TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
एकोनत्रिंशोऽध्यायः

श्री नारदीयमहापुराणम् - एकोनत्रिंशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


एकोनत्रिंशोऽध्यायः

सनक उवाच ॥ तिथीनां निर्णयं वक्ष्ये प्रायश्चित्त विधिं तथा ॥ श़ृणुष्व तन्मुनिश्रेष्ठ कर्मसिद्धिर्यतो भवेत् ॥१॥

श्रौंतं स्मार्त्त व्रतं दानं यच्चान्यत्कर्म वैदिकम् ॥ अनिर्णीतासु तिथिषु न किंचित्फलति द्विज ॥२॥

एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्द्दशी ॥ अमावास्या तृतीया च ह्युपवासव्रतादिषु ॥३॥

परविद्धाः प्रशस्ताः स्युर्न ग्राह्याः पूर्वसंयुताः॥ नागविद्धा तु या षष्ठी शिवविद्धा तु सप्तमी ॥४॥

दशम्येकादशीविद्धा नोपोष्याः स्युः कदाचन ॥ दर्शं च पौर्णमासीं च सप्तमीं पितृवासरम् ॥५॥

पूर्वविद्धं प्रकुर्वाणो नरकायोपद्यते ॥ कृष्णपक्षे पूर्वविद्धां सप्तमीं च चतुर्दशीम् ॥६॥

प्रशस्तां केचिदाहुश्च तृतीयां नवमी तथा ॥ व्रतादीनां तु सर्वेषां शुक्लपक्षो विशिष्यते ॥७॥

अपराह्णाच्च पूर्वाह्णं ग्राह्यं श्रेष्ठत्तरं यतः ॥ असंभवे व्रतादीनां यदि पौर्वाह्णिकी तिथिः ॥८॥

मुहूर्तद्वितयं ग्राह्य भगवत्युदिते रवौ ॥ प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा ॥९॥

उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ॥ तिथिनक्षत्र संयोगविहितव्रतकर्माणि ॥१०॥

प्रदोषव्यापिनी ग्राह्या त्वन्यथा निष्फलं भवेत् ॥ अर्द्धंरात्रादधो या तु नक्षत्रव्यापिनी तिथिः ॥११॥

सैव ग्राह्या मुनिश्रेष्ठ नक्षत्रविहितव्रते ॥ यद्यर्द्धरात्रयोर्व्याप्तं नक्षत्रं तु दिनद्वये ॥१२॥

तत्पुण्यं तिथिसंयुक्तं नक्षत्रं ग्राह्यमुच्यते ।ं अर्द्धरात्रद्वये स्यातां नक्षत्र च तिथिर्यदि ॥१३॥

क्षये पूर्वा प्रशस्ता स्यादृद्धौ कार्या तथोत्तरा ॥ अर्व्रात्रद्वयव्याप्ता तिथिर्नक्षत्रसंयुता ॥१४॥

ह्रसवृद्धिविशून्याचेद् ग्राह्या पूर्वा तथा परा ॥ ज्येष्ठासंमिश्रित मूलं रोहिणी वह्निसंयुता ॥१५॥

मैत्रेण संयुता ज्येष्ठा संतानादिविनाशिनी ंं ततः स्युस्तिथयः पुण्याः कर्मानुष्ठानतो दिवा ॥१६॥

रात्रिव्रतेषु सर्वेषु रात्रियोगो विशिष्यते ॥ तिथिर्नक्षत्रयोगेन या पुण्या परिकीर्तिता ॥१७॥

तस्यां तु तद्व्रतं कार्यं सैव कार्या विचक्षणैः ॥ उदयव्यापिनी ग्राह्या श्रवणद्वादशी व्रते ॥१८॥

सूर्येन्दुग्रहणे यावत्तावद् ग्राह्या जपादिषु ॥ संक्रांतिषु तु सर्वासु पुण्यकालो निगद्यते ॥१९॥

स्नानदानजपादीनां कुर्वतामक्षय फलम् ॥ तत्र कर्कटको ज्ञेयो दक्षिणायनसंक्रमः॥२०॥

पूर्वतो घटिकास्त्रिंशत्पुण्यकालं विदुर्बुधाः॥ वृषभे वृश्चिके चैव सिंहे कुम्भे तथैव च ॥२१॥

