TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
चतुश्चत्वारिंशत्तमोऽध्यायः

श्री नारदीयमहापुराणम् - चतुश्चत्वारिंशत्तमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


चतुश्चत्वारिंशत्तमोऽध्यायः

भरद्वाज उवाच ॥

अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते ॥ तमहं ज्ञातुमिच्छामि तद्धवान्वक्तुमर्हति ॥१॥

भृगुरुवाच ॥

उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते ॥ पुण्यः क्षेमश्च काम्यश्व स परो लोक उच्यते ॥२॥

तत्र ह्यपापकर्माणः शुचयोऽत्यंतनिर्मलाः ॥ लोभमोह परित्यक्ता मानवा निरुपद्र्वाः ॥३॥

स स्वर्गसद्दशो देशः तत्र ह्युक्ताः शुभा गुणाः ॥ काले मृत्युः प्रभवति स्पृशंति व्याधयो न च ॥४॥

न लोभ पदारेषु स्वदारनिरतो जनः ॥ नान्यो हि वध्यते तत्र द्रव्येषु च न विस्मयः ॥५॥

परो ह्यधर्मो नैवास्ति संदेहो नापि जायते ॥ कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते ॥६॥

यानासनाशनोपेता प्रसादभवनाश्रयाः ॥ सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ॥७॥

प्राणधारणमात्रं तु केषांचिदुपपद्यते ॥ श्रमेण महता केचित्कुर्वंति प्राणधारणम् ॥८॥

इह धर्मपराः केचित्केचिन्नैष्कृतिका नराः ॥ सुखिता दुःखिताः केचिन्निर्धना धनिनो परे ॥९॥

इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते ॥ लोभश्चार्थकृतो तृणां येन मुह्यंत्यपंडिताः ॥१०॥

यस्तद्वेदो भयं प्राज्ञः पाप्मना न स लिप्यते ॥ सोपधे निकृतिः स्तेयं परिवादोऽभ्यसूयता ॥११॥

परोपघातो हिंसा च पैशुन्यमनृतं तथा ॥ एतान्संसेवते यस्तु तपस्तस्य प्रहीयते ॥१२॥

यस्त्वेतानाचरेद्विद्वात्र तपस्तस्य वर्द्धते ॥ इह चिंता बहुविधा धर्माधर्मस्य कर्मणः ॥१३॥

कर्मभूमि रियं लोके इह कृत्वा शुभाशुभम् ॥ शुभैः शुभमवान्पोति तथाशुभमथान्यथा ॥१४॥

इह प्रजापतिः पूर्वं देवाः सर्षिंगणास्तथा ॥ इष्टेष्टपसः पूता ब्रह्मलोकमुपाश्रिताह ॥१५॥

उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः ॥ इहस्थास्तत्र जांयते ये वै पुण्यकृतो जनाः ॥१६॥

यदि सत्कारमिच्छंति तिर्यग्योनिषु चापरे ॥ क्षीणायुषस्तथा चान्ये नश्यन्ति पृथिवीतले ॥१७॥

अन्योन्यभक्षणासक्ता लोभमोहसमन्विताः ॥ इहैव परिवर्त्तन्त न च यान्त्युत्तरां दिशम् ॥१८॥

गुरुनुपासते ये तु नियता ब्रह्मचारिणः ॥ पंथानं सर्वलोकानां विजांनति मनीषिणः ॥१९॥

इत्युक्तोऽयं मया धर्मः संक्षिप्तो ब्रह्मनिर्मित्तः ॥ धर्माधर्मी हि लोकस्य यो वै वेत्ति स बुद्धिमान् ॥२०॥

भरद्वाज उवाच ॥

अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते ॥ यदधात्मं यथा चैतत्तन्मे ब्रूहि तपोघन ॥२१॥

भृगुरुवाच ॥

अध्यात्ममिति विप्रर्षे यदेतदनुपृच्छसि ॥ तद्वयाख्या स्यामि ते तात श्रेयस्करतमं सुखम् ॥२२॥

सृष्टिप्रलयसंयुक्तमाचार्यैः परिदर्शितम् ॥ यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विंदति ॥२३॥

फललाभश्व तस्य स्यात्सर्वभूताहितं च तत् ॥ पृथिवी वायुराकाशमापो ज्योतिश्व पंचमम् ॥२४॥

महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥ यतः सृष्टानि तत्रैव तानि यान्ति लयं पुनः ॥२५॥

महाभूतानि भूतेभ्यः सागरस्योर्मयो यथा ॥ प्रसार्य च यथांगानि कूर्मः संहरते पुनः ॥२६॥
तद्वद् ‌ भूतानि भूतात्मा सृष्टानि हरते पुनः ॥ महाभूतानि पंचैव सर्वभूतेषु भूतकृत ॥२७॥

