TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
सप्ततितमोऽध्यायः

श्री नारदीयमहापुराणम् - सप्ततितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सप्ततितमोऽध्यायः
सनत्कुमार उवाच ॥
अथ वक्ष्ये महाविष्णोर्मन्त्रान्लोकेषु दुर्लभान् ॥ यान्प्राप्य मानवास्तूर्ण प्राप्नुवंति निजेप्सितम् ॥१॥
येषामुच्चारणेनैव पापसंघः प्रलीयते ॥ ब्रह्मादयोऽपि याञ्ज्ञात्वा समर्थाः स्युर्जगत्कृतौ ॥२॥
तारह्रत्पूर्वकं ङेतं नारायणपदं भवेत् ॥ अष्टाक्षरो मनुश्वास्य साध्यो नारायणो मुनिः॥३॥
छन्दः प्रोक्तं च गायत्री देवता विष्णुरव्ययः ॥ ॐ बीजं यं च तथा शक्तिर्विनियोगोऽखिलाप्तय ॥४॥
क्रुद्धोल्काय ह्रदाख्यातं महोल्काय शिरः स्मृतम् ॥ वीरोल्काय शिखा प्रोक्ता द्युल्काय कवचं मतम् ॥५॥
महोल्कायेति चास्त्रं स्यादित्थं पंचांगकल्पना ॥ पुनःषडंगमंत्रोत्थैः षडवर्णैश्व समाचरेत् ॥६॥
अवशिष्टौ न्यसेत्कुक्षिपृष्ठयोर्मंत्रवर्णकौ ॥ सुदर्शनस्य मंत्रेन कुर्याद्दिग्बन्धनं ततः ॥७॥
तारो नमश्वतुर्थ्यंत सुदर्शनपदं वदेत् ॥ अस्त्रायफडिति प्रोक्तो मंत्रो द्वादशवर्णवान् ॥८॥
दशावृत्तिमय न्यासं वक्ष्ये विभूतिपञ्जरम् ॥ मूलार्णान्स्वतनौ न्यस्येदाधारे ह्रदये मुखे ॥९॥
दोःपन्मूलेषु नासायां प्रथमावृत्तिरीरिता ॥ गले नाभौ ह्रदि कुचपार्श्वपृष्ठेषु तत्पराः ॥१०॥
मूर्द्धास्यनेत्रश्रवणघ्राणेषु च तृतीयकाः ॥ दोःपादसंध्यंगुलिषु वेदावृत्त्या च विन्यसेत् ॥११॥
धातुप्राणेषु ह्रदये विन्यसेत्तदनंतरम् ॥ शिरोनेत्रा स्यह्रत्कुक्षिसोरुजंजापदद्वये ॥१२॥
एकैकशो न्यसेद्वर्णान्मंत्रस्य क्रमतः सुधीः ॥ न्यसेद्धृदंसोरुपदेष्वर्णआन्वेदमितान्मनोः ॥१३॥
चक्रशं खगदांभोजपदेषु स्वस्वमुद्रया ॥ शेषांश्व न्यासवर्योऽयं विभूतिपञ्जराभिधः ॥१४॥
न्यसेन्मूलार्णमेकैकं सचंद्रं तारसम्पुटम् ॥ अथवा वै नमोंतेन न्यसेदित्यपरे जगुः ॥१५॥
तत्त्वान्यासं ततः कुर्याद्विष्णुभावप्रसिद्धये ॥ अष्टार्णोऽष्टप्रऋत्यात्मा गदितः पूर्वसूरिभिः ॥१६॥
पृथिव्यादीनि भूतानि ततोऽहंकारमेव च ॥ महांश्व प्रकृतिश्वैवेत्यष्टौ प्रकृतयो मताः ॥१७॥
पादे लिं ह्रदि मुखे मूर्ध्नि वक्षसि ह्रत्स्थले ॥ सर्वांगे व्यापकं कुर्यादेकेन साधकोत्तमः ॥१८॥
मंत्रार्णह्रत्परायाद्यमात्मने ह्रदयांतिमम् ॥ तत्तन्नाम समुच्चार्य्य न्यसेत्तत्तत्थले बुधः ॥१९॥
अयं तत्त्वाभिधो न्यासः सर्वन्यासोत्तमोत्तमः ॥ मूर्तीन्यसेद्दादश वै द्वादशादित्यसंयुताः ॥२०॥
द्वादशाक्षरवर्णाद्या द्वादशादित्यसंयुताः ॥ अष्टार्णोऽ‍यं मनुश्वाष्टकृत्यात्मा समीरितः ॥२१॥
तासामात्मचतुष्कस्य योगादर्काक्षरो भवेत् ॥ ललाटकुक्षिह्रत्कंठक्षपार्श्वांसकेषु च ॥२२॥
गले च वामपार्श्वां सगलपृष्ठेष्वनंतरम् ॥ ककुद्यपि न्यसेन्मंत्री मूर्तीर्द्वादश वै क्रमात् ॥२३॥
