TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
पश्वचत्वारिशत्तमोऽध्यायः

श्री नारदीयमहापुराणम् - पश्वचत्वारिशत्तमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


पश्वचत्वारिशत्तमोऽध्यायः
सूत उवाच ॥
सनंदनवचः श्रुत्वा मोक्षधर्माश्रितं द्विजाः ॥ पुनः पप्रच्छ तत्त्वज्ञो नारदोऽध्यात्म सत्कथाम् ॥१॥
नारद उवाच ॥
श्रुतं मया महाभाग मोक्षशास्त्रं त्वयोदितम् ॥ न च मे जायते तृप्तिर्भूयोभूर्योऽपि श्रृण्वतः ॥२॥
यथा संमुच्यते जंतुरविद्याबंधनान्मुने ॥ तथा कथय सर्वज्ञ मोक्षधर्म सदाश्रितम् ॥३॥
सनंदन उवाच ॥ अत्राप्युदाहरंतीममिहासं पुरातनम् ॥ यथा मोक्षमनु प्राप्तो जनको मिथिलाधिपः ॥४॥
जनको जनदेवस्तु मिथिलाया अधीश्वरः ॥ और्ध्वदहिकधर्माणामासीद्युक्तो विचिंतने ॥५॥
तस्य श्मशान माचार्या वसति सततं गृहे ॥ दर्शयंतः पृथग्धर्मान्नानापाषंवादिनः ॥६॥
स तेषा प्रेत्यभावे च प्रेत्य जातौ विनिश्वये आगमस्थः स भूयिष्ठ मात्मतत्त्वेन तुष्यति ॥७॥
तत्र पंचशिखो नाम कपिलेयो महामुनिः ॥ परिधावन्महीं कृत्स्नां जगाम मिथिलामथ ॥८॥
सर्वसंन्यासधर्माणः तत्त्वज्ञानविविश्वये ॥ सुपर्यवसितार्थश्व निर्द्वंद्वो नष्टसंशयः ॥९॥
ऋषीणामाहुरेकं यं कामादवसितं नृषु ॥ शाश्वतं सुखमत्यंतमन्विच्छन्स सुदुर्लभम् ॥१०॥
यमाहुः कपिल्म सांख्याः परमर्षिं प्रजापतिम् ॥ स मन्य तेन रुपेण विख्यापयति हि स्वयम् ॥११॥
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजी विनम् ॥ पंचस्त्रोतसि यः सत्रमास्ते वर्षसहस्त्रकम् ॥१२॥  
पंचस्त्रोतसमागम्य कापिलं मंडलं महत् ॥ पुरुषावस्थमव्यक्तं परमार्थं न्यवेदयत् ॥१३॥
इष्टिमंत्रेण संयुक्तो भूयश्च तपसासुरिः ॥ क्षेत्रक्षेत्रज्ञयोर्वक्तिं विबुधे देहदर्शनः ॥१४॥
यत्तदेकाक्षरं ब्रह्म नानारुपं प्रदृश्यते ॥ आसुरिर्मंडले तस्मिन्प्रतिपेदे तमव्यवयं ॥१५॥
तस्य पंचशिखः शिष्यो मानुष्या पयसा भृतः ॥ ब्राह्मणी कपिली नाम काचिदासीत्कुटुम्बिनी ॥१६॥
तस्यः पुत्रत्वमागत्य स्त्रियाः स पिबति स्तनौ ॥ ततश्व कपिलेयत्वं लेभे बुद्धिं च नैष्टिकीम् ॥१७॥
एतन्मे भगवानाह कापिलेयस्य संभवम् ॥ तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् ॥१८॥
सामात्यो जनको ज्ञात्वा ज्ञानिनं सुने ॥ उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ॥१९॥
जनकस्तभिसंरक्तः कापि लेयानुदर्शनम् ॥ उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम् ॥२०॥
तस्मै परमकल्याणं प्रणताय च. धर्मतः ॥ अब्रवीत्परमं मोक्षं यत्तत्सांख्यं विधी यते ॥२१॥
जातिनिर्वेदमुक्ता स कर्मनिर्वेदसुक्ता स कर्मनिर्वेदमब्रवीत् ॥ कर्मनिर्वेदमुक्ता च सर्वनिर्वेदमब्रवीत ॥२२॥
