TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
सप्तदशाधिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - सप्तदशाधिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सप्तदशाधिकशततमोऽध्यायः
सनातन उवाच ।
शुक्लाष्टम्यां चैत्रमासे भवान्याः प्रोच्यते जनिः॥
प्रदक्षिणशतं कृत्वा कार्यो यात्रामहोत्सवः ॥१॥

दर्शनं जगदम्बायाः सर्वानंदप्रदं नृणाम्॥
अत्रैवाशो ककलिकाप्राशनं समुदाहृतम् ॥२॥

अशोककलिकाश्चाष्टौ ये पिबंति पुनर्वसौ॥
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ॥३॥

महाष्टमीति च प्रोक्ता देव्याः पूजाविधानतः॥
वैशाखस्य सिताष्टम्यां समुपोष्यात्र वारिणा ॥४॥

स्नात्वापराजितां देवीं मांसीबालकवारिभिः॥
स्नापयित्वार्च्य गन्धाद्यैर्नैवेद्यं शर्करामयम् ॥५॥

कुमारीर्भोजयेच्चापि नवम्यां पारणाग्रतः॥
ज्योतिर्मयविमानेन भ्राजमानो यथा रविः ॥६॥

लोकेषु विचरेद्विप्र देव्याश्चैव प्रसादतः॥
कृष्णाष्टम्यां ज्येष्ठमासे पूजयित्वा त्रिलोचनम् ॥७॥

शिवलोके वसेत्कल्पं सर्वदेवनमस्कृतः॥
ज्येष्ठशुक्ले तथाष्टम्यां यो देवीं पूजयेन्नरः ॥८॥

स विमानेन चरति गन्धर्वाप्सरसां गणैः॥
शुक्लाष्टम्यां तथाऽऽषाढे स्नात्वा चैव निशांबुना ॥९॥

तेनैव स्नापयेद्देवीं पूजयेच्च विधानतः॥
ततः शुद्धजलैः स्नाप्य विलिंपेत्सेंदुचंदनैः ॥१०॥

नैवेद्यं शर्करोपेतं दत्वाऽऽचमनमर्पयेत्॥
भोजयित्वा ततो विप्रान्दत्वा स्वर्णं च दक्षिणाम् ॥११॥

विसृज्य च ततः पश्चात्स्वयं भुंजीत वाग्यतः॥
एतद्व्रतं नरः कृत्वा देवीलोकमवाप्नुयात् ॥१२॥

नभःशुक्लेतथाष्टम्यां देवीमिष्ट्वा विधानतः॥
क्षीरेण स्नापयित्वा च मिष्टान्नं विनिवेदयेत् ॥१३॥

ततो द्विजान् भोजयित्वा परेऽह्नि स्वयमप्युत॥
भुक्त्वा समापयेदद्व्रतं संततिवर्धनम् ॥१४॥

नभोमासे सिताष्टम्यां दशाफलमिति व्रतम्॥
उपवासं तु संकल्प्य स्नात्वा कृत्वा च नैत्यिकम् ॥१५॥

तुलस्याः कृष्णावर्णाया दलैर्दशभिरर्चयेत्॥
कृष्णं विष्णुं तथाऽनन्तं गोविन्दं गरुडध्वजम् ॥१६॥

दामोदरं हृषीकेशं पद्मनाभं हरिं प्रभुम्॥
एतैश्च नामभिर्नित्यं कृष्णदेवं समर्चयेत् ॥१७॥

नमस्कारं ततः कुर्यात्प्रदक्षिणसमन्वितम्॥
एवं दशदिनं कुर्याद्व्रतानामुत्तमं व्रतम् ॥१८॥

आदौ मध्ये तथा चांते होमं कुर्याद्विधानतः॥
कृष्णमंत्रेण जुहुयाच्चरुणाऽष्टोत्तरं शतम् ॥१९॥

होमांते विधिना सम्यगाचार्य्यं पूजयेत्सुधीः॥
सौवर्णे ताम्रपात्रे वा मृन्मये वेणुपात्रके ॥२०॥

