TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
पंचत्रिशोंऽध्यायः

श्री नारदीयमहापुराणम् - पंचत्रिशोंऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


पंचत्रिशोंऽध्यायः

सनक उवाच ॥

पुनर्वक्ष्यामि महात्मयं देवदेवस्य चक्रिणः ॥ पठतां शुण्वतां सद्यः पापराशिः प्रणश्यति ॥

शांता जितरिषडर्गा योगेनाप्यनहंकृताः ॥ यजंति ज्ञानयोगेन ज्ञानरुपिणमव्ययम ॥२॥

तीर्थस्नानैर्विशुद्धा ये व्रतदानतपोमखैः ॥ यजंति कर्मयोगेन सर्वधारमचुतम् ‍ ॥३॥

लुब्धा व्यसनिनोऽज्ञाश्र्च न यजंति जगत्पतिम् ॥ अजरामरवन्मूढस्तिष्ठंति नरकीटकाः ॥४॥

तडिल्लेखाश्रिया मत्ता वृथाहंकारदूषिताः ॥ न यजंति जगन्नाथं सर्वश्रेयोविधायकम् ॥५॥

हरिधर्मरताः शांता हरिपादाब्जसेवकाः ॥ दैवात्केऽपीह जायंते लोकानुग्रहतत्पराः ॥६॥

कर्मणा मनसा वाचा यो यजेद्भक्तितो हरिम् ॥ स याति परमं स्थानं सर्वलोकोत्तमोत्तमम् ॥७॥

अत्रैवोदहरंतीममितिहासं पुरातनम् ॥ पठतां श्रृण्वतां चैव सर्वपापप्रणाशनम् ॥८॥

तत्प्रवक्ष्यामि चरितं यज्ञमालिसुमालिनोः ॥ यस्य श्रवणमात्रेण वाजिमेध फलं लभेत् ॥९॥

कश्र्चिदासीत्पुरा विप्र ब्राह्मणो रैवतेंऽतरे ॥ वेदमालिरिति ख्यातो वेदवेदांगपारगः ॥१०

सर्वभूतदयायुक्तो हरिपूजापरायणाः॥ पुत्रमित्रकलात्रार्थं धनार्जनपरोऽभवत् ॥११

अपण्यविक्रयं चके्र तथा च रसविक्रयम् ॥चंडालाद्यैरपि तथा संभाषी तत्प्रतिग्रही ॥२॥

तपसां विक्रयं चक्रे व्रतानां विक्रयं तथा ॥ परार्थं तीर्थगमनं कलत्रार्थमकारयत् ॥३॥

कालेन गच्छता विप्र जातौ तस्य सुतावृभौ ॥ यज्ञमाली सुमाली च यमलावतिशोभनौ ॥४॥

ततः पिता कुमारौ तावतिस्नेहसमन्वितः॥ पोषयामास वात्सल्याद्बहुभिः साधनैस्तदा ॥५॥

वेदमालिर्बहूपायैर्धनं संपाद्य यत्नतः ॥ स्वधनं गणयामास कियत्स्यादिति वेदितुम् ॥६॥

निधिकोटि सहस्राणां कोटिकोटिगुणान्वितम् ॥ विगणय्य स्वयं त्दृष्टो विस्मितश्र्चार्थचिंतया ॥७॥

असत्प्रतिग्रहैश्र्चैव अपण्यानां च विक्रयैः ॥ मया तपोविक्रयोद्यैरेतद्धनमुपार्जितम ॥८॥

नाद्यापि शांतिमापन्ना मम तृष्णातिदुःसहा ॥ मेरुतुल्यसुवर्णानि ह्यसंख्यातानि वांछति ॥९॥

अहो मन्ये महाकष्टं समस्तक्लेशसाधनम् ॥ सर्वान्कामानवाप्नोति पुनरन्यच्च कांक्षति ॥२

जीर्यंति जीर्यतः केशाः दंता जीर्यंति जीर्यतः ॥ चक्षुःश्रोत्रे च जीर्र्येते तृष्णैका तरुणायते ॥२

ममेंद्रियाणि सर्वाणि मंदभावं व्रजंति च ॥ बलं हतं च जरसा तृष्ण तरुणतां गता ॥२२॥

कष्टाशा वर्त्तते यस्य स विद्वानथ पंडितः॥ सुशांतोऽपि प्रमन्युः स्याद्धीमानष्यतिमूढधीः॥२३॥

आशा भंगकरी पुंसामजेयारातिसन्निभा ॥ तस्मादाशां त्यजेतप्राज्ञो यदीच्छेच्छाश्र्वतं सुखम् ॥२४॥

बलं तेजो यशश्र्चैव विद्यां मानं च वृद्धताम् ॥ तथैव सत्कुले जन्म आशा हंत्यतिवेगतः ॥२५॥

