TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
अष्टाविंशोऽध्यायः

श्री नारदीयमहापुराणम् - अष्टाविंशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


अष्टाविंशोऽध्यायः

सनक उवाच ॥

श़ृणुष्व मुनिशार्दूल श्राद्धस्य विधिमुत्तमम् ॥ यच्छुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥१॥

क्षयाहपूर्वदिवसे स्नात्वा चैकाशनो भवेत् ॥ अधःशायी ब्रह्मचारी निशि विप्रान्निमंत्रयेत् ॥२॥

दन्तधावनतांबूले तैलाभ्यंगं तथैव च ॥ रत्योषधिपरान्नानि श्राद्धकर्त्ता विवर्जयेत् ॥३॥

अध्वानं कलहं क्रोधं व्यवायं च धुरं तथा ॥ श्राद्धकर्त्ता च भोक्ता च दिवास्वापं च वर्जयेत् ॥४॥

श्राद्धे निमंत्रितो यस्तु व्यवायं कुरुते यदि ॥ ब्रह्महत्यामवाप्नोति नरकं चापि गच्छति ॥५॥

श्राद्धे नियोजयेद्विप्रं श्रोत्रियं विष्णुतत्परम् ॥ यथास्वाचारनिरतं प्रशांतं सत्कुलोद्भवम् ॥६॥

रागद्वेषविहीनं च पुराणार्थविशारदम् ॥ त्रिमधुत्रिसुपर्णज्ञं सर्वभूतदयापरम् ॥७॥

देवपूजारतं चैव स्मृतितत्त्वविशादरम् ॥ वेदांततत्तवसंपन्न सर्वलोकहिते रतम् ॥८॥

कृतज्ञं गुणसंपन्नं गुरुशुश्रूषणे रतम् ॥ परोपदेशनिरतं सच्छास्त्रकथनैस्तथा ॥९॥

एते नियोजितव्या वै श्राद्धे विप्रा मुनीश्वर ॥ श्राद्धे वर्ज्यान्प्रवक्ष्यामि श़ृणु तान्सुसमाहितः ॥१०॥

न्यूनांगश्चाधिकांगश्च कदर्यो रोगितस्तथा ॥ कुष्ठी च कुनखी चैव लंबकर्णः क्षतव्रतः ॥११॥

नक्षत्रपाठजीवी च तथा शवदाहकः ॥ कुवादी परिवेत्ता च तथा देवलकः खलः ॥१२॥

निंदकोऽमर्षणो धूत्रस्तथैव ग्रामयाजकः ॥ असच्छास्राभिनिरतः परान्ननिरतस्तथा ॥१३॥

वृषलीसूतिपोष्टा च वृषलीपतिरेव च ॥ कुंडश्च गोलकश्चैव ह्ययाज्यानां च याजकः ॥१४॥

दंभाचारो वृथामुंडी ह्यन्यस्त्रीधनतत्परः ॥ विष्णुभक्तिविहीनश्चशिवभक्तिपराङ्मुखः ॥१५॥

वेदविक्रयिणश्चैव व्रतविक्रयिणस्तथा ॥ स्मृतिव्रिकयिणश्चैव मंत्रविक्रयिणस्तथा ॥१६॥

गायकाः काव्यकर्त्तारो भिषक्छास्त्रोपजीविनः ॥ वेदनिंदापरश्चैव ग्रामारण्यप्रदाहकः ॥१७॥

तथातिकामुकश्चैव रसविक्रयकारकः ॥ कूटयुक्तिरतश्चैव श्राद्धे वर्ज्याः प्रयत्नतः ॥१८॥

निमंत्रयीत पूर्वेद्युस्तस्मिन्नेव दिनेऽथवा ॥ निमंत्रितो भवेद्विप्रो ब्रह्मचारी जितेंद्रियः ॥१९॥

श्राद्धे क्षणस्तु कर्त्तव्यः प्रसादश्चेति सत्तम ॥ निमंत्रयेद्विज प्राज्ञं दर्भपाणिर्जितेंद्रियः ॥२०॥

ततः प्रातः समुत्थाय प्रातःकृत्यं समाप्य च ॥ श्राद्धं समाचरेद्विदान्काले कुतपसंज्ञिते ॥२१॥

दिवसस्याष्टमे काले यदा मंदायते रविः ॥ स कालः कुतपस्तत्र पितृणां दत्तमक्षयम् ॥२२॥

अपराह्णः पितृणां तु दत्तः कालः स्वयंभुवा ॥ तत्काल एव दातव्यं कव्यं तस्माद्विजोत्तमैः ॥२३॥

