संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
अष्टष्टितमोऽध्यायः

श्री नारदीयमहापुराणम् - अष्टष्टितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


श्रीसनत्कुमार उवाच ॥
अथ वक्ष्ये गणेशस्य मंत्रान्सर्वेष्टदायकान् ॥ यान्समाराध्य विप्रेद्र साधको भुक्तिमुक्तिमान् ॥१॥
अव्ययो विष्णुवनिता शंभुस्त्री मीनकेतनः ॥ स्मृतिर्मांसुदुमन्वाढ्या सा पुनश्वंद्रशेखरा ॥२॥
डेतो गणपतिस्योतं भुजंगो वरदेति च ॥ सर्वांते जनमुच्चार्य ततो मे वशमानय ॥३॥
वह्रिःप्रियांतो मंत्रोऽयमष्टाशिंतिवर्णवान् ॥ गणकोऽस्य मुनिश्र्छंदो गायत्री निधृदादिका ॥४॥
गणेशो देवता बीजं षष्ठशक्तिस्तदादिका ॥ श्रीमन्महागणपतिप्रीतये विनियोगकः ॥५॥
ऋषिं शिरसि वक्रे तु छन्दश्व त्दृदि देवताम् ॥ गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः ॥६॥
षड्‌दीर्घाढ्येन बीजेन यं च बीजादिना पुनः ॥ षडं‌गानि न्यसेदस्य जातियुक्तानि मंतवित् ॥७॥
शैवी षडंगमुद्रात्र न्यस्तव्या हि षडंगमुद्रात्र न्यस्तव्या हि षडंगके ॥ गामाद्यं चैव भूर्लोकं नाभ्यंतं पादयोर्न्यसेत् ॥८॥
गीमाद्यं च भुवर्लोकं कंठांत नाभितो न्यसेत् ॥ स्वर्लोकं चैव गूमाद्यं कंठादिमस्तकावधि ॥९॥
व्यापकं मूलमन्त्रेण न्यासोऽयं भुवनभिधः ॥ मूलमंत्र समुचार्य मातृकावर्णमीरयेत् ॥१०॥
तदंतेऽपि च मूलं स्यान्नमोंऽतं मातृकास्थले ॥ क्षांतं विन्यस्य मूलेन व्यापकं रचयेत्सुधीः ॥११॥
वर्नन्या सोऽपमाख्यांत पदन्यासस्तथोच्यते ॥ पञ्चत्रिबाणवह्रींदुचंद्राक्षिनिगमैः क्रमात् ॥१२॥
विभक्तैर्मूलगायत्र्या त्दृअदंतैरष्टभिः पदैः ॥ भालदेशे मुखे कण्ठे त्दृदि नाभपूरुजानुषु ॥१३॥
पादयोश्वैव विन्यस्य मूलेन व्यापकं चरेत् ॥ वदेत्तत्पुरुषायांते विद्महेति पदं ततः ॥१४॥
वक्रतुंडाय शब्दांते धीमहीति समीरयेत ॥ तन्नो दंतिः प्रचोवर्णा दयादिति वदेत्पुनः ॥१५॥
एषोक्ता मूलगायत्री सर्वसिद्धिप्रदायिनी ॥ एवं न्यासविधिं कृत्वा ध्याये देवं ह्रदंबुजे ॥१६॥
उद्यन्मार्तण्डसदृशं लोकस्थित्यंकारणम् ॥ सशक्तिकं भूषितांग दंतचक्राद्युदायुधम् ॥१७॥