धात्रा तु केशवं न्यस्यार्यम्णं नारायणं पुनः ॥ मित्रेण माधवं न्यस्य गोविंदं वरुणेन च ॥२४॥
विष्णुं चैवांशुना युक्तं भगेन मधुसूदनम् ॥ न्यसेद्विवस्वता युक्तं त्रिविक्रममतः परम् ॥२५॥
वामनं च तथद्रण पूष्णा श्रीधरमेव च ॥ ह्रषीकेशं न्यसेत्पश्वात्पर्जन्येन समन्वितम् ॥२६॥
त्वष्ट्रा युतं पद्मनाभं दामोदरं च विष्णुना ॥ द्वादशार्णं ततो मंत्रं समस्ते शिरसि न्यसेत् ॥२७॥
व्यापकं विन्यसेत्पश्वात्किरीटमनुना सुधीः ॥ ध्रुवः किरीटकेयूरहारांते मकरेतिच ॥२८॥
कुंडलांते चक्रशंखगदांतेंऽभोजहस्ततः ॥ पीतांबरांते श्रीवत्संकितवक्षःस्थलेति च ॥२९॥
श्रीभूमिसहितस्वात्मज्योतिर्द्वयमतः परम् ॥ वदेद्दीप्तिक्रायांते सहस्त्रादित्यतेजसे ॥३०॥
नमोंतो बाणषड्वर्णैः किरीटमनुरीरितः ॥ एवं न्यासविधिं कृत्वा ध्यायेन्नारायणं विभुम् ॥३१॥
उद्यत्कोट्यर्कसद्दशं शंखं चक्रं गदांबुजम् ॥ दधतं च करैर्भूमिश्रीभ्यां पार्श्वद्वयांचितम् ॥३२॥
श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ॥ हारकेयूरवलयांगदं पीतांबरं स्मरेत् ॥३३॥
वर्णलक्षं जपेन्मंत्र विधिवन्नियतेंद्रियः ॥ प्रथमेन तु लक्षेण स्वात्मशुद्धिर्भवेद्‍ ध्रुवम् ॥३४॥
लक्षद्वयजपेनाथ मंत्रशुद्धिमवाप्नुयात ॥ लक्षयत्रेण जप्तेन स्वर्लोकमधिगच्छति ॥३५॥
विष्णोः समीपमाप्नोति वेदलक्षजपान्नरः ॥ तथा च निमलं ज्ञानं पंचलक्षजपाद्धवेत् ॥३६॥
लक्षषष्ठेन चाप्रोति मंत्री विष्णो स्थिरां मतिम् ॥ सप्तलक्षजपान्मंत्री विष्णोसारुप्यमाप्नुयात् ॥३७॥
अष्टलक्षे जपेन्मंत्री निर्वाणधिगच्छति ॥ एवं जप्त्वा ततः प्राज्ञो दशांशं सरसीरुहैः ॥३८॥
मघुराक्तैः प्रजुहुयात्संस्कृते हव्यवाहने ॥ मंडूकात्परत्वांत पीठे संपूज्य यत्नतः ॥३९॥
विमलोत्कर्षिणी ज्ञाना क्रिया योगा ततः परा ॥ प्रह्री सत्या तथेशानानुग्रहा नवमीमता ॥४०॥
तारो नमो भागवते विष्णवे सर्वभू ततः ॥ तात्मने वासुदेवाय सर्वात्मेति पदं वदेत् ॥४१॥
संयोगयोगपद्मांते पीठाय त्दृअदयांतिमः ॥ षङ्किंशदक्षरः पीठमंत्रोऽनेनासनं दिशेत् ॥४२॥
संकल्प मूलेन तस्यामावाह्य पूजयेत् ॥ आदौ चांगानि संपूज्य मंत्राणां केशरेषु च ॥४३॥
प्रागादिदिग्दले वासुदेवं संकर्षणं तथा ॥ प्रद्युम्रमनिरुद्धं च शक्तिः कोणेष्वथार्चयेत् ॥४४॥
शांतिं श्रियं सरस्वत्या रतिं संपूजयेत्क्रमात् ॥ हेमपीततमालेंद्रनीलाभाः पीतवाससः ॥४५॥
चतुर्भुजाः शंखचक्रगदांभोजधरा इमे ॥ सितकांचनगोदुग्धदूर्वावर्णाश्व शक्तयः ॥४६॥
दलाग्रेषु चक्रशंखगदापंकजकौस्तुभान् ॥ पूजयेन्मुसलं खङुं वनमालां यथाक्रमात् ॥४७॥
रक्ताजपीतकनकश्याकृष्णासितर्जुनान् ॥ कुंकुमाभं ससभ्यर्च्येद्वहिरग्रे खगेश्वरम् ॥४८॥
पार्श्वयोः पूजयेत्पश्वाच्छंखपद्मनिधी क्रमात् ॥ मुक्तामाणिक्यसंकाशौ पश्चिमे ध्वजप्रर्चयेत् ॥४९॥
रक्तं विघ्नं तथाग्रेये श्याममार्यं च राक्षसे ॥ दुर्गां श्यामां वायुकोणे सेनान्यं पीतमैश्वरे ॥५०॥
लोकेशा नायुधैर्युक्तान्बहिः संपूजयेत्सुधीः ॥ एवमावरणैर्युक्तं योऽर्चयोद्विष्णुमव्ययम् ॥५१॥
भुक्तेह सकलान्भोगानंते विष्णुपदं व्रजेत् ॥ क्षेत्रधान्यसुवर्णानां प्राप्तये धरणीं स्मरेत् ॥५२॥
देवीं दूर्वादलश्यामां दधाना शालिमंजरीम् ॥ चिंतयेद्धारतीं देवीं वीणापुस्तकधारिणीम् ॥५३॥
दक्षिणे देवदेवस्य पूर्णचंद्रनिभाननाम् ॥ क्षीराब्धिफेनपुंजाभे वसानां श्वेतवाससी ॥५४॥
भारत्या सहितं यो वै ध्यायेद्देवं परात्परम् ॥ वेदवेदार्थत्त्वज्ञो जायते सर्ववित्तमः ॥५५॥
नारसिंहमिवात्मानं देवं ध्यात्वातिभैरवम् ॥ शस्त्रं संमंत्र्य मंत्रेण शत्रून्हत्वा निवर्तते ॥५६॥
नारसिंहेन बीजेन मंत्रं संयोज्य साधकः ॥ शतमष्टोत्तरं जण्त्वा वामहस्ताभिमंत्रिताः ॥५७॥
पुनः पुनरपः सिंचेत्सर्पदष्टोऽपि जीवति ॥ गारुडेन च संयोज्य पंचार्णेन जपेत्तदा ॥५८॥
निर्विषाकरणे ध्यायेद्विष्णुं गरुडवाहनम् ॥ अशोकफलके तार्क्ष्यमालिख्याशोकसंहतौ ॥५९॥
अशोकपुष्पैः संपूज्य भगवंतं तदग्रतः ॥ जुहुयात्तानि पुष्पानि त्रिसंध्य सप्तपत्रकम् ॥६०॥
प्रत्यक्षो जायते पक्षी वरमिष्टं प्रयच्छति ॥ गाणपत्येन संयोज्य जपेल्लंक्ष पयोव्रतः ॥६१॥
महागणपतिं देवं प्रत्यक्षमिह पश्यति ॥ वाणीबीजेन संयुक्तं षण्मासं योजयेन्नरः ॥६२॥
महाकविवरो भूत्वा मोहयेत्सकलं जगत् ॥ हुत्वा गडूचीशकलान्यर्द्धागुलमितानि च ॥६३॥
दधिमध्वाज्ययुक्तानि मृत्युं जयति साधकः ॥ शनैश्वर दिने सम्यक् स्पृष्टाश्वत्थं च पाणिना ॥६४॥
जप्त्वा चाष्टशतं युद्धे ह्यपमृत्युं जयत्यसौ ॥ पञ्चविंशतिधा जप्त्वा नित्यं प्रातः पिबेज्जलम् ॥६५॥
सर्वपापविनिर्मुक्तो ज्ञानवान् रोगवर्जितः ॥ कुंभं संस्थाप्यं विधिवदापूर्य शुद्धवारिणा ॥६६॥
जप्त्वायुतं ततस्तेनाभिषेकः सर्वरोगनुत् ॥ चंद्रसूर्योपरागे तु ह्युपोष्याष्टसहस्त्रकम् ॥६७॥
स्पृष्टा ब्राह्मीघृतं जप्त्वा पिबेत्साधकत्तमः ॥ मेधां कवित्वं वाक्विसद्धिं लभते नात्र संशयः ॥६८॥
जुहुयादयुतं विल्वैर्महाधनपतिर्भवेत् ॥ नारायणस्य मन्त्रोऽयं सर्वमंत्रोत्तमोत्तमः ॥६९॥
आलयः सर्वसिद्धीनां कथितस्तव नारद ॥ नारायणाय शब्दांते विद्महे पदमीरयेत ॥७०॥
वासुदेवपदं ङेंतं धीमहीति ततो वदेत् ॥ तन्नो विष्णुः प्रचोवर्णान्संवदेच्चोदयादिति ॥७१॥
एषोक्ता विष्णुगायत्री सर्वपापप्रणाशिनी ॥ तारो हद्धगवान् ङेंतो वासुदेवाय कीर्तितः ॥७२॥
द्वादशार्णो महामन्त्रो भुक्तिसुक्तिप्रदायकः स्त्रीशूद्राणां वितारोऽयं सातारस्तु द्विजन्मनाम् ॥७३॥
प्रजापतिर्मुनिश्वास्य गायत्री छन्द ईरितः ॥ देवता वासुदेवस्तु बीजं शक्तिर्ध्रुवश्व त्दृत् ॥७४॥
चन्द्राक्षिवेदपञ्चार्णैः समस्तेनांगकल्पनम् ॥ मूर्घ्नि भाले दृशोरास्ये गले दोर्त्दृदये पुनः ॥७५॥
कुक्षौ नाभौ जानुद्वये पादद्वये तथा ॥ न्यसेत्क्रमान् मन्त्रवर्णान्सृष्टिन्यासोऽयमीरितः ॥७६॥
ह्रदादिमस्तकांतं तु स्थितिन्यासं प्रचक्षते ॥ पादादारभ्य मूर्द्धानं न्यासं संहारकं विदुः ॥७७॥
तत्त्वन्यासं ततः कुर्यात्सर्वतंत्रेषु गोपितम् ॥ जीवं प्राणं तथा चित्तं सूर्यमण्डलम् ॥७८॥
चन्द्राग्निमण्डले चैव वासुदेवं ततः परम् ॥ संकर्षणं च प्रद्युम्रमनिरुद्धं ततः परम् ॥७९॥
नारायणं चक्रमस्तत्त्वानि द्वादशैव तु ॥ मूलार्णतत्परायाद्यमात्मने त्दृदयांतिमम् ॥८०॥
तत्ते नाम समुच्चार्य्य न्यसेन्मूर्द्धादिषु क्रमात् ॥ पूर्वोक्त ध्यानमत्रापि भानुलक्षजपो मनोः ॥८१॥
तद्दशांशं तिलैराज्यलोलितैर्हवनं चरेत् ॥ पीठे पूर्वोदिते मन्त्री मूर्ति संकल्प मूलतः ॥८२॥
तस्यामावाह्य देवेशं वासुदेवं प्रपूजयेत् ॥ अङानि पूर्वमभ्यर्च्य वासुदेवादिकास्ततः ॥८३॥
शांत्यादिशक्तयः पूज्याः प्राग्वाद्दिक्षु विदिक्षु च ॥ तृतीयावरणे पूज्याः प्रोक्ता द्वादश मूर्तयः ॥८४॥
इंद्राद्यानायुधैर्युक्तान् पूजयेद्धरणीगृहे ॥ एवमावरणैरिष्ट्रा पञ्चभिर्विष्णुमव्ययम् ॥८५॥
प्राप्नुयात्सकलार्थानन्ते विष्णुपदे व्रजेत् ॥ पुरुषोत्तमसंज्ञस्य विष्णोर्भेदचतुष्टयम् ॥८६॥
त्रैलोक्यमोहनस्तेषां प्रथमः परिकीर्तितः ॥ श्रीकरश्व त्दृषीकेशः कृष्णश्वात्र चतुर्थकः ॥८७॥
तारः कामो रमा पश्वान् ङेंतः स्यात्पुरुषोत्तमः वर्मास्त्राण्यग्रिप्रियांतो मन्त्रो वह्रीन्दुवर्णवान् ॥८८॥
ब्रह्मा मुनिः स्याद्धायत्री छन्दः प्रोक्तोऽथ देवता ॥ पुरुषोत्तमसंज्ञोऽत्र बीजशक्तिस्मरेदिरे ॥८९॥
भूचंद्रेसाक्ष्यक्षिमंत्रवर्णौर्विभागतः ॥ कृत्वांगानि ततो ध्यायेद्विधिवत्पुरुषोत्तमम् ॥९०॥
सदुद्यदादित्यनिभं शंख चक्रगढांबुजैः ॥ लसत्करं पीतवस्त्रं स्मरेच्छ्रीपुरुषोत्तमम् ॥९१॥
महारत्नौघखचितस्फुरतोरणमंडपे ॥ मौक्तिकौघशमदमविराजितवितानके ॥९२॥
नृत्यद्देवांगस्नावृंदक्कणात्किंकिणिनूपुरे ॥ लसन्स्माणिक्यवेद्यां तु दीप्तार्कायुततेजसि ॥९३॥
वृंदारकव्रातकिरीटाग्ररताहिचर्चिते ॥ नवलक्षं जपेन्मंत्रं जुहुयात्तद्दशांशतः ॥९४॥
उत्फुल्लैः कमलैः पीठे पूर्वोक्ते वैष्णवेऽर्चयेत‍ ॥ एवमाराध्य देवेशं प्राप्नोति महतीं श्रियम् ॥९५॥
पुत्राम्पौत्रान्यशः कांतिं भुक्तिं मुक्तिं च विंदति ॥ उत्तिष्ठेति पदं पश्वाच्छ्रीकराग्निप्रियांतिमः ॥९६॥
अष्टार्णोऽस्य मुनिर्व्यासः पंक्तिश्छंद उदाह्रतम् ॥ श्रीकाराख्यो हरिः प्रोक्तो देवता सकलेष्टदः ॥९७॥
भीषयद्वितयं त्दृत्स्यात  त्राससयद्वितयं शिरः शिखा प्रमर्द्दयद्वंद्वं वर्म प्रध्वंसयद्वयम् ॥९८॥
अस्त्रं रक्षद्वयं सर्वे हुमंताः समुदीरिताः ॥ मस्तके नेत्रयोः कंठ ह्रदये नाभिदेशके ॥९९॥
ऊरुजंघांघ्रियुग्मेषु मंत्रवर्णान्क्रमान्न्यसेत् ॥ ततःपुरुषसूक्तोक्तमंत्रैन्यार्सं समाचरेत् ॥१००॥
मुखे न्यसेद्धाह्यणोऽस्य मुखमासीदिमं मनुम् ॥ बाहुयुग्मे तथा बाहूराजन्य इति विन्यसेत् ॥१०१॥
