TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
एकपंचाशत्तमोऽध्यायः

श्री नारदीयमहापुराणम् - एकपंचाशत्तमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


एकपंचाशत्तमोऽध्यायः
अथातः संप्रवक्ष्यामि कल्पग्रंथं मुनीश्वर ॥ यस्य विज्ञानमात्रेण स्यात्कर्मकुशलो नरः ॥१॥
नक्षत्रकल्पो वेदानां संहितानां तथैव च ॥ चतुर्थः स्यादांगिरसः शांतिकल्पश्व पंचमः ॥२॥
नक्षत्राधीश्वराख्यानं विस्तरेण यथातथम्‍ ॥ नक्षत्रकल्पे निर्दिष्टं ज्ञातव्यं तदिहापि च ॥३॥
वेदकल्पे विधानं तु ऋगादी नां मुनीश्वरः ॥ धर्मार्थकाममोक्षाणां सिद्धयै प्रोक्तं सविस्तरम्‍ ॥४॥
मंत्राणामृषश्वैव छदांस्यथ च देवताः ॥ निर्दिष्टाः संहिताकल्पे मुनिभिस्तत्त्वदर्शिभिः ॥५॥
तथैवांगिरसे कल्पे षट्‌वांगिरसे कल्पे षट्‌कर्माणि सवितरम्‍ ॥ अभिचारविधानेन निर्दिष्टानि स्वयंभुवा ॥६॥
शांतिकल्पे तु दिव्यानां भौमानां मुनिसत्तम ॥ तथांतरिक्षोत्पातानां शांतयो ह्रुदिताः पृथक्‍ ॥७॥
संक्षेणैदुद्दिष्टं कल्पलक्षणे ॥ विशेषः पृथगेतेषां स्थितः शंखातरेषु च ॥८॥
गुह्यकल्पे तु सर्वेषामुपयोगिताऽधुना ॥ वक्ष्यामि ते द्विजश्रेष्ठ सावधानतया श्रृणु ॥९॥
ॐकारश्वाथ शब्दश्व द्वावेतौ ब्रह्मणः पुरा ॥ कंठं भित्त्वा विनिर्यातौ तस्मान्मांगल्यकाविमौ ॥१०॥
कृत्वा प्रोक्तानि कर्माणि तदूर्द्धानि करोति यः ॥ सोऽथंशब्दं प्रयुंजीत तदानंत्यार्थमिष्यते ॥११॥
कुशाःपरिस मूहाय व्यस्तशाखाः प्रकीर्तिताः ॥ न्यूनाधिका निष्फलाय कर्मणोऽभिमस्त च ॥१२॥
कृमिकीटपतंगाद्या भ्रमंति वसुधातले ॥ तेषां संरक्षणार्थाय प्रोक्तं परिसमूहनम्‍ ॥१३॥
रेखाः प्रोक्ताश्व यास्तिस्त्रः कर्तव्यास्ताः समा द्विज ॥ न्यूनाधिका न कर्त्तव्या इत्येव परिभोषितम्‍ ॥१४॥
मेदिनी मेदसा व्याप्ता मधुकैटभदैत्ययोः ॥ गोमयेनोपलेप्येयं तदर्थमिति नारद ॥१५॥
वंध्या दुष्टा च दीनांगी मृतवत्सा च या भवेत्‍ ॥ यज्ञार्थं गोमयं तस्या नाहरेदिति भाषितम्‍ ॥१६॥
ये भ्रमंति सदाऽऽकाशे पतंगाद्या भयंकाराः ॥ तेषां प्रहरणार्थाय मतं प्रोद्धरणं द्विज ॥१७॥
स्त्रुवेण च कुशे नापि कुर्यादुल्लेखनं भुवः ॥ अस्थिकंटकसिद्ध्यर्थं ब्रह्मणा परिभाषितम्‍ ॥१८॥
आपो देवगणाः सर्वे तथा पितृगणा द्विज ॥ तेनाद्धिरुक्षणं प्रोक्तं मुनिभिर्विधि कोविदैः ॥१९॥
अग्रेरानयनं प्रोक्तं सौभाग्यस्त्रीभिरेव् च ॥ शुभदे मृण्मये पात्रे प्रोक्ष्याद्धिस्त्म निधायपयेत्‍ ॥२०॥