एवं ध्यात्वा चतुश्वत्वारिंशत्सा हस्त्रसंयुतम् ॥ चतुर्लक्षं जपेन्मंत्रं अष्टद्रव्यैर्दशांशतः ॥१८॥
जुहुयाद्विधिवन्मंत्री संस्कृते हव्यवाहने ॥ इक्षवः सक्तवो मोचाफलानि चिपिटास्तिलाः ॥१९॥
मोदका नारिकेलानि लाजा द्रव्याष्टकं स्मृतम् ॥ पीठमाधारशक्तयदिपरतत्वांतमर्चयेत् ॥२०॥
षट्कोणांतस्त्रिकोणं च बहिरष्टदलं लिखेत् ॥ भूपुरं तद्वहिः कृत्वा गणेशं तत्र पूजयेत् ॥२१॥
तीव्राख्या ज्वालिनी नंदा भोगदा कामरुपिणी ॥ उग्रा तेजोवती सत्यां नवमी विघ्ननाशिनी ॥२२॥
सर्वादिशाक्तिकमलासनाय ह्रदयांतिकः ॥ पीठमंत्रोऽयमेतेन दद्यादासनमुत्तमम् ॥२३॥
तत्रावाह्य गणाधीशं मध्ये सम्पूज्य यत्नतः ॥ त्रिकोणबाह्ये पूर्वादितचतुर्दिक्ष्वर्चयेत्क्रमात ॥२४॥
श्रियं श्रियः पतिं चैव गौरीं गौरी पतिं तथा ॥ रतिं रतिपतिं पश्वा महापूर्व ॥२५॥
क्रमादिल्ववटाश्वत्थप्रियगोनामधोऽर्चयेत् ॥ रमा पद्मद्वयकरा शंखचक्रधरो हरिः ॥२६॥
गौरी पाशांकुशधरा टंकशूलधरो हरः ॥ रतिः पद्मकरा पुष्पबाणचापधरः स्मरः ॥२७॥
शूकव्रीह्यग्रहस्ता भूः पोत्री चक्रगदाधरः ॥ देवाग्रे पूजयेल्लक्ष्मीसहितं तु विनायकम् ॥२८॥
पूजयेत्षट्रसु कोणेषु ह्यामोदाद्यान्प्रियुतान् ॥ आमोदं सिद्धिसंयुक्तमग्रतः परिपूजयेत् ॥२९॥
प्रमोदं वाग्निकोणे तु समृद्धिसहितं यजेत् ॥ ईशकोणे यजेकीर्तिसंयुतं सुमुखं तथा ॥३०॥
वारुणे मदनावत्या संयुतं दुर्मुखं यजेत् ॥ यजेन्नैऋत्यकोणे तु विघ्नं मदम्द्रवायुतम् ॥३१॥
द्राविण्या विघ्रकर्तारं वायुकोणे समर्चयेत् ॥ पाशाकुशाभयकरांस्तरुणार्कसमप्रभान् ॥३२॥
कपोलविगलद्दानगंधलिब्धा लिशोभितान् ॥ षट्कोणोभयपार्श्वे तु शंखपद्मनिभौ क्रमात् ॥३३॥
सहितौ निजशक्तिभ्यां ध्यात्वा पूर्ववदर्चयेत् ॥ केशरेषु षडंगानि पत्रेष्वष्टौ तु मातरः ॥३४॥
इन्द्राद्यानपि वज्ज्रदीन्पूजयेद्धरणीगृहे ॥ एवमाराघ्य विघ्नेशं साधयेत्स्वमनोरथान् ॥३५॥
चतुश्वत्वारिंशताढ्यं चतुःशतमतंद्रितः॥ तर्पयेदंबुभिः शुद्धैर्गजास्यं दिनशः सुधीः ॥३६॥
पद्मैस्तु वशयेद्धूपांस्तत्पत्नीश्वोत्पलैस्त्था ॥ कुसुदैर्मंत्रिणोऽश्वत्थसमिद्धिर्वाडवाञ्शुभैः ॥३७॥
उदुंम्बरोत्थैर्नृपतीन्वैश्या न्प्लसमुद्धवैः ॥ वटोद्धवैः समिद्धिश्व वशयेदंतिमान्बुधः ॥३८॥
