TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
चतुःसप्ततितमोऽध्यायः

श्री नारदीयमहापुराणम् - चतुःसप्ततितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


चतुःसप्ततितमोऽध्यायः
सनत्कुमार उवाच ॥
अथोच्यंते हनुमतो मंत्राः सर्वेष्टदायकाः ॥ यान्समाराध्य विप्रेंद्र तत्तुल्याचरणा नराः ॥१॥
मनुः स्वरेंदुसंयुक्तं गगनं च भगान्विताः ॥ हसफाग्निनिशाधीशाः द्वितीयं बीजमीरितम्‍ ॥२॥
स्वफाग्नयो भगेंद्वाढ्यास्तृतीयं बीजमीरितम्‍ ॥ वियद्धृग्वग्निन्विंदुयुक्तं स्याच्च चतुर्थकम्‍ ॥३॥
पंचमं भगचंद्राढ्यावियदूभृगुस्वकाग्नयः ॥ मन्विंद्वाढ्यौ हसौ षष्ठं ङेंतः स्याद्धनुमांस्ततः ॥४॥
हृदयांतो महामंत्रराजोऽयं द्वादशाक्षरः ॥ रामचन्द्रो मुनिह्स्वास्य जगतीछंद ईरितम्‍ ॥५॥
देवता हनुमान्बीजं षष्ठं शक्तिर्द्वितीयकम्‍ ॥ षड्‌बीजैश्व षडंगानि शिरोभाले दृशोर्मुखे ॥६॥
गलबाहुद्वये चैव हृदि कुक्षौ च नाभितः ॥ ध्वजे जानुद्वये पादद्वये वर्णान्क्रमान्न्यसेत्‍ ॥७॥
षड्‌बीजानि पदद्वंद्वं मूर्ध्नि भाले मुखे ह्रदि ॥ नाभावूर्वौर्जंघयोश्व पादयोविन्यसेत्क्रमात्‍ ॥८॥
अंजनीग र्भसंभूतं ततो ध्यायेत्कपीश्वर्म्‍ ॥ उद्यत्कोट्यर्कसंकाशं जगत्प्रक्षोभकारकम्‍ ॥९॥
श्रीरामांघ्रिध्याननिष्ठं सुग्रीवप्रमुखार्चितम्‍ ॥ वित्रासयंतं नादेन राक्षसान्मारुतिं भजेत्‍ ॥१०॥
ध्यात्वैवं प्रजपेद्धानुसहस्त्रं विजितेंद्रियः ॥ दशांशं जुहुयाद्वीहीन्पयोदध्याज्यमिश्रितान्‍ ॥११॥
पूर्वोक्ते वैष्णवे पीठे मूर्तिं संकल्प मूलतः ॥ आवाह्य तत्र संपूज्य पाद्यादिभिरुपायनैः ॥१२॥
केशरेष्वंगपूजा स्यात्पत्रेषु च ततोऽर्चयेत्‍ ॥ रामभक्तो महातेजाः कपिराजो महाबलः ॥१३॥
द्रोणाद्रिहारको मेरुपीठकार्चनकरकः ॥ दक्षिणाशाभास्करश्व सर्वविघ्नविनाशकः ॥१४॥
इत्थं सम्पूज्यं नामानि दलाग्रेषु ततोऽर्चयेत्‍ ॥ सुग्रीवमंगद नीलं जांबवंतं नलं तथा ॥१५॥
सुषेणं द्विविदं मैदं लोकपालस्ततोऽर्चयेत्‍ ॥ वर्जाद्यानपि संपूज्य सिद्धश्वैवं मनुर्भवेत्‍ ॥१६॥
मंत्रं नवशतं रात्रौ जपेद्दशदिनावधि ॥ यो नरस्तस्य नश्यंति राजशत्रूत्थभीतयः ॥१७॥
मातुलिंगाम्रकदलीफलैर्हृत्वा सहस्त्रकम्‍ ॥ द्वाविंशतिब्रह्माचारि विप्रान्संभोजयेच्छुचीन्‍ ॥१८॥
एवंकृते भूतविषग्रहरोगाद्युपद्रवाः ॥ नश्यंति तत्क्षणादेव विद्वेषिग्रहदानवाः ॥१९॥
अष्टोत्तरशतेनांबु मंत्रितं विषनाशनम्‍ ॥ भूतापस्मारकृत्योत्थज्वरे तन्मंत्रमंत्रितैः ॥२०॥
भस्ममिः सलिलैर्वापि ताडयेज्ज्वरिणं क्रुधा ॥ त्रिदिनाज्ज्वरमुक्तोऽसौ सुखं च लभते नरः ॥२१॥
औषधं वा जलं वापि भुक्ता तन्मंत्रमत्रितम्‍ ॥ सर्वान्रोगान्पराभूय सुखी भवति तत्क्षणात्‍ ॥२२॥
तज्जप्तभस्मलिप्तांगो भुक्ता तन्मंत्रितं पयः ॥ योद्धुं गच्छॆच्च यो मंत्री शस्त्रसंघैर्न बाध्यते ॥२३॥
शस्त्रक्षतं व्रणस्फोटो लूतास्फोटोऽषि भस्मना ॥ त्रिर्जप्तेन च संस्पृष्टाः शुष्यंत्येव न संशयः ॥२४॥
जपेदर्कास्तमारभ्य यावदर्कोदयो भवेत्‍ ॥ मन्त्रं सप्तदिनं यावच्चादाय भस्मकीलकौ ॥२५॥
निखनेदभिमत्र्याशु शत्रूणां द्वार्यलक्षितः ॥ विद्वेषं मिथ आपन्नाः पलायंतेऽयोऽचिरात्‌ ॥२६॥
भस्मांबु चंदनं मंत्री मंत्रेणानेन मंत्रितम्‍ ॥ भक्ष्यादियोजितं यस्मै ददाति स तु दासवत्‍ ॥२७॥