यत्कव्यं दीयते द्रव्यैरकाले मुनिसत्तम ॥ राक्षसं तद्धि विज्ञेयं पितृणां नोपतिष्ठति ॥२४॥

कव्यंप्रतं तु सायाह्ने राक्षसं तद्भवेदपि ॥ दाता नरकमाप्नोति भोक्ता च नरकं व्रजेत् ॥२५॥

क्षयाहस्य तिथेविप्रं यदि दंडमितिर्भवेत् ॥ विद्धापराह्णिकायां तु श्राद्धं कार्यं विजानता ॥२६॥

क्षयाहस्य तिथिर्या तु ह्यपराह्णद्वये यदि ॥ पूर्वा क्षये तु कर्त्तव्या वृद्वौ कार्या तथोत्तरा ॥२७॥

मुहुर्त्तद्वितये पूर्वदिने स्यादपरोऽहनि ॥ तिथिः सायाह्नगा यत्र परा कव्यस्य विश्रुता ॥२८॥

किंचित्पूर्वदिने प्राहुर्मुहूर्त्तद्वितये सति ॥ नैतन्मतं हि सर्वेषां कव्यदाने मुनीश्वर ॥२९॥

निमंत्रितेषु विप्रेषु मिलितेषु द्विजोत्तम ॥ प्रायश्चित्तविशुद्धात्मा तेभ्योऽनुज्ञां समाहरेत् ॥३०॥

श्राद्धार्थं समनुज्ञातो विप्रान्भूयो निमंत्रयेत् ॥ उभौ च विश्वेदेवार्थं पित्रर्थं त्रीन्यथाविधि ॥३१॥

देवतार्थं च पित्रर्थमेकैकं वा निमंत्रयेत् ॥ श्राद्धार्थं समनुज्ञातः कारयेन्मंडलद्वयम् ॥३२॥

चतुरस्त्रं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य वै ॥ वैशस्य वर्तुलं ज्ञेयं शूद्रस्याभ्युक्षणं भवेत् ॥३३॥

ब्राह्मणानामभावे तु भ्रातरंपुत्रमेव च ॥ आत्मानं वा नियुंजीत न विप्र वेदवर्जितम् ॥३४॥

प्रक्षाल्य विप्रपादांश्च ह्याचांतानुपवेश्य च ॥ यथावदर्चनं कुर्यात्स्मरन्नारायणं प्रभुम् ॥३५॥

ब्राह्मणानां तु मध्ये च द्वारदेशे तथैव च ॥ अपहता इत्यृचा वै कर्त्ता तु विकिरेत्तिलान् ॥३६॥

यवैदर्भैश्च विश्वेषां देवानामिदमासनम् ॥ दत्त्वेति भूयो दद्याच्च दैवे क्षणप्रतीक्षणम् ॥३७॥

अक्षरूयासनयोः षष्ठी द्वितीयावाहने स्मृता ॥ अन्नदाने चतुर्थीस्याच्छेषाः संबुद्धयः स्मृताः ॥३८॥

आसाद्य पात्रद्वितंय दर्भशाखासमन्वितम् ॥ तत्पात्रे सेचयेत्तोयं शन्नोदेवीत्यृचा ततः ॥३९॥

यवोसीतिति यवान् क्षिप्त्वा गंधपुष्पे च वाग्यतः ॥ आवाहये ततो देवान्विश्वे देवास्स इत्यृचा ॥४०॥

या दिव्या इति मंत्रेण दद्यादर्ध्यं समाहितः॥ गंधैश्चपत्रपुष्पैश्च धूपैर्दिपैर्यजेत्ततः ॥४१॥

देवैश्च समनुज्ञातो यजेत्पितृगणांस्तथा ॥ तिलसंयुक्तदर्भैश्च दद्यात्तेषां सदासनम् ॥४२॥

पात्राण्यासादयेत्त्रीणि ह्यर्घाथ पूर्ववद्विजः ॥ शन्नोदेव्या जलं क्षिप्त्वा तिलोसीति तिलान्क्षिपेत् ॥४३॥

उशन्त हत्यूचावाह्य पितृन्विप्रः समाहितः॥ या दिव्या इति मंत्रेण दद्यादर्घ्यं च पूर्ववत् ॥४४॥

गंधैश्च पत्रपुष्पैश्च धूपैदीपैश्च सत्तम ॥ वासोभिभूषणैश्चैव यथाविभवमर्चयेत् ॥४५॥

ततोऽन्नाग्रं समादाय घृतयुक्तं विचक्षणः ॥ अग्नौ करिष्य इत्युक्त्वा तेभ्योऽनुज्ञां समाहरेत् ॥४६॥

