TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
पञ्चसप्ततितमोऽध्यायः

श्री नारदीयमहापुराणम् - पञ्चसप्ततितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


पञ्चसप्ततितमोऽध्यायः
सनत्कुमार उवाच ॥
अथ दीपविधिं वक्ष्ये सरहस्यं हनूमतः ॥ यस्य विज्ञानमात्रेण सिद्धो भवति साधकः ॥१॥
दीपपात्रप्रमाणं च तैलमानं क्रमेण तु ॥ द्रव्यस्य च प्रमाणं वै तत्तु मानमनुक्रमात्‍ ॥२॥
स्थानभेदं च मंत्रं च दीपदानमनुं पृथक्‍ ॥ पुष्पवासिततैलेन सर्वकामप्रदं मतम्‍ ॥३॥
तिलतैलं श्रियः प्राप्त्यै पथिकागमनं प्रति ॥ अतसीतैल मुद्दिष्टं वश्यकर्मणि निश्वितम्‍ ॥४॥
सार्षपं रोगनाशाय कथितं कर्मकोविदैः ॥ मारणे राजिकोत्थं वा विभीतकसमुद्धवम्‍ ॥५॥
उच्चाटने करजोत्थं विद्वेषे मधुवृक्षजम्‍ ॥ अलाभे सर्वतैलानां तिलजं तैलमुत्तमम्‍ ॥६॥
गोधूमाश्व तिला भाषा मुद्रा वै तंडुलाः क्रमात्‍ ॥पंचधान्यमिदं प्रोक्तं नित्य दीपं तु मारुते ॥७॥
पंचधान्यसमुद्धूतं पिष्टमात्रं सुशोभनम्‍ ॥ सर्वकामप्रदं प्रोक्तं सर्वदा दीपदानके ॥८॥
वश्ये तंडुलपिष्टोत्थं मारने भाष पिष्टजम्‍ ॥ उच्चाटने कृष्ण्तिलपिष्टजं च प्रकीर्त्तितम्‍ ॥९॥
पथिकागमने प्रोक्तं गोधूमोत्थं सतंडुलम्‍ ॥ मोहने त्वाढकी जात विद्वेषे च कुलत्थजम्‍ ॥१०॥
संग्रामे केवला भाषाः प्रोक्ता दीपस्य पात्रके ॥ संधौ त्रिपिष्टजं लक्ष्मीहेतोः कस्तूरिकाभवम्‍ ॥११॥
एलालवंगकर्पूरमगनाभि समुद्धवम्‍ ॥ कन्याप्राप्यै तथा राजवश्यं सख्ये तथैव च ॥१२॥
अलाभे सर्ववस्तूनां पंचधान्यं वर स्मृतम्‍ ॥ अष्टमुष्टिर्भवेत्किञ्चित्किञ्चिदष्टौ चः पुष्कलम्‍ ॥१३॥
पुष्कलांना चतुर्णां च ह्याढकः परिकीर्तितः ॥ चतुराढको भवेद्दोणः खारी द्रोणचतुष्टयम्‍ ॥१४॥
खारीचतुष्टय प्रस्थसंज्ञा च परिकीर्तिता ॥ अथवान्यप्रकारेण मानमत्र निगद्यते ॥१५॥
पलद्वयं तु प्रसृतं द्विगुणं कुंडवं मतम्‍ ॥ चतुर्भिः कुडावैः प्रस्थस्तै श्वतुर्भिस्तथाढकः ॥१६॥
चतुराढको भवेद्दोणः खारी द्रोणचतुष्टयम्‍ ॥ क्रमेणैतेन ते ज्ञेयाः पात्रे षट्‌कर्मसंभवे ॥१७॥
पञ्च सप्त नव तथा प्रमाणास्ते यथाक्रमम्‍ ॥ सौगंधे नैव मांन स्यात्तद्यथारुचि संमतम्‍ ॥१८॥
नित्यपात्रे तु तैलानां नियमो वातिकोद्धवः ॥ सोमवारे गृहीत्वा तद्धान्यं तोयप्लुतं धरेत्‍ ॥१९॥
पश्वात्प्रमाणतो ज्ञेयं कुमारीहस्तपेषणम्‍ ॥ तत्पिष्टं शुद्धपात्रे तु नदीतोयेन पिंडितम्‍ ॥२०॥
दीपापात्रं ततः कुर्याच्छुद्धः प्रयतमानसः ॥ दीपपात्रे ज्वाल्यमाने मारुतेः कवचं पठेत्‍ ॥२१॥