तुलसीदलं सुवर्णेन कारयित्वा सुलक्षणम्॥
हैमीं च प्रतिमां कृत्वा पूजयित्वा विधानतः ॥२१॥

निधाय प्रतिमां पात्रे ह्याचार्याय निवेदयेत्॥
दातव्या गौः सवत्सा च वस्त्रालंकारभूषिता ॥२२॥

दशाहं कृष्णदेवाय पूरिका दश चार्पयेत्॥
ताश्च दद्याद्विधिज्ञाय स्वयं वा भक्षयेद्व्रती ॥२३॥

शयनं च प्रदातव्यं यथाशक्ति द्विजोत्तम॥
दशमेऽह्नि ततो मूर्तिं सद्रव्यां गुरवेऽर्पयेत् ॥२४॥

व्रतांते दशविप्रेभ्यः प्रत्येकं दश पूरिकाः॥
दद्यादेव दशाब्दं तु कृत्वा व्रतमनुत्तमम् ॥२५॥

उपोष्य विधिना भूयात्सर्वकामसमन्वितः॥
अंते कृष्णस्य सायुज्यं लभते नात्र संशयः ॥२६॥

कृष्णजन्माष्टमी चेयं स्मृता पापहरा नृणाम्॥
केवलेनोपवासेन तस्मिञ्जन्मदिने हरेः ॥२७॥

सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः॥
उपवासी तिलैः स्नातो नद्यादौ विमले जले ॥२८॥

सुदेशे मंडपे क्लृप्ते मंडलं रचयेत्सुधीः॥
तन्मध्ये कलशं स्थाप्य ताम्रजं वापि मृन्मयम् ॥२९॥

तस्योपरि न्यसेत्पात्रं ताम्रं तस्योपरि स्थिताम्॥
हैमीं वस्त्रयुगाच्छन्नां कृष्णस्य प्रतिमां शुभम् ॥३०॥

पाद्याद्यैरुपचारैस्तु पूजयेत्स्निग्धमानसः॥
देवकीं वसुदेवं च यशोदां नंदमेव च ॥३१॥

व्रजं गोपांस्तथा गोपीर्गाश्च दिक्षु समर्चयेत्॥
तत आरार्तिकं कृत्वा क्षमाप्यानम्य भक्तितः ॥३२॥

तिष्ठेत्तथैवार्द्धरात्रे पुनः संस्नापयेद्धरिम्॥
पंचामृतैः शुद्धजलैर्गंधाद्यैः पूजयेत्पुनः ॥३३॥

धान्याकं च यवानीं च शुंठीं खंडं च नारद॥
साज्यं रौप्ये धृतं पात्रे नैवेद्यं विनिवेदयेत् ॥३४॥

पुनरारार्तिकं कृत्वा दशधा रूपधारिणम्॥
विचिंतयन्मृगांकाय दद्यादर्घ्यं समुद्यते ॥३५॥

ततः क्षमाप्य देवेशं रात्रिखंडं नयेद्व्रती॥
पौराणिकैः स्तोत्रपाठैर्गीतवाद्यैरनेकधा ॥३६॥

ततः प्रभाते विप्रग्र्यान्भोजयेन्मधुरान्नकैः॥
दत्वा च दक्षिणां तेभ्यो विसृजेत्तुष्टमानसः ॥३७॥

ततस्तां प्रतिमां विष्णोः स्वर्णधेनुधरान्विताम्॥
गुरवे दक्षिणां दत्वा विसृज्याश्रीत च स्वयम् ॥३८॥

दारापत्यसुहृद्भृत्यरेवं कृत्वा व्रत नरः॥
साक्षाद्गोकमाप्नोति विमानवरमास्थितः ॥३९॥

नैतेन सदृशं चान्यद्व्रतमस्ति जगत्त्रये॥
कृतेन येन लभ्येत कोट्यैकादशकं फलम् ॥४०॥

शुक्लाष्टम्यां नभस्यस्य कुर्याद्राधाव्रतं नरः॥
पूर्ववद्राधिकां हैमीं कलशस्थां प्रपूजयेत् ॥४१॥