अकरोत्तेषु चै सम्यक् तं तु जीवो न पश्यति ॥ शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम् ॥२८॥

वायोः स्पर्शस्तथा चेष्टा त्वक्चैव त्रितयं स्मृतम् ॥ रुपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते ॥२९॥

रसाः क्लेदश्व जिह्रा च त्रयो जलगुणाः स्मृताः ॥ घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः ॥३०॥

महाभूतानि पचैव षष्ठं च मन उच्यते ॥ इन्द्रियाणि मनश्चैव विज्ञातान्यस्य भारत ॥३१॥

सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः ॥ श्रोत्रं वै श्रवणार्थाय स्पर्शनाय च त्वक् स्मृता ॥३२॥

रसादानाय रसना गन्धादानाय नासिका ॥ चक्षुरालोकनायैव संशंय कुरुते मनः ॥३३॥

बुद्धिरध्यवसानाय क्षेत्रज्ञः साक्षिवत्स्थितः ॥ उर्द्ध पादतलाभ्यां यदवाक्चोदक्च पश्यति ॥३४॥

एतेन सर्वमेवेदं विभुना ध्याप्तमन्तरम् ॥ पुरुषैरिंद्रियाणीह वेदितव्यानि कृत्स्त्रशः ॥३५॥

तमो रजश्वं सत्त्वं च तेऽपि भावास्तदश्रिताह ॥ एतां बुद्धिं नरो बुद्धा भूतानामगतिं गतिम् ॥३६॥

समवेक्ष्य शनैश्वैव्म लभते शममुत्तमम् ॥ गुणौविनश्यते बुद्धिर्बुद्धेरेवेंद्रियाण्यपि ॥३७॥

मनःषष्ठानि भूतानि बुद्धयभावे कुतो गुणाः ॥ इति तन्मयमेवैतत्सर्वं स्थावरजंगमम् ॥३८॥

प्रलीयते चोद्धवति तस्मान्निर्द्दिश्यते तथा ॥ येन पश्यति तच्चुक्षुः श्रृणोति श्रोत्रमुच्यते ॥३९॥

जिघ्रति घ्राणमित्याहुः रस्म जानति जिह्रया ॥ त्वचा स्पर्शयति स्पर्श बुद्धिर्विक्रियते सकृत् ॥४०॥

येन प्रार्थयते किंचित्तदा भवति तन्मनः ॥ अधिष्ठानात्तु बुद्धेहि पृथगर्थानि पंचधा ॥४१॥

इंद्रियानीति तान्याहुस्तान्यद्दश्योऽधितिष्ठति॥ पुरुषे तिष्ठती बुद्धिस्त्रिषु भावेषु वर्तते ॥४२॥

कदाचिल्लभते प्रीति कदाचिदुपशोचति॥ न सुखेन न दुःखेन कदाचिदपि वर्तते ॥४३॥

एवं नराणां मनसि त्रिषु भावेषु वर्तते । सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते ॥४४॥

सरितां सागरो भर्ता वेलानमिव वारिधिः ॥।अतिभा वगता बुद्धिर्भावैर्मनसि वर्तते ॥४५॥

वर्तमानो मुनिस्त्वेवं स्वभावमनुवर्तते ॥ इंद्रियाणि हि सर्वाणि प्रवर्तयति सा सदा ॥४६॥

प्रीतिः सत्त्वं रजः शोकस्तमः क्रोधस्तु ते त्रयः ॥ ये ये भावा लोकेऽस्मिन्सर्वे प्यतेषु वै त्रिषु ॥४७॥

इति बुद्धिगताः सर्वा व्याख्यातास्तव भावनाः इंद्रियाणि च सर्वाणि विजेतव्यानि धीमता ॥४८॥

सत्त्वं रजस्तमश्वैव प्राणिनां संश्रिताः सदा ॥ त्रिविधा वेदना श्वैव सर्वसत्त्वेषु दृशयतें ॥४९॥

सात्त्विकी राजसी चैव तामसी चेति मानद ॥ सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः ॥५०॥

तमोगुणेन संयुक्तो भवतो व्यावहारिकौ ॥ तव यत्प्रीतिसंयुक्तं काये मनसिवा भवेत् ॥५१॥

वर्तते सात्त्विको भाव इत्याचक्षीत तत्तथा ॥ अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः ॥५२॥

प्रवृत्तं रज इत्येव जानीहि मुनिसत्तम् । अथयन्मोहसंयुक्तमव्यक्त विषयं भवेत् ॥५३॥

अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ प्रहर्षः प्रीतिरानंदः सुखं वा शान्तचित्तता ॥५४॥