क्रूराश्व जंतवोऽप्येवं भवंति वशवर्तिनः ॥ गृहीत्वेशानदिक्संस्थं करंजतरुमूलकम्‍ ॥२८॥
कृत्वा तेनांगुष्ठमात्रां प्रतिमां च हनूमतः ॥ कृत्वा प्राणप्रतिष्ठां च सिंदूराद्यैः प्रपूज्य च ॥२९॥
गृहस्याभिमुखीं द्वारे निखनेमंत्रमुच्चरन्‍ ॥ ग्रहाभिचाररोगाग्निविषचौरनृपोद्धवाः ॥३०॥
न जायंते गृहे तस्मिन्‍ कदाचिदप्युपद्रवाः ॥ तदूगृहं धनपुत्राद्यैरेधते प्रत्यहं चिरम्‍ ॥३१॥
निशि यत्र वने भस्म मृत्स्त्रया वापि यत्नतः ॥ शत्रोः प्रतिकृति कृत्वा हृदि नाम समालिखेत्‍ ॥३२॥
कृत्वा प्राणप्रतिष्ठांतं भिंद्याच्छस्त्रैर्मनुं जपन्‍ ॥ मंत्रांते प्रोच्चरेच्छत्रोर्नाम्‍ छिंदि च भिंधि च ॥३३॥
मारयेति च तस्यांते दंतैरोष्ठं नीपीड्य च ॥ पाण्योस्तले प्रपीड्याथ त्यक्ता तं स्वगृहं व्रजेत्‍ ॥३४॥
कुर्वन्सप्तदिनं चैवं हन्यान्छत्रुं न संशयः ॥ राजिकालवर्णैर्मुक्ता चिकुरः पितृकानने ॥३५॥
धत्तूरफलपुष्पैश्व नखरोमविषैरपि ॥ द्विक (काक) कौशिकगृध्राणां पक्षैः श्लेष्मांतकाक्षजैः ॥३६॥
समिद्धिस्त्रिशतं याम्यदिङ्‌मुखो जुहुयान्निशि ॥ एवं स सप्तदिनं कुर्वन्मारयेदुद्धतं रिपुम्‍ ॥३७॥
वित्रासस्त्रिदिनं रात्रौ श्मशाने षट्‌शतं जपेत्‍ ॥ ततो वेताल उत्थाय वदेद्धावि शुभाशुभम्‍ ॥३८॥
किंकरीभूय वर्त्तेत कुरुते साधकोदितम्‍ ॥ भस्मांबुमंत्रितं रात्रौ सहस्त्रावृत्तिकं पुनः ॥३९॥
दिनत्रयं च तत्पश्वात्प्रक्षिपेत्प्रतिमासु च ॥ यासु कासु च स्थूलासु लघुष्वपि विशेषतः ॥४०॥
मंत्रप्रभावाच्चलनं भवत्येव न संशयः ॥ अष्टम्यां वा चतुर्दश्यां कुजे वा रविवासरे ॥४१॥
हनुमत्प्रतिमां पट्टे माषैः स्नेहपरिप्लुतैः ॥ कुर्याद्रम्यां विशुद्धद्वात्मां सर्वलक्षणलक्षितम्‍ ॥४२॥
तैलदीपं वामभागे घृतदीपं तु दक्षिणे ॥ संस्थाप्यावाहयेत्पश्वान्मूलमंत्रेण मंत्रवित्‍ ॥४३॥
प्राणप्रतिष्ठा कृत्वा च पाद्यादीनि समर्पयेत्‍ ॥ रक्तचंदनपुष्पैश्व सिंदूराद्यैः समर्चयेत्‍ ॥४४॥
धूपं दीपं प्रदायाथ नैवेद्यं च समर्पयेत्‍ ॥ अपूपमोदनं शाकमोदकान्वटकादिकम्‍ ॥४५॥
साज्यं च तत्समर्प्याथं मूलमंत्रेण मंत्रवित्‍ ॥ अखंडितान्यहिलतादलानि सप्तविंशतिम्‍ ॥४६॥
त्रिधाकृत्वा सपूगानि मूलेनैव समर्पयेत्‍ ॥ एवं संपूज्य मंत्रज्ञो जपेद्दशशतं मनुम्‍ ॥४७॥
कर्पूरारार्तिकं कृत्वा स्तुत्वा च बहुधा सुधीः ॥ निजेप्सितं निवेद्याथ विधिवाद्विसृजेत्ततः ॥४८॥
नैवेद्यात्तेन संभोज्य ब्राह्मणान्सप्तसंख्यया ॥ निवेदितानि पर्णानि तेभ्यो दद्याद्विभज्य च ॥४९॥
दक्षिणां च यथा शक्ति दत्वा तान्‍ विस्तृजेत्सुधीः ॥ तत इष्टगणैः सार्द्धं स्वयं भुंजीत वाग्यतः ॥५०॥
गद्दिने भूमिशय्यां च ब्रह्मचर्य्यं समाचरेत्‍ ॥ एवं यः कुरुते मर्त्यः सोऽचिरादेव निश्वितम्‍ ॥५१॥
प्राप्नु यात्सकलान्कामान्कपीशस्य प्रसादतः ॥ हनुमत्प्रतिमां भूमौ विलिखेत्तत्पुरो मनुम्‍ ॥५२॥
साध्यनाम्‍ द्वितीयांतं विमोचय विमोचय ॥ तत्पूर्वं मार्जयेद्वामपाणिनाथ पुनर्लिखेत्‍ ॥ एवमष्टोत्तरशंत मार्जयेत्पुनः ॥५३॥
एवं कृते महाकारागृहाच्छीघ्रं विमुज्यते ॥ एवमन्यानि कर्माणि कुर्य्यांत्पल्लवमुल्लिखन्‍ ॥५४॥
