TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
एकसप्ततितमोऽध्यायः

श्री नारदीयमहापुराणम् - एकसप्ततितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


एकसप्ततितमोऽध्यायः
सनत्कुमार उवाच ॥
श्रृणु नारद त्रक्ष्यामि दिव्यान्नरहरेर्मनून् ॥ यान्समाराध्य ब्रह्माद्याश्वकुः सृष्टयादि कर्म वे ॥१॥
संवर्तश्वंद्रमौलिर्मनुर्वह्रिविभूषितः ॥ एकाक्षरः स्मृतो मंत्रो भजतां सुर पादपः ॥२॥
मुनिरात्रिश्व जगती छंदो बुद्धिमतां वर ॥ देवता नृहरिः प्रोक्तो विनियोगोऽखिलाप्तये ॥३॥
क्षं बीजं शक्तिरी प्रोक्ता षड्‌दीर्घेण षंडग कम् ॥ अर्केन्दुवह्रिनयनं शरदिंदुरुचं करैः ॥४॥
धनुश्वक्राभयवरान्दधतं नृहरिं स्मरेत् ॥ लक्षं जपस्तदृशांशहोमश्व घृतपायसैः ॥५॥
यजेत्पीठे वैष्णवे तु केसरेष्वंगपूजनम् । खगेशं शकंर शेषं शतानन्दं दिगालिषु ॥६॥
श्रियं ह्रियं धृतिं पुष्टिं कोणपत्रेंषु पूजयेत् ॥ दंतच्छदेषु नृहरींस्तावतः पूजयेत्क्रमात् ॥७॥
कृष्णो रुद्रो महाघोरो भीमो भीषण उज्ज्वलः ॥करालो विकरालश्व दैत्यांतो मधुसूदनः ॥८॥
रक्ताक्षः पिंगलाक्षश्वांजनो दीप्तरुचिस्तथा ॥ सुघोरकश्व सुहनुर्विश्वको राक्षसांतकः ॥९॥
विशालको धूम्रकेशो हयग्रीवो घनस्वनः ॥ मेघवर्णः कुंभकर्णः कृतांततीव्रतेज ॥१०॥
अग्निवर्णो महोग्रश्व ततो विश्वविभूषणः ॥ विघ्रक्षमो महासेनः सिंहा द्वात्रिंशदीरिताः ॥११॥
तद्वहिः प्रार्चयेद्विद्वाँल्लोकपालान्सहेति कान् ॥ एवं सिद्धे मनौ मन्त्री साधयेदखिलेप्सितान् ॥१२॥
विष्णुः प्रद्युम्रयुक् शार्ङी साग्निर्वीरं महांस्ततः ॥ विष्णुं ज्वलंतं भृग्वीशो जलं पद्मासनं ततः ॥१३॥
हरिस्तु वासुदेवाय वैकुंठो विष्णुसंयुतः ॥ गदी सेंदुनृसिंहं च भीषणं भद्रमेव च ॥१४॥
मृत्युमृत्युं ततः शौरिर्भानोर्नारायणान्वितः ॥ नृहहरेर्द्वाविंशदर्णोऽयं मन्त्रः साम्राज्यदायकः ॥१५॥
ब्रह्मा मुनिस्तु गायत्री छंदोऽनुष्टुबुदाह्रतम् ॥ देवतां नृहरिश्वास्य सर्वेष्टफलदायकः ॥१६॥
हं बीजं इं तथा शक्तिर्विनियोगोऽखिलात्पये ॥ वेदैश्वतुर्भ्रिर्वसुभिः षडिः षडिर्युगाक्षरैः ॥१७॥
षडंगानि विधायाथ मूर्ध्नि भाले च नेत्रयोः ॥ मुखबाह्यंघ्रिसंध्यग्रेष्वथ कुक्षौ तथा ह्रदि ॥१८॥
गले पार्श्वद्वये पृष्ठे ककुद्यर्णान्मनूद्धवान् ॥ प्रणवांतरितान् कृत्वा न्यसेत्साधकसत्तमः ॥१९॥
नृसिंहसांनिध्यकरो न्यासो दशविधो यथा ॥ करांघ्र्यष्टाद्यंगुलीषु पृथगाद्यंतपर्वणोः ॥२०॥
सर्वांगुलीषु विन्यस्यावशिष्टं तलयोर्न्यसेत् ॥ शिरोललाटे भ्रमध्ये नेत्रयोः कर्णयोस्तथा ॥२१॥
कपोलकर्णमूले च चिबूकोर्द्धाधरोष्ठके ॥ कण्ठे  घोणे च भूजयोर्हत्तनौ नाभिमण्डले ॥२२॥
दक्षान्पदोस्तले कट्यां मेढ्रोर्वोजानुजघयोः ॥ गुल्फे पादकरांगुल्योः सर्वसन्धिषु रोमसु ॥२३॥
रक्तास्थिमज्जासु तनौ न्यसेद्वर्णान्विचक्षणः ॥ वर्णान्पदे गुल्फजानुकटिनाभिह्रदि स्थले ॥२४॥
बाह्योः कंठे च चिबुके चौष्ठे गण्डे प्रविन्य सेत् ॥ कर्णयोर्वदने नासापुटे नेत्रे च मूर्द्धनि ॥२५॥
पदानि तु मुखे मूर्ध्नि नसि चक्षुक्षि कर्णयोः ॥ आस्ये च ह्रदय नाभौ पादान्सर्वांगके न्यसेत् ॥२६॥
अर्द्धद्वयं न्यसेन्मूध्रि आह्रत्पादात्तदंगकम् ॥ उग्रादीनि पदानी ह मृत्युमृत्युं नमाम्यहम् ॥२७॥