पूर्वमष्टमुहूर्तास्तु ग्राह्याः स्नानजपादिषु ॥ तुलायां चैव मेषे च पूर्वतः परतस्तथा ॥२२॥

ज्ञेया दशैव घटिका दत्त स्याक्षयतावहाः॥ कन्यायां मिथुने चैव मीने धनुषि च द्विज ॥२३॥

घटिकाः षोडश ज्ञेया परतः पुण्यदायिकाः॥ माकरं संक्रमं प्राहु रुत्तरायणसंज्ञकम् ॥२४॥

परास्रिंशच्च घटिकाश्चतवारिंशच्च पूर्ववत् ॥ आदित्यशीतकिरणौ ग्राह्यावस्त्संगतौ यदि ॥२५॥

स्नात्वा भुंजीत विप्रेंद्र परेद्युःशुद्धमंडलम् ॥ दृष्टचंद्रा सिनीवाली नष्टचंद्रा कुहूः स्मृताः ॥२६॥

अमावास्या द्विधा प्रोक्ता विद्वद्भिर्धर्मालिप्सुभिः॥ सिनीवाली द्विजैर्ग्राह्या साग्निकैः श्राद्धकर्मणि ॥२७॥

कहूः स्त्रीभिस्तथा शूद्रैरपि वानग्निकैस्तथा ॥ अपराह्णद्वयव्यापिन्यमावास्यातिथिर्यदि ॥२८॥

क्षये पूर्वा तु कर्त्तव्या वृद्धौ कार्या तथोत्तरा ॥ अमावास्या प्रतीता चेन्मध्याह्रात्परतो यदि ॥२९॥

भूतविद्धेति विख्याता सद्भिः शास्त्रविशारदैः । अत्यंतक्षयपक्षे तु परेद्युर्नापराह्णगा ॥३०॥

तत्र ग्राह्या सिनीवाली सायाह्नव्यापिनी तिथिः ॥ अर्वाचीनक्षये चैव सायाह्नव्यापिनी तथा ॥३१॥

सिनीवाली परा ग्राह्या श्राद्धकर्मणि ॥ अत्यंततिथिवृद्धौ तु भूतवि परित्यजेत् ॥३२॥

ग्राह्या स्यादपराह्णस्था कुहूः पैतृककर्मणि ॥ यथार्वाचीनवृद्धौ तु संत्याज्या भूतसंयुता ॥३३॥

परेद्युर्विबुधश्रेष्ठैः कुहूर्ग्राह्या पराह्णगा ॥ मध्याह्नद्वितये व्याप्ता ह्यमावास्या तिथिर्यदि ॥३४॥

तत्रेच्छया च संग्राह्या पूर्वा वाथ पराथवा ॥ अन्वाधानं प्रवक्ष्यामि संतः संपूर्णपर्वणि ॥३५॥

प्रतिपद्दिवसे कुर्याद्यागं च मुनिसत्तम ॥ पव्रणो यश्चतुर्थांश आद्याः प्रतिपदस्त्रयः ॥३६॥

यागकालःस विज्ञेयः प्रातरुक्तो मनीषिभिः ॥ मध्याह्नद्वितये स्याताममावास्या च पूर्णिमा ॥३७॥

परेद्युरेव विप्रेंद्र सद्यः कालो विधीयते ॥३८॥

पूर्वद्वये परेद्युः स्यात्संगवात्परतो यदि ॥ सद्यः कालः परेद्युः स्याज्ज्ञेयमेवं तिथिक्षये ॥३९॥

सर्वैरेकादशी ग्राह्या दशमीपरिवर्जिता ॥ दशमीसंयुता हंति पुण्यं जन्मत्रयार्जितम् ॥४०॥

एकादशी कलामात्रा द्वादश्यां तु प्रतीयते ॥ द्वादशी च त्रयोदश्यामस्ति चेत्सा परा स्मृता ॥४१॥

संपूर्णैकादशी शुद्धा द्वादश्यां च प्रतीयते ॥ त्रयोदशी च रात्र्यंते तत्र वक्ष्यामि निर्णयम् ॥४२॥