शुद्धभूमौ समास्थाप्य भौमे दीपं प्रदापयेत्‍ ॥ मालामनूनां ये वर्णाः साध्य नामसमन्विताः ॥२२॥
वर्तिकायां प्रकर्त्तव्यास्तंवस्तत्प्रमाणकाः ॥ तत्रिंशांशेन वा ग्राह्या गुरुकार्येऽखिलाढ्यता ॥२३॥
कूटतुल्याः स्मृता नित्ये सामान्येऽथ विशेषके ॥ रुद्रा कूटगणाः प्रोक्ता न पात्रे नियमो मतः ॥२४॥
एकविंशतिसंख्याकास्तन्तवोऽथाध्वनि स्मृताः ॥ रक्तसूत्रं हनुमतो दीपदाने प्रकीर्त्तितम्‍ ॥२५॥
कृष्णामुच्चाटने द्वेषेऽरुणं मारणकर्मणि ॥ कूटतुल्यपलं तैलं गुरुकार्ये शिवैर्गुणम्‍ ॥२६॥
नित्ये पंचपलं प्रोक्तमथवा मानसी रुचिः ॥२७॥
हनुमत्प्रतिमायास्तु सन्निधौ दीपदापनम‍ ॥ शिवालयेऽथवा कुर्यान्नित्यनैमित्तिके स्थले ॥२८॥
विशेषोऽस्त्यत्र यः कश्विन्मारुत रुच्यते मया ॥२९॥
प्रतिमाग्रे प्रमोदेन ग्रहभूतग्रहेषु च ॥ चतुष्पथे तथा पोक्तं षट्‌सु दीपप्रदापनम्‍ ॥३०॥
सन्निधौ स्फाटिके लिंगे शालग्रामस्य सन्निधौ ॥ नानाभोगश्रियै  प्रोक्तं दीपदानं हनूमतः ॥३१॥
गणेशसन्निधौ विघ्रमहासंकटनाशने ॥ विषव्या धिभये घोरे हनुमत्सन्निधौ स्मृतम्‍ ॥३२॥
दुर्गायाः सन्निधौ प्रोक्तं संग्रामे दीपदानम्‍ ॥ चतुष्पथे व्याधिनष्टौ दुष्टदृष्टौ तथैव च ॥३३॥
राजद्वारे बंधमुक्तौ कारागारेऽथवा मतम्‍ ॥ अश्वत्थवटमूले तु सर्वकार्यप्रसिद्धये ॥३४॥
वश्ये भय विवादे च वेश्मंसंग्रामसंकटे ॥ द्यूते दृष्टिस्तंभने च विद्वेषे मारणे तथा ॥३५॥
मृतकोत्थापने चैव प्रतिमाचालने तथा ॥ विषे व्याधौ ज्वरे भूतग्रहे कृत्याविमो चने ॥३६॥
क्षतग्रंथौ महारण्ये दुर्गै व्याघ्रे च दंतिनि ॥ क्रूरसत्त्वेषु सर्वेषु शश्वंद्वंविमोक्षणे ॥३७॥
पथिकागमने चैव दुःस्थाने राजमोहने ॥ आगमे निर्गमे चैव राजद्वारे प्रकीर्तितम्‍ ॥३८॥
दीपदानं हनुमतो नात्र कार्या विचारणा ॥३९॥
रुद्रैकविंशपिंडांश्व त्रिधा मंडलमानकम्‍ ॥ लघुमानं स्मृतं पंच सप्त वा नव वा तथा ॥४०॥
क्षीरेण नवनी तेन दध्रा वा गोमयेन च ॥ प्रतिमाकरणं प्रोक्तं मारुतेर्दीपदापने ॥४१॥
दक्षिणाभिमुखं वीरं कृत्वा केसारीविक्रमम्‍ ॥४२॥
ऋक्षविन्यस्तपादं च किरीटेन विराजितम्‍ ॥ लिखेद्धितौ पटे वापि पीठे वा मारुतेः शुभे ॥४३॥
मालामंत्रेण दातव्यं दीपदानं हनूमतः ॥ नित्यदीपः प्रकर्त्तव्यो द्वादशाक्षरविद्यया ॥४४॥
विशेषस्तत्र यस्तं वै दीपदानेऽवधारय ॥ षष्ठयादौ च द्वितीयादविमं दीपमितीरयेत्‍ ॥४५॥
गृहाणेति पदं पश्वाच्छेष्म पूर्वदुच्चरेत्‍ ॥ कूटादौ नित्य दीपे च मंत्रं सूर्याक्षरं वदेत्‍ ॥४६॥
