TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
पंचविंशोत्तरशततमोऽध्यायः

श्री नारदीयमहापुराणम् - पंचविंशोत्तरशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


पंचविंशोत्तरशततमोऽध्यायः
सूत उवाच॥
इत्येवमुक्त्वा मुनिना हि पृष्टास्ते वै कुमाराः किल नारदेन॥
संपूजिताः शास्त्रविदां वरिष्ठाः कृताह्निका जग्मुरुमेशलोकम् ॥१॥

तत्रेशमग्र्यर्कनिभैर्मुनींद्रैः श्रीवामदेवादिभिरर्चितांघ्रिम्॥
सुरासुरेन्द्रैरभिवंद्यमुग्रं नत्वाज्ञया तस्य निषेदुरुर्व्याम् ॥२॥

श्रुत्वाथ तत्राखिलशास्त्रसारं शिवागमं ते पशुपाशमोक्षणम्॥
जग्मुस्ततो ज्ञानघनस्वरूपा नत्वा पुरारिं स्वपितुर्निकाशम् ॥३॥

तत्पादपद्मे प्रणतिं विधाय पित्रापि सत्कृत्य सभाजितास्ते॥
लब्ध्वाशिषोऽद्यापि चरन्ति शश्वल्लोकेषु तीर्थानि च तीर्थभूताः ॥४॥

जग्मुस्ततो वै बदरीवनान्ते सुरेन्द्रवर्गैरुपसेव्यमानम्॥
दध्युश्चिरं विष्णुपदाब्जमव्ययं ध्यायन्ति यद्यतयो वीतरागाः ॥५॥

नारदोऽपि ततो विप्रा कुमारेभ्यः समीहितम्॥
लब्ध्वा ज्ञानं सविज्ञानं भृशं प्रीतमना ह्यभूत् ॥६॥

स तस्मात्स्वर्णदीतीरादागत्य पितुरन्तिके॥
प्रणम्य सत्कृतः पित्रा ब्रह्मणा निषसाद च ॥७॥

कुमारेभ्यः श्रुतं यच्च ज्ञानं विज्ञानसंयुतम्॥
वर्णयामास तत्त्वेन सोऽपि श्रुत्वा मुमोद च ॥८॥

अथ प्रणम्य शिरसा लब्धाशीर्मुनिसत्तमः॥
आजगाम च कैलासं मुनिसिद्धनिषेवितम् ॥९॥

नानाश्चर्यमयं शश्वत्सर्वर्त्तुकुसुमद्रुमैः॥
मंदारैः पारिजातैश्च चंपकाशोकवंजुलैः ॥१०॥

अन्यैश्च विविधैर्वृक्षैर्नानापक्षिगणावृतैः॥
वातोद्धूतशिखैः पांथानाह्वयद्भिरिवावृतम् ॥११॥

नानामृगगणाकीर्णं सिद्धकिन्नरसंकुलम्॥
सरोभिः स्वच्छसलिलैर्लसत्कांचनपंकजैः ॥१२॥

शोभितं सारसैर्हंसैश्चक्राह्वाद्यैर्निनादितम्॥
स्वर्द्धनीपातनि र्घृष्टं क्रीडद्भिश्चाप्सरोगणैः ॥१३॥

सलिलेऽलकनंदायाः कुचकुंकुमपिंगले॥
आमोदमुदितैर्नागैः सलिलैः पुष्करोद्धृतैः ॥१४॥

स्नापयद्भिः करेणूश्च कलभांश्च समाकुले॥
अथ श्वेताभ्रसदृशे श्रृंगे तस्य च भूभृतः ॥१५॥

वटं कालाभ्रसदृशं ददर्श शतयोजनम्॥
तस्याधस्तात्समासीनं योगिमण्डलमध्यगम् ॥१६॥

कपर्दिनं विरूपाक्ष व्याघ्रचर्मांबरावृतम्॥
भूतिभूषितसर्वांगं नागभूषणभूषितम् ॥१७॥

रुद्राक्षमालया शश्वच्छोभितं चंद्रशेखरम्॥
तं दृष्ट्वा नारदो विप्रा भक्तिनम्रात्मकंधरः ॥१८॥

ननाम् शिरसा तस्य पादयोर्जगदीशितुः॥
ततः प्रसन्नमनसा स्तुत्वा वाग्भिर्वृषध्वजम् ॥१९॥

निषसादाज्ञया स्थाणोः सत्कृतो योगिभिस्तदा॥
अथापृच्छच्च कुशलं नारदं जगतां गुरुः ॥२०॥

स च प्राह प्रसादेन भवतः सर्वमस्ति मे॥
सर्वेषां योगिवर्याणां श्रृण्वतां तत्र वाडवाः ॥२१॥

पप्रच्छ शांभवं ज्ञानं पशुपाशविमोक्षणम्॥
स शिवः सादरं तस्य भक्त्या संतुष्टमानसः ॥२२॥

योगमष्टांगसंयुक्तं प्राह प्रणतवत्सलः॥
स लब्ध्वा शांभवं ज्ञानं शंकराल्लोकशंकरात् ॥२३॥

सुप्रसन्नमना नत्वा ययौ नारायणांतिकम्॥
तत्रापि नारदोऽभीक्ष्णं गतागतपरायणः ॥२४॥

सेवितं योगिभिः सिद्धैर्नारायणमतोषयत्॥
एतद्वः कीर्तितं विप्रा नारदीयं महन्मया ॥२५॥