पूर्वा गृहस्थैः सा कार्य्या ह्युत्तरा यतिभिस्तथा ॥ गृहस्थाः सिद्धिमिच्छंति यतो मोक्षं यतीश्वराः ॥४३॥

द्वादश्यां तु कलायां वा यदि लभ्येत पारणा ॥ तदानीं दशमीविद्धाप्युपोष्यैकादशी तिथिः ॥४४॥

शुक्ले वा यदि वा कृष्णे भवेदेकादशीद्वयम् ॥ गृहस्थानां तु पूर्वोक्ता यतीनामुत्तरा स्मृता ॥४५॥

द्वादश्यां विद्यते किंचिद्दशमीसंयुता यदि ॥ दिनक्षये द्वितीयैव सर्वेषां परिकीतिंता ॥४६॥

विद्धाप्येकादशी ग्राह्या परतो द्वादशी न चेत् ॥ अविद्धापि निषिद्धैव परतो द्वादशीदिने द्वादशी यदि ॥४७॥

एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ॥ द्वादशद्वादशीपुण्यं त्रयोदश्यां तु पारणे ॥४८॥
एकादशी कलामात्रा विद्यते द्वादशीदिने ॥ द्वादशी च त्रयो दश्यां नास्ति वा विद्यतेऽथवा ॥४९॥

विद्धाप्येकादशी तत्र पूर्वा स्याद्रुहिणां तदा ॥ यतिभिश्चोतरा ग्राह्या ह्यवीराभिस्तथैव च ॥५०॥

संपूर्णैकादशी शुद्धा द्वादश्यां नास्ति किंचन ॥ द्वादशी च त्रयोदश्यामस्ति तत्र कथं भवेत् ॥५१॥

पूर्वा गृहस्थैः कार्यात्र यतिभिश्चोत्तरा तिथिः ॥ उपोष्यैव द्वितीयेति केचिदाहुश्च भक्तितः ॥५२॥

एकादशी यदा विद्धा द्वादश्यां न प्रतीयते । द्वादशी च त्रयोदश्यामस्ति तत्रैव चापरे ॥५३॥

उपोष्या द्वादशी शुद्धा सर्वैरेव न संशयः ॥ केचिदाहुश्च पूर्वां तु तन्मतं न समंजसम् ॥५४॥

संक्रांतौ रविवारे च पातग्रहणयोस्तथा ॥ पारणं चोपवासं च न कुर्यात्पुत्रवान्गृही ॥५५॥

अर्केऽह्नि पर्वरात्रौ च चतुर्दश्यष्टमी दिवा ॥ एकादश्यामहोरात्रं भुक्त्वा चांद्रायणं चरेत् ॥५६॥

आदित्यग्रहणं प्राप्ते पूर्वयामत्रये तथा ॥ नाद्याद्वै यदि भुंजीत सुरापेन समो भवेत् ॥५७॥

अन्वाधानेष्टिमध्ये तु ग्रहणे चंद्रसूर्ययोः ॥ प्रायश्चित्तं मुनिश्रेष्ठं कर्त्तव्यं तत्र याज्ञिकैः ॥५८॥

चंद्रोपरागे जुहुयाद्दशमे सोम इत्यृचा ॥ आप्यायस्व ऋचा सोमपास्त इति द्विज ॥५९॥

सूर्योपरागे जुहुयादुदुत्यं जातवेदसम् ॥ आसत्येनोद्वयं चैव त्रयोमंत्रा उदात्दृताः ॥६०॥

एवं तिथिं विनिश्चित्य स्मृतिमार्गेण पंडितः ॥ यः करोति व्रतादीनि तस्य स्यादक्षयं फलम् ॥६१॥

वेदप्रणिहितो धर्मो धर्मैस्तुष्यति केशवः ॥ तस्माद्धर्मपरा यांति तद्विष्णोः परमं पदम् ॥६२॥

धर्मान्ये कर्त्तुमिच्छंति ते वै कृष्णस्वरूपिणः ॥ तस्मात्तांस्तु भव व्याधिः कदाचिन्नैव बाधते ॥६३॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे तिथ्यादिनिर्णयो नाम एकोनत्रिंशोऽध्यायः ॥२९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:44:00.1130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

VINAŚANA I(विनशन)

RANDOM WORD

Did you know?

pl. kartiksnanache ani kakadariche mahatva sangave ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site