अमृतस्य क्षयं दृष्ट्रा ब्रह्माद्यैः सर्वदैवतैः ॥ वेद्यां निधापितस्तस्मात्समिद्धर्भो हुताशनः ॥२१॥
दक्षिणस्यां दानवाद्याः स्थिता यज्ञस्य नारद ॥ तेभ्यः संरक्षणार्थाय ब्रह्याणं तद्दिशि न्यसेत्‍ ॥२२॥
उत्तरे सर्वपात्राणि प्रणीताद्यानि पश्चिमे ॥ यजमानः पूर्वतः स्युर्द्विजाः सर्वेऽपि नारद ॥२३॥
द्यूते च व्यवहारे च यज्ञकर्मणि चेद्धवेत्‍ ॥ कर्तोदासीन चित्तस्तत्कर्म नश्योदिति स्थितिः ॥२४॥
ब्रह्मचार्यौ स्वशाखौ हि कर्त्तव्यौ यज्ञकर्मणि॥ यज्ञकर्मणि ॥ ऋत्विजां नियमो नास्ति ग्रथालांभ समर्चयेत्‍ ॥२५॥
द्वे पवित्रे त्र्यंगुले स्तः प्रोक्षिणी चतुरंगुला ॥ आज्यस्थाली त्र्यंगुलाथ चरुस्थाली षडंस्थाली षडंगुला ॥२६॥
द्वयंगुलं तूपयमनमेकं समार्जनांगुलम्‍ ॥ स्त्रुवं षडंगुल प्रोक्तं स्त्रुं सार्द्धत्रयांगुलम्‍ ॥२७॥
प्रादशमात्रा समिधः पूर्णपात्रं षडंगुलम्‍ ॥ प्रोक्षिण्या उत्तरे भागे प्रणीतापात्रमष्टभिः ॥२८॥
यानि कानि च तीथानि समुद्राः सरितस्था ॥ प्रणीतायां समासन्नास्तस्मात्तां पूरयेज्जलैः ॥२९॥
वेदिका वस्त्रहीना च नग्ना संप्रोच्यते द्विज ॥ परिस्तीर्य्य ततो दर्भैः परिद ध्यादिमां बुधः ॥३०॥
इंद्रवज्रं विष्णुचक्रं वामदेवत्रिशूलकम्‍ ॥ दर्भरुपया त्रीणि पवित्रच्छॆदनानि च ॥३१॥
प्रोक्षनी च प्रकर्तव्या प्रणीतोदकसंयुता ॥ तेनातिपुण्यदं कर्म पवित्रमिति किर्तितम्‍ ॥३२॥
आज्यस्थाली प्रकर्तव्या पलमात्रप्रमाणिकाः ॥ कुलालचक्रघटितं आसुरं मृण्मयं स्मृतम्‍ ॥३३॥
तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत्‍ ॥ स्त्रुवे च सर्वकर्माणि शुभान्यप्यशुभानि च ॥३४॥
तस्य चैव पवित्रार्थं वह्यौ तापनमीरित म्‍ ॥ अग्रे वैधव्यं मध्य चैव प्रजाक्षयः ॥३५॥
मूले च म्रियते होता तस्माद्धार्य विचार्य तत्‍ ॥ अग्निः सूर्यश्व सोनश्व विरिंचिरनिलो यमः ॥३६॥
स्त्रुवे षडेते देवास्तु प्रत्यंगुलमुपाश्रिताः ॥ अग्निर्भोगार्थनाशाय सूर्यो व्याधिकरो भवेत्‍ ॥३७॥
निष्फलस्तु स्मृतः सोमो विरिंचिः सर्वका मदः ॥ अनिलो वृद्धिदः प्रोक्तो यमो मृत्युप्रदो मतः ॥३८॥
संमार्जनोपयमनं कर्त्तव्यं च कुशद्वयम्‍ ॥ पूर्वं तु सर्वशांख स्यात्पंचशाखं तथापरम्‍ ॥३९॥
श्रीपर्णी च शमी तद्वत्खदिरश्व विकंकतः ॥ पलाशश्वैव विज्ञेयाः स्त्रुवे चैव तथा स्त्रुचि ॥४०॥