उरु तदस्य यद्वैश्य इममूरुद्वये न्यसेत् ॥ न्यसेत्पादद्वये मंत्री पद्धयां शूद्रो अजायत् ॥१०२॥
चक्रं शैखं गदां पद्मं कराग्रेष्वथ विन्य सेत् ॥ एवं न्यासविधिं कृत्वा ध्यायेत्पूर्वोक्तमण्डपे ॥१०३॥
अरुणाब्जासनस्थस्य तार्क्ष्यस्योपरि संस्थितम् ॥ पूर्वोक्तरुपिणं देव श्रीकरं लोकमोहनम् ॥१०४॥
ध्यात्वैवं पूजयेदष्टलक्षं मंत्री दशांशतः ॥ रक्तांबुजैः समिद्धिश्व विल्वक्षीरिद्धुमोद्धवैः ॥१०५॥
पयोऽन्नैः सर्पिषा हुत्वां प्रत्येकं सुसमाहितः ॥ अश्वत्थोदुंबरप्लक्षवटाः क्षीरिद्रुमाः स्मृता ॥१०६॥
पूजर्यद्वैष्णवे पीठे मूर्ति संकल्प्य मूलतः ॥ अंगावरनदिक्पालहेतिभिः सहितं विभुम् ॥१०७॥
इत्थं सिद्धे मनौ मत्री प्रयोगान्पूर्ववच्चरेत् ॥ तारो ह्रद्धगवान् ङेतो वराहेति ततः परम् ॥१०८॥
रुपाय भूर्भुवः स्वः स्याल्लोहितकामिका च ये ॥ भूपतित्वं च मे देहि ददापय शुचिप्रिया ॥१०९॥
रामाग्निवर्णो मंत्रोऽयं भार्गवोऽस्य मुनिर्मतः ॥ छ्न्दोऽनुष्टुब्देवतादिवराहः समुदीरितः ॥११०॥
एकदंष्ट्राय ह्रदयं व्यामोल्काय शिरः ॥ स्मृतम् शिखा तेजोऽधिपतये विश्वरुपाय वर्म च ॥१११॥
महादंष्ट्राय चास्त्रं स्थात्पञ्चांगमिति कल्पयेत् ॥ अथवा गिरिषट्सप्तबाणौर्वसुभिरक्षरैः ॥११२॥
विभक्तैर्मंत्रवर्यस्य पञ्चागांनि प्रकल्पयेत् ॥ ततो ध्यायेदनेकार्कनिभमादिवराहकम् ॥११३॥
आं ह्रौं स्वर्णारधो नाभेः सितप्रभम् ॥ इष्टाभीतिगदाशंखचक्रशक्त्यासिखेटकान् ॥११४॥
दधतं च करैर्दंष्ट्राग्रलसद्धरणिं स्मरेत् ॥ एवं ध्यात्वां जपेल्लक्षं दशांशं सरसीरुहैः ॥११५॥
मध्वक्तैर्जुहयात्पीठे पूर्वोक्ते वैष्णवे यजेत्॥ मूलेन मूर्तिं सङ्कल्प्य तस्यां सम्पूजयोद्विभुम् ॥११६॥
अङावरणदिक्पालहेतियंत्रप्रसिद्धये ॥ जपादेवानिं दद्याद्धनं धान्यं महीं श्रियम् ॥११७॥
सिंहार्के सितपक्षस्याष्टम्यां गव्येषु पञ्चसु ॥ शिलां शुद्धां विनिक्षिप्य स्पृष्टा तामयुतं जपेत् ॥११८॥
उदङमुखस्तो मंत्री तां शिलां निखनेद्धुवि ॥ भूतप्रेताहिचौरादिकृतां बाधां निवारयेत् ॥११९॥
प्रातर्भृगुदिने साध्यभूतलान्मृदमाहरेत् ॥ मंत्रितां मूलमंत्रेण विभेजत्तां त्रिधा पुनः ॥१२०॥
चुल्ल्यामेकं समालिप्याप्यपरं पाकभाजने ॥ गोदुग्धे शोधितांस्तंदुलान् क्षिपेत् ॥१२१॥
सम्यक् शुद्धे शुचिः केशे जपन्मंत्रं पचेच्चरुम् ॥ अवतार्य चरुं पश्वाद्वह्रौ देयं यथाविधि ॥१२२॥
सम्पूज्य धूपदीपाद्यैः पश्वादाज्यप्लुतं चरुम् ॥ जुहुयात्संस्कृते वह्रौ अष्टोत्तरशतं सुधीः ॥१२३॥
एवं प्रजुहुयान्मंत्री कविवारेषु सप्तसु ॥ विरोधो नश्यति क्षेत्रे शत्रुचौंराद्युपद्रवाः ॥१२४॥
भानूदयेप्यारवारे साध्यक्षेत्रान्मृदं पुनः ॥ आदाय पूर्वविधिना हविरापाद्य पूर्ववत् ॥१२५॥
जुहुयादेधिते वहौं पूर्वसंख्याकमादरात् ॥ एवं स सप्तारवारेषु जुहुयात्क्षेत्रसिद्धये ॥१२६॥
