TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
एकोनषष्टितमोऽध्यायः

श्री नारदीयमहापुराणम् - एकोनषष्टितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


एकोनषष्टितमोऽध्यायः
सनंदन उवाच ॥
ततः स राजा सहितो मंत्रिभिर्द्विजसत्तम ॥ पुरः पुरोहितं कृत्वा सर्वाण्यंतः पुराणिच ॥१॥
शिर सा चार्घ्यमादाय गुरुपुत्रं समभ्यगात् ॥ महदासनमादाय सर्वरत्नमिस्त्रितम् ॥२॥
प्रददौ गुरुपुत्राय शुक्राय परमोचितम् ॥ तत्रोपविष्टं तं कार्ष्णिशास्त्रदृष्टेन कर्मणा ॥३॥
पाद्यं निवेद्य प्रथमं सार्घ्यं गां न्यवोतम् ॥ स च तांमंत्रथः पूजां प्रतिगृह्य द्विजोत्तगः ॥४॥
पर्यपृच्छन्महातजा राज्ञः कुशलमव्ययम् ॥ उदारसत्त्वाभिजनो राजापि गुरुसूनवे ॥५॥
आवेद्य कुशलं भूमौ निषसाद तदाज्ञया ॥ सो‍ऽपि वैयासकिं भूयः पृष्टा मे जनको नाम विश्रुतः ॥७॥
तत्र त्व गच्छ तूर्णं वै स ते ह्रदयसंशयम् ॥ प्रवृत्तौ च निवृत्तौ च सर्वं छेत्स्यत्यसंशयम् ॥८॥
सोऽहं पितुर्नियोगात्त्वा मुपप्रष्टुमिहागतः ॥ तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि ॥९॥
किं कार्यं ब्राह्मणेनेह मोक्षार्थंश्व किमात्मकः ॥ कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा ॥१०॥
जनक उवाच ॥
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छणू ॥ कृतोपनयनस्तात भवेद्वेदपरायणः ॥११॥
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चान्वितः ॥ देवतानां पितृणां च ह्रातृष्णश्वानसूयकः ॥१२॥
वेदानधीत्य नियतो दक्षिणामपवर्त्य च ॥ अभ्यनुज्ञामनुप्राप्य समावर्तेत वै द्विजः ॥१३॥
समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् ॥ अनसूयुर्यथान्यायमाहिताग्निरनादृते ॥१४॥
उत्पाद्य पुत्रपौत्रांश्व वन्याश्रमपदे वसेत् ॥ तानेवाग्रीन्यथान्यायं पूजयन्नतिथिप्रियः ॥१५॥
सर्वानग्रीन्यथान्यायमात्मन्यारोप्य धर्मवित् ॥ निर्द्वंद्वो वितरागात्मा ब्रह्मश्रमपदे वसेत् ॥१६॥
शुक उवाच ॥
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे ह्रदि शाश्वते ॥ न विना गुरुसंवासाज्ज्ञानस्याधिगमः स्मृतः ॥१७॥
किमवश्यं तु वस्तव्यमाश्रमेषु न वा नृप ॥ एतद्धंवंत पृच्छामि तद्धवान्वक्तुमर्हति ॥१८॥
जनक उवाच ॥
न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत् ॥ न विना गुरुसंबंधाज्ज्ञानस्याधिगमतथा ॥१९॥
आचार्यः ल्पाविता तस्य ज्ञानं ल्पव इहोच्यते ॥ विज्ञाय कृतकृत्यस्तु तीर्णस्तत्रोभयं त्यजेत् ॥२०॥
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् ॥ कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ॥२१॥
भावितैः कारणैश्वार्यं बहुसंसारयोनिषु ॥ आसादयति शुद्धात्मा मोक्षं हि प्रथमश्रमे ॥२२॥
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्वितः ॥ त्रिधाश्रमेषु कोन्वर्थो भवेत्परमभीप्सतः ॥२३॥
राजसांस्तामसांश्वैव नित्यं दोषान्विसर्जयेत् ॥ सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना ॥२४॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मानि ॥ संपश्यन्नैव लिप्येत जले वारिचरो यथा ॥२५॥
पक्षीवत्ववनादूर्ध्वममुत्रानंत्यमश्नुते ॥ विहाय देहं निर्मुक्तो निर्द्धंद्वः शुभसंगतः ॥२६॥
अत्र गाथाःपुरा गीताः श्रुणु राज्ञा ययातिना॥ धार्यते या द्विजैस्तात मोक्षशास्त्रविशारदैः ॥२७॥
ज्योतिश्वात्मनि नान्यत्र रत्नं तत्रैव चैव तत् ॥ स्वयं च शक्यं तद्दष्टुं सुसमाहितचेतसा ॥२८॥