करवै करवाणीति चापृष्टा ब्राह्मणा मुने ॥ कुरुष्व क्रियतां वेति कुर्विति ब्रूयुरेव च ॥४७॥

उपासनाग्निमाधाय स्वगृह्योक्तविधानतः ॥ सामाय च पितृमते स्वधा नम इतीरयेत् ॥४८॥

अग्नये कव्यवाहनाय स्वधा नम इतीह वा ॥ स्वाहांतेनापि वा प्राज्ञो जुहुयात्पितृयज्ञवत् ॥४९॥

आभ्यामेवाहुतिभ्यां तु पितृणां तृप्तिरक्षया ॥ अग्न्यभावे तु विप्रस्य पाणौ होमो विधीयते ॥५०॥

यथाचारं प्रकुर्वीत पाणावग्नौ च वा द्विज ॥ नह्यग्निर्दूरगः कार्यः पार्वणे समुपस्थिते ॥५१॥

संधायाग्नि ततः कार्यं कृत्वां तं विसृजेत्कृती ॥ यद्याग्निर्दूरगो विप्र पार्वणे समुपस्थिते ॥५२॥

भ्रातृभिः कारयेच्छ्राद्धंसाग्निकैर्विधिवद्विजैः ॥ क्षयाहे चैव संप्राप्ते स्वस्याग्निर्दूरगो यदि ॥५३॥

तथैव भ्रातरस्तत्र लौकिकाग्नावपि स्थिताः ॥ उपासनाग्नौ दूरस्थे समीपे भ्रातारि स्थिते ॥५४॥

यद्यग्नौ जुहुयाद्वपि पाणौ वा स हि पातकी ॥ उपासनाग्नौ दूरस्थे केचिदिच्छंति वै द्विजाः ॥५५॥

तच्छेषं विप्रपात्रेषु विकिरेत्संस्मरन्हरिम् ॥ भक्ष्यैर्भोज्यैश्च लेह्यैश्च स्वाद्यैर्विप्रान्प्रपूजयत् ॥५६॥

अन्नत्यागं ततः कुर्य्यादुभयत्र समाहितः॥ आगच्छंतु महाभागा विश्वेदेवा महाबलाः ॥५७॥

ये यत्र विहिताः श्राद्धे सावधाना भवंतु ते ॥ इति संप्रार्थयेद्देवान्ये देवास ऋचा नु वै ॥५८॥

तथा संप्रार्यिद्विप्रान्ये च हेति ऋृचा पितृन ॥ अमूर्तानां मूर्तानां च पितृणां दीप्ततेजसाम् ॥५९॥

नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषाम् ॥ एवं पितृन्नमस्कृत्य नारायण परायणः ॥६०॥

दत्तं हविश्व तत्कर्म विष्णवे विनिवेदयेत् ॥ ततस्ते ब्राह्मणाः सर्वे भुञ्जीरन्वाग्यता द्विजाः ॥६१॥

हसते वदते कोऽपि राक्षसं तद्भवेद्धविः ॥ यथाचार प्रदेयं च मधुमांसादिकं तथा ॥६२॥

पाकादि च प्रशंसेरन् वाग्यता धृतभाजनाः ॥ यदि पात्रं त्यजेत्कोऽपि ब्राह्मणः श्राद्धयोजितः ॥६३॥

श्राद्धहंता स विज्ञेयो नरकायोपपद्यते ॥ भुंजानेषु च विप्रेषु ह्यन्योन्यं संस्पृशेद्यदि ॥६४॥

तदन्नमत्यजन्भुक्त्वा गायत्र्यष्टशतं जपेत् ॥ भुज्यमानेषु विप्रेषु कर्त्ता श्रद्धापरायणः ॥६५॥

स्मरेन्नारायणं देवमनंतमपराजितम् ॥ रक्षोघ्नान्वैष्णवांश्चैव पैतृकांश्च विशेषतः ॥६६॥

जपेच्च पौरुषं सूक्तं नाचिकेतत्रयं तथा ॥ त्रिमधु त्रिसुपर्ण च पावमानं यजूंषि च ॥६७॥

सामान्यपि तथोक्तानि वदेत्पुण्यप्रदांस्तथा ॥ इतिहासपुराणानि धर्मशास्त्राणि चैव हि ॥६८॥

भुंजीरन्ब्राह्मणा यावत्तावदेताञ्जपेद्विज ॥ ब्राह्मणेषु च भुक्तेषु विकिरं विक्षिपेत्तथा ॥६९॥