आज्येन श्रियमाप्नोति स्वर्णाप्तिर्मधुना भवेत् ॥ गोदुग्धेन गवां लाभो दघ्ना सर्वसमृद्धिमान् ॥३९॥
अन्नाप्तिरन्नहोमेन समिद्धिर्वेतसां जलम् ॥ वासांसि लभते हुत्वा कुसुंभकुसुमैः शुभैः ॥४०॥
अथ सर्वेष्टदं वक्ष्ये चतुरावृत्तितर्पणम् ॥ मूलेनादौ चतुर्वारं प्रत्येकं च प्रतर्यत् ॥४१॥
पूर्वमंत्राक्षरैर्मंत्रैः स्वाहंतैश्व चतुश्वतुः ॥ मूलमंत्रैशतुर्वारपूर्वकं संप्रतर्प्य च ॥४२॥
मिथु नादींस्ततः पश्वात्पूर्ववत्संप्रतर्पयते ॥ देवेन सहितां शक्तिं शक्त्या च सहितं तु तम् ॥४३॥
एवंच षड्‌विंशतिधा मिथुनानि भवंति हि ॥ स्वनामा द्यर्णबीजानि तानि सन्तर्पयेत्क्रमात् ॥४४॥
भवेत्संभूय सचतुश्ववारिंशच्चतुः शतम् ॥ एवं संतप्य तत्पश्वात्पूर्ववत्सोपचारकैः ॥४५॥
सर्वाभीष्टं च संप्रार्थ्य प्रणम्योद्धासयेत्सुधीः ॥ भाद्रकृष्णचतुर्थ्यादिप्रतिमासमतंद्रितः ॥४६॥
आरभ्यार्कोदयं मंत्री यावच्चंद्रोदयो भवेत् ॥ तावन्नोपविशेद्धूमौ जितवाहिस्थरमानसः ॥४७॥
तत्तश्वंद्रोदये मन्त्री पूजयेद्धणनायकम् ॥ पूर्वोक्तविधिना सम्यङुनापुष्पोपहारकैः ॥४८॥
एकविंशतिसंख्या कान्मोदकांश्व निवेदयेत् ॥ तदग्रे प्रजपेन्समन्त्रमष्टोत्तरसहस्त्रकम् ॥४९॥
ततः कर्पूरकाश्मीरक्तपुष्पैः सचन्द्ननैः ॥ अर्घ्यं दद्यात्तु मूलांते डेते गणपतिं ततः ॥५०॥
इदमध्ये कल्पयामि ह्रदंतोऽर्घ्यंमनुर्मतः ॥ स्तुत्वा नत्वा विसृज्याथ यजेच्चंद्रमसं पुनः ॥५१॥
अर्घ्यं दद्याच्चतुर्वारं पूजयित्वा गुरुं त्ततः ॥ निबेदितेषु विप्राय दद्यादर्थांश्व मोदकान् ॥५२॥
स्वयंमर्धान्प्रभुंजीत् ब्रह्मचारी जितेंदियः ॥ एवं व्रतं यः कुरुते सम्यक्सं वत्सरावधि ॥५३॥
पुत्रान्पौत्रान्सुख वित्तमारोग्यं लभते नरः । सूर्योदयादशक्तश्वेदस्तमारभ्य मंत्रवित् ॥५४॥
चद्रोदयांत्म पूर्वोक्तविधिना व्रत माचरेत ॥ एवं कृतेऽपि पूर्वोक्त फलमाप्नोति निश्वितम् ॥५५॥
गणिशप्रतिमां दंतिदंतेन कपिनापि वा ॥ गजभगेन तिबेन सितार्कणाथवा पुनः ॥५६॥
कृत्वा तस्यां समावाह्य प्राणस्थापनपूर्वकम् ॥ अभ्यर्च्यं विधिवन्मन्त्री राहुग्रस्ते निशाकरे ॥५७॥