जुहुयाल्लक्षसंख्याकं गव्यै श्चैव सपायसैः ॥ अभीष्टभूम्याधिपत्यं लभते नात्र संशयः ॥१२७॥
उद्यद्दोः परिघं दिव्यं सितदंष्ट्राग्रभूधरम् ॥ स्वर्णाभं पार्थिवे पीते मंडले सुसमाहितः ॥१२८॥
घ्यात्वाप्नोति महीं रम्यां वराहस्य प्रसादतः ॥ वारुणे मण्डले ध्यायेद्वाराहं हिमसन्निभम् ॥१२९॥
महोप द्रवशांतिः स्यात्साधकस्य न संशयः ॥ वश्यार्थं च सदा ध्यायेद्वह्रयाभं वह्रिमण्ले ॥१३०॥
ध्यायेदेवं रिपूच्चाटे कृष्णाभं वायुमण्डले ॥ ह्यमण्डलगतं स्वच्छं वाराहं सर्वसिद्धिदम् ॥१३१॥
शत्रुभूतग्रहक्ष्वेडामयपीडादिशांतये ॥ भग्वर्धीशयुतं व्योमबिंदुभूषिमस्तकम् ॥१३२॥
एकाक्षरो वराहस्य मन्त्रः कल्पद्रुमोऽपरः ॥ पूजाद्यर्घ्यादिकं सर्वमस्यां पूर्वोक्तवच्चरेत् ॥१३३॥
सवामकर्णानिद्रास्याद्वराहाय ह्रदंतिमः ॥ ताराद्यो वसुवर्णोऽयं सर्वैश्वर्यप्रदायकः ॥१३४॥
ब्रह्मा मुनिः स्याद्धायत्री छन्दो वाराहसंज्ञकः ॥ देवश्वंद्रेंद्वब्धिनेत्रैः सर्वेणांगक्रिया मता ॥१३५॥
ध्यानपूजाप्रयोगादि प्राग्वस्यापि कल्पयेत् ॥ प्रणवादौ च ङेतं च भगवतीति पदं ततः ॥ धरणिद्वितयं पश्वाद्द्धरेर्द्वयमुदीरयेत् ॥१३६॥
एकोनविंशत्यर्णाढ्यो मन्त्रो वह्रिप्रियांतिमः ॥ वराहोऽस्य मुनिश्छन्दो गायत्री निवृदादिका ॥१३७॥
देवता धरनी बीजं तारःशक्तिर्वसुसुप्रिया ॥ रामवेदाग्निबाणाक्षिनेत्रार्णैरंगकल्पनम् ॥१३८॥
श्यामां चित्रविभूषाढ्यां पद्मस्थां तुंगसुस्तनीम् ॥ नीलांबुजद्वयं शालिमंजरींच शुकं करैः ॥१३९॥
दधतीं चित्रवसनां धरां भगवतीं स्मरेत् ॥ एवं ध्यात्वा जपेल्लंक्ष दशांशं पायसेन तु ॥१४०॥
साज्येन जुहुयान्मन्त्री विष्णोः पीठे समर्चयेत् ॥मूर्ति संकल्प्य मूलेन तस्यां वसुमतीं यजेत् ॥१४१॥
अङानिं पूर्वमाराध्य भ्रूवह्रिजलमारुतान् ॥ दिक्पात्रेषुच सम्पूज्य कोणपुत्रेषु ॥१४२॥
निवृत्तिश्व प्रतिष्ठा च विद्यानां तैश्व तत्कलाः ॥ इंद्रद्यानपि वज्रादीन्पूजयेत्तदनंतरम् ॥१४३॥
मनौ मंत्री साधये दिष्टमात्मनः ॥ धरणीं प्रभजन्नेवं पशुरत्नंबरादिभिः ॥१४४॥
धरण्या वल्लभः स स्यात्सुखी जीवेच्छतं लाक्यमोहनो मंत्रो जगन्नाथस्य कीर्त्यंते ॥१४५॥
तारः कामो रमा बीजं ह्रदंते पुरुषोत्तमः ॥ श्रीकंठः प्रतिरुपांते लक्ष्मीति च निवासि च ॥१४६॥
सकलांते जगत्पश्वात्क्षोभणोति पदं वदेत् ॥ सर्वस्त्रीह्रदयांते तु विदारणपदं वदेत् ॥१४७॥
ततस्त्रिभुवनांत तु मदोन्मादकरेति च ॥ सुरासुरांते मनुजसुंदरीजनवर्णतः ॥१४८॥
मनांसि तापद्वंदं दीपयद्वितयं ततः ॥ शोषयद्वितयं पश्वान्मारयद्वितयं ततः ॥१४९॥
स्तंभयद्वितयं भूयो मोअयद्वितय ततः ॥ द्रावय़द्वितयं तावदाकर्णययुगं ततः ॥१५०॥
समस्तपरमो येन सुभगेन च संयुतम् ॥ सर्वसौभाग्यशब्दांते करसर्वपदं वदेत् ॥१५१॥
कामप्र्दादमुन्ब्रह्मा सेंदुर्हनुयुगं ततः ॥ चक्रेण गदया पश्वात्खङेन तदनंतरम् ॥१५२॥
सर्वबाणैर्भेयुगं पाशेनांते कटद्वयम् ॥ अंकुशेनेति संप्रोच्य ताडय द्वितयं पुनः ॥१५३॥