यदर्थं धर्मसंसर्गः कर्मणां च फलोदयः ॥ तमनाश्वासिकं मोहं विनाशि चलमध्रुवम् ॥२३॥
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके ॥ आगमात्परमस्तीति ब्रुवन्नपि पराजितः ॥२४॥
अनात्मा ह्यात्मनो मृत्युः क्लशो मृत्युर्जरामयः ॥ आत्मानं मन्यते मोहात्तदसम्यक परं मतम् ॥२५॥
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते ॥ अजरोऽममृत्युश्व राजासौ मन्यते यथा ॥२६॥
अस्ति नास्तीति चाप्येतत्तस्मिन्नसितलक्षणे ॥ किमधिष्ठाय तद ब्रूयाल्लोकयात्राविनिश्वयम् ॥२७॥
प्रत्यक्षं ह्येतयोर्मूलं कृतांत ह्येतयोरपि ॥ प्रत्यक्षो ह्यागमो भिन्नः कृतांतो वा न किंचन ॥२८॥
यत्र तत्रानुमानेऽस्मिन्कृतं भावयतेऽपि च ॥ अन्यो जीवः शरीरस्य नास्तिकानां मते स्थितः ॥२९॥
रेतोवटकणीकायां घृतपाकाधिवसनम् ॥ जातिस्मृतिरयस्कांतः सूर्यकांतोंऽबुभक्षणम् ॥३०॥
प्रेतभूतप्रियश्वैव देवता ह्युपयाचनम् ॥ मृतकर्मनिवृत्तिं च प्रमाणमिति निश्चयः ॥३१॥
नन्वेते हेतवः संति ये केचिन्मूर्तिसंस्थिताः ॥ अमूर्तस्य हि मूर्तेन सामान्यं नोपलभ्यते ॥३२॥
अविद्या कर्म तृष्णा च केचिदाहुः पुनर्भवम् ॥ तस्मिन्नष्टे च दग्धे च चित्ते मरणधर्मिणि ॥३३॥
अन्योऽस्माज्जायते मोहस्तमाहुः सत्त्वसंक्षयम् ॥ यदा सरुपश्चान्यो जातितः श्रुततोऽर्थतः ॥३४॥
कथमस्मिन्स इत्येव संबंधः स्यादसंहितः ॥ एवं सति च का प्रीतिर्ज्ञानविद्यापतोपबलैः ॥३५॥
यदस्याचरितं कर्म सामान्यात्प्रतिपद्यते ॥ अपि त्वर्यमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् ॥३६॥
सुखितो दुःखितो वापि दृश्यादृअश्यविनिर्णयः ॥ यथा हि मुशलैर्हन्युः शरीरं तत्पुनर्भवेत् ॥३७॥
वृथा ज्ञानं यदन्यच्च येनैतन्नोपलभ्यते ॥ ऋम संवत्सरौ तिष्यः शीतोष्णोऽथ प्रियाप्रिये ॥३८॥
यथा तातानि पश्यति तादृशः सत्त्वसंक्षयः॥ जरयाभिर्परीतस्य मृत्युना च विनाशितम् ॥३९॥
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति ॥ इन्द्रियाणि मनो वायुःशोणितं मांसमस्थि च ॥४०॥
आनुपूर्व्या विनश्यंति स्वं धातुमुपयाति च ॥ लोक यात्राविद्यातश्व दान धर्मफलागमे ॥४१॥
तदर्थ वेदशब्दाश्व व्यवहाराश्व लौकिकाः ॥ इति सम्यङ्‌ मनस्येते बहवः संति हेतवः ॥४२॥
ऐत दस्तीति नास्तीति न कश्चित्प्रतिदृश्यते ॥ तेषां विमृशतामेव तत्सम्यगभिधावताम् ॥४३॥
क्कचिन्निवसते बुद्धिस्तत्र जीर्यति वृक्षवत् ॥ एवतु र्थैरनर्थैश्व दुःखिता सर्वजंतवः ॥४४॥
आगमरैपकृष्यंते हस्तिपैर्हस्तिनो यथा ॥४५॥
अथांस्तथा हंति सुखावहांश्व लिहत एते बहवोपशुष्काः ॥ महत्तरं दुःखमभिप्रपन्ना हित्वामिंह मृत्युवंश प्रयांति ॥४६॥
विनाशिनो ह्यध्रुवजीविनः किं किं बंधुभिर्मित्रपरिग्रहैश्च ॥ विहाय यो गच्छति नाप्यस्य क्षणेन गत्वा न निवर्तते च ॥४७॥