स्पृष्टा चैव निराहारस्तां शिखायां स्मुद्वहन् ॥ द्यूते विवादे समरे व्यवहारे जयं लभेत् ॥५८॥
बीजं वराहो बिंद्वाढ्यौ मन्विंद्वान्नौ कलौ ततः ॥ स्मृतिर्मांसेंदुमन्वाग्रा कर्णोच्छिष्टगणे वदेत ॥५९॥
बकःसदीर्घपवनो महायक्षाय यं बलिः ॥ बलिमंत्रोऽयमाख्यातो न चेद्वर्णोऽखिलेष्टदः ॥६०॥
प्रणवो भुवनेशानीस्वबीजांते नवार्णकेः ॥ हस्तीति च पिशा चीति लिखच्चैवाग्निसुंदरी ॥६१॥
नवार्णोऽस्य समुद्दिष्तो भजतां सर्वसिद्धदः ॥ पदैः सर्वेण मंत्रेण पञ्चांगानि प्रकल्पयेत् ॥६२॥
अन्यत्सर्वं समानं स्यात्पूर्वमंत्रेण नारद ॥ अथाभिधास्ये विधिवद्वक्रतुंडमनुत्तमम् ॥६३॥
तोयं विधिर्वह्रियुक्तकर्णेंद्वाढ्यो हरिस्तथा ॥ सदीर्घो दारको वायुर्वर्मांतोऽयं रसार्णकः ॥६४॥
भार्गवोऽस्य मुनिच्छन्दोऽनुष्टुब्देवो गणाधिपः ॥ वक्रतुण्डाभिधो बीजं वं शक्तिः कवचं पुनः ॥६५॥
तारत्दृन्मध्यगै र्मंत्रवर्णैश्वंद्राविभूषितैः ॥ कृत्वा षडंगमन्त्राणां न्भूमध्ये च गले त्दृदि ॥६६॥
नाभौ लिंगे पदे न्यस्याखिलेन व्यापकं चरेत् ॥ उद्यदर्कद्युतिं हस्तैः पाशांक्कुश वराभयान् ॥६७॥
दधतं गजवक्रं च रक्तभूषाबरं भजेत् ॥ ध्यात्वैवं प्रजेपेत्तर्कलक्षं द्रव्यैर्दशांशतः ॥६८॥
यजेद्विद्यां विधात्रीं च भोगदां विप्रर्चयेत् ॥ मूर्तिं मूर्तेन संकल्प्य तस्यामावाह्य पूजयेत् ॥६९॥
षट्कोणेषु षडंगानि पत्रेष्वष्टौ तु शक्तयः ॥ यजेद्विद्यां विधात्रीं च भोगदां विप्रघातिनीम् ॥७०॥
निधिप्रदीपां पापघ्नीं पुण्यां पश्वाच्छशिप्रभाम् ॥ दलाग्रेषु वक्रतुडं एकदंष्ट्रमहोदरौ ॥७१॥
गजास्यलंबोदरकौ विकटौ विघ्न राट् तथा ॥ धूम्रवर्णस्ततो बाह्ये लोकेशान्हेतिसंयुतान् ॥७२॥
एवमावरणैरिष्ट्रा पञ्चभिर्गनायकम् ॥ साधंयेदखिलान्कामान्वक्रतुंडंप्रसादतः ॥७३॥
लब्ध्वो गुरुमुखान्मंत्रं दीक्षासंस्कारपूर्वकम् ॥ ब्रह्मचारी हविष्याशी सत्यवाक् च जितेंद्रियः ॥७४॥
जपेदर्कसहस्त्रं तु षण्मासं होमसंयुतम् ॥ दारिघ्रं तु पराभूय जायते धनदोपम् ॥७५॥
चतुथ्यादि चतुर्थ्यंत जपेदयुतमादरात् ॥ अष्टोत्तरशतं नित्यं हुत्वा प्राग्वत्फलं लभेत् ॥७६॥
पक्षयोरुभयोर्मंत्री चतुर्थ्यां जुहुयाच्छतम् ॥ अपूपैर्वत्सरे स स्यात्समृद्धेः परमं पदम् ॥७७॥