हस्तोन्मितं स्त्रुवं शस्तं त्रिंद्शागुलिकं स्त्रुचम्‍ ॥ विप्राणी चैतदाख्यांत ह्यन्येषामंगुलोनकम्‍ ॥४१॥
शूद्राणां पतितानां च खरादीनां च नारद ॥ दृष्टिदोषविनाशार्थ पात्राणां प्रोक्षणं स्मृतम्‍ ॥४२॥
अकृते पूर्णपात्रे तु यज्ञच्छिद्रं समुद्धवेत ॥ तस्मिन्पूर्णीकृते विप्र यज्ञसंपूर्णता भवेत्‍ ॥४३॥
अष्टमुष्टि र्भवेत्किंचित्पुष्कलं तच्चतुष्टयम्‍ ॥ पुष्कलानि तु चत्वारि पूर्णपात्रं विदुर्बुधाः ॥४४॥
होमकाले तु संप्राप्ते न दद्यादासनं क्कचित्‍ ॥ दत्ते तृप्तो  भवेद्वह्रिः शांप दद्याच्च दारुणम्‍ ॥४५॥
आघारौ नासिके प्रोक्तौ आज्यभागौ च चक्षुषी ॥ प्राजापत्यं मुखं प्रोक्त कटिर्व्याह्रतिभिः स्मृत ॥४६॥
शीर्षहस्तौ च पादौ च पंचवारुणमीरितम्‍ ॥ तथा स्विष्टकृतं विप्र श्रोत्रे पूर्णाहुतिस्तथा ॥४७॥
द्विमुखं चैकहदयं चतुःश्रोत्रं द्विनासिकम्‍ ॥ द्विशीर्षकं च षण्नेत्रं सप्तजिह्रकम्‍ ॥४८॥
सव्यभागे त्रिहस्तं च चतुर्हस्तञ्च दक्षिणे ॥ स्त्रुक्‍स्त्रुवौ चाक्षमाला च या शक्तिर्दक्षिणे करे ॥४९॥
त्रिमेखलं त्रिपादं च घृतपात्रं द्विचामरम्‍ ॥ मेषारुढं चतुःश्रृंगं बालादित्यसमप्रभम्‍ ॥५०॥
उपवीतसमायुक्तं जटाकुडलंममडिमम्‍ ॥ ज्ञात्वैवमग्निदेहं तु होमकर्मसमा चरेत्‍ ॥५१॥
पयो दधि घृतं चैव स्नेहपक्कं तथैव च ॥ जुहुयाद्यस्तु हस्तेन स विप्रो ब्रह्महा भवेत्‍ ॥५२॥
यदन्नं पुरुषोऽश्राति तदन्नं तस्य देवताः ॥ सर्वकामसमृद्धयर्थं तिलाधिक्यं हर्विर्मतम्‍ ॥५३॥
होमे मुद्रात्रयं प्रोक्तं मृगी हंसी च सूकरी ॥ अभिचारे सूकरी स्यान्मृगी हंसी शुभात्मके ॥५४॥
सर्वांगुलीभिः क्रौडी स्याद्धंसी मुक्तकनिष्ठिका ॥ मध्यमानामिकागुष्ठैर्मृगी मुद्रा प्रकीर्तिता ॥५५॥
पूर्वप्रमाणयाहुत्या पंचांगुलिगृहीतया ॥ दधिमध्वाज्यसंयुक्त ऋत्वग्भिजुहुयात्तिलैः ॥५६॥
कुशास्त्वनामिकासक्ताः कार्याः स्युः पुण्यकर्मणि ॥५७॥
विनायकः कर्मविघ्नसिद्ध्यर्थे विनियोजितः ॥ गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥५८॥
तेनोपसृष्टो यस्यस्य लक्षणानि निबोध मे ॥ स्वमेव गाहतेत्यर्थं जलं मुंडांश्व पश्यति ॥५९॥
कामाय वाससश्वैव क्रव्यादांश्वाधिरोहति ॥ अंत्यजैर्गर्द्दभैरुष्ट्रेः सहैकत्रावतिष्ठते ॥६०॥
वज्रन्नापि तथात्मानं मन्यतेऽनुगतं परैःविमना विफलारंभः संसीदित्यनिमित्ततः ॥६१॥
तेनोपसृष्टो लभते न राज्यं राजनंदनः ॥ कुमारी न च भर्तारमपत्यं गर्भंमगना ॥ आचायत्वं श्रोत्रियश्व न शिष्योऽध्ययनं तथा ॥६२॥