न बिभेति परो यस्मान्न बिभेति पराच्च यः ॥ यश्व नेच्छति न द्वेष्टि ब्रह्म संपद्यते स तु ॥२९॥
यदा भावं न कुरुते सर्वभूतेषु पापकम् ॥ पूर्वेराचरितो धर्मश्वातुराश्रमसंज्ञकः ॥३०॥
अनेन क्रमयोगेन बहुजातिसुकर्मणाम् ॥ कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥३१॥
संयोज्य तषसात्मानमीर्ष्यामुत्सु ज्य मोहिनीम् ॥ त्यक्ता कामं च लोभं च ततो ब्रह्मत्वमश्नुते ॥३२॥
यदा श्राव्ये च दृश्ये सर्वभूतेषु चाव्ययम् ॥ समो भवति निर्द्वंद्वो ब्रह्मे संपद्यते तदा ॥३३॥
यदा स्तुतिं च निंदां च समत्वेन च पश्यति ॥ कांचनं चाऽयसं चैव सुखदुःखे तथैव च ॥३४॥
शीतमुष्णं तथैवार्थमनंर्थं प्रियमप्रियम् ॥ जीवितं मरणं चैव ब्रह्म संपद्यते तदा ॥३५॥
प्रसार्येह यथांगानि कूर्मः संहरते पुनः ॥ तथेंद्रियाणि मनसा संयंतव्यानि भिक्षुणा ॥३६॥
तमःपरिगतं वेश्म यथा दीपेन दृश्यते ॥ तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ॥३७॥
एतत्सर्वं प्रपश्यामित्वयि बुद्धिमतांवर ॥ यच्चान्यदपि वेत्तव्यं तत्त्वतो वेत्ति तद्धवान् ॥३८॥
ब्रह्मर्शे विदितश्वासि विषयांतुमुपागतः ॥ गुरोश्वैव प्रसादेन तव चैवोपशिक्षया ॥३९॥
तस्य चैव प्रसादेन प्रादुर्भूतं महामुनेः ॥ ज्ञानं दिव्य्म समादीप्तं तेनासि विदितो मम ॥४०॥
अधिकं तव विज्ञानमधि कावगतिस्तव ॥ अधिकं च तविश्वर्यं तच्च त्वं नावबुध्यसे ॥४१॥
बाल्याद्वा संशयाद्वापि भयाद्वापि विमेषजात् ॥ उत्पन्ने चापि विज्ञा ने नाधिगच्छंति तां गतिम् ॥४२॥
व्यवसायेन शुद्धेन मद्विधैश्छन्नसंशयाः ॥ विमुच्य ह्रदयग्रंथीनार्तिमासादंयति ताम् ॥४३॥
मवांश्वोत्पन्नविज्ञानः स्थिर बुद्धिरलोलुपः ॥ व्यवसायदृते ब्रह्मन्नासादयति तत्पदम‍ ॥४४॥
नास्ति ते सुखदुःखेषु विशेषो नास्ति वस्तुषु ॥ नौत्सुक्यं नृत्यगीतेषु न राग उपजायते ॥४५॥
न बंधुषु निबंधस्ते न भयेष्वस्ति ते भयम् ॥ पश्यामि त्वां महाभाग तुलनिंदात्मसंस्तुतिम् ॥४६॥
अहं च त्वानुपश्यामि ये चान्येऽपि मनीषिणः ॥ आस्थितं परमं मार्गे अक्षयं चाप्यनामयम् ॥४७॥
यत्फलं ब्राह्मणस्येह मोक्षार्थश्वापदात्मकः ॥ तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि ॥४८॥
सनंदन उवाच ॥
एतच्छुत्वा तु वचनं कृतात्मा कृतनिश्वयः ॥ आत्मनात्मानमास्थाय दृष्ट्रा चात्मानमात्मना ॥४९॥
कुतकार्यः सुखी शांतस्तूष्णीं प्रायादुदङ्‌मुखः ॥ शैशिरं गिरिमासाद्य पाराशर्यं ददर्श च ॥५०॥
शिष्यानध्यापयंतं च पैलादीन्वेदसंहिताः ॥ आरणंयो विशुद्धात्मा दिवाकरसमप्रभः ॥५१॥
पितुर्जग्राह पादौ च सादरं ह्रष्टमानसः ॥ ततो निवेदयामास पितुः सर्वमुदारधीः ॥५२॥
शुको जनकरा जेन संवादं मोक्षसाधनम् ॥ तच्छत्वा वेदकर्तासौ प्रह्रष्टेनांतरात्मना ॥५३॥
समालिंग्य सुतं व्यासः स्वपार्श्वस्थं चकार च ॥५४॥
ततः पला दयो विप्रा वेदान् व्यासादधीत्य च ॥ शैलश्रृगाद्धुवं प्राप्ता याजना ध्यापने रताः ॥५५॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने एकोनषष्टितमोऽध्यायः ॥५९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:34:48.9270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

glomeroporphyritic

  • गुरुस्फटपुंजी 
  • पुष्प पुंजयुक्त 
RANDOM WORD

Did you know?

अष्टगंधात कोणकोणते घटक असतात?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site