कुरुशब्दद्वयमथो किं तिष्ठसि पदं वदेत् ॥ तावद्यावत्पदस्यांते समाहितमनतरम् ॥ ततो मेम सिद्धिराभास्य भवमन्ते च वर्म फटू ॥१५४॥
ह्रदंतोऽयं महामंत्रो द्विशतार्णः समीरितः ॥ जैमिनिर्सुनिरस्योक्तश्र्छंदश्वामितमीरितम् ॥१५५॥
देवता जगतां मोहे जगन्नाथः प्रकीर्तितः ॥ कामो बीजं रमा शक्तिर्विनियोगोऽखिलाप्तये ॥१५६॥
पुरुषोत्तमत्रिभुवनोन्मादकांतेऽग्निवर्म च ॥ ह्रदयं कीर्तितं पश्वाज्ज्गत्क्षोभणशब्दतः ॥१५७॥
लक्ष्मीदयितवर्मान्तः शिरः प्रोक्तं शिखा पुनः ॥ मन्मथो तमशब्दांते मंगजे पदमीरयेत ॥१५८॥
कामदायेति हुं प्रोच्य न्यसेद्वम ततः परम् ॥ परमांते भृगुकर्णाभ्यां च सर्वपदं ततः ॥१५९॥
सौभाग्यकरवर्मांते कवचं परिकीर्तितम् ॥ सुरासुरांते मनुजसुंदरीति पदं वदेत् ॥१६०॥
ह्रदयांते विदा पश्वाद्रणसर्वपदं वदेत् ॥ ततः प्रहरणधरसर्वकामुकतत्पदम् ॥१६१॥
हनयुग्मं च ह्रदयं बंध नानि ततो वदेत् ॥ आकर्षयद्वयं पश्वान्महाबलपदं ततः ॥१६२॥
वर्म चास्त्रं समाख्यातं नेत्रं स्यात्तदनंतरम् ॥ वदेत्रिभुवनं पश्वाच्चर सर्वजनेति च ॥१६३॥
मनांसि हरयुग्मांते दारद्वितयं च मे ॥ वशमानय वर्मांते नेत्रमंत्रः समीरितः ॥१६४॥
षडंगमंत्रास्ताराद्याः फटूनमोंताः प्रकीर्तिताः ॥ तारस्त्रैलोक्यशब्दांते मोहनेति पदं वदेत् ॥१६५॥
ह्रषीकेशेति संप्रोच्याप्रतिरुपादिशब्दतः ॥ मन्मथानंतंरं सर्वश्त्रीणां ह्रदयामीरयेत ॥१६६॥
आकर्षणपदा गच्छदागच्छह्रदयांतिम् ॥अनेन व्यापकं कृत्वा जगन्नाथं स्मरेत् सुधीः ॥१६७॥
क्षीराब्धेस्तु तटे रम्यं सुरद्रुमलतांचितम् ॥ उद्यदर्काभुजालाभं स्वधाम्रोज्वालदिङ्‌मुखम् ॥१६८॥
प्रसूनावलिसौरभ्यमाद्यन्मधुकरारवम् ॥ दिव्यवातोच्चलत्कंजपरागोद्धूलितांबरम् ॥१६९॥
स्वर्वधूगीतमाधुर्याभिराम् चिंतयेद्वनम् ॥ तदंतर्मणिसम्पतिस्फुरत्तोरणंमण्डपे ॥१७०॥
विलसन्मौक्तिदोद्दामदामराजद्वितानके ॥ मणिवेद्यादि वियत्किरीटाग्रसमर्चिते ॥१७१॥
दिव्यसिंहासने विप्र समासीनं स्मरेद्विभुम् ॥ शंखपाशेषु चापानि मुसलं नंदकं गदाम् ॥१७२॥
अंकुशं दधतं दोर्भिः श्लिष्टे कमलयोरसि ॥ पश्यत्यंकस्थयांभोजश्रिया रागोल्लसद्दशा ॥१७३॥
ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः ॥ कुंडेऽर्द्धचंद्रे पद्मैर्वा जातिपुष्पपैश्व होमयेत् ॥१७४॥
याहभूर्मिं तथात्मानं यागोपकरणं तथा ॥ पूजयिष्यन् जगन्नाथ्ण गायत्र्या प्रोक्षयेद्ध्दः ॥१७५॥
त्रैलोक्यमोहनायांते विद्महे पदमीरयेत ॥ स्मराय धीमहीत्युक्ता तन्नो विष्णुः प्रचोदयात् ॥१७६॥
गायत्र्येषा समाख्याताअ सर्वशुद्धिकरी परा ॥ कल्पयेदासंन पीठे पूर्वोक्ते वैष्णवे सुधीः ॥१७७॥
पक्षिराजाय ठद्वंद्वं पीठमंत्रोऽयमीरितः ॥ मूर्तिं संकल्पमूलेन तस्यामावाहयेदतः ॥१७८॥
व्यापक न्यासंमत्रेण ततः सम्पूज्य भक्तितः ॥ श्रीवत्सह्रदयं तेन श्रीवत्सं रतनयोर्यजेत् ॥१७९॥