इत्यंतान्यास्यकघ्राणाचक्षुः श्रोत्रेषु पक्ष्मसु ॥ ह्रदि नाभौ च कट्यादिपादांतं नवसु न्यसेत् ॥२८॥
वीराद्यनपि तान्येव यथार्पूंव प्रविन्यसेत् ॥ नृसिंहाद्यानि तान्येव पूर्ववाद्विन्यसे त्सुधीः ॥२९॥
चंद्राग्निवेदषड्रामनेत्रदिग्बाहुभूमितान् ॥ विभक्तान्मंत्रवर्णांश्व क्रमात्स्थानेषु विन्यसेत् ॥३०॥
मूले मूलाच्च नाभ्यंतं नाभ्यादि त्दृदयावधि ॥ ह्रदयाद्धूयुगांतं तु नेत्रत्रेय च मस्तके ॥३१॥
बाह्योरंगुलिषु प्राणेस्थानेषु चरणावधि ॥ विन्यसेन्नामतो धीमान्हरिन्यासोऽय मीरितः ॥३२॥
न्यासस्यास्य तु माहात्म्यं जानात्येको हरिः स्वयम् ॥ एवं न्यासविधिं कृत्वा ध्यायेच्च नृहरिं त्दृदि ॥३३॥
गलसक्तसद्वाहु स्पृष्टकेशोऽब्जचक्रधृक् ॥ नखाग्रभिन्नदैत्येशी ज्वालामालासमन्वितः ॥३४॥
दीप्तजिह्रस्त्रिनयनो दंष्ट्रोग्रं वदनं वहन् ॥ नृसिंहोऽस्मान्सदा पातु स्थलांबुगगनोपगः ॥३५॥
ध्यात्वैवं दर्शयेन्मुद्रां नृसिंहस्यं महात्मनः ॥ जानुमध्यगतौ कृत्वा चिबुककोष्ठौ समावुभौ ॥३६॥
हस्तौ च भूमिसंलग्नौ कंपमानः पुनः पुनः ॥ मुखं विजृंभितं कृत्वा लेलिहानां च जिह्रिकाम् ॥३७॥
एषा मुद्रा नारसिंही प्रधानेति प्रकीर्तिता । वामस्यांगुष्ठतो बद्धा कनिष्ठामंगलीत्रयम् ॥३८॥
त्रिशूलवत संमुखोर्द्धे कुर्यान्मुद्रां नृसिंहगाम् ॥ अंगुष्ठाभ्यां च करयोस्तथाऽऽक्रम्य कनिष्ठके ॥३९॥
अधोमुखाभिः शिष्टाभिः शेषाभिर्नहरौ ततः ॥ हस्तावधोमुखौ कृत्वा नाभिदेशे प्रसार्य च ॥४०॥
तर्जंनीभ्यां नयेत्स्कंधौ प्रोक्ता चांत्रणमुद्रिका ॥ हस्तावूर्द्धमुखौ कृत्वा तले संयोज्य मध्यमे ॥४१॥
अनामायां तु वामायां दक्षिणां तु विनिक्षिपेत् ॥ तर्जन्यौ पृष्ठतो लग्नौ अंगुष्ठौ तर्जनीश्रितौ ॥४२॥
चक्रमुद्रा भवेदेष नृहरेः संनिधौ मता ॥ चक्रमुद्रा तथा कृत्वा तर्जनीभ्यां तु मध्यमे ॥४३॥
पीडयेद्दंष्ट्रमुद्रैषा सर्वपाप्रणाशिनी ॥ एता मुद्रा नृसिंहास्य सर्वमंत्रेषु संमताः ॥४४॥
वर्णलक्षं जपेन्मंत्रं तद्दशांशं च पायसैः ॥ घृताक्तर्जुहुयाद्वह्रौ पीठे पूर्वोदितेऽर्चयेत् ॥४५॥
अंगान्यादौ समाराध्य दिक्पत्रेषु यजेत्पुनः ॥ गरुडदीन् श्रीमुर्खाश्व विदिक्षु लोकपान्वहिः ॥४६॥
एवं संसाधितो मंत्रः सर्वान्कामान्प्रपूरयेत् ॥ सौम्ये कार्ये स्मरेत्सौम्यं क्रूरं क्रूर स्मरेद्‌बुधः ॥४७॥
पूर्वमृत्युपदे शत्रोर्नाम कृत्वा स्वयं हरिः ॥ निशितैर्नखदंष्ट्राग्रैः खाद्यमानं च संस्मरेत् ॥४८॥
अष्टोत्तरशतं नित्यं जपेन्मन्त्रमतंद्रितः ॥ जायत मण्डलादर्वाक् शत्रुर्वे शमनातिथिः ॥४९॥
ध्यानभेदा वक्ष्ये सर्वसिद्धिप्रदायकान् ॥ श्रीकामः सततं ध्यायेत्पूर्वोक्तं नृहरिं सितम् ॥५०॥
वामांकस्थितया लक्ष्म्यालिंगितं पद्महस्तया ॥ विषमृत्यूपरोगादिसर्वोपद्रवनाशनम् ॥५१॥
नरसिंहं महाभीमं कालनल समप्रभम् ॥ आत्रंमालाधरं रौद्रं कण्ठहारेण भूषितम् ॥५२॥
नागयज्ञोपवीतं च पञ्चाननसुशोभितम् ॥ चन्द्रमौलिं नीलकण्ठं प्रतिवक्रं त्रिनेत्रकम् ॥५३॥
भुजैः परिघसकाशैर्द्दशभिश्वोपशोभितम् ॥ अक्षसूत्रं गदापद्मं शखं गोक्षीरसन्निभम् ॥५४॥
धनुश्व मुशलं चैव बिभ्राणं चक्रमुत्तमम् ॥ खङुं शूलं च बाणं च नृहरिं रुद्ररुपिणम् ॥५५॥
इन्द्रगोपाभनीलाभं चन्द्राभं स्वर्णसन्निभम् ॥ पूर्वादि चोत्तरं यावूद्धास्यं सर्ववर्णकम् ॥५६॥