अङारकचतुर्थ्यां तु देवमिष्ट्रा विधानतः ॥ हविषा पार्‍यासान्नेन नैवेद्यं परिकल्पयेत् ॥७८॥
ततो गुरुं स्मभ्यंर्च्य भोजयेद्विधिवत्सुधीः ॥ निवे दितेन जुहुयात्सहस्त्रं विधिवद्वसौ ॥७९॥
एवं संवत्सरं कृत्वा महतीं श्रियमाप्नुयात् ॥ अयान्यत्साध तं वक्ष्ये लोकानां हितकाम्यया ॥८०॥
इष्टा गणेशं पृथुकैः पायसापूपमोदकः ॥ नानाफलैस्ततो मंत्री हरिद्रामथ सैन्धवम् ॥८१॥
वचां निष्कार्द्धभागं व तदर्द्धं वा मनुं जपेत् ॥ विशोध्य चूर्णं प्रसृतौ गवां मूत्रे विनिक्षिपेत् ॥८२॥
सहस्त्रकृत्वो मनुना मंत्रयित्वा प्रयत्नतः ॥ स्नातामृतुदिने शुद्धां शुल्कांबरधरां शुभाम् ॥८३॥
देवस्य पुरतः स्थाप्य पाययेदौषधं सुधीः सर्वलक्षणसंपन्नं वंध्यापि लभते सुतम् ॥८४॥
अथान्यत्संप्रवक्ष्यामि रहस्यं परमाद्धुतम् ॥ गोचर्ममात्रां धरणीमुपलिप्य प्रयत्नतः ॥८५॥
विकीर्य धान्यप्रकरैस्तक संस्थापयेद्धटम् ॥ शुद्धोदकेन संपूर्य तस्योपरि निधापयेत् ॥८६॥
कपिलाज्येन संपूर्णं शरावं नूतनं शुभम् ॥ षडष्टाक्षरमंत्राभ्यां दीप मारोपयेच्छुभम् ॥८७॥
दीपे देवं समावाह्य गंधपुष्पादिभिर्यजेत् ॥ स्नातां कुमारीमथवा कुमारं पूजयेत्सुधीः ॥८८॥
दीपस्य पुरतः स्थाप्य ध्यात्वा देवं जपेन्मनुम् ॥ प्रदीषे स्थापिते पश्येद्दिजरुपं गणेश्वराम् ॥८९॥
पृष्टस्ततः संपदि वा नष्टं चैवाप्यनागतम् ॥ सकलं प्रवदेदेवं कुमारी वा कुमारकः ॥९०॥
षडक्षरो ह्रदंतश्वेद्द्धवेदष्टाक्षरो मनुः ॥ अन्येऽपि मंत्रा देवर्षे सन्ति तंत्रे गणेशितुः ॥९१॥
किंत्वत्र यन्न साध्यं स्यात्रिषु लोकेषु साधकैः ॥ अष्टविंशरसार्णाभ्यां तन्न पश्येदपि क्कचित् ॥९२॥
एतद्धणेशमंत्राणां विधानं ते मयोदितम् ॥ शठेभ्यः परशिष्य्भ्यो वंचकेभ्योऽपि मा वद ॥९३॥
एवं यो भजते देवं गणेशसर्वसिद्धिदम् ॥ प्राप्येह सकलान्भोगानिते मुक्तिपदं व्रजेत् ॥९४॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहपादुपाख्याने तृतीयपादे गणेशमन्त्रविधाननिरुपणं नामाष्टष्टितमोऽध्यायः ॥६८॥

N/A

References : N/A
Last Updated : June 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP