TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
नामैकनवतितमोऽध्यायः

श्री नारदीयमहापुराणम् - नामैकनवतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


नामैकनवतितमोऽध्यायः
सनत्कुमार उवाच ॥
अथ वक्ष्ये महेशस्य मन्त्रं सर्वार्थसाधकम्‍ ॥ यं समाराध्य मनुजो भुक्तिं मुक्तिं च विंदति ॥१॥
ह्रदयं सबकः सूक्ष्मो लांतोऽनन्तान्वितो मरुत्‍ ॥ पंचाक्षरो मनुः प्रोक्तस्ताराद्योऽयं षडक्षरः ॥२॥
वामदेवी मुनिश्छंदः पंक्तिरीशोऽस्य देवता ॥ षड्भिर्वर्णैः षड्ङानि कुर्यान्मंत्रेण देशिकः ॥३॥
मंत्रवर्णादिकान्न्यस्येन्मंत्रमूर्तीर्यथाक्रमम्‍ ॥ तर्जनीमध्ययोरंत्यानामिकांगुष्ठके पुनः ॥४॥
ताः स्युस्तत्पुरुषाघोरभववामेशसंज्ञिकाः ॥ वक्रह्रत्पादगुह्येषु निजमूर्द्धनि ताः पुनः ॥५॥
प्राग्याम्यवारुणोदीच्यमध्यवक्रेषु पंचसु ॥ मन्त्रांगानि न्यसेत्पश्वाज्जातियुक्तानि षट्‌ क्रमात्‍ ॥६॥
कुर्वीत गोलकन्यांस रक्षायै तदनन्तरम्‍ ॥ ह्रदि वक्रेंऽसयोरुर्वोः कंठे नाभौ द्विपार्श्वयोः ॥७॥
पृष्ठे त्दृदि तथा मूर्ध्नि वदने नेत्रयोर्नसोः ॥ दोःपत्संधिषु साग्रेषु विन्यसेत्तदनन्तरम्‍ ॥८॥
शिरोवदनह्रत्कुक्षिसोरुपादद्वये पुनः ॥ ह्रदि वक्रांबुजे टंकमृगा भयवरेष्वथ ॥९॥
वक्रासंत्दृंत्सपादो रुजठरेषु क्रमान्न्यसेत्‍ । मूलमन्त्रस्य षड वर्णान्ययावद्देशिकोत्तमः ॥१०॥
मूर्ध्नि भालोदरांसेषु त्दृदये ताः पुनर्न्यसेत्‍ ॥ पश्वादनेन मन्त्रेण कुर्वीत व्यापकं सुधी ॥११॥
नमोस्त्वंनतरुपाय ज्योतिर्लिगामृतात्मने ॥ चतुर्मूर्तिवपुश्छायासितांगाय शंभवे ॥१२॥
एवं न्यस्तशरीरोऽसौ चिन्तयेत्पार्वतीपतिम्‍ ॥ ध्यायेन्नित्यं महेशानं रौप्यपर्वतसन्निभम्‍ ॥१३॥
चारुचंद्रावतसं च रत्नाकल्पोज्ज्वलांगकम्‍ ॥ परश्वधवराभीतिमृगहस्तं शुभाननम्‍ ॥१४॥
पद्मासीनं समंतात्तु स्तुत् सुमनसां गणैः ॥ व्याघ्रकृत्तिं वसानं च विश्वाद्य्म विश्वरुपकम्‍ ॥१५॥
त्रिनेत्रं पंचवक्रं च सर्वभीतिहरं शिवम्‍ ॥ तत्त्वलक्षं जपेन्मंत्रं दीक्षितः शैववर्त्मना ॥१६॥
तावत्संख्यसहस्त्राणि जुहुयात्पायसैः शुभैः ॥ ततः सिद्धो भवेन्मन्त्रः साधकाऽभीष्टसिद्धिदः ॥१७॥
देवं संपूजयेत्पीठे वामादिनवशक्तिके ॥ वामा ज्येष्ठा तथा रौद्री काली कलपदादिका ॥१८॥
विकारिण्याह्रया प्रोक्ता बलाद्या विकरिण्यथ ॥ बलप्रमथनी पश्वात्सर्वभूतदमन्यथ ॥१९॥
मनोन्मनीति संपोक्ताः शैवपीठस्य शक्तयः ॥ नमो भगवते पश्वात्सकलादि वदेत्ततः ॥२०॥
गुणात्मशक्तिभक्ताय ततोऽनंताय तत्परम्‍ ॥ योगपीठात्मने भूयो नमस्तारादिको मनुः ॥२१॥
अमुना मनुना दद्यादासनं गिरिजापतेः ॥ मूर्ति मूलेन संकल्प्य तत्रावाह्य यजेच्छिवम्‍ ॥२२॥
कर्णिकायां यजेन्मूर्तीरीशमीशानदिग्गजम्‍ ॥ शुद्धस्फटिकसंकाशं दिक्षु तत्पुरुषादिका ॥२३॥
पीतांजनश्वेतरक्ताः प्रधानसदृशायुधाः ॥ चतुर्वक्रसमायुक्ता यथावत्ताः प्रपूजयेत्‍ ॥२४॥
कोणेष्वर्चेन्निवृत्त्याद्यास्तेजोरुपाः कलाः क्रमात्‍ ॥ अङानि केसरस्थानि विघ्नेशान्पन्नगान्यजेत्‍ ॥२५॥
अनंतं सुखनामानं शिवोत्त ममनंतरम्‍ ॥ एकनेत्रमेकरुदं त्रिमूर्तिं तदनंतरम्‍ ॥२६॥
पश्वाच्छ्रींकंठनामांन शिखंडिनमिति क्रमात्‍ ॥ रक्तपीतसितारक्तकृष्णरक्तांजनासितान्‍ ॥२७॥
किरीटार्पितबालेंदून्पद्मस्थान्भूषणान्वितान्‍ ॥ त्रिनेत्राञ्छावज्रास्त्रचापहस्तान्मनोरमान्‍ ॥२८॥
