥ रामाश्रितस्तत्पुरुषे धान्यार्थो यूपदारु च ॥९१॥
व्याघ्रभी राजपुरुषोऽक्षशौंडो द्विगुरुच्यते ॥ पंचगवं दशग्रामी त्रिफलेति तु रुढितः ॥९२॥
नीलोत्पलं महाषष्ठीं तुल्यार्थे कर्मधारयः ॥ अब्राह्यणो न ञि प्रोक्तः कुंभकारादिकः कृता ॥९३॥
अन्यार्थे तु बहुव्रीहौ ग्रामः प्राप्तोदको द्विज ॥ पंचगू रुपवद्धार्यो मध्याह्रः ससुतादिकः ॥९४॥
समुच्चये गुरुं चेशं भजस्वान्वाचये त्वट ॥ भिक्षामानय गां चापि वाक्यमेवानयोर्भवेत्‍ ॥९५॥
इतरेतरयोगे तु रामकृष्णौ समाह्रतौ ॥ रामकृष्णं द्विज द्वे द्वे ब्रह्म चैकमुपास्यते ॥९६॥
इति श्रीबृहन्नारदीरपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे व्याकरणनिरुपणं नाम द्विपञ्चाशत्तमोऽध्यायः ॥५२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:23:18.1200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

PARVATA I(पर्वत)

  • A sage who was the nephew of Nārada.
    1) Genealogy.
    Descending in order from Viṣṇu-- Brahmā--Marīci--Paurṇamāsa--Parvata. Prajāpati Marīci got of his wife Sambhūti a son named Paurṇamāsa. Paurṇamāsa got two sons Virajas and Parvata. Parvata's mother was the sister of Nārada. [Chapter 10, Aṁśa 1, Viṣṇu Purāṇa].
    2) Nārada and Parvata.
    These two sages lived for a long time as inseparable friends. Once they travelled on earth in the form of human beings. They decided that each should speak out what he felt without reserve and if anybody broke the arrangement the other had the right to curse him. During their travels they reached the palace of a King called Sṛñjaya (Sañjaya) and they stayed there as his guests for a long time. Damayantī (Madayantī) daughter of the King served them both and Nārada fell in love with her. Nārada hid this fact from Parvata and within a few days Parvata came to know it and he according to the agreement cursed Nārada to take the form of a monkey. Nārada gave a counter curse disabling Parvata from attaining Svarga. Both separated from there and after some time both lost their bitterness against each other. Parvata met Nārada in his monkey form in a forest. Both were sorry for their curses then and each withdrew his curse and Nārada got his original form. He married Damayantī and started living together and Parvata went to Svarga. [Chapter 30, Śānti Parva].
    3) Other details.
    (i) Parvatamuni was a member of the assembly of sages at the Sarpasatra of Janamejaya. [Śloka 8, Chapter 53, Ādi Parva].
    (ii) Nārada and Parvata were present for the Draupadīsvayaṁvara (marriage of Draupadī). [Śloka 7, Chapter 156, Ādi Parva].
    (iii) Parvata and Nārada were members of the court of Yudhiṣṭhira. [Śloka 15, Chapter 4, Sabhā Parva].
    (iv) This uncle-nephew combination was present in Indrasabhā also. [Śloka 10, Chapter 7, Sabhā Parva].
    (v) They were members of Kuberasabhā also. [Śloka 26, Chapter 10, Sabhā Parva].
    (vi) When the Pāṇḍavas were living in Kāmyakavana, Parvata went there and advised them to conduct a pilgrimage. [Śloka 18, Chapter 93, Vana Parva].
    (vii) Parvata showed the Pāṇḍavas daylight at night one day when the great battle was going on. [Śloka 15, Chapter 163, Droṇa Parva].
    (viii) Parvata swore that he was not a party to the theft of the lotus of Agastya. [Śloka 34, Chapter 94 Anuśāsana Parva].
     
RANDOM WORD

Did you know?

मंगळवारी येणार्‍या संकष्टी चतुर्थीस ‘ अंगारकी चतुर्थी ’ असे कां म्हणतात ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site