नृणामाशाभिभूतानामाश्र्चर्यमिदमुच्यते ॥ किंचिद्दातापि चांडालस्तस्मादधिकतां गतः ॥२६॥

आशाभिभूता ये मर्त्या महामोहा महोद्धताः॥ अवमानादिकं दुःखं न जानंति कदाप्यहो ॥२७॥

मयाप्येवं बहुक्लेशैरेतद्धनमुपार्जितम् ॥ शरीरमपि जीर्णं च जरसापहतं बलम् ॥२८॥

इतःपरं यतिष्यामि परलोकार्थमादरात् ॥ एवं निश्र्चित्य विप्रेंद्र धर्ममार्ग रतोऽभवत् ॥२९॥

तदैव तद्धनं सर्वं चतुर्द्धा व्यभजत्तथा ॥ स्वयं तु भागद्वितय स्वार्जितार्थादपाहरत् ॥३

शेषं च भागद्वितयं पुत्रयोरुभयोर्ददौ ॥ स्वेनार्जितानां पापानां नाशं कर्तुमनास्तदा ॥३

प्रपातडागारामांश्र्चतथा देवगृहान्बहून् ॥ अन्नादीनां च दानानि गंगातीरे चकार सः॥३२॥

एवं धनमशेषं च विश्राण्य हरिभक्तिमान् ॥ नरनारायण स्थानं जगाम तपसे वनम्॥३३॥

तत्रापश्यन्महारम्यमाश्रमं मुनिसेवितम् ॥ फलितैः पुष्पितैश्र्चैव शोभितं वृक्षसंचयैः॥३४॥

गृणद्भिः परमं ब्रह्म शास्त्रचिंतापरैस्तथा ॥ परिचर्यापरैर्वृद्धैर्मुनिभिः परिशोभितम् ॥३५॥

शिष्यैः परिवृतं तत्र मुनिं जानंति संज्ञ कम् ॥ गृणंतं परमं ब्रह्म तेजोराशि ददर्श ह ॥३६॥

शमादिगुणसंयुक्तं रागादिरहितं मुनिम् ॥ शीर्णपर्णाशनं दृष्ट्वा वेदमालिर्ननाम तम् ॥३७॥

तस्य जानन्तिरागंतोः कल्पयामास चार्हणम् ॥ कंदमूलफलाद्यैस्तु नारायणधिया मुने ॥३८॥

कृतातिथ्याक्रियस्तेन वेदमाली कृतांजलिः॥ विनयावनतो भूत्वा प्रोवाच वदतां वरम् ॥३९॥

भगवन्कृतकृत्योऽस्मि विगतं कल्मषं मम ॥ मामुद्धर महाभाग ज्ञानदानेन पंडित ॥४०॥

एवमुक्तस्ततस्तेन जानंतिर्मुनिसत्तमः॥ प्रोवाच प्रहसन्वाग्मी वेदमालिं गुणान्वितम् ‍ ॥४१॥

जानंतिरुवाच॥ श्रृणष्व विप्रशार्दूल संसारच्छेदकारणम् ‍ ॥ प्रवक्ष्यामि समासेन दुर्लभं त्वकृतात्मनाम् ‍ ॥४२॥

भज विष्णुं परं नित्यं स्मर नारायण प्रभुम् ॥ परापवादं पैशुन्यं कदाचिदपि मा कृथाः ॥४३॥

परोपकारनिरतः सदा भव महामते ॥ हरिपूजापरश्र्चैव त्यज मूर्खसमागमम् ॥४४॥

कामं क्रोधं च लोभं च मोहं च मदमत्सरौ ॥ परित्यज्यात्मवल्लोकं दृष्ट्वा शांतिं गमिष्यसि ॥४५॥

असूयां परनिंदा च कदाचिदपि मा कुरु ॥ दंभाचारमहंकारं नैष्ठुर्यं च परित्यज ॥४६॥

दयां कुरुष्व भूतेषु शुश्रुषां च तथा सताम् ॥ त्वया कृतांश्र्च धर्मान्वै मा प्रकाशय पृच्छताम् ॥४७॥

अनाचारपरान्दृष्ट्वा नोपेक्षा कुरु शक्तितः ॥ पूजयस्वातिथि नित्यं स्वकुटुंबाविरोधतः ॥४८॥

पत्रैः पुष्पैः फलैर्वापि दूर्वाभिः पल्लवैरथ ॥ पूजयस्व जगन्नाथं नारायणमका मतः ॥४९॥

देवानृषीन्पितृश्र्चांपि तर्पयस्व यथाविधि ॥ अग्नेश्र्च विधिद्विप्र परिचर्यापरो भव ॥५