उत्तरादि यजेत्पश्वाद्रुद्रं चंदेश्वरं पुनः ॥ ततो नंदिमहाकालौ गणेशं वृषभं पुनः ॥२९॥
अथ भृगिं रिटिं स्कंदमेतान्पद्मासनस्थितान्‍ ॥ स्वर्णतोयारुणश्याममुक्तेंदुसितपाटलान्‍ ॥३०॥
इंद्रादयस्ततः पूज्या वज्राद्यायुधसंयुताः ॥ इत्थं संपूजयेद्देवं सहस्त्रं नित्यशो जपेत्‍ ॥३१॥
सर्वपापविनिर्मुक्तः प्राप्नुयाद्वांछितं श्रियम्‍ ॥ द्विसहस्त्रं जपन्‍ रोगान्मुच्यते नात्र संशयः ॥३२॥
त्रिसहस्त्रं जपन्मंत्रं दीर्घमायुरवाप्नुयात्‍ ॥ सहस्त्रवृद्धया प्रजपन्सर्वकामानवाप्नुयात्‍ ॥३३॥
आज्यान्वितैस्तिलैः शुद्धैर्जुहुयाल्लक्षमादरात्‍ ॥ उत्पातजनितान्‍ संशयः ॥३४॥
शतलक्षं जपन्साक्षाच्छिवों भवति मानवः ॥ षडक्षरः शक्तिरुद्धः कथोतोऽष्टाक्षरो मनुः ॥३५॥
ऋषिश्छ्न्दः पुरा प्रोक्तो देवता स्यादुमपतिः ॥ अंगानि पूर्वमुक्तानि सौम्यमीशं विचिं तयेत्‍ ॥३६॥
बंधूकाभं त्रिनेत्रं च शशिखंडधरं विभुम्‍ ॥ स्मेरात्यं शूलं कपालं वरदाभये ॥३७॥
वहंतं वामोरुस्थाद्रिकन्यया ॥ भुजेनाश्लिष्टदेहं तं चिंतयेन्मनसा त्दृदि ॥३८॥
मनुलक्षं जपेन्मंत्रं तत्सहस्त्रं यथाविधि ॥ जुहुयान्मधुरासिक्तैरारग्वधसमिद्वरैः ॥३९॥
प्राक्प्रोक्ते पूजयेत्पीठे गंधपुष्पैरुमापतिम्‍ ॥ अंगावृत्तैर्बहिः पूज्या ह्रल्लेखाद्या यथापुरा ॥४०॥
मध्यप्राग्दक्षिणोदीच्यपश्चिमेषु विधानतः ॥ यजेत्पूर्वादिपत्रेषु वृषभाद्याननुक्रमात्‍ ॥४१॥
शूलटंकाक्षवलयकमंडलुलसत्करम्‍ ॥ रक्ताकारं त्रिनयनं चंडेशमथ पूजयेत्‍ ॥४२॥
चक्रशंखाभयाभीष्ट करां मरकतप्रभाम्‍ ॥ दुर्गां प्रपूजयेत्सौम्यां त्रिनेत्रां चारुभूषणाम्‍ ॥४३॥
कल्पशाखांतरे घंटां दधानं द्वादशेक्षणम्‍ ॥ बालार्काभं शिशुं कांतंष्ण्मुखं पूजयेत्ततः ॥४४॥
नंदिनं च यजेत्सौम्यं ॥ रत्नभूषणमंडितम्‍ परश्वधवराभीतिटंकिनं श्यामविग्रहम्‍ ॥४५॥
पाशांकुशवराभीष्टधारिणं कुंकुमप्रभम्‍ ॥ विघ्ननायकमभ्यर्चेच्चंद्रार्द्धकृतशेखरम्‍ ॥४६॥
श्यामं रक्तोत्पलकरं वामांकन्यस्ततत्करम्‍ ॥ द्विनेत्रं रत्कवस्त्राढ्यं सेनापति मथार्चयेत्‍ ॥४७॥
ततोऽष्टमातरः पूज्या ब्राह्माद्याः प्रोक्तलक्षनाः ॥ इंद्रादिकान्लोकपालान्स्वस्वदिक्षु समर्चयेत्‍ ॥४८॥
वज्रादीनि तदस्त्राणि तद्वहिः क्रमतोऽर्चयेत्‍ ॥ एवं यो भजते मन्त्री देवं शंभुमुमापतिम्‍ ॥४९॥
स भवेत्सर्वलोकानां सौभाग्यश्रेयसां पदम्‍ ॥ सांतसद्यांतसंयुक्तो बिन्दु भूषितमस्तकः ॥५०॥
प्रासादाख्यो मनुः प्रोक्तो भजतां सर्वसिद्धिदः ॥ षड्‌दीर्घयुक्तबीजेन षडंगाविधिरिरीतः ॥५१॥
षडर्णवत्तु मुन्याद्याः प्रोक्ताश्वास्यापि नारद ॥ ईशानाद्या न्यसेन्मूर्तीरंगुष्टादिषु देशिकः ॥५२॥
ईशानाख्यं तत्पुरुषमघोरं तदनंतरम्‍ ॥ वामदेवाह्रयं सद्योजातबीजं क्रमाद्विदुः ॥५३॥
उकाराद्यैः पञ्चह्रस्वोर्विलोमान्संयुतं च यत्‍ ॥ तत्तदंगुलिभिर्भूयस्तत्तद्वीजादिकान्न्यसेत्‍ ॥५४॥
शिरोवदनह्रद्धुह्यपाद देशे यथाक्रमात्‍ ॥ उर्द्धप्राग्दक्षिणोदीपश्चिमेषु मुखेषु च ॥५५॥
ततः प्रविन्य़सेद्विद्वाननष्टत्रिंशत्कलस्तनौ ॥ ईशानाद्या ऋचः सम्यगंगुलीषु यथाक्रमात्‍ ॥५६॥
अंगुष्ठादिकनिष्ठांतं न्यसेद्देशिकसत्तमः ॥ मूर्द्धास्यह्रदयांभोजगुह्यपादे तु ताः पुनः ॥५७॥
वक्रे मूर्धादिषु न्यस्य भूयोऽङानि प्रकल्पयेत्‍ ॥ तारपंचकमुच्चार्य सर्वज्ञाय त्दृदीरितम्‍ ॥५८॥
अमृते तेजो मालिन तृप्तायेति पदं पुनः ॥ तदंते ब्रह्मशिरसे शिरोगं ज्वलितं ततः ॥५९॥
शिखिं शिखाय परतोऽनादिबोधाय तच्छिखा ॥ वज्रिणे वज्रहस्ताय स्वतंत्रय तनुच्छदम्‍ ॥६०॥
सौं हौमिति संभाष्य परतो तों गुह्यशक्तये ॥ नेत्रमुक्तं श्लीपशुं हुं फडंते नेत्रं शक्तये ॥६१॥
अस्त्रमुक्तं षडंगानि कुर्यादेव्म समाहितः ॥ पूर्वदक्षिणपश्वात्प्रासौम्यमध्येषु पंचसु ॥६२॥
वक्रेषु पंच विन्यस्येदीशानस्य कलाः क्रमात्‍ ॥ ईशानः सर्वविद्यानां शशिनी प्रथमा कला ॥६३॥
ईश्वरः सर्वभूतानां मंगला तदनंतरम्‍ ॥ ब्रह्याधि पतिः शब्दांते ब्रह्मणोऽधिपतिः पुनः ॥६४॥
ब्रह्मेष्टदा तृतीयास्याच्छिवो मे अस्तु तत्परा ॥ मरीचिः कथिता विप्र चतुर्थी च सदाशिवे ॥६५॥
अंशुमालिन्यथ परा प्रणवाद्या नमोन्विताः ॥ पूर्वपश्चिमयाम्योदग‌वक्रेषु तदनंतरम्‍ ॥६६॥
चतस्त्रो विन्यसेन्मंत्री पुरुषस्य कलाः क्रमात्‍ ॥ आद्या तत्पुरुपायोति विद्महे शांतिरीरिता ॥६७॥
महादेवाय शब्दांते धीमहि स्यात्ततः परम्‍ ॥ विद्या द्वितीया कथिता तन्नो रुद्रः पदं ततः ॥६८॥
प्रतिष्ठा कथिता पश्वात्तृतीया स्यात्प्रचोदयात्‍ ॥ निवृत्तिस्तत्परा सर्वा प्रणवाद्याम नमोन्विता ॥६९॥
ह्रदि चांसद्वये नाभिकुक्षौ पृष्ठेऽथ वक्षसि ॥ अथोरसि कल्या न्यस्येदष्टौ मंत्री यथाविधि ॥७०॥
अघोरेभ्यस्तथा पूर्वमीरिता प्रथमा कला ॥ अथ घोरेभ्य इत्यंते मोहा स्यात्तदनंतरम्‍ ॥७१॥
अघोरांते क्षमा पश्वात्तृतीया परिकीर्तिता ॥ घोरतरेभ्यो निद्रा स्यात्सर्वेभ्यः सर्वतत्परा ॥७२॥
व्याधिस्तु पंचमी प्रोक्ता शवैभ्यस्तदनंतरम्‍ ॥मृत्युर्निगदिता षष्ठी नमस्ते अस्तु तत्परम्‍ ॥७३॥
क्षुधा स्यात्सप्तमी रुद्ररुपेभ्यः कथिता तृषा ॥ अष्टमी कथिता एता ध्रुवाद्या नमसान्विताह ॥७४॥
गुह्ययुग्मोरुयुग्मेषु जानुंजघास्फिजोः पुनः ॥ कट्यां पार्श्वद्वये वामकला न्यस्येत्रयोदशे ॥७५॥
प्रथमा वामदेवाय नमोंते स्याद्रुजा कला । स्याज्ज्येष्टाय नमो रक्षा द्वितीया परिकीर्तिता ॥७६॥
कलकामा पंचमी स्यात्ततो विकरणाय च ॥ नमः संयमनी षष्ठी कथिता तदनन्तरम्‍ ॥७७॥
बलक्रिया सप्तमीष्टा कला विकरणाय चा ॥ नमो वृद्धिस्त्वष्टमी स्याद्वलांते च स्थिरा कला ॥७८॥
पश्वात्प्रमथ नायांते नमो रात्रिरुदीरिता ॥ सर्वभूतदमनाय नमोंते भ्रामणी कला ॥७९॥
नमोंते मोहिनी प्रोक्ता मन्त्रज्ञैर्द्वादशी कला ॥ मनोन्मन्यै नमः पश्वाज्ज्वरा प्रोक्ता त्रयोदशी ॥८०॥
प्रणवाद्याश्वतुर्थ्यंता नमोंतास्तु प्रकीर्तिताः ॥ पाददोस्तननासासु मूर्ध्नि बाहुयुगे न्यसेत्‍ ॥८१॥
सद्योजातभवाः सम्यगष्टौ मन्त्राः कलाः क्रमात्‍ ॥ सद्योजातं प्रपद्यामि सिद्धिः स्यात्प्रथमा कला ॥८२॥
सद्योजाताय वै भूयो नमः स्याद्‌ वृद्धिरीरिता ॥ भवे द्युतिस्तृतीया स्यादभवे तदनन्तरम्‍ ॥८३॥
लक्ष्मी चतुर्थी कथिता ततो नातिभवेपदम्‍ ॥ मेधा स्यात्पञ्चमी प्रोक्ता कलाभूयोः भवस्व माम्‍ ॥८४॥
प्राज्ञा समीरिता षष्ठी भवांते स्यात्प्रभा कला ॥ उद्धवाय नमः पश्वावाय नमः पश्वात्सुधा स्यादष्टमी ॥८५॥
प्रणवाद्याश्वतुर्थ्यंता कलाः सर्वा नमोन्विताः ॥ अष्टात्रीशत्कलाः प्रोक्ताः पंच ब्रह्मपदादिकाः ॥८६॥
इति विन्यस्तदेहोऽसौ भवेद्धंगाधरः स्वयम्‍ ॥ ततःसमाहितो भूत्वा ध्यायेदेव्म सदाशिवम्‍ ॥८७॥
सितपीतासितश्वेतजपाभैः पंचभिर्मुखैः ॥ अक्षैयुतं ग्लौमुकुटं कोटिपूर्णेदुसंप्रभम्‍ ॥८८॥
शूलं टंकं कृपाणं च वज्राग्न्यहिपतीन्करैः ॥ दधानं भूषणोद्दीत्म घण्टापाशवराभयान्‍ ॥८९॥
एवं ध्यात्वा जपेन्मंत्रं पञ्चन्मंत्रं पञ्चलक्षं मधुप्लुतैः ॥ प्रसूनैः करवीरोत्थैर्जुहुयात्तद्दशांशतः ॥९०॥
पूर्वोदिते यजेत्पीठे मूर्ति मूलेन कल्पयेत्‍ ॥ आवाह्य पूजयेत्तस्यां मूर्तावावरणैः सह ॥९१॥
शक्तिं डमरुकाभीतिवरान्संदधतं करैः ॥ ईशानं त्रीक्षणं शुभ्रं मैशान्या दिशि पूजयेत्‍ ॥९२॥
परश्वेणवराभीतीर्दधानं विद्युदुज्ज्वलम्‍ ॥ चतुर्मुखं तत्पुरुषं त्रिनेत्रं पूर्वतोऽर्चयेत्‍ ॥९३॥
अक्षस्त्रजं वेदपाशौ ऋषिं डमरुकं ततः ॥ खटांगं निशितं शूलं कपालं बिभ्रतं करैः ॥९४॥
अंजानाभं चतुर्वक्रं भीमदंतं भयावहम्‍ ॥ अघोरं त्रीक्ष्ण याम्ये पूजयेन्मंत्रवित्तमः ॥९५॥
कुंकुमाभचतुर्वक्रं वामदेवं त्रिलोचनम्‍ ॥ हरिणाक्षगुणाभीतिवरहस्तं चतुर्मुखम्‍ ॥९६॥
बालेंदुशेखरोल्लसिमुकुटं पश्चिमे यजेत्‍ ॥ कर्पूरेंदुनिभं सौम्य सद्योजातं त्रिलोचनम्‍ ॥९७॥
वराभयाक्षवलयकुठारान्दधत्म करैः ॥ विलासिनं स्मेरवक्रं सौम्ये सम्यक्समर्चयेत्‍ ॥९८॥
कोणेष्वर्चेन्निवृत्त्याद्यास्तेजोरुपाः कलाः क्रमात्‍ ॥ विघ्नेश्वराननन्ताद्यान्पत्रेषु परितो यजेत्‍ ॥९९॥
उमादिकास्ततो बाह्ये शक्राद्यानायुधैः सह ॥ इति संपूज्य देवेशं भक्तया परमया युतः ॥१००॥
प्रीणयेन्नृत्यगीताद्यैः स्तोत्रैर्मंत्री मनोहरैः ॥ तारो मायावियह्रिंदुमनुस्वरसमन्वितः ॥१०१॥
पञ्चाक्षरसमायुक्तो वसुवर्णो मनुर्मतः ॥ पंचाक्षरोक्तवत्कुर्यादंगन्यासादिकं बुधः ॥१०२॥
सिंदूराभं लसद्रत्नमुकुटं चन्द्रमौलिनम्‍ ॥ दिव्यभूषांगरागं च नागयज्ञोपवीतिनम्‍ ॥१०३॥
वामोरुस्थप्रियोरोजन्यस्तहस्तं च बिभ्रतम्‍ ॥ वेदटंकेष्टमभयं ध्यायेत्सर्वेश्वरं शिवम्‍ ॥१०४॥
अष्टलक्षं जपेन्मंत्रं तत्सहस्त्रं घृतान्वितैः ॥ पायसैर्जुहुयात्पीठे मूर्ति संकल्प्य मूलतः ॥१०५॥
अंगैरावरणं पूर्वरावरणं पूर्वमनंताद्यैरनन्तरम्‍ ॥ उमादिभिः समुद्दिष्टं तृतीयं लोकनायकैः ॥१०६॥
चतुर्थं पंचमं तेषामायुधैः परिकीर्तितम्‍ ॥ एवं प्रतिदिनं देवं पूजयेत्साधकोत्तमः ॥१०७॥
पुत्रपौत्रादिगां लक्ष्मीं संप्राप्य ह्यात्र मोदते ॥ तारः स्थिरा सकर्णैर्भृगः सर्गसमन्वितः ॥१०८॥
अक्षरात्मा निगदितो मंत्रो मृत्युञ्जयात्मकः ॥ ऋषिः कहोलो देव्यादिगायत्री छन्द ईरितम्‍ ॥१०९॥
मृत्युञ्जयो महादेवो देवतास्य समीरितः ॥ भृगुणा दीर्घयुक्तन षडंगानि समाचरेत्‍ ॥११०॥
चंद्रार्कहुतभुड्‍नेत्रं स्मितास्यं युग्मप द्मगम्‍ ॥ मुद्रापाशैणाक्षंसूत्रलसत्पाणिं शशिप्रभम्‍ ॥१११॥
भालेंदुविगलंत्पीयूषप्लुतांगमलंकृतम्‍ ॥ हाराद्यैर्निजकांत्या तु ध्यायेद्विश्वविमोहनम्‍ ॥११२॥
गुणलक्षं जपेन्मंत्र तद्दशांशं हुनेत्सुधीः ॥ अमृताशकलैः शुद्धदुग्धाज्यसमभिप्लुतैः ॥११३॥
शैवे संपूजयेत्पीठे मूर्ति संकल्पमूलतः ॥ अंगावरणमाराध्य पश्वाल्लोकेश्वरान्यजेत्‍ ॥११४॥
तदस्त्राणि ततो बाह्ये पूजयेत्सधकोत्तमः ॥ जपपूजादिभिः सिद्धे मंत्रेऽस्मिन्मुनिसत्तम ॥११५॥
कुर्यात्प्रयोगान्कल्पोक्तानभीष्टफलसिद्धये ॥ दुग्धसिक्तैः सुधाखंडैर्हुत्वा प्रत्यहमादरात्‍ ॥११६॥
सहस्त्रमासपर्यंत लभेदायुर्धनं सुतान्‍ ॥ सुधावटतितान्पूर्वा पयः सर्पि पयो हविः ॥११७॥
सप्त द्र्व्याणि वारेषु क्रमाद्दशशत हुनेत्‍ ॥ सप्ताधिकान्‍ द्विजान्नित्यं भोजयेन्मधुरान्वितम्‍ ॥११८॥
ऋत्विग्भो दक्षिणां दद्यादरुणां गां पयस्विनीम्‍ ॥ गुरुं संप्रीणयेत्पश्वाधनाद्यैर्देवताधिया ॥११९॥
अनेन विधिना साध्यः कृत्योद्रोहज्वरादिभिः ॥ विमुक्तः सुचिरं जीवेच्छरदां शतमञ्ज्सा ॥१२०॥
अभिचारे ज्वरे स्तंभघोरोन्मादे शिरोगदे ॥ असाध्यरोगे क्ष्वेडार्तौ मोहे दाहे महाभये ॥१२१॥
होमोऽयं शांतिदः प्रोक्तः सर्वाभयप्रदायकः ॥ द्रव्यैरेतैः प्रजुहुयात्रिजन्मसु यथाविधि ॥१२२॥
भोजयेन्मधुरैर्भोर्ज्यैर्ब्राह्मणान्वेदपारगान्‍ ॥ दीर्घ मायुरवाप्नोति वांछितां विंदति श्रियम्‍ ॥१२३॥
एकादशाहुतीर्नित्यं दूर्वाभिर्जहुयाद्‍ बुधः ॥ अपमृत्युजिदेव स्यादायुरारोग्यवर्द्धनम्‍ ॥१२४॥
त्रिजन्मसुः सुधावल्लीकाश्मीरीबकुलोद्धवैः ॥ समिद्वरैः कृतो होमः सर्वमृत्युगदापहः ॥१२५॥
सिद्धार्थैर्विहितो होमो महाज्वरविनाशनः ॥ अपामार्ग समिद्धोमः सर्वामयनिषूदनः ॥१२६॥
दक्षिणामूर्तये पूर्वं तुभ्यं पदमंनतरम्‍ ॥ वटमूलपदस्यांते प्रवदेच्च निवासिने ॥१२७॥
ध्यानैकनिरतां गाय पश्वाद्‍ ब्रूयान्नमः पदम्‍ ॥ रुद्राय शंभवे तारशक्तिरुद्धोऽयमीरितः ॥१२८॥
षट्‌त्रिंशदक्षरो मंत्रः सर्वकामफलप्रदः ॥ मुनि शुकः समुद्दिष्ट श्वंदोऽनुष्टुप्रकीर्तितम्‍ ॥१२९॥
देवता दक्षिणामूर्तिर्नाम्ना शंभुरुदीरितः ॥ तारशक्तियुतेः पूर्वं ह्रीमाद्यंतैश्व मंत्रजैः ॥१३०॥
षट्‌षष्ठाष्टेषु वह्रयर्णैर्त्दृदताद्यंगकल्पनम्‍ ॥ मूर्ध्नि भाले दृशोः श्रोत्रे गंडयुग्मे सनासिके ॥१३१॥
आस्यदोःसंधिषु गले स्तनह्रन्नभिमंडले ॥ कट्यां गुह्ये पुनः पादसंधिष्वणान्न्यसेन्मनोः ॥१३२॥
व्यापकं तारशक्तिभ्यां कुर्याद्देहे ततः परम्‍ ॥ हिमाचलतटे रम्ये सिद्धकिन्नरसेविते ॥१३३॥
विविध द्रुमशाखाभिः सर्वतो वारितातपे ॥ सुपुष्पितैर्लताजालैराश्लिष्टकुसुमद्रुमे ॥१३४॥
शिलाविवरनिर्गच्छन्निर्झरानिलशीतले ॥ गायद्देवांगनासंघे नृत्यद्वर्हि कदम्बके ॥१३५॥
कूजत्कोकिलसंघेन मुखरीकृतदिङ्‌मुखे ॥ परस्परविनिर्मुक्तमात्सर्यमृगसेविते ॥१३६॥
जलजैः स्थलर्जैः पुष्पैरामोदिभिरलं कृते ॥ आद्यैः शुकाद्यैर्मुनिभिरजस्त्रसुखसेविते ॥१३७॥
पुरंदरमुखर्देवैः सांगनाद्यैर्विलोकिते ॥ वटवृक्षं महोच्छ्रायं पद्मरागफलोज्ज्लम्‍ ॥१३८॥
गारुमतमयैः पतैर्निबिडैरुपशोभितम्‍ ॥ नवरत्नमयाकल्पैर्लंबमानैरलंकृतम्‍ ॥१३९॥
संसारतापविच्छेदकुशलच्छायमद्धुतम्‍ ॥ तस्य मूले सुसंक्लृप्तरत्नसिंहासने शुभे ॥१४०॥
आसीनमसिताकल्पं शरच्चंद्रनिभानम्‍ ॥ कैलासाद्रिनिभं त्र्यक्षं चंद्रांकितकपर्दकम्‍ ॥१४१॥
नासाग्रालोकनपरं वीरासनसमास्थितम्‍ ॥ भद्राटके कुरंगाढ्यजनुस्थकरपल्लवम्‍ ॥१४२॥
कक्षाबद्धभुजंर्गं च सुप्रसन्नं हरं स्मरेत्‍ ॥ अयुतद्वयसंयुक्तगुणलक्षं जपेन्मनुम्‍ ॥१४३॥
तद्दशांशं तिलैः शुद्धैर्जुहुयात्क्षीरसंयुतैः ॥ पंचाक्षरोदिते पीठे तद्विधानेन पूजयेत्‍ ॥१४४॥
भिक्षाहारो जपेन्मासं मनु मेनं जितेंद्रियः ॥ नित्यं सहस्त्रमष्टार्द्धं परां विदति वाक्छ्रियम्‍ ॥१४५॥
त्रिवारं जप्तमेतेन पयस्तु मनुना पिबेत्‍ ॥ दक्षिणामूर्तिसंध्यानाच्छ स्त्रव्याख्यानकृद्धवेत्‍ ॥१४६॥
प्रणवो पश्वाद्वदेद्धगवतेपदम्‍ ॥ ङेयुतं दक्षिणामूर्ति मह्यंमेधामुदीरयेत्‍ ॥१४७॥
प्रयच्छ ठद्वयांतोऽयं द्वाविंशत्यक्षरो मनुः ॥ मुनिश्वतुर्मुखश्छदो गायत्री देवतोदिता ॥१४८॥
ताररुद्धैः स्वरैदीर्घिः षड्‌भिरंगानि कल्पयेत्‍ ॥ पदैर्मंत्रभवैर्वापि ध्यानांद्यं पूर्ववन्मतम्‍ ॥१४९॥