उपाख्यानं वेदसमं सर्वशास्त्रनिदर्शनम्॥
चतुष्पादसमायुक्तं श्रृण्वतां ज्ञानवर्द्धनम् ॥२६॥

य एतत्कीर्तयेद्विप्रा नारदीयं शिवालये॥
समाजे द्विजमुख्यानां तथा केशवमंदिरे ॥२७॥

मथुरायां प्रयागे च पुरुषोत्तमसन्निधौ॥
सेतौ काञ्च्यां कुशस्थल्यां गंगाद्वारे कुशस्थले ॥२८॥

पुष्करेषु नदीतीरे यत्र कुत्रापि भक्तिमान्॥
स लभेत्सर्वयज्ञानां तीर्थानां च फलं महत् ॥२९॥

दानानां चापि सर्वेषां तपसां वाप्यशेषतः॥
उपवासपरो वापि हविष्याशी जितेंद्रियः ॥३०॥

श्रोता चैव तथा वक्ता नारायणपरायणः॥
शिवभक्तिरतो वापि श्रृण्वन् सिद्धिमवाप्नुयात् ॥३१॥

अस्निन्नशेषपुण्यानां सिद्धीनां च समुद्भवः॥
कथितः सर्वपापघ्नः पठतां श्रृण्वतां सदा ॥३२॥

कलिदोषहरं पुंसां सर्वसंपत्तिवर्द्धनम्॥
सर्वेषामीप्सितं चेदं सर्वज्ञानप्रकाशकम् ॥३३॥

शैवानां वैष्णवानां च शाक्तानां सूयसेविनाम्॥
तथैव गाणपत्यानां वर्णाश्रमवतां द्विजाः ॥३४॥

तपसां च व्रतानां च फलानां संप्रकाशकम्॥
मंत्राणां चैव यंत्राणां वेदांगानां विभागशः ॥३५॥

तथागमानां सांख्यानां वेदानां चैव संग्रहम्॥
य एतत्पठते भक्त्या श्रृणुयाद्वा समाहितः ॥३६॥

स लभेद्वांछितान्कामान्देवादिष्वपि दुर्लभान्॥
श्रुत्वेदं नारदीयं तु पुराणं वेदसंमितम् ॥३७॥

वाचकं पूजयेद्भक्त्या धनरत्नांशुकादिभिः॥
भूमिदानैर्गवां दानै रत्नदानैश्च संततम् ॥३८॥

हस्त्यश्वरथदानैश्च प्रीणयेत्सततं गुरुम्॥
यस्तु व्याकुरुते विप्राः पुराणं धर्मसंग्रहम् ॥३९॥

चतुर्वर्गप्रदं नॄणां कोऽन्यस्तत्सदृशो गुरुः॥
कायेन मनसा वाचा धनाद्यैरपि संततम् ॥४०॥

प्रियं समाचरेत्तस्य गुरोर्द्धर्मोपदेशिनः॥
श्रुत्वा पुराणं विधिवद्धोमं कृत्वा सुरार्चनम् ॥४१॥

ब्राह्मणान्भोजयेत्पश्चाच्छतं मिष्टान्नपायसैः॥
दक्षिणां प्रददेच्छक्त्या भक्त्या प्रीयेत माधवः ॥४२॥

यथा श्रेष्ठा नदी गंगा पुष्करं च सरो यथा॥
काशी पुरी नगो मेरुर्देवो नारायणो हरिः ॥४३॥

कृतं युगं सामवेदो धेनुर्विप्रोऽन्नमंबु च॥
मार्गो मृगेंद्रः पुरुषोऽश्वत्थः प्रह्लाद आननम् ॥४४॥

उच्चैः श्रवा वसंतश्च जपः शेषोऽर्यमा धनुः॥
पावको विष्णुरिंद्रश्च कपिलो वाक्पतिः कविः ॥४५॥

अर्जुनो हनुमान्दर्भश्चित्तं चित्ररथोंऽबुजम्॥
उर्वशी कांचनं यद्वच्छ्रेष्टाश्चैते स्वजातिषु ॥४६॥

तथैव नारदीयं तु पुराणेषु प्रकीर्तितम्॥
शांतिरस्तु शिवं चास्तु सर्वेषां वो द्विजोत्तमाः ॥४७॥

गमिष्यामि गुरोः पांर्श्वं व्यासस्यामिततेजसः॥
इत्युक्त्वाभ्यर्चितः सूतः शौनकाद्यैर्महात्मभिः ॥४८॥

आज्ञप्तश्च पुनः सर्वैर्दर्शनार्थं गुरोर्ययौ॥
तेऽपि सर्वे द्विजश्रेष्ठाः शौनकाद्याः समाहिताः॥
श्रुतं सम्यगनुष्ठाय तत्र तस्थुश्च सत्रिणः ॥४९॥

कलिकल्मषविषनाशनं हरिं यो जपपूजनविधिभेषजोपसेवी॥
स तु निर्विषमनसा समेत्य यागं लभते सतमभीप्सितं हि लोकम् ॥५०॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने चतुर्थपादे पुराणमहिमावर्णनं नाम पंचविंशोत्तरशततमोऽध्यायः ॥१२५॥

॥ समाप्तोयं बृहन्नारदीयपुराणस्य पूर्वभागः॥
॥ श्रीराधामदनमोहनो जयति तराम्॥


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-05-08T04:12:29.6400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

wholetime work

  • सार्वकालिक काम 
  • न. पूर्णकालिक काम 
RANDOM WORD

Did you know?

घरातील देव्हारा पूर्व पश्चिम कां ठेवतात, इतर दिशा कां वर्ज्य?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site