मध्याह्ने पूजयित्वेनामेकभक्तं समापयेत्॥
शक्तो भक्तश्चोपवासं परेऽह्नि विधिना ततः ॥४२॥

सुवासिनीर्भोजयित्वा गुरवे प्रतिमार्पणम्॥
कृत्वा स्वयं च भुंजीतं व्रतमेवं समापयेत् ॥४३॥

व्रतेनानेन विप्रर्षे कृतेन विधिना व्रती॥
रहस्यं गोष्ठजं लब्ध्वा राधापरिकरे वसेत् ॥४४॥

दूर्वाष्टमीव्रतं चात्र कथितं तच्च मे श्रृणु॥
शुचौ देशे प्रजातायां द्वर्वायां द्विजसत्तम । ११७-४५॥

स्थाप्य लिंगं ततो गंधैः पुष्पैर्धूपैश्च दीपकैः॥
नैवेद्यैरर्चयेद्भक्त्या दध्यक्षतफलादिभिः ॥४६॥

अर्घ्यं प्रदद्यात्पूजांते मंत्राभ्यां सुसमाहितः॥
त्वं दूर्वेऽमृतजन्माऽसि सुरासुरनमस्कृते ॥४७॥

सौभाग्यं संततिं देहि सर्वकार्यकरी भव॥
यथा शाखा प्रशाखाभिर्विस्तृताऽसि महीतले ॥४८॥

तथा विस्तृतसंतानं देहि मेऽप्यजरामरम्॥
ततः प्रदक्षिणीकृत्य विप्रान्संभोज्य तत्र वै ॥४९॥

भुक्त्वा स्वयं गृहं गच्छेदत्वा विप्रेषु दक्षिणाम्॥
फलानि च प्रशस्तानि मिष्टानि सुरभीणि च ॥५०॥

एवं पुण्या पापहरा नृणा दूर्वाष्टमी द्विज॥
चतुर्णामपि वर्णानां स्त्रीजनानां विशेषतः ॥५१॥

या न पूजयते दूर्वा नारी मोहाद्यथाविधि॥
जन्मानि त्रीणि वैधव्यं लभते सा न संशयः ॥५२॥

यदा ज्येष्ठर्क्षसंयुक्ता भवेच्जैवाष्टभी द्विज॥
ज्येष्ठा नाम्नी तु सा ज्ञेया पूजिता पापनाशिनी ॥५३॥

अथैनां तु समारभ्य व्रतं षोडशवासरम्॥
महालक्ष्म्याः समुद्दिष्टं सर्वसंपद्विवर्धनम् ॥५४॥

करिष्येऽहं महालक्ष्मीव्रतं ते त्वत्परायणः॥
तदविघ्नेन मे यातु समाप्तिं त्वत्प्रसादतः ॥५५॥

इत्युच्चार्य ततो बद्धा डोरक दक्षिणे करे॥
षोडशग्रंथिसहितं गुणैः षोडशभिर्युतम् ॥५६॥

ततोऽन्वहं महालक्ष्मीं गंधाद्यैरर्च्चयेद्व्रती॥
यावत्कृष्णाष्टमी तत्र चरेदुद्यापनं सुधीः ॥५७॥

वस्त्रमंडपिकां कृत्वा सर्वतोभद्रमंडले॥
कलशं सुप्रतिष्ठाप्य दीपमुद्द्योतयेत्ततः ॥५८॥

उत्तार्य डोरकं बाहोः कुंभस्याधो निवेदयेत्॥
चतस्रः प्रतिमाः कृत्वा सौवर्णीस्तत्स्वरूपिणीः ॥५९॥

स्नपनं कारयेत्तासाः जलैः पञ्चामृतैस्तथा॥
उपचारैः षोडशभिः पूजयित्वा विधानतः ॥६०॥

जागरस्तत्र कर्तव्यो गीतवादित्रनिः स्वनैः॥
ततो निशीथे संप्राप्तेऽभ्युदितेऽमृतदीधितौ ॥६१॥

दत्वार्घ्यं बंधनं द्रव्यैः श्रीखंडाद्यैर्विधानतः॥
चंद्रमण्डलसंस्थायै महालक्ष्यै प्रदापयेत् ॥६२॥

क्षीरोदार्णवसंभूत महालक्ष्मीसहोदर॥
पीयूषधाम रोहिण्याः सहिताऽर्घ्यं गृहाण मे ॥६३॥

क्षीरोदार्णवसम्भूते कमले कमलालये॥
विष्णुवक्षस्थलस्थे मे सर्वकामप्रदा भव ॥६४॥

एकनाथे जगन्नाथे जमदग्निप्रियेऽव्यये॥
रेणुके त्राहि मां देवि राममातः शिवं कुरु ॥६५॥

मंत्रैरेतैर्महालक्ष्मीं प्रार्थ्य श्रोत्रिययोषितः॥
सम्यक्संपूज्य ताः सम्यग्गंधयावककज्जलैः ॥६६॥

संभोज्य जुहुयादग्नौ बिल्वपद्मकपायसैः॥
तदलाभे घृतैर्विप्र गृहेभ्यः समिधस्तिलान् ॥६७॥

मृत्युंजयाय च परं सर्वरोगप्रशांतये॥
चंदनं तालपत्रं च पुष्पमालां तथाऽक्षतान् ॥६८॥

दुर्वां कौसुम्भसूत्रं च युगं श्रीफलमेव वा॥
भक्ष्याणि च नवे शूर्पे प्रतिद्रव्यं तु षोडश ॥६९॥

समाच्छाद्यान्यशूर्पेण व्रती दद्यात्समन्त्रकम्॥
क्षीरोदार्णवसंभूता लक्ष्मीश्चन्द्रसहोदरा ॥७०॥

व्रतेनानेन संतुष्टा भवताद्विष्णुवल्लभा॥
चेतस्रः प्रतिमास्तास्तु श्रोत्रियेभ्यः समर्पयेत् ॥७१॥

ततस्तु चतुरो विप्रान् षोडशापि सुवासिनीः॥
मिष्टान्नेनाशयित्वा तु विसृजेत्ताः सदक्षिणाः ॥७२॥

समाप्तिनियमः पश्चाद्भुञ्जीतेष्टैः समन्वितः॥
एतद्व्रतं महालक्ष्म्याः कृत्वा विप्र विधानतः ॥७३॥

भुक्त्वेष्टानैहिकान् कामांल्लक्ष्मीलोके वसेच्चिरम्॥
एषाऽशोकाष्टमी चोक्ता यस्यां पूर्णं रमाव्रतम् ॥७४॥

अत्राशोकस्य पूजा स्यादेकभक्तं तथा स्मृतम्॥
कृत्वाऽशोकव्रतं नारी ह्यशोका शोकजन्मनि ॥७५॥

यत्र कुत्रापि संजाता नात्र कार्या विचारणा॥
आश्विने शुक्लपक्षे तु प्रोक्ता विप्र महाष्टमी ॥७६॥

तत्र दुर्गाचनं प्रोक्तं सव्रैरप्युपचारकैः॥
उपवासं चैकभक्तं महाष्टम्यां विधाय तु ॥७७॥

सर्वतो विभवं प्राप्य मोदते देववच्चिरम्॥
ऊर्ज्जे कृष्णादिकेऽष्टम्यां करकाख्यं व्रतं स्मृतम् ॥७८॥

तत्रोमासहितः शंभुः पूजनीयः प्रयत्नतः॥
चंद्रोदयेऽर्घदानं च विधेयं व्रतिभिः सदा ॥७९॥

पुत्रं सर्वगुणोपेतमिच्छद्भिर्विविधं सुखम्॥
गोपाष्टमीति संप्रोक्ता कार्तिके धवले दले ॥८०॥