लोहितोग्न्यासनः सद्यो बिंदुमान्प्रथमं ततः ॥ द्वितीयं वह्रिबीजस्था दीर्घा शांतीन्दुभूषिता ॥१५०॥
तृतीया लांगलीशार्णमंत्रो बीजत्र्यान्वितः ॥ नीलकंठात्मकः प्रोक्तो विषद्वयहरः परः ॥१५१॥
हरद्वयं वह्रिजायां ह्रदयं परिकीर्तितम्‍ ॥ कपर्द्दिने पदयुगं शिरोमंत्र उदाहृतः ॥१५२॥
नीलकंठाय ठद्वंद्वं शिखामंत्रोऽयमीरितः ॥ कालकूटपदस्यांते विषमक्षणङेयुतम्‍ ॥१५३॥
हुं फट्‌ कवचमुद्दिष्टं नीलकंठिन इत्यतः ॥ स्वाहांतमस्त्रमेतानि पंचागानि मनोर्विदुः ॥१५४॥
मूर्ध्नि कंठे त्दृदंभोजे क्रमाद्वीजत्रयं न्यसेत्‍ ॥ बालार्कायुतवर्चस्कं जटाजूटेंदुशोभितम्‍ ॥१५५॥
नागभूषं जपवटीं शूलं ब्रह्मकपालकम्‍ ॥ खट्वांगं दधतं दोर्भिस्त्रिनेत्रं चिंतयेद्धरम ॥१५६॥
लक्षत्रयं जपेन्मत्रं तद्दशांश ससर्पिषा ॥ हविषा जुहुयात्सम्यक्संस्कृते हव्यवाहने ॥१५७॥
शैवं पीठे यजेद्देवं नीलकंठं समाहितः ॥ मृत्युं जयविधानेन विषद्वयाविनाशनम्‍ ॥१५८॥
अग्निः संवर्तकादित्यरानिलौ षष्टिर्बिंदुमान्‍ ॥ चिंतामणिरिति ख्यातं बीजं सर्वसमृद्धिदम्‍ ॥१५९॥
कश्यपो मुनिराख्यातश्छंदोऽनुष्टुबुदात्दृतम्‍ ॥ अर्द्धनारीश्वरः प्रोक्तो देवता जगतां पतिः ॥१६०॥
रेफादिव्यंजनैः षड्भिः कुर्यादंगानि षट्‌ क्रमात्‍ ॥ त्रिनेत्रं नीलमणिभं शूलपाशं कपालकम्‍ ॥१६१॥
रक्तोत्पलं च हस्ताब्जैर्दधतं चारुभूषणम्‍ ॥ बालेंदुबद्धमुकुटमर्द्धनारी श्वरं स्मरेत्‍ ॥१६२॥
एकलक्षं जपेन्मंत्रं त्रिशतं मधुराप्लुतैः ॥ तिलैर्हुनेद्यजेत्पीठे शैवेंगावरणैः सह ॥१६३॥
वृषाद्यैर्मातृभिः पश्वाल्लोकपालै स्तदायुधैः ॥ प्रासादाद्यं जपेन्मंत्रमयुतं रोगशांतये ॥१६४॥
स्वाहावृत्तमिदं बीजं विगलत्परमामृतम्‍ ॥ चन्द्रबिंबस्थितं मूर्ध्नि ध्यातं क्ष्वेडगदा पहम्‍ ॥१६५॥
प्रतिलोमस्वराढ्या च बीजं बह्रिगृहे स्थितम्‍ ॥ रेफादिव्यंजनोल्लसिषट्कोणाभिवृतं बहिः ॥१६६॥
भूतार्तस्य स्मृतं भूत माशु विनाशयेत्‍ ॥ पीडितांगे स्मृतं तत्तत्पीडां शमयति ध्रुवम्‍ ॥१६७॥
प्रणवो हृदयं पश्वान्‍ ङेंतः पशुपतिः पुनः ॥ तारो नमो भूतपदं ततोऽधि पतेय ध्रुवम्‍ ॥१६८।
नमोरुद्राय युगलं खङुरावण शब्दतः ॥ विह्रद्वितयं पश्वान्नरीनृत्ययुगं पृथक्‍ ॥१६९॥
श्मशानभस्माचितांते शरण्याय ततः परम्‍ ॥ घंटाकपालमालादिधरायेति पदं पुनः ॥१७०॥
व्याघ्रचर्मपदस्यांते परिधानाय तत्परम्‍ ॥ शशांककृत शब्दांते शेखराय ततःपरम्‍ ॥१७१॥
कृष्णसर्पपदात्पश्वाद्वदेद्यज्ञोपवीतिने ॥ बलयुग्मं चलायुग्ममनिवर्तकपालिने ॥१७२॥
हनुयुग्मं ततो भूतांस्त्रासयद्वितयं पुनः ॥ भूयो मंडलमध्ये स्यात्कटयुग्मं ततः परम्‍ ॥१७३॥
रुद्रांकुशेन शमय प्रवेशययुगं ततः ॥ आवेशययुगं पश्वाच्चंडासिपदमीरयेत्‍ ॥१७४॥
धाराधिपतिरुद्रोऽयं ज्ञापयत्यग्निंसुंदरी ॥ खङुरावणमंत्रोऽयं सप्तत्यूर्द्धशताक्षरः ॥१७५॥
भूताधिपतये स्वाहा पूजामन्त्रोऽयमीरितः ॥ सिद्धमंत्रोऽयमुदितो जपादेव प्रसिद्धयति ॥१७६॥
अयुतद्वितयात्पश्वाद्धूतादिग्रहणे क्षमः ॥ माया स्फुरद्वयं भूयः प्रस्फुरद्वितयं पुनः ॥१७७॥
घातयद्वितयं वर्मफडंतः समुदीरितः ॥ एकपंचाशदर्णोऽयमघोरास्त्रं महामनुः ॥१७८॥
अघोरोऽस्य्म मुनिः प्रोक्तस्त्रिवृच्छंद उदाहृतम्‍ ॥ अघोरुरुद्रः संदिष्टो देवता मन्त्रनायकः ॥१७९॥
हृदयं पंचभिः प्रोक्तं शिरः षड्भिरुद्राहृतम्‍ ॥ शिखा दशभिराख्याता नवभिः कवचं मतम्‍ ॥१८०॥
वसुवर्णैः स्मृतं नेत्रं दशार्णैरस्त्रमीरितम्‍ ॥ मूर्ध्नि नेत्रास्यंकठेषु हृन्नाभ्यामूरुषु क्रमात्‍ ॥१८१॥
जानुजंघापदंद्वद्वे रुद्रभिन्नाक्षरैर्न्यसेत्‍ ॥ पञ्चषट्‌काष्टवेदांगद्विव्द्यब्धि रसलोचनैः ॥१८२॥
श्यामं त्रिनेत्रं सर्पाढ्यं रक्तवस्त्रांगरागकम्‍ ॥ नानाशस्त्रधरं ध्यायेदघोराख्यं सदाशिवम्‍ ॥१८३॥
भूतवेतालकादीनां क्षमोऽयं निग्रहे मनुः ॥ तारो वांतो धरासंस्थो वामनेत्रेंदुभूषितः ॥१८४॥
पाशी बकः कर्णनेत्रवर्मास्त्रांतः षडक्षरः ॥ मनूः पाशुपतास्त्राख्यो ग्रहक्षुद्रनिवारणः ॥१८५॥
षड्भिर्वर्णैः षडंगानि हुंफडंतैः सजातिभिः ॥ मध्याह्रार्कप्रभं भीमं त्र्यक्षं पन्नगभूषणम्‍ ॥१८६॥
नानाशस्त्रं चतुर्वक्तं स्मरेत्पशुपतिं हरम्‍ ॥ वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥१८७॥
गव्येन सर्पिषा मन्त्रो संस्कृते हव्यवाहने ॥ शैवे पीठे यजेंदंगमातृलोकेश्व रायुधैः ॥१८८॥
अनेन मन्त्रितं तोयं भूतग्रस्तमुखे क्षिपेत्‍ । सद्यः स मुंचति क्रंदान्महामंत्रप्रभावतः ॥१८९॥
अनेन मन्त्रितान्बाणान्विसृजे द्युधि यो नरः ॥ जयेत्क्षणेन निखिलाञ्छत्रून्पार्थ इवापरः ॥१९०॥
वर्णान्तिमो बिन्दुयुतः क्षेत्रपालाय हृन्मनुः ॥१९१॥
ताराद्यो वसुवर्णोऽयं क्षेत्रपालस्य कीर्तितः ॥ षड्‌दीर्घयुक्तबीजेन षडंगं न्यस्य चिन्तयेत्‍ ॥१९२॥
नीलाचलाभं दिग्वस्त्रं सर्पभूषं त्रिलोचनम्‍ ॥ पिंगोर्ध्वकेशान्दधतं कपालं च गदां स्मरेत्‍ ॥१९३॥
लक्षमेकं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥ चरुणा घृतसिक्तेन ततः क्षेत्रे समर्चयेत्‍ ॥१९४॥
धर्मादिकल्पितं पीठे सांगवरणमादरात्‍ ॥ तस्मै सपरिवाराय बलिमेतेन निर्हरेत्‍ ॥१९५॥
पूर्वमोहिद्वयं पश्वाद्विद्विषं पुरुषं द्वयम्‍ ॥ भञ्जयद्वितयं भूयो नर्तय द्वितयं पुनः ॥१९६॥
ततो विघ्नपदद्वन्द्वं महाभैरव तत्परम्‍ ॥ क्षेत्रपालबलिं हृह्रद्वयं पावकसुन्दरीं ॥१९७॥
बलिमन्त्रोऽयमाख्यातः सर्वकामफल प्रदः ॥ सोपदेशं बृहत्पिण्डे कृत्वा रात्रिषु साधकः ॥१९८॥
स्मृत्वा यथोक्तं क्षेत्रेशं तस्य हस्ते बलिं हरेत्‍ ॥ बलिनानेन सन्तुष्टः क्षेत्रपालः प्रयच्छति ॥१९९॥
कांतिं मेधां बलारोग्यं तेजः पुष्टिं यशः श्रियम्‍ ॥ उद्धरेद्वटुकं ङेंतमापदुद्धारणं तथा ॥२००॥
कुरुद्वयं ततः पश्वाद्वटुकं ङेंतमुच्चरेत्‍ ॥शक्तिरुद्धो ध्रुवादिश्व द्वाविंशत्यक्षरो मनुः ॥२०१॥
द्विचतुःसप्तवेदाब्धिचंद्रार्णैरंगकं मनोः ॥बालं स्फटिकसंकाशं तल्लोललसिताननम्‍ ॥२०२॥
दिव्या कल्पैः प्रदीप्तांगं त्र्यक्षं दंडात्रिशूलिनम्‍ ॥ सुप्रसन्नं स्मरेद्धक्तया भक्तानामभयंकरम्‍ ॥२०३॥
वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेंद्रियः ॥ तद्दशांशं प्रजुहुयांत्तिलैर्मधुरसंयुतैः ॥२०४॥
धर्मादिकल्पिते पीठे पंकजे चातिशोभने ॥ षट्कोणांतस्त्रिकोणस्थव्योमपंकजसंयुते ॥२०५॥
बटुकं पूजयेद्देवं सांगावरणकं क्रमात्‍ ॥ शत्रुपक्षस्य रुधिरं पिशितं च दिनेदिने ॥भक्षयस्व गणैः सार्द्धं सारमेयसमन्वितः ॥२०६॥
बलिमन्तोऽयमाख्यातः शत्रुनाम्रा विदर्भितः ॥अनेन बलिना हृष्टो बटुकः परसैन्यकम्‍ ॥२०७॥
छित्वा गणेभ्यो विभजेदामिषं क्रुद्धमानसः ॥ अङ्कुशो वह्रिशिखरो लांतदांत इतीरितः ॥२०८॥
फडन्तश्वण्डमन्त्रोऽयं त्रिवर्णात्मा समीरितः ॥अस्य त्रितो मुनिः प्रोक्तश्र्छन्दोऽनुष्टुबुदाहृतम्‍ ॥२०९॥