सर्षपैर्वश्यकृद्धोमो विद्वेषे हयमारजैः ॥ कुकुमैरिध्मकाष्ठैर्वा मरीचैर्जीरकैरपि ॥५५॥
ज्वरे दूर्वागुडूचीभिर्दध्रा क्षीरेण वा घृतैः ॥ शूले करंजवातारिसमिद्धिस्तैललोलितैः ॥५६॥
तैलाक्ताभिश्व निर्गुडीसमिद्धिर्वा प्रयत्नतः ॥ सौभाग्ये चंदनैश्वेंद्रलोचनैर्वा लवंगकैः ॥५७॥
सुगंधपुष्पैर्वस्त्राप्त्यै तत्तद्धान्यैस्तदाप्तये ॥ रिपुपादरजोभिश्व राजीलवणमिश्रितैः ॥५८॥
होमयेत्सप्तरात्रं च रिपुर्याति यमालयत्‍ ॥ धान्यैः संप्राप्यते धान्यमन्नैरन्नसमुच्छ्रायः ॥५९॥
तिलाज्यक्षीरमधुभिर्ममहिषीगोसमृद्धये ॥ किं बहूक्तैर्विषे व्याधौ शांतौ मोहे च मारणे ॥६०॥
विवादे स्तंभने द्यूते भूतभीतौ च संकटे ॥ वश्ये युद्धे क्षते दिव्ये बंधमोक्षे महावेन ॥६१॥
साधितोऽयं नृणां दद्यान्मंत्रः श्रेयः च सुनिश्वितम्‍ ॥ वक्ष्येऽथ हनुमंद्यत्रं सर्वसिद्धिप्रदायकम्‍ ॥६२॥
लांगूलाकारसंयुक्तं वलयत्रितयं लिखेत‍ ॥ साध्यनाम्‍ लिखेन्मध्ये पाशिबीज प्रवेष्टितम्‍ ॥६३॥
उपर्यष्टच्छ्दं कृत्वा पत्रेषु कवचं लिखेत्‍ ॥ तद्वहिर्दंतमालिख्य तद्वहिश्वतुरस्तकम्‍ ॥६४॥
चतुरस्त्रस्य रेखाग्रे त्रिशूलानि समालिखेत्‍ ॥ सौं बीजं भूपुरस्याष्टवज्रेषु विलिखेत्ततः ॥६५॥
कोणेष्वंकुशमालिख्य मालामंत्रेण वेष्टयेत्‍ ॥ तत्सर्वं वेष्टयेद्यंवलयत्रितयेन च ॥६६॥
शिलायां फलके वस्त्रे ताम्रपत्रेऽथ कुड्यके ॥ ताडपत्रेऽथ भूर्जे वा रोचनानाभिकुंकुभैः ॥६७॥
यंत्रमेतत्समालिख्य निराहारो जितेंद्रियः ॥ कपेः प्राणान्प्रतिष्ठाप्य पूजयेत्तद्यथाविधि ॥६८॥
अशेषदुःखान्त्यर्थं यत्रं संधारयेद्‍ बुधः ॥ मारीज्वराभिचारादिसर्वोपद्रवनाशनम्‍ ॥६९॥
योषितामपि बालानां धृतं जनमनोहरम्‍ ॥ भूतकृत्यापिशाचानां दर्शनादेव नाशनम्‍ ॥७०॥
मालामंत्रमथो वक्ष्ये तारो वाग्विष्णुगेहिनी ॥ दीर्घत्रयान्विता माया प्रागुक्तं कूटपञ्चकम्‍ ॥७१॥
ध्रुवो हद्धनुमान्ङेंतोऽथ प्रकटपराक्रमः ॥ आक्रांतदिग्मंडलांते यशोवितानसंवदेत ॥७२॥
धवलीकृतवर्णांते जगत्रितवज्र च ॥ देहज्वलदग्निसूर्य कोट्यांते च समप्रभ ॥७३॥
तनूरुहपदांते तु रुद्रावतार संवदेत्‍ ॥ लंकापुरी ततः पश्वाद्दहनोदधिलंघन्‍ ॥७४॥
दशग्रीवशिंरः पश्वात्कृतांतकपदं वदेत्‍ ॥ सीतांते श्वसनपदं वाय्वंते सुतमीरयेत्‍ ॥७५॥
अंजनागर्भसंभूतः श्रीरामलक्ष्मणान्वितः ॥ नंदंति कर वर्णांते सैन्यप्राकार ईरयेत्‍ ॥७६॥
सुग्रीवसक्यकाद्वर्नाद्रनवालिनिवर्हण ॥ कारणद्रोणशब्दांते पर्वतोत्पाटनेति च ॥७७॥
अशोकवनवीथ्यंते दारुणाक्षकुमारक ॥ छेदनांते वनरक्षाकारांते तु समूह च ॥७८॥
विभञ्जनि ब्रह्मास्त्रब्रह्मशक्ति ग्रसेति च ॥ लक्ष्मणांते शक्तिभेदनिवारणपदं वदेत्‍ ॥७९॥
विशल्योषघिशब्दांते समानयन संपठेत्‍ ॥ बालोदित लतो भानुमंडलग्रसनेति च ॥८०॥
मेघनादहोमपदाद्विश्वंसनपदं वदेत्‍ ॥ इंद्रजिद्वधकाति णसीतारक्षकेति च ॥८१॥
विदारणपदं वदेत्‍ ॥ कुंभकर्णा दिसंकीर्त्य वधांते च परायण ॥८२॥
श्रीरामभक्तिवर्णांते तत्परेति समुद्र च ॥ व्योमदुमलंघनेति संवदेत ॥८३॥
महातेजः पुंज शब्दाद्विराजमानवी च्चरेत्‍ ॥ स्वामिवचनसंपादितार्जुनांते च संयुग ॥८४॥
सहायांति कुमारेति ब्रह्मचारुन्पदवंदेत्‍ ॥ गंभीरशब्दोदयांते दक्षिणापथ संवदेत्‍ मार्त्तण्डमेरु शब्दांते वदेत्पर्वपीठिका ॥८५॥