भूव्योमतोयानलवायवोऽपि सदा शरीरं प्रतिपालयंति ॥ इतीदमालक्ष्य रतिः कुतो भवेद्विनाशि नाप्यस्य न शम विद्यते ॥४८॥
इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् ॥ नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे ॥४९॥
जनक उवाच ॥
भगवन्यदि न प्रेत्य संज्ञा भवति कस्यचित् ॥ एवं सति किमज्ञानं ज्ञांन वा किं करिष्यति ॥५०॥
सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्दिजोत्तम॥ अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥५१॥
असंसर्गो हि भूतेषु संसर्गो बा विनाशिषु ॥ कर्स्मे क्रियत कल्पेत निश्चयः कोऽत्र तत्तवः ॥५२॥
सनंदन उवाच ॥
तमसा हि मतिच्छत्रं विभ्रांमिव चातुरम् ॥ पुनः प्रशमयन्वाक्यैः कविः पंचशिखोऽब्रवीत ॥५३॥
पंच शिख उवाच ॥
उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते ॥ अयं ह्यपि समाहारः शरीर्रोद्रियचेतसाम् ॥५४॥
वर्तते पृथगन्योन्यमप्युपाश्रित्य कर्मसु ॥ धातवः पंचधा तोयं खे वायुर्ज्योतिषो धरा ॥५५॥
तेषु भावेन तिष्ठंति वियुज्यंते स्वभावतः ॥ आकाशं वायुरुष्मा च स्त्रेहो यश्वापि पाथिवः ॥५६॥
एष पञ्चसमाहारः शरीरमपि नैकधा ॥ ज्ञानमूष्मा च वायुश्व त्रिविधः कायसंग्रहः ॥५७॥
इंद्रियाणींद्रियार्थाश्व स्वभावश्चेतना मनः ॥ प्राणापानौ विकारश्व धातश्वात्र निःसृताः ॥५८॥
श्रवण्म स्पर्शनं जिह्रा दृष्टिर्नासा तथैव च ॥ इंद्रियाणीति पंचैते चित्तपूर्वंगमा गुणाः ॥५९॥
तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा ॥ सुखदुःखेति यामाहुनदुःखासुखेति च ॥६०॥
शब्दः स्पर्शश्व रुपं च मूर्त्यर्थंमेव ते त्रयः ॥ एते ह्यामरणात्पंच सद्धुणा ज्ञानसिद्धये ॥६१॥
तेषु कर्मणि सिद्धिश्व सर्वतत्त्वार्थनिश्वयः ॥ तमाहुह परमं शुद्धं बुद्धिरित्यव्ययं महत् ॥६२॥
इमं गुणसमाहरामात्मभावेन पश्यतः ॥ असम्यदर्शनैर्दुःखमंनतं नोपशाम्यति ॥६३॥
अनात्मेति च यदृष्टं तेनाह्म न ममेत्यपि ॥ वर्तते किमधिष्ठानार्प्रसक्ता दुःखसंततिः ॥६४॥
तत्र सम्यग्जनो नाम त्यागशास्त्रमनुत्तमम् ॥ श्रृणुयात्तच मोक्षाय भाष्यमाणं भविष्यति ॥६५॥
त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् ॥ नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः ॥‌६६॥
द्रव्यत्यागे तु कर्मंणि भोगत्यागे व्रतानि च ॥ सुख त्यागे तपो योगं सर्वत्यागे समापना ॥६७॥
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः ॥ विप्रहाणाय दुःखस्य दुर्गतिर्हि तथा भवेत् ॥६८॥
पंच ज्ञानेंद्रियाण्युक्ता मनःषष्ठानि चेतसि ॥ बलषष्ठानि वक्ष्यामि पंच कर्मेद्रियाणि तु ॥६९॥