वणिग्लाभं च चान्पोति कृषिं चापि कृषीबलः ॥ स्त्रपन तस्य कर्तव्यं पुण्येऽह्रि विधिपूर्वकम्‍ ॥ गौरसर्ष पकल्केन स्वस्ति वाच्या द्विजैः शुभाः ॥६३॥
अश्वस्थानाद्वजस्थानाद्वल्मीकात्संगमाद्धदात ॥ मृत्तिकां रोचनां गंधान्‍ गुग्गुलुं चाशु निक्षिपेत्‍  ॥६४॥
पात्रात्द्दता ह्येकवर्णैश्वतुर्भिः कलशैर्ह्रदात्‍ ॥ चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥६५॥
सहस्त्राक्षं शतधार मृषिभिः पावनं कृतम्‍ ॥ तेन त्वामभिषिंचामि पावमान्याः पुनंतु ते ॥६६॥
भगं ते वरुणो राजा भंग सूर्यो बृहस्पतिः ॥ भगमिंद्रश्व वायुश्व भगं सप्तर्षयो ददुः ॥६७॥
यत्ते केशेषु दौर्भाग्य सीमंते यच्च मूर्द्धनि ॥ ललाटे कर्णयोरक्ष्णोरापस्तुदंतु सर्वदा ॥६८॥
स्त्रानस्य सार्षपं तैलं स्त्रुवेणौदुम्बरेण तु ॥ जुहुयान्मूर्द्धनि कुशान्सव्यन परिगुह्य च ॥६९॥
मितश्व संमितश्वैव तथा शालकटंकटौ ॥ कूष्माण्डो राजपुत्र श्वेत्यंते स्वाहासमन्वितैः ॥७०॥
नामर्भिबलिमंत्रैश्व नमस्कारसमन्वितैः ॥ दद्याच्चतुष्पथे सूर्य्ये कुशानास्तीर्य्य सर्वतः ॥७१॥
कृता कृतांस्तंडुलीश्व पललौदनमेव च ॥ मत्स्यान्पक्कांस्तथैवामान्मांसमेतावदेव तु ॥७२॥
पुष्पं चित्रंसुगंधं च सुरांच त्रिविधामपि ॥ मूलकं पूरिकापूपांस्तथैवोटस्त्रजोऽपि च ॥७३॥
दध्यन्नं पायसं चैव गुडपिष्ट समोदकम्‍ ॥ एतान्सर्वानुपा ह्रत्य भूमौ कृत्वा ततः ॥७४॥
विनायकस्य जननी मुपतिष्ठेत्ततोऽम्बिकाम्‍ ॥ दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णम्‍ञ्जलिम्‍ ॥७५॥
रुपं देहि यशो देहि भगं भगवति देहि मे ॥ पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥७६॥
उपस्थाय शिवां दुर्गामुमापतिमथचेर्यत्‍ ॥ धूपैदर्पिश्चै नैवेद्यर्गन्म्धमाल्या नुलेपनैः ॥७७॥
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥ ब्राह्मणान्भोजयेत्पश्वाद्धस्त्रयुगमं गुरोरपि ॥७८॥
एवं विनायकं पूज्य ग्रहाश्वैव प्रपूज येत्‌ ॥ श्रीकामः शांतिकामो वा पुष्टिवृद्धयायुर्वीर्य्यवान्‍ ॥७९॥
सूर्य्यः सोमो महीपुत्रो बुधो जीवो भृगुः शनिः ॥ राहुकेतू नवाप्येते स्थापनीया ग्रहाः क्रमात्‍ ॥८०॥
ताम्रकद्रजताद्रक्तचंदनात्स्वर्णकादपि ॥ हेम्रो रजतादयसः सीसात्कार्या शुभाप्तये ॥८१॥
स्ववर्णैर्वा पटे लेख्या गंधेर्मंडलकेशु च ॥यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥८२॥