तत्र मालाख्यमनुना तत्तत्कार्येषु कारयेत्‍ ॥ गोमयेनोपलिप्तायो भूमौ तद्धतमानसः ॥४७॥
षट्‌कोणं वसुपत्रं च भूमौ रेखासमन्वितम्‍ ॥ कमलं च लिखेद्धद्धं तत्र दीपं निधापयेत्‍ ॥४८॥
शैवे वा वैष्णवे पीठे पूजयेद्जनासुतम्‍ ॥ कूटषटूकं च षट्‌कोणे अंतराले पर लिखेत्‍ ॥४९॥
षट्‌कोणेषु षडंगानि बीजयुक्तानि संलिखेत्‍ ॥ सौम्यं मध्यगतं लेख्यं तत्र संपूज्य मारुतिम्‍ ॥५०॥
षट्‌कोणेषु षडंगानि नामानि च पुरोक्तवत्‍ ॥ वसुपत्रे क्रमात्पूज्या अष्टावेते च वानराः ॥५१॥
सुग्रीवायांगदायाथ सुषेणाय नलाय च ॥ नीलायाथो जांबवते प्रहस्ताय तथैव च ॥५२॥
सुवेषाय ततः पश्वाद्यजेत्षडंगदेवताः ॥ आदावंजनापुत्राय ततश्व रुद्रमूर्तये ॥५३॥
ततो वायुसुतायाथ जानकीजीवनाय च ॥ रामदूताय ब्रह्मास्त्र्निवारणाय तत्परम्‍ ॥५४॥
पंचोपचारैः संपूज्यदेशकालौ च कीर्तयेत्‍ ॥ कुशोदकं समादायं दीपमंत्रं समुच्चरेत्‍ ॥५५॥
उत्तरगाभिमुखो जप्त्वा साधयेत्साधकोत्तमेः तं मंत्रं क्रूटधा जण्त्वा जलं भूमौ विनिक्षिपेत्‍ ॥५६॥
ततः करपुटं कृत्वा यथाशक्ति जपेन्मनुम्‍ ॥ अनेनदीपवर्येण उदङ्‌मुखगतेन वै ॥५७॥
तथा विधेहि हनुमन्यथा स्युर्मे मनोरथाः ॥ त्रयोदशैवं द्रव्याणि गोमयं मृत्तिका मसी ॥५८॥
अलक्तं दरदं रक्तचंदनं चंदनं मधु ॥ कस्तूरिका दधि क्षीरं नवनीतं घृतं तथा ॥५९॥
गोमयं द्विविधं तत्र प्रोक्तं गोमहिषीभवम्‍ ॥ पश्वाद्विनष्टद्रव्याप्तौ माहिषं गोमयं स्तृतम्‍ ॥६०॥
पथिकागमने दूरान्महादुर्गस्य रक्षणे ॥ बालादिरक्षणे चैव चौरादिभयानाशने ॥६१॥
स्त्रीवश्यादिषु कार्येषु कार्येषु शस्तं गोगोमचं मुने ॥ भूमिस्पृष्टं न तद्‌ग्राह्यंमंतरिक्षाच्च भाजने ॥६२॥
चतुर्विधा मृत्तिकां तु श्वेता पीतारुणासिता ॥ तत्र गोपीचंदनं तु हरितालं च गौरिकम्‍ ॥६३॥
मषी लाक्षारसोद्धूता सर्व्म वान्यत्स्फुटं मतम्‍ ॥ कृत्वा गोपीचंदनेन चतुरस्त्रं गृहं सुधीः ॥६४॥
तन्मध्ये माहिषेणाथ कुर्यान्मूर्तिं हनूमतः ॥ बीजं क्रोधाच्च तत्पुच्छं लिखेन्मंत्री समाहितः ॥६५॥
तैलेन स्नापयेन्मूर्ति गुडेन तिलकं चरेत्‍ ॥ शतपत्रसमो धूपः शालनिर्याससंभवः ॥६६॥
कुर्याच्च तैलदीपं तु वर्तिपंचकसंयुतम्‍ ॥ दध्योदनेन नैवेद्यं दद्यात्साधकसत्तमः ॥६७॥
वारत्रयं कंठदशे सशेषविषमुच्चरन्‍ ॥ एवं कृते तु नष्टांना महिषीणां गवामपि ॥६८॥
दासीदासादिकानां च नष्टानां प्राप्तिरीरिता ॥ चौरादिदुष्टासत्त्वानां सर्पादीनां भये पुनः ॥६९॥
तालेन च चतुर्द्वारं गृहं कृत्वा सुशोभनम्‍ ॥ पूर्वद्वारे गजः स्थाप्यो दक्षिणे महिषस्तथा ॥७०॥