एवं ध्यात्वा जपेन्मंत्री सर्वव्याधिविमुक्तये ॥ सर्वमृत्युहरं दिव्य स्मरणात्सर्वसिद्धिदम् ॥५७॥
ध्यायेद्यदा महत्कर्म तदा षोडशहस्तवान् ॥ नृसिंहः सर्वलोकेशः ॥ सर्वाभरणभूषितः ॥५८॥
द्वौ विदारणकर्माप्तौ द्वौ चांत्रोद्धरणान्वितौ ॥ शङ्खचक्रधरौ द्वौ तु द्वौ च बाणधनुर्द्धरौ ॥५९॥
खङुखेटधरौ द्वौ च द्वौ गदापद्मधारिणौ ॥ पाशांकुशधरौ द्वौ च द्वौ रिपोर्मुकुटार्पितौ ॥६०॥
इति षोडशदोर्दंडमण्डितं नृहरिं विभुम‍ ॥ घ्यायेन्नारद नीलाभमुग्र कर्मण्यनन्यधीः ॥६१॥
ध्येयो महत्तमे कार्ये द्वात्रिंशद्धस्तवान्बुधैः ॥ नृसिंहः सर्वभूतेशः सर्वसिद्धिकरः परः ॥६२॥
दक्षिणे चक्रपद्मे च परशुं पाशमेव च ॥ हलं च मुशलं चैव अभयं चांकुशं तथा ॥६३॥
पट्टिशं भिंदिपालं च खडुमुद्धरतोमरान् ॥ वामभागे करैः शंङ्खं खेटं पाशं च शूलकम् ॥६४॥
अग्निं च वरदं शक्तिं कुंडिकां च ततः परम् ॥ कार्मुकं तर्जनीमुद्रां गदां डमरुशूर्पकौ ॥६५॥
द्वाभ्यां कराभ्यां च रिपोर्जानु मस्तकपीडनम् ॥ उर्द्धीकृताभ्यां बाहुभ्यां आंत्रमालाधरं विभुम् ॥६६॥
अधःस्थिताभ्यां बाहुभ्यां हिरण्यकविदारणम् ॥ प्रियंकर च भक्तानां दैत्यानां च भयंकरम् ॥६७॥
नृसिंह तं स्मरेदित्थं महामृत्युभयापहम् ॥ एवं ध्यात्वा जपेन्मन्त्री सर्वकार्यार्थसिद्धये ॥६८॥
अथोच्यते ध्यानमन्यन्मुखरोगहरं शुभम् ॥ स्वर्णवर्णसुपर्णस्थं विद्युन्मालासटान्वितम् ॥६९॥
कोटिपूर्णेन्दुवर्ण च सुमुखं त्र्यक्षिवीक्षणम् ॥ पीतवस्त्रोरुभूषाढ्यं नृसिंह शान्तविग्रहम् ॥ चक्रशंखाभयवरान्दधतं करपल्लवैः ॥७०॥
क्ष्वेडरोगादिशमनं स्वैर्ध्यानैः सुखंदितम् ॥ शत्रोः सेनानिरोधेन यत्नं कुर्याच्च साधकम् ॥७१॥
अक्षकाष्ठैरे धितेऽग्रौ विचिंत्य रिपुर्दनम् ॥ देवं नृसिंह संपूज्य कुसुमाद्युपचारकैः ॥७२॥
समूलमूलैर्जुंहुयाच्छरैर्दशशतं पृथक् ॥ रिपुं खादन्निव जपेन्निर्दहन्निव तं क्षिपेत् ॥७३॥
हुत्वा सप्तदिन मन्त्री सेनामिष्टां महीपतेः ॥ प्रस्थापयेच्छुभे लग्ने परराष्ट्रजयेच्छया ॥७४॥
तस्याः पुरस्तान्नृहरिं निघ्रन्तं रिपुमण्डलम् ॥ स्मृत्वा जपं प्रकुर्वीत यावदायाति सा पुनः ॥७५॥
निर्जित्य निखिलाञ्छत्रन्सह वीरश्रियासुखात् ॥ प्रीणयेन्मन्त्रिणं राजा विभवैः प्रीतमानसः ॥७६॥
गजाश्वरथरत्नैश्व ग्रामक्षेत्रधनादिभिः ॥ यदि मन्त्री न तुष्यते तदानर्थो महीपतेः ॥७७॥
जायते तस्य राष्ट्रेषु प्राणेभ्योऽपि महाभयम् ॥ अष्टोत्तरशत मूलमन्त्रंमंत्रिभस्मना‍ ॥७८॥
नाशयेमूषिकालूतावृश्विकाद्युत्थितं विषम् ॥ लिप्तांगः सर्वरोगैश्व मुच्यते नात्र संशयः ॥७९॥
सेवंतीकुसुमैर्हुत्वा महतीं श्रियमाप्नुयात् ॥ औदुम्बरसमिद्धिस्तु भवेद्धान्यसमृद्धिमान् ॥८०॥
अपूपलक्षहोमे तु भवेद्वैश्रणोपमः ॥ क्रुद्धस्य सन्निधौ राज्ञो जपेदष्टोत्तरं शतम् ॥८१॥
सद्यो नैर्मल्यमाप्नोति प्रसादं चाधिगच्छति ॥ कुंदप्रसूनै रुदयं मोचभिर्विघ्नाशनम् ॥८२॥
तुलसीपत्रहोमेन महतीं कीर्तिमाप्नुयात् ॥ शाल्युत्थसक्तुहोमेन वशयेदखिलं जगत् ॥८३॥
मधूकपुष्पैरिष्टं स्यात्स्तंभनं धात्रिखण्डकैः ॥ दधिमध्वाज्यमिश्रां तु गुडूचीं चतुरंगुलाम् ॥८४॥
जुहुया दयुतं योऽसौ शतं जीवति रोगजित ॥ शनैश्वर दिनेऽश्वत्थं स्पृष्टा चाष्टोत्तरं शतम् ॥८५॥