गंधाश्व बलयश्वैव धूपो देयश्व गुग्गुलः ॥ कर्तव्यां मंत्रवंतश्व चरवः प्रतिदैवतम्‍ ॥८३॥
आकृष्णेन इमंदेवा अग्निर्मूर्द्धादिवः ककुत्‍ ॥ उद्धुध्यस्वाति यदर्यस्तथैवान्नात्परिस्त्रुतः ॥८४॥
शन्नोदेवीस्तथा कांडात्केतुं कृण्वन्नकेतवः ॥८५॥
अर्कःपलाशः खदिरस्त्वपामार्गोऽथपिप्पलः ॥ उदुंबरः शमी दूर्वा कुशाश्व समिधः क्रमात्‍ ॥८६॥
एकैकस्मादष्टशतमष्टाविंशतिरेव च ॥ होतव्या मधुसर्पिभ्या दन्धा क्षीरेण वा पुनः ॥८७॥
गुडौदनं पायंस च हविष्यक्षीरषष्टिकम्‍ ॥ दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥८८॥
दद्या दहक्रमादेद्दिजेभ्यो भोजनं बुधः ॥ शक्तितोऽपि यथा लाभं सत्कृत्य विधिपूर्वकम्‍ ॥८९॥
धेनुः शंखस्तथाऽनङवान्हिमवासो हयःक्रमात्‍ ॥ कृष्णागौरायसं छाग एता वै दक्षिणाः स्मृताः ॥९०॥
यस्य यस्य तु यद्रव्यं पलेनार्च्यः स तेन च ॥ ब्रह्मन्नेषां वरो दत्तः पूजिताः पूजयिष्यथः ॥९१॥
ग्रहाधीना नरेंद्राणां धनजात्युच्छ्रयास्तथा ॥ भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहा ॥९२॥
आदित्यस्य सदा पूजा तिलकं स्वामिनस्तथा ॥ महागणपतेश्वैव कुर्वन्सिद्धिमवाप्नुयात्‍ ॥९३॥
कर्मणां सफलत्वं च श्रियं वाप्नोत्युनुत्तमाम्‍ ॥९४॥
अकृत्वा मातृयागं तु यो ग्रहाचा समारभेत ॥ कुप्यंति मातरस्तस्य प्रत्यूहं कुर्वते तथा ॥९५॥
वसोः पवित्रमंत्रेण वसोर्द्धारां प्रकल्प्य च ॥ गौर्याद्या मातरः पूज्या मांगल्येषु शुभार्थिभिः ॥९६॥
गौरी पद्मा शची मेधा सावित्री विजया जया ॥ देवसेना स्वधा स्वाहा मातृका वैधृतिर्धृतिः ॥९७॥
पुष्टिर्त्द्दष्टिस्तथा तुष्टिरात्मदेवतया सह॥ गणेशेनाधिका ह्रोता वृद्धो पूज्यास्तु षोडश ॥९८॥
आवाहंन तथा पाद्यमर्घ्यं स्नानं च चंदनम्‍ ॥ अक्षतांश्वैव पुष्पाणि धूपं दीपं फलानि च ॥९९॥
नैवेद्याचमनीयं च तांबूलं पूगमेव च ॥ नीराजनं दक्षिणां च क्रमाद्दद्याच्च तुष्टये ॥१००॥
पितृकल्पं प्रवक्ष्यामि धनसंततिवर्द्धनम्‍ ॥ अमावस्याष्टका वृद्धिः कृष्णपक्षायनद्वयम्‍ ॥१०१॥
द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्यसंक्रम्‍ ॥ व्यतीपातो गजच्छाया ग्रहणं चंद्रसूर्ययोः ॥१०२॥
श्राद्धं प्रतिरुश्वैव श्राद्धकालाः प्रकीर्तिता ॥ अग्र्याः सर्वेषु श्रोत्रियो ब्रह्मविद्युवा ॥१०३॥
वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः ॥ स्वस्त्री य ऋत्विग्जाता याज्यश्वशुरमातुलाः ॥१०४॥
त्रिणाचिकेतदौहित्रशिष्यंसंबंधिबांधवाः ॥ कर्मनिष्ठास्तपोनिष्ठाः पंचग्निब्रह्मचारिणः ॥१०५॥
पितृमातृपराश्वैव ब्राह्मणाः श्राद्धसंपदः ॥ रोगी न्यूनातिरिक्तांगः काणः पौनर्भवस्तथा ॥१०६॥
अवकीर्णी कुंडगोलौ कुनखी श्या वदंतक ॥ भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ॥१०७॥
मित्रध्रुक्‌ पिशुनः सोमक्रियी परिविन्दकः ॥ मातृपितृगुरुत्यागी कुंडाशी वृषलात्मजः ॥१०८॥
परपूर्वापतिः स्तेनः कर्मभ्रष्टाश्व निंदिताः ॥ निमंत्रयीत पूर्वेद्युर्ब्राह्मणानात्मवान्‍ शुचिः ॥१०९॥
तैश्वापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ॥ अपराह्रे समभ्यर्च्य स्वागतेनागतांस्तु तान्‍ ॥११०॥
पवित्रपाणिचांतानासने चोपवेशयेत ॥ विप्रान्दैव यथाशक्ति पित्र्येऽयुग्मांस्तथैव च ॥१११॥
पराश्रिते शुचौ देशे दक्षिणाप्रवणं तथा ॥ द्वौ दैवे प्राक्‍ पित्र्ये उदगेकैकमेव च ॥११२॥
मातामहानामप्येवं तत्र वा वैश्वदैविकम्‍ ॥ पाणिप्रक्षालनं दत्वा विष्टरार्थं कुशानपि ॥११३॥
आवाहयेदनुज्ञातो विश्वेदेवास इत्यूचा ॥ यवैरन्वावकीर्याथ्म भाजने सपवित्रके ॥११४॥
शन्नो देव्या अपः क्षिप्त्वा यवोऽसीति यवांस्तथा ॥ यादिव्या इति मंत्रेण हस्ते पाद्यं विनिःक्षिपेत्‍ ॥११५॥
दत्त्वोदकं गंधमाल्यं प्रदायान्नं सदीपकम्‍ ॥ अपसव्यं ततः कृत्वा पितृणां सप्रदक्षिणम्‍ ॥११६॥
द्विगुणांस्तु कुशान्दत्त्वा ह्युशंत्स्तिवेत्युचा पितृन्‍ ॥ आवाह्यं तदनुज्ञातो जपेदायंतु नस्ततः ॥११७॥
यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत्‍ ॥ दत्त्वावार्घ्यं  सयवांस्तेषां  पात्र कृत्वा विधानतः ॥११८॥
पितृभ्यः स्थानमसीतिः न्युब्जं पात्रं करोत्यधः ॥ अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम्‍ ॥११९॥
कुरुष्वेत्यभ्यनुज्ञातो दत्त्वाग्नौ प्रितृयज्ञवत्‍ ॥ हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ॥१२०॥
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ॥ दत्त्वान्नं पृथिवीपात्रमिति पात्रा भिमंत्रणंम्‍ ॥१२१॥
कृत्वेदं विष्णुरित्यन्ने द्विजांगुष्टं निवेशयेत ॥ सव्यात्द्दतिकां गायत्रीं मधुवाता इति त्यृचम्‍ ॥१२२॥
जप्त्वा यथासुखंवाच्यं भुञ्जीरस्तेऽपि वाग्यताः ॥ अन्नमिष्टं हविप्यं च दद्यादक्रोधनोऽत्वरः ॥१२३॥
आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥ अन्नमादाय तृप्ताःस्थ शेषं चैवानुमान्य च ॥१२४॥
तदन्नं विकिरेद्धमौ दद्याच्चापः सकृत्सकृत ॥ सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ॥१२५॥
उच्छिष्टसन्निधौ पिंडान्दद्याद्वै पितृयज्ञवत ॥ मातामहानामप्येवं दद्यादाचमनं ततः ॥१२६॥
स्वस्निवाचं ततः कुर्यादक्षय्योदकमेव हि ॥ दत्त्वा च दक्षिणां शक्तया स्वधाकारमुदाहरेत्‍ ॥१२७॥
वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम्‍ ॥ ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिंचेत्ततो जलम्‍ ॥१२८॥
विश्वेदेवाश्व प्रीयंता विर्प्रैश्वोक्त इदं जपेत्‍ ॥ दातागे नोऽभिवर्द्धंतां वेदाः संततिरेव च ॥१२९॥
श्रद्धा च नो मा व्यगमद्वहु देयं च नोऽस्त्विति ॥ इत्युक्तोक्ताः प्रिया वाचः प्रणिपत्य विसर्जयेत्‍ ॥१३०॥
वाजेवाजे इति प्रीतः पितृपूर्वं विसर्जनम्‍ ॥ यस्मिंस्ते संश्रवाः पूर्वमर्घ्यपात्रे निवेशिताः ॥१३१॥
पितृपात्रं तदुत्थानं कृत्वा विप्रान्विसर्जयेत्‍ ॥ प्रददक्षिणमनुव्रज्य भुंजीत पितृसेवितम्‍ ॥१३२॥
ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह ॥ एवं प्रदक्षिणावृत्त्या वृद्धौ नांदीमुखान्पितृन ॥१३३॥
यजेत दधिकर्कधुमिश्रान्पिडान्यवैः कृतान्‍ ॥ एको द्दिष्टं देवहीनमेवाघ्यैकपवित्रकम्‍ ॥१३४॥
आवाहनाग्रोकरणरहितं ह्यपसव्यवत्‍ ॥ उपतिष्ठतामक्षय्यस्थाने विप्रविसर्जने ॥१३५॥
अभिरम्यतामिति वदेद ब्रूयुस्तंऽभिरताः स्म ह ॥ गंधोदकं तिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्‍ ॥१३६॥
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत ॥ ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत्‍ ॥१३७॥
एतत्सपिंडीकरणमेकोष्टिदृं अपि ॥ अर्वाक्सपिंडिकरणं यस्य संवत्सराद्धवेत्‍ ॥१३८॥
तस्याप्यन्नं सोदकुंभं दद्यात्संवत्सरं द्विजे ॥ मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम्‍ ॥१३९॥
प्रतिसंवत्सरं चैव मासमेकादशेऽहनि ॥ पिंडाश्वगोऽजविप्रेभ्यो दद्या दग्नौ जलेऽपि वा ॥१४०॥
प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत्‍ ॥ हविष्यान्नेन वै मासं पायसेन तु वत्सरम्‍ ॥१४१॥
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥ ऐणरौखवाराहशाशैर्मांसैर्य थाक्रमम्‍ ॥१४२॥
मासवृद्धायाभितृप्यंति दत्तैरिह पितामहाः ॥ खङामिषं महाकल्पं मधु मुन्यन्नमेव च ॥१४३॥