सर्पस्तु पश्विमे द्वारे व्याघ्रश्वैवोत्तरे तथा ॥ एवं क्रमेण खङुं च क्षुरिकाद्म्डमुद्ररान्‍ ॥७१॥
विलिख्य मध्ये मूर्ति च महिषीगोमयेन वै ॥ कृत्वा डमरुहस्तां च चकिताक्षीं प्रयत्नतः ॥७२॥
पयसा स्थापनं रक्तचंदनेनानुलेपनम्‍ ॥ जातीपुष्पैस्तु संपूज्य शुद्धधूप प्रकल्पयेत ॥७३॥
घृतेन दीपं दत्त्वाथ पायसान्नं निवेदयेत्‍ ॥ गगनं दीपिकें द्वाढ्यं शास्त्रं च पुरतो जपेत्‍ ॥७४॥
एवं सप्तदिनं कृत्वा मुच्यते महतो भयात्‍ ॥ अननोर्भेमवारे तु कुर्यादारंभमादरात्‍ ॥७५॥
शत्रुसेना भये प्राप्ते गौरिकेण तु मंडलम्‍ ॥ कृत्वा तदंतरे तालमीषन्नंम्र समालिखेत्‍ ॥७६॥
तत्रावलंबमानां च प्रतिमां गोमयेन तु ॥ वाहहस्तेन तालाग्रं दक्षिणे ज्ञानमुद्रिका ॥७७॥
तालमूलात्स्वकाष्ठायां मार्गे हस्तमिते गृहम्‍ ॥ चतुस्त्र विधायाथ तन्मध्ये मूर्तिमलिखेत्‍ ॥७८॥
दक्षिणाभिसुखीं रम्यां ह्रदयें विहितांजलिम्‍ ॥ तोयेन स्नानंगधादि यथासंभवमर्पयेत्‍ ॥७९॥
कृशरान्नं च नैवेद्यं साज्यं तस्यै निवेदयेत ॥ किलिद्वयं जपं प्रोक्तमेवं कुर्याद्दिने दिने ॥८०॥
एवं कृते भवेच्छीघ्रं पथिकानां समागमः ॥ श्यामपाषाणखण्डेन लिखित्वा भूपतेर्गृहम्‍ ॥८१॥
प्राकारं तु चतुर्द्धारयुंक्त द्वारेषु तत्र वै ॥ अन्योन्यपुच्छ रिधित्रतयुक्तां हनूमतः ॥८२॥
कुर्यान्मूर्तिं गोमयेन धत्तूरकुसुमैजेत्‍ ॥ जटामांसीभवं धूपं तैलाक्तधृतदेपकम्‍ ॥८३॥
नैवेद्यं तिलतैलाक्तसक्षारा भाषरोटिका ॥ ध्येयो दक्षिणहस्तेन रोटिकां भक्षयन्हरिः ॥८४॥
वामहस्तेन पाषाणैस्त्रासय न्परसैनिकान्‍ ॥ प्रारयन्भूकुटीं बद्धा भीषयन्मथयन्स्थितः ॥८५॥
जपेच्च भुग्भुगिति वै सहस्त्रं ध्यानतत्परः ॥ एवं कृतविधानेन पर सेन्यं विनाशयेत्‍ ॥८६॥
रक्षा भवति दुर्गाणां सत्यं सत्यं न संशयः ॥ प्रयोगा बहवस्तत्र संक्षेपाद्धदिता मया ॥८७॥
प्रत्यहं यो विधा नेन दीपदानं हनूमतः ॥ तस्यासाध्यं न वै किंचिद्विद्यते भुवनत्रये ॥८८॥
न देयं दुष्ट्त्दृदये दुष्टचिंतनबुद्धये ॥ अविनीताय शिषाय पिशुनाय कदाचन ॥८९॥
कृतघ्नाय न दातव्यं दातव्यं च परीक्षिते ॥ बहुना किमिहोक्तेन सर्वं दद्यात्कपीश्वरः ॥९०॥
अथ मन्त्रा न्तरं वक्ष्ये तत्त्वज्ञानप्रदायकम्‍ ॥ तारो नमो हनुमते जाठरत्रयमीरयेत्‍ ॥९१॥
दनक्षोभं समाभाष्य संहरद्वयमीरयेत्‍ ॥ आत्मतत्त्वं ततः पश्वात्प्रकाशययुगं ततः ॥९२॥
वर्मास्त्रवह्रिजायांतः सार्द्धषडिंशदर्नवान्‍ ॥ वसिष्टोऽस्य मुनिश्छन्दोऽनुष्टुप्‍ देवताः पुनः ॥९३॥