देवतायतने नित्यं संमार्जनपरो भव ॥ तथोपलेपनं चैव कुरुष्व सुसमाहितः ॥५

शीर्णस्फटितसंधानं कुरु देवगृहे सदा ॥ मार्गशोभां च दीपं च विष्णोरायतने कुरु ॥५२॥

कंद मूलफलैर्वापि सदा पूजय माधवम् ॥ प्रदक्षिणनमस्कारैः स्तोत्राणां पठनैस्तथा ॥५३॥

पुराणश्रवणं चैव पुराणपठनं तथा ॥ वेदांतपठनं चैव प्रत्यहं कुरु शक्तितः ॥५४॥

एवं स्थिते तव ज्ञान भविष्यत्युत्तमोत्तम् ॥ ज्ञानात्समस्तपापानां मोक्षो भवति निश्र्चितम् ॥५५॥

एवं प्रबोधितस्तेन वेदमालिर्महामतिः ॥ तथा ज्ञानरतो नित्यं ज्ञानलेशमवाप्तवान् ॥५६॥

वेदमालिः कदाचित्तु ज्ञानलेशप्रचोदितः॥ कोऽहं मम क्रिया केति स्वयमेव व्यचिंतयत् ॥५७॥

मम जन्म कथं जातं रूपं कीदृग्विधं मम ॥ एवं विचारणपरो दिवानिशमतंद्रितः ॥५८॥

अनिश्र्चितमतिर्भूत्वा वेदमालिर्द्विजोत्तमः॥ पुनर्जानंतिमागम्य प्रणम्येदमुवाच ह ॥५९॥

वेदमालिरुवाच ॥ मम चित्तमतिभ्रांतं गुरो ब्रह्मविदां वर ॥ कोऽहं मम क्रिया का च मम जन्म कथं वद ॥६

जानंतिरुवाच ॥ सत्यं सत्यं महाभाग चित्तं भ्रांतं सुनिश्र्चितम् ॥ अविद्यानिलय चित्तं कथ सद्भावमेष्यति ॥६

ममेति गदितं यतु तदपि भ्रांतिरिष्यते ॥ अहंकारो मनोधर्म आत्मनो नेहि पंडित ॥६२॥

पुनश्र्च कोऽमित्युक्तं वेदमाले त्वया तु यत् ॥ मम जात्यादि शून्यस्य कथं नाम करोम्यहम् ॥६३॥

अनौपम्यस्वभावस्य निगुर्णस्य परात्मनः॥ नीरूपस्याप्रमेयस्य कथं नाम करोम्यहम् ॥६४॥

परज्योतिः स्वरूपस्य परिपूर्णाव्ययात्मनः ॥ अविच्छिन्नस्वभावस्य कथ्यते च कथं क्रिया ॥६५॥

स्वप्रकाशात्मनो विप्र नित्यस्य परमात्मनः ॥ अनंतस्यक्रिया चैव कथ जन्म च कथ्यते ॥६६॥

ज्ञानैकवेद्यमजरं परं ब्रह्म सनातनम् ॥ परिपूर्णं परानंदं तस्मान्नान्यदिह द्विज ॥६७॥

तत्त्वमस्यादिवाक्येभ्यो ज्ञानं मोक्षस्य साधनम् ॥ ज्ञाने त्वनाहते सिद्धे सर्वं ब्रह्ममयं भवेत् ॥६८॥

एवं प्रबोधिस्तेन वेदमालिर्मुनीश्र्वर ॥ मुमोद पश्यन्नात्मानमात्मन्येवाच्युतं प्रभुम् ॥६९॥

उपाधिरहितं ब्रह्म स्वप्रकाशं निरंजनम् ॥ अहमेवेति निश्र्चित्य परां शांतिमवाप्तवान् ॥७

ततश्र्च व्यवहारार्थं वेदमालिर्मुनीश्र्वरम् ॥ गुरुं प्रणम्य जानंति सदा ध्यानपरोऽभवत् ॥७१॥

गते बहुतिथे काले वेदमालिर्मुनीश्र्वर ॥ वाराणसीपुरं प्राप्य परं मोक्षमवाप्तवान् ॥७२॥

य इमं पठतेऽध्यायं श़ृणुयाद्वा समाहितः ॥ स कर्मपाशीवच्छेदं प्राप्य सौख्यमवाप्नुयात् ॥७३॥

इति श्रीबृन्नारदीयपुराणे पूर्वभागे प्रथमपादे ज्ञाननिरूपण नाम पंचत्रिशोंऽध्यायः ॥३५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:50:20.9300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

freely

  • मुक्तपणे, स्वतंत्रपणे 
  • अबाधपणे 
  • मुक्तपणे, स्वतंत्ररुपाने, स्वतंत्रपणे 
  • विनामूल्य, विनाशुल्क 
More meanings
RANDOM WORD

Did you know?

मनुष्याच्या जीवनात स्नानाचे महत्त्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site