जपेज्जित्वासोऽपमृत्युं शतवर्षाणि जीवति ॥ अथ ते संप्रवक्ष्यामि यंत्रं त्रैलोक्यमोहनम् ॥८६॥
यस्य संधारणादेव भवेयुःसर्वसंपदः ॥ श्वेतभूर्ज्जे लिखेत्पद्मं द्वात्रिंशत्सिंहसंयुतम् ॥८७॥
मध्ये सिंहे स्वबीजं च लिखेत्पू र्ववदेव तु ॥ श्रीबीजेन तु तुरुवेद्य वलयत्रसंयुतम् ॥८८॥
पाशांकुशैश्व संवेष्य पूजयेद्यंमुत्तमम् ॥त्रैलोक्यमोहनं नाम सर्वकामार्थसाधनम् ॥८९॥
चक्रराजं महाराजं सर्वचक्रेश्वरेश्वरम् ॥ धारणाज्जयमाप्नोति सत्यं सत्यं न संशयः ॥९०॥
अथ यन्त्रांतरं वक्ष्ये श्रृणु नारद सिद्धिदम ॥ अष्टारं विलिखेद्यंत्रं श्लक्ष्ण कर्णिकया युतम् ॥९१॥
मूलमंत्रं लिखेत्तत्र प्रणवेन समन्वितम् ॥ एकाक्षरं नारसिंहं मध्ये चैव ससाध्यकम् ॥९२॥
जपे दष्टसहस्त्रं तु सूत्रेणावेष्टय तद्वहिः ॥ स्वर्णरौप्यसुताम्रैश्व वेष्टयेत्क्रमतः सुधीः ॥९३॥
लाक्षया वेष्टितं कृत्वा पुनर्मंत्रेण मंत्रयेत् ॥ कंठे भुजे शिखायां वा धारयेद्यंत्रमुत्तमम् ॥९४॥
नरनारीनरेंद्राश्व सर्वे स्युर्वशगा भुवि ॥ दुष्टास्तं नैव बाधंते पिशाचोरगराक्षसाः ॥९५॥
यंत्रराजप्रसादेन सर्वत्र जयमाप्नुयात् ॥ अथान्यत्संप्रवक्ष्यामि यंत्रं सर्ववशंकरम् ॥९६॥
द्वादशारं महाचक्रं पूर्वद्विलिखेत्सुधीः ॥ मात्राद्वादशसंभिन्नलेन विलिखेद्दुधः ॥९७॥
मध्ये मंत्र शक्तियुक्तं श्रीबीजेन तु वेष्टयेत् ॥ कालांतकं नाम चकं सुरासुरवंशकरम् ॥९८॥
चक्रमुल्लेखयेद्धूर्जे सर्वशत्रुनिवारणम् ॥ यस्य धारणमात्रेण सर्वत्र विजयी भवेत् ॥९९॥
अथ सर्वेष्ट्रदं ज्वालामालिसंज्ञं वदाम्यहम् ॥ बीजं ह्रद्धवान्ङेतो नरसिंहाय तत्परम् ॥१००॥
ज्वालिने मालिने दीप्तदंष्ट्राय अग्निने पदम् ॥ त्राय सर्वादिरक्षोघ्राय च नः सर्वभूपदम् ॥१०१॥
हारिर्विनाशनायांते सर्वज्वरविनाशमः ॥ नामांते दहयुग्मे च पचद्वयमुदीरयेत् ॥१०२॥
रक्षयुग्मं च वर्मास्त्रठद्वयांतो ध्रुवादिकः ॥ अष्टषष्टयक्षरैः प्रोक्तो ज्वालामाली मनूत्तमः ॥१०३॥
पुण्यादिकं तु पूर्वोक्तं त्रयोदशभिरक्षरैः ॥ पंक्तिभी रुद्रसंख्याकैरष्टादशभिरक्षरैः ॥१०४॥
भानुभिः करणैर्मंत्री वरैरंगानि कल्पयेत् ॥पूर्वोक्तरुपिणं ज्वालामलिन नृहरि स्मरेद्‍ ॥१०५॥
लक्षं जप दशांश च जुहुयात्कापलघृतेः ॥ रौद्रापस्मारभूतादिनाशकोऽयं मनूत्तमः ॥१०६॥
प्राणो माया नृसिंहश्व सृष्टिर्ब्रह्मास्त्रमीरितः ॥ षडक्षरो महामंत्रः सर्वाभीष्टप्रदायकः ॥१०७॥
मुनिर्ब्रह्मा तथा छंदः पंक्तिर्देवो नृकेंसरी ॥ षड्‌देर्घभाजा बीजेन षडंगानि समाचरेत् ॥१०८॥
पूर्वोक्तेनैव विधिना ध्यानं पूजां समाचरेत् ॥ सिद्धेन मनुनानेन सर्वसिद्धर्भवे न्नृणाम् ॥१०९॥
रमाबीजादिकोऽनुष्टुप्त्रयस्त्रिंशार्णवान्मनुः ॥ प्रजापतिर्मुनिश्च्छदोऽनुष्टुप्‍ लक्ष्मीनृकेसरी ॥११०॥
देवता च पदैः सर्वेणांगकल्प नमीरितम् ॥ विन्यस्येव तु पंचागं स्वात्मरक्षां समाचरेत् ॥१११॥
संस्पृशन् दक्षिणं बाउं शरभस्य मनुं जपेत् ॥ प्रणवो ह्रच्छिवार्यति महते शरभाय च ॥११२॥
वह्रिप्रियांतो मंत्रस्तु रक्षार्थे समुदाह्रतः ॥ अथवा राममंत्रांते परं क्षद्वितयं पठेत् ॥११३॥
अथवा केशवाद्यैस्तु रक्षांकुर्यात्प्रयत्नतः ॥ केशवः पातु पादौ मे जंघे नारायणोऽवतु ॥११४॥
माधवो मे कटिं पातु गोविन्दो गुह्यमेव च ॥ नाभिं विष्णुश्व मे पातु जठरं मधुसूदन ॥११५॥
ऊरु त्रिविक्रमः पातु ह्रदयं पातु मे नरः ॥ श्रीधरः पातु कण्ठं च ह्रषीकेशी मुखं मम ॥११६॥
पद्मनामः स्तनौ पातु शीर्ष दामोदरोऽवतु ॥ एवं विन्यस्य चांगेषु जपकाले तु साधकः ॥११७॥
निर्भयो जायते भूतवेतलग्रहराक्षसात् ॥ पुनर्न्यत्प्रयत्नेन ध्यानं कुर्वन्समाहितः ॥११८॥
पुरस्तात्केशवः पातुः चक्री जांबूनदप्रभः ॥ पश्वान्नारायणः शंखी नीलजीमूतसन्निभः ॥११९॥
उर्द्धमिंदीवरश्यामो माध वस्तू गदाधरः ॥ गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् ॥१२०॥
उत्तरे हलधृग्विष्णुः पद्मकिंजल्कसन्निभः ॥ आग्रेय्यामरविंदाक्षो मुसली मधुसूदनः ॥१२१॥
त्रिविक्रमः खडुपाणिनैऋत्यां ज्वलनप्रभः ॥ वायव्यां माधवो वज्री तरुणादित्यसन्निभः ॥१२२॥
ऐशान्यां पुण्डरीकाक्षः श्रीधर पट्टिशायुधः ॥ विद्युत्प्रेभो ह्रषीकेश ऊर्द्धे पातु समुद्धरः ॥१२३॥
अधश्व पद्मनाभो मे सहस्त्रांशुसमप्रभः ॥ सर्वायुधः सर्वशक्तिः सर्वाद्यः सर्वतोमुखः ॥१२४॥
इन्द्रगोपप्रभः पायात्पाशहस्तोऽपराजितः ॥ स बाह्याभ्यंतरे देहमव्याद्दामोदरो हरिः ॥१२५॥
एवं सर्वत्र निश्छ्द्रं नाम द्वादर्शपञ्जरम् ॥ प्रविष्टोऽहं न मे किंचिद्धयमस्ति कदाचन् ॥१२६॥
एवं रक्षां विधायाथ दुर्द्धर्षो जायते नरः ॥ सर्वेषु नृहरेर्मंत्रवर्गेष्वेवं विधिर्मथ ॥१२७॥
पूर्वोक्तविधिना सर्वं ध्यानपूजादिकं चरेत् ॥ जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन् ॥१२८॥
नमस्तेऽस्तु ह्रषीकेश महापुरुष ते नमः ॥ इत्थं संप्रार्थ्य जप्त्वा च पटित्वा विसृजेद्विभुम् ॥१२९॥
एवं सिद्धे मनौ मन्त्री जायते सम्पदां पदम् ॥ जयद्वयं श्रीनृसिंहेत्येष्टार्णोऽयं मनूत्तमः ॥१३०॥
मुनिर्ब्रह्माथ गायत्री छ्न्दः प्रोक्तोऽस्य देवता ॥ श्रीमाञ्जनृसिंहस्तु सर्वाभीष्टप्रदायकः ॥१३१॥
सेंदुगोविंदपूर्वेण वियता सेन्दुनापुनः ॥ षडीर्घाढ्ये न कुर्वीत षडंगानि विशालधीह ॥१३२॥
ततो ध्यायेद्ध्दि विभुं नृसिंहं चन्द्रशेखरम् ॥१३३॥
श्रीमन्नृकेसरितनो जगदेकबन्धो श्रीनीलकण्ठ करुणार्णव सामराज ॥वह्रीन्दुतीव्रकरनेत्र पिनाकपाणे शीतांशुशेखर रमेश्वर पाहि विष्णो ॥१३४॥
ध्यात्वैवं प्रजपेल्लक्षाष्टकं मन्त्री दशांशतः ॥ साज्येन पायासान्नेन जुहुयात्प्राग्वदर्चनम् ॥१३५॥
तारो माया स्वबीजांते कर्णोग्रं वीरमीरयेत ॥ महाविष्णुं ततो ब्रूयाज्ज्वंलंतं सर्व तोमुखम् ॥१३६॥
स्फुरद्दयं प्रस्फुरेति द्वयं घोरपदं ततः ॥ वदेद्दोरतरं ते तु तनुरुपं च ठद्वयम् ॥१३७॥
प्रचटद्वयमाभाष्य कहयुग्म च मद्वयम् ॥ बन्धद्वयं घातयेति द्वयं वर्मास्त्रमीरयेत् ॥१३८॥
नृसिंह भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ पञ्चाशीत्यक्षरो मन्त्रो भजतामिष्टयकः ॥१३९॥
ऋषी  ह्यघोरब्रह्माणौ तथा त्रिष्टुबनुष्टुभौ ॥ छन्दसी च तथा घोरनृसिंहो देवता मतः ॥१४०॥
ध्यानार्चनादिकं चास्य कुर्यादानुष्टुभं सुधीः ॥ विशेषान्मन्त्रवर्योऽयं सर्वरक्षाकरो मतः ॥१४१॥
बीजं हं तथा जययुगं पश्वान्नृसिंहेत्यष्टवर्णवान् ॥ ऋषिः प्रजापतिश्वास्यानुष्टुप्छन्द उदाह्रतम् ॥१४२॥
विदारणनृसिंहोऽस्य देवता परिकीर्तितः ॥ जं बीजं हं तथा शक्तिर्विनियोगोऽखिलाप्तये ॥१४३॥