कथंचिदभिवर्तन्त इत्येते सात्त्विका गुणाः ॥ अतुष्टिः परितापश्च शोको लोभस्तथा क्षमा ॥५५॥

लिंगानि रजसस्तानि दृश्यंते देहहेतुभिः ॥ अपमानस्तथा मोहः प्रमादः स्वप्नतंद्रिते ॥५६॥

कथचिदभिवर्तते विविधास्तामसा गुणाः दूषणं बहुधागामि प्रार्थनासंशयात्मकम् ॥५७॥

मनः स्वनियतं यस्य स सुखी प्रेत्य चेह च ॥ सत्त्वक्षेत्रज्ञयोरेतदन्तरं यस्य सूक्ष्मयोः ॥५८॥

सृजतेहि गुणानेक एको न सृजते गुणान् ॥ मशकोदुंबरौ वापि संप्रयुक्तौ यथा सदा ॥५९॥

अन्योन्यमेतौ स्यातां च सप्रंयोगस्तथोभयोः ॥ पृथ्ग्भूता प्रकृत्या तौ सप्रंयुक्तौ च सर्वदा ॥६०॥

यथा मत्स्यो जलं चैव संप्रयुक्तो तथैव तौ ॥ न गुणा विदुरात्मानं स गुणान्वित्ति सर्वशः ॥६१॥

परिद्रष्टा गुणानां तु संस्त्रष्टा मन्यते तथा ॥ इन्द्रियस्तु प्रदीपार्थं कुरुते बुद्धि सत्तमैः ॥६२॥

निर्विचेष्टेजानद्धिः परमात्मा प्रदीपवान् ॥ सृजतें हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति ॥६३॥

संप्रयोगस्तयोरेष सत्त्वक्षेत्रयोर्ध्रु वम् ॥ आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन ॥६४॥

सत्त्वं मनः संसृजते न गुणान्वै कदाचन । रश्मीस्तेषां स मनसा यदा सम्यङ्‌नियच्छति ॥६५॥

तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव ॥ त्यक्ता यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः ॥६६॥

सर्वभूतात्मभूस्तस्मात्स गच्छे दुत्तमां ॥ यथा वारिचरः पक्षी सलिलेन न लिप्यते ॥६७॥

एवमेव कृतज्ञो भूतेषु परिवर्तते ॥ एवं स्वभावमेवैतत्स्वबुद्धया विहरेन्नरः ॥६८॥

अशोचन्नप्रहष्यंश्च समो विगतमत्सरः ॥ भावयुक्त्या प्रयुक्तस्तु स नित्यं सृजते गुणान् ॥६९॥

ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तंतुव द्धणाः ॥ प्रध्वस्ता न निवर्तते निवृत्तिर्नोपलभ्यते ॥७०॥

प्रत्यक्षेण परोक्षं तदनुमानेन सिद्धयति ॥ एवमेके व्यवस्यंति निवृत्तिरिति चापरे ॥७१॥

उभयं संप्रधायैतद्वयवस्येत यथामर्ति ॥ इतीमं हदयग्रथिं बुद्धिचिन्तामयं दृढम् ॥७२॥

विसुच्य सुखमासीत न शोचेच्छिन्नसंशयः ॥ मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः ॥७३॥

अवगाह्य सुविद्वासंसो विद्धि ज्ञानभिदे तथा ॥ महानद्या हि पारज्ञस्तप्यते न तरन्यथा ॥७४॥

न तु तप्यति तत्त्वज्ञः कुलज्ञस्तु तरत्युत ॥ एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम् ॥७५॥

एवं बुद्धा नरः सर्वो भूतानामगतिं गतिम् ॥ अवेक्ष्य च शनैर्बुद्धया लभते च शमं ततः ॥७६॥

त्रिवर्गों यस्य विदितः प्रेक्ष्य यश्व विसुंचति ॥ अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः ॥७७॥

न चात्मा शक्यते द्रष्टुमिंद्रियेषु विभागशः ॥ तत्र तत्र विसृष्टेषु दुर्वाष्वकृतात्माभिः ॥७८॥

एतद् ‍ बुद्धा भवेद् ‍ भवेद् ‍ बुद्धः किनयद् ‍ बुद्धलक्षणम् ॥ विज्ञाय तद्धि मन्यन्ते कतकृत्या मनीषिणः ॥७९॥

न भवति विदुषां ततो भयं यदविदुषां सुमहद्धयं भवेत् नहि गतिरधिकास्ति कल्यचित्सति हि गुणे प्रवदत्यतुलताम् ॥८०॥

यः करोत्यनभिसंधिपूर्वकं तच्च निर्दहति यत्पुराकृत म् ॥ ना प्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह कुर्बतः ॥८१॥

लोकमाथुर मिसूयते जनस्तस्य तज्जनयतीह कुर्वतः ॥ तत्र पश्य कुशलान्न शोचते जायते यदि भयं पदं सदा ॥८२॥