हस्तौ कर्मेद्रियं ज्ञेयमथ पादौ गतींद्रियम् ॥ प्रज नानदयोमेढ्रो विसर्गी पायुरींद्रीयम् ॥७०॥
वाक्च शब्दविशेषार्थमिति पंचान्वितं विदुः ॥ एवमेकादशैतानि बुद्धया त्ववसृजन्मनः ॥७१॥
कर्णो शब्दश्व चित्तं च त्रयः श्रवणासंग्रहे ॥ तथा स्पशें तथा रुपे तथैव रसगंधयोः ॥७२॥
एवं पंच त्रिका ह्येते गुणस्तदुपलब्धये ॥ येनायं त्रिविधो भावः पर्यायात्समुपस्थितः ॥७३॥
सात्त्विको राजसश्वापि तामसश्वापि त्रयः ॥ त्रिविधा वेदना येषु प्रसृता सर्वसाधिनी ॥७४॥
प्रहर्षः प्रीतिरानंदः सुखं संशान्तचित्तता॥ अकुतश्वित्कुतश्विद्वा चित्ततः सात्त्विको गुणः ॥७५॥
अतुष्टिः परितापश्व शोको लोभस्तथाऽक्षमा लिंगानि रजस्तानि दृश्यंते हेत्वहेतुतः ॥७६॥
अविवेकस्तथा मोहः प्रमादःस्वप्नतंद्रिता ॥ कथंचिदपि वर्तंते विविधास्तामसा गुणाः ॥७७॥
इमां च यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः ॥ न लिप्यते कर्मफलैरनिष्टैः पत्रं विषस्येव जलेन सिक्तम् ॥७८॥
दृढैर्हि पाशेर्विवि धैर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्व ॥ यदा ह्यसौ दुःखसौख्ये जहाति मुक्तस्तदाऽग्र्यां गतिमेत्यलिंगः ॥७९॥
श्रुतिप्रमाणगममंगलैश्व शेते जरानृ त्युभयादतीतः ॥ क्षीणे च पुण्ये विगते च पापे तनोर्निमित्ते च फले विनष्टे ॥८०॥
अलेपमाकाशमलिंगमेवमास्थाय पश्यंति महत्यशक्त्ता ॥ यथोर्णनाभिः परिवर्तमानस्तंतुक्षये तिष्ठति यात्यमानः ॥८१॥
तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्टमिवादिमृच्छन् ॥ यथा रुरुः शृंग मथो पुराणं हित्वा त्वचं वाप्युरगो यथा च ॥८२॥
विहाय गच्छन्नवेक्षमाणस्तथा विसुक्तो विजहाति दुःखम् ॥ मत्स्यं यथा वाप्युदके पतंतसुत्सृज्य पक्षी निपतत्यशक्तः ॥८३॥
तथा ह्यसौ दुःखसौख्ये विहाय मुक्तः पराद्धर्यां गतिमेत्यलिंगः ॥८४॥
इदममृतपदं निशम्य राजा स्वयमिह पंचशिखेन भाष्यमाणम् ॥ निखिलमभिसमीक्ष्य निश्वितार्थः परमसुखी विजहार वीतशोकः ॥८५॥
अपि च भवति मैथिलेन गति नगरमुपाहितम ग्निनाभिवीक्ष्य ॥ न खलु मम हि दह्यतेऽत्र किंचित्स्वयमिदमाह किल स्म भूमिपालः ॥८६॥
इमं हि यः पठति विमोक्षनिश्वर्यं महामुने सततमवेक्षते तथा ॥ उपद्रवाननुभवते ह्यदुः खितः प्रमुच्यते कपिलमिवैत्य मैथिलः ॥८७॥
इति श्रीबृहन्नारदीपुराने पूर्वभागे बृहदुपाख्याने द्वितीयपादे पश्वचत्वारिशत्तमोऽध्यायः ॥४५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-13T05:24:58.9900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

balanced crank

  • संतुलित क्रँक 
RANDOM WORD

Did you know?

अशुभ कार्य करून आल्यावर, घरात प्रवेश करण्यापूर्वी पाय कां धुवावेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site