तत्रकुर्याद्गवां पूजां गोग्रासं गोप्रदक्षिणाम्॥
गवानुगमनं दानं वांछन्सर्वाश्च संपदः ॥८१॥

कृष्णाष्टम्यां मार्गशीर्षे मिथुनं दर्भनिर्मितम्॥
अनघां चानघां तत्र बहुपुत्रसमन्वितम् ॥८२॥

स्थापयित्वा शुभे देशे गोमयेनोपलेपिते॥
पूजयेद्गन्धपुष्पाद्यैरुपचारैः पृथग्विधैः ॥८३॥

संभोज्य द्विजदांपत्यं विसृजेल्लब्धदक्षिणम्॥
व्रतमेतन्नरः कृत्वा नारी वा विधिपूर्वकम् ॥८४॥

पुत्रं सल्लक्षणोपेतं लभते नात्र संशयः ॥८५॥

मार्गाशीर्षसिताष्टम्यां कालभैरवसन्निधौ॥
उपोष्य जागरं कृत्वा महापापैः प्रमुच्यते ॥८६॥

यत्किंचिदशुभं कर्म कृतं मानुषजन्मनि॥
तत्सर्वं विलयं याति कालभैरवदर्शनात् ॥८७॥

अथ पौषसिताष्टम्यां श्राद्धमष्टकसंज्ञितम्॥
पितॄणां तृप्तिदं वर्षं कुलसन्ततिवर्द्धनम् ॥८८॥

शुक्लाष्टम्यां तु पौषस्य शिवं सम्पूज्य भक्तितः॥
भुक्तिमुक्तिमवाप्नोति भक्तिमेकां समाचरन् ॥८९॥

कृष्णाष्टम्यां तु माघस्य भद्रकालीं समर्चयेत्॥
भक्तितो वैरिवृन्दघ्नीं सर्वकामप्रदायिनीम् ॥९०॥

माघमासे सिताष्टम्यां भीष्मं संतर्पयद्द्विज॥
संततिं त्वव्यवच्छिन्नामिच्छंश्चाप्यपराजयम् ॥९१॥

फाल्गुने त्वसिताष्टम्यां भीमां देवीं समर्चयेत्॥
तत्र व्रतपरो विप्र सर्वकामसमृद्धये ॥९२॥

शुक्लाष्टम्यां फाल्गुनस्य शिवं चापि शिवां द्विज॥
गंधाद्यैः सम्यगभ्यर्च्य सर्वसिद्धीश्वरो भवेत् ॥९३॥

फाल्गुनापरपक्षे तु शीतलामष्टमीदिने ।
पूजयेत्सर्ववपक्कानैः सप्तम्यां विधिवत्कृतैः ॥९४॥

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता॥
शीतले त्वं जगद्वात्री शीतलायै नमोनमः ॥९५॥

वन्देऽहं शीतलां देवीं रासभस्थां दिगंबराम्॥
मार्जनी कलशोपेतां विस्फोटकविनाशिनीम् ॥९६॥

शीतले शीतले चेत्थं ये जपंति जले ल्थिताः॥
तेषां तु शीतला देवी स्याद्विस्फोटकशांतिदा ॥९७॥

इत्येवं शीतलामन्त्रैर्यः समर्चयते द्विज॥
तस्य वर्षं भवेच्छांतिः शीतलायाः प्रसादतः ॥९८॥

सर्वमासोभये पक्षे विधिवच्चाष्टमीदिने॥
शिवां वापिशिवं प्रार्च्यलभते वांछितं फलम् ॥९९॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थिताष्टमीव्रतकथनं नाम सप्तदशाधिकशततमोऽध्यायः ॥११७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-05-08T03:57:38.7330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

orientation of the shadow

  • न. छाया दिशादेशन 
RANDOM WORD

Did you know?

श्रीयंत्रातील चक्र आणि त्रिकोण कशाचे प्रतिक आहेत?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site