भरद्वाज उवाच ॥

ध्यानयोगं समाचक्ष्व महा तत्पदसिद्धये ॥ यज्ज्ञात्वा मुच्यते ब्रह्मन्न्रस्त्रिविधतापतः ॥८३॥

भृगुरुवाच ॥

हंत ते संप्रवक्ष्यामि ज्ञानयोगं चतुर्विधम् ॥ यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्तीह महर्षयः ॥८४॥

यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः ॥ महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः ॥८५॥

नावर्तंते पुन श्वापि मुक्ताः संसारदोषतः ॥ जन्मदोषपार्रक्षीणाः स्वभावे पर्यवस्थिताः ॥८६॥

निर्द्वन्द्वा नित्यसत्त्वस्था विमुक्ता निष्पपरिग्रहाः ॥ असंगान्य विधादीनि मनःशांतिकराणि च ॥८७॥

तत्र ध्यानेन संक्लिष्टमेकाग्रं धारयेन्मनः ॥ पिंडीकृत्योन्द्रियग्राममासीनः काष्ठवन्सुनि ॥८८॥

शब्दं न विदेच्छ्रात्रेण त्वचा स्पर्श न वेदयेत् ॥ रुपं न चक्षुषा विंद्याज्जिह्रया न रसांस्तथा ॥८९॥

व्रेयाण्यपि च सर्वांणि जह्यद्धयानेन तत्त्व वित् ॥ पंचवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान् ॥९०॥

ततो मनसि संगुह्य पंचवर्गं विचक्षणः ॥ समादध्यान्मनी भ्रांतमिंद्रियैः सह पञ्चभिः ॥९१॥

विसञ्चारि निरालम्बं पंचद्वारं बलाबलम् ॥ पूर्वध्यानपथे धीरः समादध्यान्मनस्त्वरा ॥९२॥

इन्द्रियाणि मनश्वैव यदा पिण्डीकरोत्य यम् ॥ एष ध्यानपथः पूर्वो मया समनुवर्णितः ॥९३॥

तस्य तत्पूर्वसंरुद्धे आत्मषष्ठमनंतरम् ॥ स्फुरिष्यति समुद्रांता विद्युदम्बुधरे यथा ॥९४॥

जलबिंदुर्यथा लोलः पर्णस्थः सर्वतश्चलः एवमेवास्य चित्तं च भवति ध्यानवर्त्मनि ॥९५॥

समाहितं क्षणं किंजिद्धयानवर्त्मनि तिष्ठति ॥ पुनर्वायुपथं भ्रातं मनो भवति वायुवत् ॥९६॥

अनिर्वेदो गतक्लेशो गततंद्रो ह्यमत्सरी ॥ समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित् ॥९७॥

विचारश्च वितर्कश्व विवेकश्वोप्जायते ॥ मुनेः समाधियुक्तस्य प्रथमं ध्यानमादितः ॥९८॥

मनसा क्लिश्यमानस्तु समाधानं च कारयेत् ॥ न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम् ॥९९॥

पांशुभस्मकरीषाणां यथा वै राशयश्चिताः ॥ सहसा वारिणा सिक्ता न यांति परिभावनाः ॥१००॥

किंचित ‍ स्त्रिग्धं यथा च स्याच्छुष्कं चूर्णमभावितम् ॥ क्रमेण तु शनैर्गच्छेत्सर्वं तत्परिभावनम् ॥१०१॥

एवमेवेन्दियग्रामं शनैः शं परि भावयेत् ॥ संहरेत्क्रमशश्चैव सम्यक् तत्प्रशमिष्यति ॥१०२॥

स्वयमेव मनश्वैवं पंचवर्गं मुनीश्वर ॥ पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति ॥।१०३॥

न तत्पुरुषकारेण न च दैवेन केनचित् ॥ सुखमेष्यति तत्तस्य यदेवं संयतात्मनः ॥१०४॥

सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि ॥ गच्छंति योगिनो ह्येवं निर्वाणं तु निरामयम् ॥१०५॥

सनंदच उवाच ॥

इत्युक्तो भृगुणा ब्रह्मन्भरद्वाजः प्रतापवान् ॥ भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयतः ॥१०६॥

एष ते प्रसवो विद्वन् जगतः संप्रकीर्तितः निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि ॥१०७॥

इति श्रीबृहन्नारदीयपुराणे द्वितीयपादे चतुश्चत्वारिंशत्तमोऽध्यायः ॥४४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:04:32.2470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

डांबर्‍या

  • वि. निगरगट्ट . [ इं . डॅम्ड , रॉट ] 
RANDOM WORD

Did you know?

How do I become a moderator on QnA?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site