चंडेशो देवता प्रोक्ता वक्ष्यतेंऽगप्रकल्पनम्‍ ॥ हृदयं दीप्तफट्‌ प्रोक्तं ज्वलफट्‌ शिर ईरितम्‍ ॥२१०॥
शिखाज्वालिनि फट्‌ प्रोक्ता वहफट्‌ कवचं मतम्‍ । हलफट्‌ नेत्रमाख्यातं सर्वज्वालिनि फट्‌ परम्‍ ॥२११॥
विन्यस्यैवं षडंगानि ततो देवं विचिंतयेत्‍ ॥ चंडेश्वरं रक्ततनुं त्र्यक्षं रक्तांबरावृतम्‍ ॥२१२॥
दधत च त्रिशूलाक्षमालाटं ककमंडलूनू ॥ वर्णलक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः ॥२१३॥
मधुरत्रयसंयुक्तैर्विशुद्धैस्तिलतंडुलैः ॥ पंचाक्षरोदिते पीठे मूर्ति मूलेन कल्पयेत ॥२१४॥
कूर्मेशो बिंदुसंयुक्तस्ततश्वंडेश्वराय च ॥ हृदयं मनुराख्यातश्वंडेशस्य प्रपूजने ॥२१५॥
अंगैर्मातृभिराशेशैर्वज्राद्यैरावृतिर्भवेत्‍ ॥ शैवमंत्रेषु निष्णातश्वण्डेश्वरमनुं जपेत्‍ ॥२१६॥
सर्वान्कामानवाप्नोति परत्रेह च नंदति ॥ श्रुणू नारद वक्ष्यामि दिव्यं माहेश्वरं स्तवम्‍ ॥२१७॥
यस्य पाठेन पूजायां सिद्धयंति मनवोऽखिलाः ॥२१८॥
धराम्ब्वग्रिमरुव्द्योममखेशेंद्वर्कमूर्तये ॥ सर्वभूतान्तरस्थाय शंकराय नमोनमः ॥२१९॥
श्रुत्यं तकृतवासाय श्रुतये श्रुतिजन्मने ॥ अतींद्रियाय महसे शाश्वताय नमोनमः ॥२२०॥
स्थूलसूक्ष्मविभागाभ्यामनिर्देश्याय शंभवे ॥ भवाय भवसंभूतदुःखहन्त्रे नमोनमः ॥२२१॥
तर्कमार्गातिदूराय तपसां फलदायिने ॥ चतुर्वर्गदान्याय सर्वज्ञाय नमोनमः ॥२२२॥
आदिमध्यांतशून्याय निरस्ताशेषभीतये॥ योगिध्येयाय महते निर्गुणाय नमोनमः ॥२२३॥
विश्वात्मने विविक्ताय विलसच्चंद्रमौलये ॥ कंदर्प्यदर्प्पनाशाय कालहंत्रे नमोनमः ॥२२४॥
विषाशनाय विहरद्धृष्यस्कंधमुपेयुषे ॥ सरिद्दामसमाबद्धकपदार्थ नमोनमः ॥२२५॥
शुद्धाय शुद्धभावाय शुद्धानामंतरात्मने ॥ पुरांतकाय पूर्णाय पुण्यनाम्रे नमोनमः ॥२२६॥
भक्ताय निजभक्तानां भुक्तिमुक्तिप्रदायिने ॥ विवाससे निवासाय विश्वेषां पतये नमः ॥२२७॥
त्रिमूर्तिमूलभूताय त्रिनेत्राय त्रिशूलिने ॥ त्रिधाम्ने धामरुपाय जन्मदाय नमोनमः ॥२२८॥
देवासुरशिरोरत्नकिरीटारुणितांघ्रये ॥ कांताय निजकांतायै दत्तार्द्धाय नमोनमः ॥२२९॥
एतत्स्तोत्रं महेशस्य प्रोक्तं सर्वाधनाशनम्‍ ॥ शिवसान्निध्यदं विप्र सर्वतंत्रप्रकाशकम्‍ ॥२३०॥
एतत्ते सुमहत्तन्त्रं सर्वदेवप्रकाशकम्‍ ॥ लोकाभिलाषसंपूर्तिक्रियासाधनसंगतम्‍ ॥२३१॥
ये तु सामान्यतः प्रोक्तास्तंत्रेऽस्मिन्मनवो द्विज ॥ ते तु लोकोपकाराय ज्ञातव्याः सिद्धिदायकाः ॥२३२॥
विशेषतो वैष्णवा ये मंत्राः सर्वोत्तमोत्तमाः ॥ त एव साधनीयाः स्युश्वतुर्वर्गफलाप्तये ॥२३३॥
राममन्त्राः कृष्णमन्त्राः सांगा रासेशिमन्त्रकाः ॥ शाक्ताःसौराश्व गाणेशाः शैवाः प्रोक्ताः शुभावहाः ॥२३४॥
तेषु स्वात्मप्रकाशाय भजेन्मुक्तिफलप्रदान्‍ ॥ एतत्ते सर्वमाख्यातं यत्त्वयाभ्यर्थितं मुने ॥ देवताराधनं भक्तया किं भूयः श्रोतुमिच्छसि ॥२३५॥
इति श्री बृहन्नार० पूर्वभागे बृहदु० तृतीयपादे महेशमन्त्रकथनं नामैकनवतितमोऽध्यायः ॥९१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T04:45:54.6370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

as desired

  • आदेशानुसार 
  • विनंतीनुसार 
RANDOM WORD

Did you know?

गणपतीची सोंड कोणत्या दिशेला वळली आहे, यावरून पूजाअर्चेचे कांही धर्मशास्त्र आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site