अर्चनांते तु सकलमत्रांते मपदं वदेत्‍ ॥ आचार्यमम शब्दांते सर्वग्रहविनाशन ॥८६॥
सर्वज्वरोच्चटानांते सर्वविषविनाशन ॥ सर्वापत्तिनिवारण सर्वदुष्टनिबर्हण ॥८७॥
सर्वव्याध्यादि सम्प्रोच्य भयांते च निवारण ॥८८॥
सर्वशत्रुच्छेदनेति ततो मम परस्य च ॥८९॥
ततस्त्रिभुवनांते तु पुंस्त्रीनपुंसकात्मकम्‍ ॥ सर्वजीवपदांते तु जातं वशययुग्मकम्‍ ॥९०॥
ममाज्ञकारकं पश्वात्संपादय युगं पुनः ॥ ततो नानानामधेयान्सर्वान्‍ राज्ञः स संपठेत्‍ ॥९१॥
परिवारान्ममेत्यंते सेवकान्‍ कुरु युग्मकम्‍ ॥ सर्वशास्त्रवीत्यंते षाणि विध्वंसयद्वयम्‍ ॥९२॥
लज्जादीर्घत्रयोपेता होत्रयं चैहि युग्मकम्‍ ॥ विलोमं पंचकूटानि सर्वशत्रून्हनद्वयम्‍ ॥९३॥
परबलानि परांते सैन्यानि क्षोभयद्वयम्‍ ॥९४॥
मम सर्व कार्यजातं साधयेति द्वयं ततः ॥९५॥
सर्वदृष्टदुर्जनांते मुखानि कीलयद्वयम्‍ ॥ धेत्रयं वर्मत्रितयं फटूत्रयं हांत्रयं ततः ॥९६॥
वह्रिप्रियांतो मंत्रोऽयं माला संज्ञोऽखिलेष्टदः ॥९७॥
वस्वष्टबाणवर्णोऽयं मंत्रः सर्वेष्टसाधकः ॥९८॥
महाभये महोत्पाते स्मृतोऽयं दुःखनाशनः ॥ द्वादशार्णस्य षटूकूटं त्यक्ता बीजं तथादिमम्‍ ॥९९॥
पंचकूटात्मको मंत्रः सर्वकामप्रदायकः ॥ रामचंद्रो मुनिश्वास्य गायत्री छंद ईरितम्‍ ॥१००॥
हनुमान्देवता प्रोक्तो विनियोगोऽखिलाप्तये ॥ पंचबीजैः समस्तेन षडंगानि समाचरेत्‍ ॥१०१॥
रामदूती लक्ष्मणांते प्राणदाताञ्जनीसुतः ॥ सीताशोकाविनाशोऽयं लंकाप्रासादभंजनः ॥१०२॥
हनुमदाद्याः पंचैते बीजाद्या ङेयुताः पुनः ॥ षडंगमनवो ह्येते ध्यानपूजा दि पूर्ववत्‍ ॥१०३॥
प्रणवो वाग्भवं पद्मा माया दीर्घत्रयान्विता ॥ पंचकूटानि मंत्रोऽयं रुद्रार्णः सर्वसिद्धदः ॥१०४॥
ध्यानपूजादिकं सर्वमस्यापि पूर्ववन्मतम्‍ ॥ अयमारधितो मंत्रः सर्वाभीष्टप्रदायकः ॥१०५॥
नमो भगवते पश्वादनतश्वंद्रशेखरां ॥ जनेयाय महांते तु बलायांतेऽग्निवल्लभा ॥१०६॥
अष्टादशार्णो मंत्रोऽयं सुनिरीश्वरसंज्ञकः ॥ छंदोऽनुष्टुप्देवता तु हनुमान्पवनात्मजः ॥१०७॥
हं बीजं वह्रिवनिता शक्तिः प्रोक्ता मनीषिभिः ॥आंजनेयाय त्दृदयं शिरश्व रुद्रमूर्तये ॥१०८॥
शिखायां वायुपुत्रायाग्निगर्भाय वर्मणि ॥ रामदूताय नेत्रं स्याद्धह्यास्त्रायास्त्रमीर्तितम्‍ ॥१०९॥
तप्तचामीकरनिभं भीघ्रसंविहिताञ्जलिम्‍ ॥ चलत्कुंडदीप्तास्यं पद्माक्षं मारुतिं स्मरेत्‍ ॥११०॥
ध्यात्वैवमयुतं जप्त्वा दशांशं जुहुयात्तिलैः ॥ वैष्णवे पूजयेत्पीठे प्रागुद्दिष्टेन वर्त्मना ॥१११॥
अष्टोत्तरशतं नित्यं नक्तभोजी जितेंद्रियः ॥ जपित्वा क्षुद्ररोगेभ्यो मुच्यते नात्र संशयः ॥११२॥
महारोगनिवृत्त्यै तु सहस्त्रं जपेत्‍ ॥ राक्षसौघं विनिघ्नंत कपिं ध्यात्वाघनाशनम्‍ ॥११३॥
अयुतं प्रजपेन्नित्यमचिराज्ज यति द्विषम्‍ ॥ सुग्रीवेण समं रामं संदधानं कर्पिं स्मरन्‍ ॥११४॥
प्रजपेदयुतं यस्तु संधिं कुर्याद्दिपद्वयोः ॥ ध्यात्वा लंकां दहंतं तमयुतं प्रजपेन्मनुम्‍ ॥११५॥
अचिरादेव शत्रूणां ग्रामान्संप्रदहेत्सुधीः ॥ ध्यात्वा प्रयानसमये हनुमन्तं जपेन्मनुम्‍ ॥११६॥
यो याति सोऽचिरात्स्वेष्टं साध यित्वा गृहे व्रजेत्‍ ॥ हनुमंतं सदा गेहे योऽर्चयेज्जपतत्परः ॥११७॥
आरोग्यं च श्रियं कांतिं लभते निरुपद्रवम्‍ ॥ कानने व्याघ्रचौरेभ्यो रक्षेन्मनुरयं स्मृतः ॥११८॥
प्रस्वापकाले शय्यायां स्मरेन्मंत्रमनन्यधीः ॥ तस्य दुःखप्नचौरादिभयं नैव भवेत्त्क्कचित्‍ ॥११९॥
वियत्सेंदुर्हनुमते ततो रुद्रात्मकाय च ॥ वर्मास्त्रांतो द्वादशार्णोऽष्टसिद्धिकृत ॥१२०॥
रामचन्द्रो मुनिश्वास्य जगती छन्द ईरितम्‍ ॥ हनुमान्देवताम बीजमाद्यं शक्तिर्हुमीरिता ॥१२१॥
षड्‌दीर्घभाजा बीजेन षडंगानि समाचरेत्‍ ॥ महाशैलं समुत्पाट्य धावंतं रावणं प्रति ॥१२२॥
लाक्षारक्तारुणं रौद्रं कालांतकयमोपमम्‍ ॥ ज्वलदग्रिसमं जैत्रं सूर्यकोटिसमप्रभम्‍ ॥१२३॥
अंगदाद्यैर्महावीरैर्वेष्टितं रुद्ररुपिणम्‍ ॥ तिष्ठ तिष्ठ रणे दुष्ट सृंजंतं घोरनिः स्वनम्‍ ॥१२४॥
शैवरुपिणभ्यर्च्य ध्यात्व लक्ष जपेन्मनुम्‍ ॥ दशांशं जुहुयाद्वीहीन्पयोदध्याज्यमिश्रितान्‍ ॥१२५॥
पूर्वोक्ते वैष्णवे पीठे विमलादिसमन्विते ॥ मूर्तिं संकल्प मूलेन पूजा कार्या हनूमतः ॥१२६॥
ध्यानैकमात्रोऽपि नृणां सिद्धिरेव न संशयः ॥ अथास्य साधनं वक्ष्ये लोकानां हितकाम्यया ॥१२७॥
हनुमत्साधनं पुण्यं महापातकनाशनम्‍ ॥ एवद्धह्यतमं लोके शीघ्रसिद्धिकरं परम्‍ ॥१२८॥
मंत्री यस्य प्रसादेन त्रैलोक्यविजयी भवेत्‍ ॥ प्रातः स्त्रात्वा नदीतीरे उपविश्य कुशासने ॥१२९॥
प्राणायामषडंगे च मूलेन सकलं चरेत्‍ ॥ पुष्पांजल्यष्टकं दत्वा ध्यात्वा रामं ससीतकम्‍ ॥१३०॥
ताम्रपात्रे ततः पद्ममष्टपत्रं सकेशरम्‍ ॥ कुचंदनेन घृष्टेंन संलिखेत्तच्छलाकया ॥१३१॥
कर्णिकायां लिखेन्मंत्रं तत्रावाह्य कपीश्वरम्‍ ॥ मूर्तिं मूलेन संकल्प ध्यात्वा पाद्यादिकं चरेत्‍ ॥१३२॥
गंधपुष्पादिकं सर्वं निवेद्य मूलमंत्रतः ॥ केशरेषु षडंगानि दलेषु च ततोऽर्चयेत्‍ ॥१३३॥
सुग्रीवं लक्ष्मणं चैव ह्रंगदं नलनीलकौ ॥ जांबवंतं देशरीशं दलेऽर्चयेत्‍ ॥१३४॥
दिक्पालांश्वापि वज्रादीन्पूजयेत्तदनंतरम्‍ ॥ एवं सिद्धे मनौ मंत्री साधयेत्स्वेष्टमामीन ॥१३५॥
नदीतीरे कानने वा पर्वते विजनेऽथवा ॥ साधयेत्साधक श्रेष्ठी भूमिग्रहणपूर्वकम्‍ ॥१३६॥
जिताहारो जितश्वासो जितवाक्यच जितेंद्रियः ॥ दिग्बन्धनादिकं कृत्वा न्यासध्यानदिपूर्वकम्‍ ॥१३७॥
लक्षं जपेन्मंत्रराजं पूजयित्वा तु पूर्ववत्‍ ॥ लक्षांते दिवसं प्राप्य कुर्याच्चं पूजनं महत ॥१३८॥
एकाग्रमनसा सम्यग्ध्यात्वा पवननंदनम्‍ ॥ दिवारात्रौ जपं कुर्याद्यावत्संदर्शन भवेत्‍ ॥१३९॥
सुदृढं साधकं मत्वा निशीथे पवनात्मजः ॥ सुप्रसन्नस्ततो प्रयाति साधाकाग्रतः ॥१४०॥
यथेप्सितं वरं दत्वा साधकाय कपीश्वरः ॥ वरं लब्ध्वा साधकेंद्रो विहरेदात्मनः सुखैः ॥१४१॥
एतद्धि साधनं पुण्यं लोकानां हितकाम्यया ॥ प्रकाशितं रहस्यं वै देवानामपि दुर्लभम्‍ ॥१४२॥
अन्यानपिप्रयोगांश्व साधयेदात्मनो हितान्‍ ॥ वियदिंदुयुतं पश्वान्ङेतं पवननंदनम्‍ ॥१४३॥
वह्रिप्रि यांतो मंत्रोऽयं दशार्णः सर्वकामदः ॥ मुन्यादिकं च पूर्वोक्त षडंगान्यपि पूर्ववत्‍ ॥१४४॥
ध्यायेद्रणे हनूमंतं सूर्यकोटिसमप्रभम्‍ ॥ धावंतं रावणं जेतुं दृष्ट्रा सत्वमुत्थितम्‍ ॥१४५॥
लक्ष्मणं च महावीरं पतितं रणभूतले ॥ गुरुं च क्रोधमुत्पाद्य ग्रहीतुं गुरुपर्वतम्‍ ॥१४६॥
हाहाकारैः सदर्पैश्व कंपयंतं जगत्रयम्‍ ॥ आब्रह्यांडं समाव्याप्य कृत्वा भीमं कलेवरम्‍ ॥१४७॥
लक्षं जपेद्दशांशेन जुहुयात्पूर्वत्सुधीः ॥ पूर्वत्पूजनं पोक्तं मंत्र स्यास्य विधानतः ॥१४८॥
एवं सिद्धे मनौ मंत्री साधयेदात्मनो हितम्‍ ॥ अस्यापि मंत्रवर्यस्य रहस्यं साधनं तु वै ॥१४९॥
सुगोप्यं सवतंत्रेषु न देयं यस्य कस्याचित्‍ ॥ ब्राह्मे मुहूर्ते चोत्थाय कृतनित्यक्रियः शुचिः ॥१५०॥
गत्वा नदीं तथ स्नात्वा तीर्थमावाह्य चाष्टधा ॥ मूलमंत्रं ततो जप्त्वा सिंचेदादित्यसंख्यया ॥१५१॥
एवं स्नानादिकं कृत्वा गंगातीरेऽथवाः पुनः ॥ पर्वते वा वने वापि भूमिग्रहणपूर्वकम्‍ ॥१५२॥
आद्य वर्णैः पूरकं स्थात्पञ्चवर्गैश्व कुम्भकम्‍ ॥ रेचकं च पुनर्याद्यैरेवं प्राणान्नियम्य च ॥१५३॥
विधाय भूतशुद्धयादि पीठन्यासावधि पुनः ॥ ध्यात्वा पूर्वोक्तविधिना संपूज्य च कपीश्वरम्‍ ॥१५४॥
तदग्रे प्रजपेन्नित्यं साधकोऽयुतमादरात्‍ ॥ सप्तमे दिवसे प्राप्ते कुर्याच्च पूजनं महत्‍ ॥१५५॥
एकाग्र मनसा मन्त्री दिवारात्रं जपेन्ममुम्‍ ॥ महाभयं प्रदत्वा त्रिभागशेषासु निश्वितम्‍ ॥१५६॥
यामिनीषु समायाति नियतं पवनात्मजः ॥ यथेप्सितं वरं दद्यात्साधकाय कपीश्वरः ॥१५७॥
विद्यां वापि धनं वापि राज्यं वा शत्रुनिग्रहम्‍ ॥ तत्क्षणादेव चान्पोति सत्यं सत्यं न संशयः ॥१५८॥
इह लोकेऽखिलान्कामान्भुक्तांते मुक्तिमाप्नुयात्‍ ॥ सद्याचितं वायुयुग्मं हनूमंतोति चोद्धरेत्‍ ॥१५९॥
फलांते फक्रियानेत्रयुक्ता च कामिका ततः ॥ धग्गंते धगितेत्युक्ता आयुरास्व पदं ततः ॥१६०॥
लोहितो गरुडो हेतिबाणानेत्राक्षरो मनुः ॥ मुन्यादिकं तु पूर्वोक्त प्लीहरोगहरो हरिः ॥१६१॥
देवता च समुद्दिष्टा प्लीहयुक्तोदरे पुनः ॥नागवल्लीदलं स्थाप्यम्पर्याच्छादयेत्ततः ॥१६२॥
वस्त्रं चैवाष्टगुणितं ततः साधकसत्तमः ॥ शकलं वंशजं तस्योपरि मुंचेत्कपिं स्मरेत्‍ ॥१६३॥
आरण्यसाणकोत्पन्ने वह्रौ यष्टिं प्रतापयेत्‍ ॥ बदरीभूरुहोत्थां तां मंत्रेणानेन सत्पधा ॥१६४॥
तया संताडयेद्वंशशकलं जठरीस्थितम्‍ ॥ सप्तकृत्वः प्लीहरोगी नाशमायाति निश्वितम्‍ ॥१६५॥
तारा नमो भगवत आजनयाय चाच्चरेत्‍ ॥ अमुकस्य श्रृंखलां त्रोटयद्वितयमीरयेत्‍ ॥१६६॥
बंधमोक्षं कुरुयुगं स्वाहांतोऽयं मनुर्मतः ॥ ईश्वरोऽस्य मुनिश्र्छन्दोऽनुष्टुप्च देवता पुनः ॥१६७॥
श्रृंखलामोचकः श्रीमान्हनूमान्पवनात्मजः ॥ हं बीजं ठद्वयं शक्तिर्बंधमोक्षे नियोगता ॥१६८॥
षड्‌दीर्घवह्रियुक्तेन बीजेनां गानि कल्पयेत्‍ ॥ वामे शैलं वैरिभिदं विशुद्धं टंकमन्यतः ॥१६९॥
दधानं च ध्यायेत्कुंडलिनं हरिम्‍ ॥ एवं ध्यात्वा जपेल्लक्ष दशांशं चूतपल्लवैः ॥१७०॥
जुहुयात्पूर्ववत्प्रोक्तं यजनं वास्य सूरिभिः ॥ महाकारागृहे प्राप्तो ह्ययुतं प्रजपेन्नरः ॥१७१॥
शीघ्रं कारागृहान्सुक्तः सुखी भवति निश्वितम्‍ ॥ यंत्रं चास्य प्रवक्ष्यामि बन्धमोक्षकरं शुभम्‍ ॥१७२॥
अष्टच्छदांतः षट्‌कोणं साध्यनामसमन्वितम्‍ ॥ षट्‌कोणेषु ध्रुवं ङेंतमांजनेयपदं लिखेत्‍ ॥१७३॥
अष्टच्छदेषु विलिखेत्प्रणवो वातुवात्विति ॥ गोरोचनाकुंकुमेन लिखित्वा यंत्रमुत्तमम्‍ ॥१७४॥
धृत्वा मूर्ध्नि जपेन्मंत्रमयुतं बन्धमुक्तये ॥ यन्त्रमेतल्लिखित्वा तु मृत्तिकोपरि मार्जयेत्‍ ॥१७५॥
दक्षहस्तेन मन्त्रज्ञः प्रत्यहं मंडला वधि ॥ एवं कृते महाकारागृहान्मंत्री विसुच्यते ॥१७६॥
गगनं ज्वलनः साक्षी मर्कटेति द्वयं ततः ॥ तोयं शशेषे मकरे परिमुंचति मुंचति ॥१७७॥
ततः श्रृम्खलिकीं चेति वेदनेत्राक्षरो मनुः ॥ इमं मंत्रं दक्षकए लिखित्वा वामहस्ततः ॥१७८॥
दूरीकृत्य जपेन्मंत्रष्टोत्तशतं बुधः ॥ त्रिसप्ताहात्प्रबद्धोऽसौ मुच्यते नात्र संशयः ॥१७९॥
मुन्याद्यर्चादिकं सर्वमस्य पूर्ववदाचरेत्‍ ॥ लक्षं जपो दशांशेन शुभैर्द्रव्यैश्व होमयेत्‍ ॥१८०॥
पुच्छाकारे सुवस्त्री च लेखन्या क्षुरकोत्थया ॥ गन्धाष्टकैर्लिखेद्रूपं कपिराजस्य सुन्दरम्‍ ॥१८१॥
तन्मध्येऽष्टदशार्णं तु शत्रुनामान्वितं लिखेत्‍ ॥ तेन मन्त्राभिजप्तेन शिरोबद्धेन भूमिपः ॥१८२॥
जयत्यरिगणं सर्वं दर्शनादेव निश्वितम्‍ ॥ चन्द्रसूर्यो परागादौ पूर्वौक्तं लेखयेद्धजे ॥१८३॥
ध्वजमादाय मन्त्रज्ञः संस्पर्शान्मोक्षणावधि ॥ मातृकां जापयेत्पश्वाद्दशांशेन च होमयेत्‍ ॥१८४॥
तिलैः सर्षपसंमिश्रैः संस्कृते हव्यवाहने ॥ गजे ध्वजं समारोप्य गच्छेद्युद्धाय भूपतिः ॥१८५॥
गजस्थं तं ध्वजं दृष्ट्रां पलायन्तेऽरयो ध्रुवम्‍ ॥ महारक्षाकरं यन्त्रं वक्ष्ये सम्यग्घनूमतः ॥१८६॥
लिखेद्वसुदलं पद्मं साध्याख्यायुतकर्णिकम्‍ ॥ दलेऽष्टकोणामालिख्य मालामन्त्रेण वेष्टायेत्‍ ॥१८७॥
तद्वहि र्माययावेष्टध प्राणस्थापनामाचरेत्‍ ॥ लिखितं स्वर्णलेखन्यां भूर्जपत्रे सूशोभने ॥१८८॥
काश्मीररोचनाभ्यां तु त्रिलोहेन च वेष्टितम्‍ ॥ सम्पा तसाधितं यंत्र भुजे वा मूर्न्धि धारयेत्‍ ॥१८९॥
रणे दुरोदरे वादे व्यवहारे जयं लभेत्‍ ॥ ग्रहैर्विघ्नैर्विषैः शस्त्रैश्वौरैर्नैवाभिभूयते ॥१९०॥
सर्वान्रो गानपाकृत्य चिरं जीवेच्छतं समाः ॥ षड्‌दीर्घयुक्तं वह्ययाख्यं तारसंपुटम्‍ ॥१९१॥
अष्टार्णोऽयं महामंत्रो मालामंत्रोऽथ कथ्यते ॥ प्रणवो वज्रकायेति वज्रतुंडेति संपठेत्‍ ॥१९२॥
कपिलांते पिंगलेति उर्द्धकेशमहापदम्‍ ॥ बलरक्तमुखांते तु तडि महा ततः ॥१९३॥
रौद्रदंष्ट्रोत्कटं पश्वात्कहद्वंद्वं करालिति ॥ महदृढप्रहारेण लंकेश्वरवधात्ततः ॥१९४॥
वायुर्महासेतुपदं बंधांते च महा पुनः ॥ शैलप्रवाह गगनेचर एह्ये हि संवदेत्‍ ॥१९५॥
भगवन्महाबलांते पराक्रमपदं वदेत्‍ ॥ भैरवाज्ञापयैह्येहि महारौद्रपदं ततः ॥१९६॥
दीर्घपुच्छेन वर्णांते वदेव्देष्टय वैरिणम्‍ ॥ जंभयद्वयमाभाष्य वर्मास्त्रांतो मनुर्मतः ॥१९७॥
मालाह्रयो द्विजश्रेष्ठ शरनेत्रधराक्षरः ॥ मालामंत्राष्टार्णयोश्व मुन्याद्यची तु पूर्ववत्‍ ॥१९८॥
जप्तों युद्धे जयं दद्याव्द्याधौ  व्याधिविनाशनः ॥एवं यो भजते मंत्री वायुपुत्रं कपीश्वरम्‍ ॥१९९॥
सर्वान्स लभते कामान्दे वैरपि सुदुर्लभान्‍ ॥ धनं धान्यं सुतान्पौत्रान्सौभाग्य,मतुलं यश्ह ॥२००॥
मेधां विद्यां राज्यं विवादे विजयं तथा ॥ वश्याद्यानि च कर्माणि संगरे विजयं तथा ॥२०१॥
उपासितोंऽजनागर्भसंभूतः प्रददात्यलम्‍ ॥२०२॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने सन त्कुमारविभागे तृतीयपादे हनुमन्मंत्रकथनंनाम चतुःस प्ततितमोऽध्यायः॥ ॥७४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T04:26:14.3400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

DHRUVA(ध्रुव)

  • I.
    1) Birth and childhood.
    Manu Svāyambhuva the son of Brahmā, had two sons named Priyavrata and Uttānapāda. They were mighty heroes and of righteous character. Uttānapāda had two wives, Suruci and Sunīti. Suruci gave birth to Uttama and Sunīti to Dhruva. Uttānapāda showed more favour towards Uttama and Suruci. But he looked upon Dhruva and his mother with disfavour. Once Uttama sat on the lap of his father when the latter was sitting on the throne. Seeing this, Dhruva wanted to sit along with his brother. But fearing the displeasure of Suruci, who was also there, the King did not take Dhruva on to his lap. Seeing the endeavour of Dhruva, Suruci said to him, “Child, if you wish to sit on the lap of your father, you ought to have been born in my womb. You cherish high ambition which you do not deserve.” These words of Suruci were not palatable to Dhruva who ran to his mother and sat on her lap. When Sunīti knew what had happened she shed tears. After a few moments Dhruva stood up and made a vow. “I will get a position unattainable even for my father, by my own endeavour.” He then started for the forest. He attained self-renunciation even in childhood becoming a disciple of hermits and performing severe penance. Dhruva began penance in the forest of Madhuvana on the river Jamunā. Sunīti came and tried to take him to the palace. But he did not return. He intensified his penance more and more. At last Mahāviṣṇu appeared before him. Dhruva requested for a lofty, and eternal place which would become a prop of the world. Accordingly, Viṣṇu pointed out to Dhruva, a noble place, higher than the planets, stars Saptarṣis (Ursa Major) and the devas who travelled in aeroplanes. Mahāviṣṇu said that Dhruva would live in a lofty place as a star till the end of the Kalpa and his mother Sunīti would also remain as a star near Śiva as long as Dhruva lived [Viṣṇu Purāṇa, Aṁśa 1, Chapters 11 and 12].
    2) The previous birth of Dhruva.
    Mahāviṣṇu appeared before Dhruva and revealed his previous birth. Dhruva was a Brahmin in his previous birth. He used to meditate on Viṣṇu with concentration of mind. In course of time he befriended a prince who was a youth, of beautiful and bright complexion, enjoying all the pleasures of the world. Attracted by the position and status of the prince, the Brahmin wanted to become a prince. Mahāviṣṇu granted his wish. Accordingly Dhruva took his next birth as the son of Uttānapāda. [Viṣṇu Purāṇa, Aṁśa 1, Chapter 12].
    3) The reign and end of Dhruva.
    After receiving the boon from Mahāviṣṇu, Dhruva returned. All who were there embraced Dhruva. Years passed by. Uttānapāda left his kingdom to Dhruva and became a forest householder. Dhruva became King. The King Dhruva married Brāhmī, the daughter of Śiśumāra a Prajāpati. The queen gave birth to two sons Kalpa and Vatsara. Dhruva married Ilā the daughter of Vāyu (wind). She gave birth to a son named Utkala. Uttama remained unmarried. While he was hunting in the forest a Yakṣa (a demi-god) killed him. Suruci was caught in wild fire and died. Hearing about the death of Uttama, Dhruva took his weapons and reached the realm of the Yakṣas. He stood at their gate and challenged them for battle. One lac and thirty thousand Yakṣa warriors fought with Dhruva. Dhruva destroyed the entire army. The Yakṣas began illusive and magical arts. Dhruva overcame that also. At last Kubera himself appeared before Dhruva and blessed him. They got him into a plane and placed him in a place higher than all the planets. [Viṣṇu Purāṇa, Bhāgavata].
    4) The descendants of Dhruva.
    Two sons named Śiṣṭi and Bhavya were born to Dhruva by his wife Śambhu. Succhāyā the wife of Śiṣṭi gave birth to five sinless sons named Ripu, Ripuñjaya, Vipra, Vṛkala and Vṛkatejas. Bṛhatī the wife of Ripu gave birth to Cākṣuṣa of extreme bright complexion. Manu was born to Cākṣuṣa by his wife Puṣkaraṇī the daughter of Vīraṇaprajāpati and included in the children of Varuṇa. Ten sons were born to the bright Manu by his wife Naḍvalā, daughter of Prajāpati Vairāja. These ten bright sons were Kuru, Pūru, Śatadyumna Tapasvī, Satyavān, Śuci, Agniṣṭomā, Atirātra, Sudyumna, and Abhimanyu. Āgneyī, the wife of Kuru gave birth to six children. They were Aṅga, Sumanas, Khyāti, Kratu, Aṅgiras and Śibi. A son named Vena was born to Aṅga by his wife Sunīthā. Hermits churned the right hand of Vena to obtain children. As a result of churning Vaineya was born from the right hand of Vena. That King is the famous Pṛthu. This Pṛthu milked the earth for the prosperity of his subjects. [Viṣṇu Purāṇa, Aṁśa 1, Chapter 13].
    5) The place of Dhruva.
    The origin of the river Gaṅgā was through the hole at the top of the shell of the mundane egg. It flowed down and fell on the highest part of heaven. That place is called Viṣṇupāda. Sitting in this Viṣṇupāda, Dhruva does penance to Viṣṇu. So this place got the name Dhruvamaṇḍala. [Devī Bhāgavata, Skandha 8].
     
RANDOM WORD

Did you know?

जननशांती म्हणजे काय ? ती केव्हा करावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site