शेषमन्नं वदेच्चैव मधुसूक्तं च वै जपेत् ॥ स्वयं च पादौ प्रक्षाल्य सम्यगाचम्य नारद ॥७०॥

आचांतेषु च विप्रेषु पिंडं निर्वापयेत्ततः ॥ स्वस्तिवाचनकं कुर्यादक्षय्योदकमेव च ॥७१॥

दत्त्वा समाहितः कुर्यात्तथा विप्राभिवादनम् ॥ अचालयित्वा पात्रं तु स्वस्ति कुर्वंति ये द्विजाः ॥७२॥

वत्सरं पितरस्तेषां भवंत्युच्छिष्टभोजिनः ॥ दातारो नोऽभिवर्द्धंतामित्याद्यैः स्मृतिभाषितैः ॥७३॥

आशीर्वचो लभेत्तेभ्यो नमस्कारं चरेत्ततः॥ दद्याच्च दक्षिण शक्तया तांबूलं गंधसंयुतम् ॥७४॥

न्युब्जपात्रमथानीय स्वधाकारमुदीरयेत् ॥ वाजेवाजे इति ऋचा पितृन्देवान्विसर्जयेत् ॥७५॥

भोक्ता च श्राद्धकृत्तस्यां रजन्यां मैथुनं त्येजत् ॥ तथा स्वाध्यायमध्वानं प्रयत्नेन परित्यजेत् ॥७६॥

अध्वगश्चातुरश्चैव विहीनश्व धनैस्तथा ॥ आमश्राद्धं प्रकृर्वीत हेन्मा वास्पृश्यभार्यकः ॥७७॥

द्रव्याभावे द्विजाभावे ह्यन्नमात्रं च पाचरेत् ॥ पैतृकेन तु सूक्तेन होमं कुर्याद्विचक्षणः ॥७८॥

अत्यंत हव्यशून्यश्चेत्स्वशक्तया तु तृणं गवाम् ॥ स्नात्वा च विधिवाद्विप्र कुर्याद्वा तिलतर्पणम् ॥७९॥

अथवा रोदनं कुर्यादतयुच्चैर्विजने वने ॥ दरिद्रौऽहं महापापी वदन्निति विचक्षणः ॥८०॥

परेद्युः श्राद्धकृन्मर्त्यो यो न तर्पयते पितृन् ॥ तत्कुलं नाशमायाति ब्रह्महत्यां च विंदति ॥८१॥

श्राद्धं कुर्वंति ये मर्त्याः श्रद्धावंतो मुनीश्वर ॥ न तेषां संततिच्छेदः संपन्नास्ते भवंति च ॥८२॥

पितृन्यजंति ये श्राद्धे तैस्तु विष्णुः प्रपूजितः ॥ तस्मिंस्तुष्टे जगन्नाथे सर्वास्तुष्यंति देवताः ॥८३॥

पितरो देवताश्चैव गंधर्वाप्सरस्तथा ॥ यक्षाश्च सिद्धा मनुजा हरिरेव सनातनः ॥८४॥

येनेदमखिलं जातं जगत्स्थावरजंगमम् ॥ तस्माद्दाता च भोक्ता च सर्वं विष्णुः सनातनः ॥८५॥

यदस्ति विप्र यन्नास्ति दृश्यं चादृश्यमेव च ॥ सर्वं विष्णुमयं ज्ञेयं तस्मादन्यन्न विद्यते ॥८६॥

आधारभूतो विश्वस्य सर्वभूतात्मकोऽव्ययः ॥ अनौपम्यस्वभावश्च भगवान्हव्यकव्यभुक् ॥८७॥

परब्रह्माभिधेयो य एक एव जनार्दनः ॥ कर्त्तां कारयिता चैव सर्वं विष्णुः सनातनः॥८८॥

इत्येवं ते मुनिश्रेष्ठ श्राद्धस्य विधिरुत्तमः ॥ कथितः कुर्वतामेव पापं सद्यो विलीयते ॥८९॥

य इदं पठते भक्तया श्राद्धकाले द्विजोत्तमः ॥ पितरस्तस्य तुष्यंति संततिश्चैव वर्द्धते ॥९०॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे श्राद्धक्रियावर्णनं नामाष्टाविंशोऽध्यायः ॥२८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:43:13.2300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

thermal neutron fission

  • तापीय न्यूट्रॉन विखंडन 
  • (also loosely called slow neutron fission) 
RANDOM WORD

Did you know?

आषाढी एकादशीला "देवशयनी एकादशी" का म्हणतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.