लोहामिषं महाशाकं मांसं वार्ध्रीणसस्य च ॥ यो ददाति गयास्थश्व सर्वमानंत्यमश्नुते ॥१४४॥
तथा वर्षात्रयोदश्यां मघासुच विशेषतः ॥ कन्यां कन्यावेदिनश्व पशून्वै  सत्सुतानपि ॥१४५॥
द्यूतं कृषि च वाणिज्यं द्विशफैकशफांस्तथा ॥ ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरुप्ये सकुप्यके ॥१४६॥
ज्ञातिश्रेष्ठयं सर्वकामानाप्नोति श्राद्धदः सदा ॥ प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम्‍ ॥१४७॥
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥ स्वर्ग ह्यपत्यमोजश्व शौर्यं क्षेत्रं बलं तथा ॥१४८॥
पुत्रान्‍ श्रेष्ठांश्व सौभाग्यं समृद्धिं मुख्यतां शुभम्‍ ॥ प्रवृत्तं चक्रतां चैव वाणिज्यप्रभृतीनि च ॥१४९॥
अरोगित्वं यशोवीतशोकतां परमां गतिम्‍ ॥ धनं विद्यां भिषकसिद्धिं कुप्यगा अप्यजाविकम्‍ ॥१५०॥
अश्वानायुश्व विधिवद्यः श्राद्धं संप्रयच्छति ॥ कृत्तिकादि भरण्यंतं सकामाप्नुयादिमान्‍ ॥१५१॥
आस्तिकः श्रद्दधानश्व व्यपेतमदमदमत्सरः ॥ वसुरुद्रादिसिसुताः पितरः श्राद्धदेवताः ॥१५२॥
प्रीणंयंति मनुष्याणां पितृन्‍ श्राद्धेन तर्पिताः॥ आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानिच ॥१५३॥
प्रयच्छंति तथा राज्यं नृणां प्रीताः पितामहः ॥ इत्येवं कथितं किंचित्कल्पाध्याये विशेषतः ॥१५४॥
ज्ञातव्यं वैदिके तंत्रे पुराणांतरकेऽपि च ॥ य इमं चिंतयेद्विद्वान्कल्पाध्यायं मुनीश्वर ॥१५५॥
स भवेत्कर्मकुशल इहान्यत्र गतिं शुभाम्‍ ॥ यः श्रृणोति नरो भक्त्या दैवे पित्र्ये च कर्मणि ॥१५६॥
कल्पाध्यायं स लभते दैवपित्र्य क्रियाफलम्‍ ॥ धनं विद्यां यशः पुत्रान्परत्र च गतिं पराम्‍ ॥१५७॥
अतः परं व्याकरणं तुभ्यं वेदमुखाभिधम्‍ ॥ कथयिष्ये समासेन श्रृणुष्व सुसमाहितः ॥१५८॥
इति श्रीबृहन्नानारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे एक पंचाशत्तमोऽध्यायः ॥५१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:22:30.4370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सनकादिक

  • पुअव . सनक , सनंदन , सनत्सुजात ब सन्‍त्कुमार हे ब्रह्मदेवाचे चार मानसपुत्र . जे सनकादिकीं सेविजे । आदरेसीं । - ज्ञा १ . ५५ . [ सं . ] 
RANDOM WORD

Did you know?

पापा पासून मुक्त होण्यासाठी काय उपाय करावेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.