कौस्तुभाय ह्रदंतेन यजेद्वक्षसि कौस्तुभम् ॥ पूजयेद्वनमा लायै ह्रदंतेन गले च लाभ् ॥१८०॥
कर्णिकायां ततोऽभ्यर्च्येद्विधिवच्चांगदेवताः ॥ दलेषु पूजयेत्पश्वल्लक्ष्म्याद्यावृत चामराः ॥१८१॥
बन्धूककुसु माभासाःमुक्ताहारलसत्कुचाः ॥ उत्फुल्लांभोजनयनां मदविभ्रममंथराः ॥१८२॥
लक्ष्मी सरस्वती चैव धृतिः प्रीतिस्ततः परम् ॥ कांतिः शांतिस्तु ष्टिपुष्टिबीजाद्या ङेनमोंतिकाः ॥१८३॥
भृगुः खङ्राशचन्द्राढ्यो देव्या बीजमुदाह्रतम् ॥ ह्रस्वत्रयक्लीबसर्वरहितस्वरसंयुतम् ॥१८४॥
देव्या बीजं क्रमादासामादौ च विनियोजयेत् ॥ दलाग्रेषु यजेच्छंखं शार्ङः चक्रमसिं गदाम् ॥१८५॥
अंकुशं मुसलं पाशं स्वमुद्रामनुभिः पृथक् ॥ महाजलचरा यांते वर्मास्त्रं वह्रिवल्लभा ॥१८६॥
पांचजन्या प्रताराद्यो नमोंतः शंखपूजने ॥ शार्ङाय सशयांते च वर्मास्त्रं वह्रिवल्लभा ॥१८७॥
शार्ङाय त्दृदयं मन्त्रो महाद्यः शार्ङपूजने ॥ सदर्शनमहांते तु चक्रराजपदं वदेत् ॥१८८॥
हययुग्मं सर्वदुष्टभयमन्ते कुरुद्वयम् ॥ छिंधिद्वयं ततः पश्वाद्विदारययुगं ततः ॥१८९॥
परमन्त्रान् ग्रसद्वन्द्वं भक्षद्वितयं पुनः ॥ भूतानि त्रासयद्वंद्वं वर्मफड्‍वह्रिसुंदरी ॥१९०॥
सुदर्शनाय त्दृदयं प्रोक्तश्वक्रार्चने मनुः ॥ महाखङुतीक्ष्णपदाच्छिवियुग्मं समीरयेत् ॥१९१॥
हुं फटू स्वाहा च खङाय नमः खङार्चने मनुः ॥ महाकौमोदकीत्यन्ते वदेच्चैव महाबले ॥१९२॥
सर्वासुरांतके पश्वात्प्रसीदयुगलेति च ॥ वर्मास्त्रवह्रिजाजांतकौमोदकि त्दृतिमः ॥१९३॥
कौमोदक्यर्चने प्रोक्तो मन्त्रः सर्वार्थसाधकः ॥ महांकुशपदात्कुट्टयुग्मं हुंफट्वसुप्रिथा ॥१९४॥
अंकुशाय नमः प्रोक्तो मन्त्रकुर्वने ॥ संवर्तकमहांते तु मुसलेति पदं वदेत् ॥१९५॥
योधयद्वितयं वर्म फडंते वह्रिसुंदरी ॥ मुसलाय नमः प्रोक्तो मन्त्रो मुसलपूजने ॥१९६॥
महापीरा यमाकर्षद्वयम् ॥ हुं फटू स्वाहा च पाशाय नमः पाशार्चने मनुः ॥१९७॥
ताराद्या मनवो ह्येते ततः शक्रादिकान्यजेत् ॥१९८॥
वज्राद्यानपि संपूज्य सर्वसिद्धीश्वरो भवेत् ॥ मासमात्रं तु कुसुमैः पूजयित्वा हयारिजैः ॥१९९॥
कुसुदैर्वा प्रजुहुयादष्टोत्तरसहस्त्रकम् ॥ मासमात्रेण वश्यास्स्युस्तस्य सर्वे नृपोत्तमाः ॥२००॥
यस्य नाम युतं मंत्रं जपेदयुतसंख्यया ॥ स भवेद्दासवत्सद्यो मंत्रस्यास्य प्रभावतः ॥२०१॥
बहुना किमिहोक्तेन मनुनानेन साधकः ॥ साधयेत्सकलान्कामान्विष्णुतुल्यो न संशयः ॥२०२॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहपाख्याने तृतीयपादे सप्ततितमोऽध्यायः ॥७०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:45:48.8070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

depresed

  • = underdog 
RANDOM WORD

Did you know?

जपाची संख्या १०८ का ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.