दीर्घाढ्येन नृसिंहेन षडंगन्यासमाचरेत् ॥ रौदं ध्यायेन्नृसिंह तु शत्रुवक्षोविदारणम् ॥१४४॥
नखदंष्ट्रायुग्धं भक्ताभयद श्रीनिकेतनम् ॥ तप्तहाटककेशातंज्वलत्पावकलोचनम् ॥१४५॥
वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते ॥ मुनिर्ब्रह्या समाख्यातोऽनुष्टुप्छंदः समीरितः ॥१४६॥
देवतास्य रदार्णस्य दिव्यपूर्वी नृकेसरी ॥ पादैश्वतुर्भिः सर्वेणं पंचांगानि समाचरेत् ॥१४७॥
ध्यानपूजादिकं सर्वं प्राग्वत्प्रोक्तं मुनीश्वर ॥ पूर्वोक्तानि च सर्वाणि कार्याण्यायांति सिद्धताम् ॥१४८॥
तारो नमो भगवते नरसिंहाय हच्च ते ॥ जस्तेजसे आविराविर्भव वज्रनखांततः ॥१४९॥
व्रजदंष्ट्रेति कर्मांते त्वासयाक्रंदयद्वयम् ॥ तमो ग्रसद्वयं पश्वात्स्वाहांते चाभयं ततः ॥१५०॥
आत्मन्यंते च भूयिष्ठा ध्रुवो बीजांतिमो मनुः ॥ द्विषष्टयर्णोऽस्य मुन्यादि सर्वं पूर्ववदीरितम् ॥१५१॥
तारो नृसिंबीजं च नमो भगवते ततः ॥ नरसिंहाय तारश्व बीजमस्य यद ततः ॥१५२॥
रुपाय तारः स्वर्बीजं कूर्मरुपाय तार कम् ॥ बीजं वराहरुपाय तारो बीज नृसिंहतः ॥१५३॥
रुपाय तार स्वं बीजं वामनांते च रुपतः ॥ पापध्रुवत्रयं बीजं रामाय निगमादितः ॥१५४॥
बीजं कृष्णाय तारांते बीजं च कल्किने ततः ॥ जयद्वयं ततः शालग्रामांते च निवासिने ॥१५५॥
दिव्यसिंहाय ङेन्तः स्यात्स्वयंभूःपुरुषाय ह्रतू‍ ॥ तारः स्वं बीजमित्येषं महासाम्राज्यदायकः ॥१५६॥
नृसिंहमन्त्रः खांकार्णो मुनिरात्रिः प्रकीर्तितः ॥ छन्दोऽतिजगती प्रोक्तं देवता कथिता मनोः ॥१५७॥
दशावतारो नृहरिं बीजं खं शक्तिख्यवः ॥ षड्‌दीर्घाढ्येनं बीजेन कृत्वांगानि च भावयेत् ॥१५८॥
अनेकचन्द्रप्रतिमो लक्ष्मीमुखकृतेक्षणः ॥ दशावतारैः सद्दितस्तनोतु नृहरिः सुखम् ॥१५९॥
जपोऽयुतं दशांशेन होमः स्यात्पायसेन तु ॥ प्रागुक्ते पूजयेत्पीठे मूर्तिम संकल्प्य मूलतः ॥१६०॥
अंगान्यादौ च मत्स्याद्यान्दिग्दलेषु ततोऽर्चयेत् ॥ इन्द्राद्यानपि वज्राद्यान्सम्पूज्येष्टमवाप्नुयात् ॥१६१॥
सहस्त्रार्णं महामंत्रं वक्ष्ये तंत्रेषु गोपितम् ॥ तारो माया रमा कामो बीजं क्रोधपदं ततः ॥१६२॥
मृर्ते नृसिंहशब्दांते महापुरुष ईरयेत् ॥ प्रधानधर्माधर्मान्ते निगडेतिपदं वदेत् ॥१६३॥
निर्मोचनांते कालेति ततः पुरुष ईरेयेत् ॥ कालांतकसदृअक्तोयं स्वेश्वरांते सदृग्जलम् ॥१६४॥
श्रांताते तु निविष्टेति चैतन्यचित्सदा ततः ॥ भासकांते तु कालद्यतीतनित्योदितेति च ॥१६५॥
उदयास्तमयाक्रान्तमहाकारुणिकेति च ॥ ह्रदयाब्जचतुश्वोक्ता दलांते तु निविष्टितः ॥१६६॥
चैतन्यात्मंश्वतुरामन्द्वादशात्मंस्ततः परम् ॥ चतुर्विशात्मन्नन्ते तु पञ्चविंशात्मन्नित्यपि ॥१६७॥
बको हरिः सहस्त्रांते मूर्ते एह्येहि शब्दतः ॥ भगवन्नृसिंहपुरुष क्रोधेश्वर रसा सह ॥१६८॥
स्त्रवंदितांते पादेति कल्पांताग्निसहस्त्र च ॥ कोट्याभांते महादेव निकायदशशब्दतः ॥ ॥१६९॥
शतयज्ञातलं ज्ञेयं ततश्वामलयुगमकम् ॥ पिंगलेक्षणसटादष्ट्रां दंष्ट्रायुध नखायुध ॥१७०॥
दानवेद्रांतकावह्रिणशोणितपदं ततः ॥ सं सक्तिविग्रहांते तु भूतापस्मारयातुधान् ॥१७१॥
सुरासुखंवंद्यमानपादपंकजशब्दतः ॥ भगवन्व्योमचक्रेश्वरांते तु प्रभवाप्यय ॥१७२॥
रुपेणोत्तिष्ठ चोत्तिष्ठ अविद्यानिचयं दह ॥ दह ज्ञानैश्वर्यमंते प्रकाशयुगं ततः ॥१७३॥
ॐ सर्वज्ञ अरोषांते जंभाजृभ्यवतारकम् ॥ सत्यपुरुष शब्दांते सदसन्मध्य ईरयेत् ॥१७४॥
निविष्टं मम दुःखस्वप्नभयं निगडशब्दतः ॥ भयं कांतारशब्दांते भयं विषपदात्ततः ॥१७५॥
ज्वरांते डाकिनी कृत्याध्वरेवतीभयं ततः ॥ अशन्यंते भयं दुर्भिक्षभयं मारीशब्दतः ॥१७६॥
भयं मारीचशब्दांते भयं छायापदं ततः ॥ स्कंदापस्माशब्दांते भयं चौरभयं ततः ॥१७७॥
जलस्वप्नाग्रिभयं गजसिंहभुजजङुगतः ॥ भयं जन्मजरांते मरणादिशब्दमीरयेत् ॥१७८॥
भयं निर्मोचययुगं प्रशमययुगं ततः ॥ ज्ञेयरुपधारणांते नृसिंहबृहत्सामतः ॥१७९॥
पुरुषांते सर्वभयानिवारणपदं ततः ॥ अष्टाष्टकं चतुःषष्टि चेटिकाभयमीरयेत् ॥१८०॥
विद्यावृतस्त्रयस्त्रिंशद्देवताकोटिशब्दतः ॥ नमितांते पदपदात्पंकजान्वित ईरयेत् ॥१८१॥
सह स्त्रवदनांते तु सहस्त्रोदरे संवदेत् ॥ सहस्त्रेक्षणशब्दांते सहस्त्रपादमीरयेत् ॥१८२॥
सहस्त्रभुज संप्रोच्य सह्स्त्रजिह्य संवदेत् ॥ सहस्त्रांते ललाटेति सहस्त्रायुधतो धरात् ॥१८३॥
तमःप्रकाशक पुरमथनान्ते तु सर्व च ॥ मन्त्रराजेश्वरपदाद्विहायसगतिप्रद ॥१८४॥
पातालगतिप्रदांते यन्त्रमर्द्दन ईरयेत् ॥ घोराट्टहासहसिताविश्वावासपदं ततः ॥१८५॥
वासुदेव ततोऽक्रूर ततो हयमुखेति च ॥ परमहंस विश्वेश विश्वांते तु विडंबन ॥१८६॥
निविष्टांते ततः दुर्भावकारक ईरयेत ॥ ह्र्षीकेश च स्वच्छंद निःशेषजीव विन्यसेत् ॥१८७॥
ग्रासकांते महा पश्वात्पिशितासृगितीरयेत‍॥ लंपटान्ते खेचरीति सिद्ध्यते तु प्रदायक ॥१८८॥
अजेयाव्यय अव्यक्त ब्रह्माण्डोदर इत्यपि ॥ ततो ब्रह्मसहस्त्रांते कोटि स्त्रग्रुंडशब्दतः ॥१८९॥
माल पंडितमुण्डेति मत्स्य कूर्म ततः परम् ॥ वराहांते नृसिंहेति वामनांते समीरयेत् ॥१९०॥
त्रैलोक्याक्रमणांते तु पादशा लिक ईरयेत ॥ रामत्रय ततो विष्णुरुपांते धर एव च ॥१९१॥
तत्त्वत्रयांते प्रणवाधारतस्तच्छिखां पदम् ॥ निविष्टवह्रिजायांते स्वधा चैव ततो वषट् ॥१९२॥
नेत्र वर्मास्त्रमुच्चार्य्य प्राणाधार इतरियेत ॥ आदिदेवपदात्प्राणापानपश्वान्निविष्टितः ॥१९३॥
पांचरात्रिक दितिज विनिधनांते करेति च ॥ महामाया अमोघांते दर्यं दैत्येंद्रशब्दतः ॥१९४॥
दर्यांते दलनेत्युक्ता तेजोत्युक्ता तेजोराशिन् ध्रुवं स्मरः ॥ तेजस्वरांते पुरुषपंङेते सत्यपुरुष ॥१९५॥
अस्त्रतारोऽच्युतास्त्रं च तारो वाचा सुदेव फट ॥ तारमायामूर्तेः फट् वः काम स्वरादिमः ॥१९६॥
मूर्तेस्त्रमव्ययोबीजं विश्वमूर्तेस्त्रिमव्ययः ॥ मायाविश्वात्मने षटू च तारः सौचं तुरात्मने ॥१९७॥
फटू तारोहं विश्वरुपिन्नस्त्रं च तदनंतरम् ॥ तारौह्रैपरमांते तु ह्रंसफटूप्रणवस्ततः ॥१९८॥
ह्रः हिरण्यगर्भरुप धारणांते च फट् धुर्वः ॥ ह्रौं अनौपम्यरुपधारिणास्त्रं ध्रुवस्ततः ॥१९९॥
क्षौं नृसिंहरुपधारिन ॐ क्लं श्लश्व स्वरादिकः ॥ ष्टांगविन्यासविन्य स्तमूर्तिधारिंस्ततश्व फटू ॥२००॥
ह्रौ निर्सगसिद्धयैकरुपधारिंस्तश्व फटू॥ तारो वर्मत्रयं संकरं वं चामुकमस्तकम् ॥२०१॥
खंडाद्वयं खाद येतिद्वयं क्लीं साध्यमानय ॥ द्वंय ततो महात्मन्स्यान्सम्यग्दर्शययुग्मकम् ॥२०२॥
षड्‌दीर्घाड्यां स्वबीजं च क्षपितांते तु कल्मष ॥ उत्तरायं द्वयं पंचबाणबीजानि वोच्चरेत् ॥२०३॥
नृसिंहांते ततो ज्वालात्मने स्वाहा समीरयेत् ॥ नृसिंहान्ते ततः कालात्मने स्वाहा ध्रुवस्ततः ॥२०४॥
खबीजं कामबीजं च लक्ष्मीबीजद्वयं ततः ॥ मायातारांतिमो मन्त्रः सहस्त्राक्षरसंमितः ॥२०५॥
कपिलोऽस्य मुनिश्छन्दो जगती देवता पुनः ॥श्रीलक्ष्मीर्नृहरिर्बीजं क्षौं शक्तिर्वह्रिवल्लभा ॥२०६॥
श्वेतो वर्ण उदात्तश्व स्वरः प्रोक्तो मनीषिभिः ॥ क्षेत्रं च परमात्मा तु विनियोगोऽखिलाप्तये ॥२०७॥
क्षः सहस्त्रबाहवेंते सहस्त्रायुधधराय च ॥ नृसिंहातं वह्रिजायास्त्रायफटू मन्त्र ईरितः ॥२०८॥
अनेन करशुद्धिं च कृत्वांगानि समाचरेत् ॥ तारः क्षां च सहस्त्रांते क्षरशब्दाद्विजृंभितम् ॥२०९॥
नृसिंहायाग्निजायांतो त्दृदये मनुरीरितः ॥ मारःक्षीं च महातेनुं प्रभांते विकरेति च ॥२१०॥
नृसिंहा याग्रिजायांते शिरोमंत्रः प्रकीर्तितः ॥ तारः क्षं तप्तयंहायश्वादृक्केशांत ईरयेत् ॥२११॥
ज्वलत्यावकलो कूर्मो दीर्घा वज्रधिकेति च ॥ नख स्पर्शद्दिव्यसिंह नमोऽस्तु भगवन् हरिः ॥२१२॥
महाध्वस्त जगद्रूप नृसिंहाय द्वयंद्वयम् ॥ अनेन च शिखा प्रोक्ता कवचं तदनंतरम् ॥२१३॥
तारः क्षैं च सुवर्ण ते मदमतपदं ततः ॥ विह्रलितनृसिंहाय स्वाहतिं स्मृतम् ॥२१४॥
तारः क्षौं च सहस्त्राक्ष विश्वरुपपदं वदेत् ॥ धारणेग्रिप्रियातोऽयं नेत्रमंत्रः प्रकीर्तितः ॥२१५॥
तारो क्षश्व सहस्त्रांते वारावेपदमीरयेत् ॥ सहस्त्रांते युधायाथ नृसिंहायाग्रिसुंदरी ॥२१६॥
अस्त्रमंत्रः समाख्यास्ततो ध्यायेन्नृकेसरी ॥ उद्यदर्कसहस्त्राभं त्रीक्ष्णं भीमभूषणम् ॥२१७॥
सुतीक्ष्णाग्रभुजो दंडैर्दैत्यदारणकं स्मरेत् ॥ एवं ध्यात्वा जपेन्मंत्री सहस्त्रं पायसेन च ॥२१८॥
आज्यप्लुतेन जुहुयात्सम्यक्सिद्धो भवेन्मनुः ॥ प्रागुक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः ॥२१९॥
संपूज्य नृहरिं पश्वादादावंगानि पूजयेत् ॥ चक्र शंखं च पाशं वांकुशं कुलिशमेव च ॥२२०॥
गदाकृपाणिक्ष्वेडानि दलेषु परिपूज येत् ॥ लोकेशानपि वज्राद्यान्पूजयेत्तदनंतरम् ॥२२१॥
एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तृमर्हति ॥ भस्मभिमंत्रितं कृत्वा ग्रहग्रस्तं विलेपयेत् ॥२२२॥
भस्मसंलेपनादेव सर्वग्रहविनाशम‍ ॥ अनेनैव विधानेन यक्षराक्षसकिन्नरः ॥२२३॥
भूतप्रेतपिशाचाश्व नश्यंत्येव न संशयः ॥ पराभिचारकृत्यानि मनुनानेन मंत्रितम् ॥२२४॥
भस्म संलेपयेत्सद्यो दुराधर्षो भवेन्नर्ह ॥ सुदिने स्थापयेत्कुम्भे सर्वतोभद्रमण्डले ॥२२५॥
तीर्थ तोयेन संपूर्य जपेदष्टोत्तरं शतम् ॥ तेनाभिषिक्तो मनुजः सर्वापत्तिं तरेद् ॥२२६॥
किं बहूक्तेन सर्वेष्टदायकोऽयं मनूत्तमः ॥ वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि ॥ तन्नो नृसिः शब्दांते वचेच्चैव पचोदयात् ॥२२७॥
एषा नृसिहगायत्री सर्वाभीष्टप्रदायिनी ॥ एतस्याः स्मरणादेव सर्वपापक्षयो भवेत् ॥२२८॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे नृसिंहोपासनामन्त्रगायत्र्यदिनिरुपणं नामैकसप्ततितमोऽध्यायः ॥७१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:46:46.1900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ŚAIBYA II(शैब्य)

RANDOM WORD

Did you know?

चंद्र व सूर्य यांच्या ग्रहणी जन्म झाल्यास त्याचे काय परिणाम होतात? शांती, विधी काही आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.