हनुमान्मुनिसप्तर्तुवेदाष्टनिगमैः ॥ क्रमात्‍  मंत्रार्णैश्व षडंगानि कृत्वा धायेत्कपीश्वरम्‍ ॥९४॥
जानुस्थवामबाहुं च ज्ञानमुद्रापरं ह्रदि ॥ अध्यात्मचित्तमासीनं कदलीवनमघ्यगम्‍ ॥९५॥
बालार्ककोटिप्रतिमं ध्यायेज्ज्ञानप्रद हरिम्‍ ॥ ध्यात्वैवं प्रजपेल्लक्षं दशांशं जुहुयात्तिलैः ॥९६॥
साज्यैः संपूजयेत्पीठे पूर्वोक्ते पूर्ववत्प्रभुम्‍ ॥ जप्तोऽयं मदनक्षोभं नाशययत्येव निश्वितम्‍ ॥९७॥
तत्त्वज्ञानमवाप्नोति कपींद्रस्य प्रसादतः ॥ अथ मंत्रातर्म वक्ष्ये भूतविद्रावंण परम्‍ ॥९८॥
तारः काशींकुक्षिपरवराहश्वांजनापदम्‍ ॥ पवनो वनपुत्रांते आवेशिद्वयमीरयेत्‍ ॥९९॥
श्रीहनुमत्पश्वादस्त्रचभुजाक्षरः ॥ ब्रह्मा मुनिः स्याद्धायत्री छंदोऽत्र देवता पुनः ॥१००॥
हनुमान्कमला बीजं फट्‌ शक्तिः परिकीर्तितः ॥ षड्‌देर्घाढ्येन बीजेन षड्ड्‌नि समाचरेत्‍ ॥१०१॥
आंजनेय पाटलास्यं स्वर्णाद्रिसमविग्रहम्‍ ॥ पारिजातद्रुमूलस्थं चिंतयेत्सादकोत्तमः ॥१०२॥
एवं ध्यात्वा जपेल्लक्षं दशांशं जुहुयात्तिलैः ॥ त्रिमध्वक्तैर्यजेत्पीठे पूर्वोक्ते पूर्ववत्सुधीः ॥१०३॥
अनेन मनुना मंत्री ग्रहग्रस्तं प्रमार्जयेत्‍ ॥ आक्रंदंस्तं विसुच्याथ ग्रहः शीघ्रं पलायते ॥१०४॥
मनवोऽमी सदा गोप्या न प्रकाश्या यतस्ततः ॥ परीक्षिताय शिष्याय देया वा निजसूनवे ॥१०५॥
हनुमद्धजनासक्तः कार्तवीर्यार्जुनं सुधीः ॥ विशेषतः समाराध्य यथोक्तं फलमाप्नुयात्‍ ॥१०६॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहपाख्याने तृतीयपादे दीपविधिनिरुपणं नाम पञ्चसप्ततितमोऽध्यायः ॥७५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T04:27:15.7830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जहल्लक्षणा

  • स्त्रीन . जिचा शब्दश : किंवा वास्तविक अर्थ न घेतां केवळ लक्षणेनें अर्थ लावावयाचा असतो अशी व्याख्या . जसें - पाण्यावर गांव म्हणजे पाण्याच्या काठावर गांव ( पाण्याच्या सपाटीवर नव्हे ), आपल्या पानावर बैस = पानाच्यावर नव्हे तर पानाजवळ याच्या उलट अजहल्लक्षणा ( पहा ). जहल्लक्षण बोलिजे त्याग । अजहल्लक्षण तो अत्याग । जहदजहल्लक्षण त्यागात्याग । शबळांश सांडिजे । शुध्दांश मांडिजे । हें जहल्लक्षण बोलिजे । वेदांतशास्त्रीं । जहल्लक्षणा जे म्हणिजे । ते त्यागलक्षणा जाणिजे । - गीता १३ . २९१ . [ सं . जहत + लक्षणा ] 
RANDOM WORD

Did you know?

कोणतेही कार्य करतांना मुहूर्त कां पहावा? त्यामागची संकल्पना काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site