TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
द्विचत्वारिंशोऽध्यायः

श्री नारदीयमहापुराणम् - द्विचत्वारिंशोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


द्विचत्वारिंशोऽध्यायः

श्रीनारद उवाच ॥

कुतः सृष्टमिदं ब्रह्मञ्जगर्त्स्थावरजंगमम् । प्रलये च कमभ्येति तन्मे ब्रूहि सनन्दन ॥१॥

ससागरः सणगनः सशैलः सबलाहकः ॥ सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥२॥

कथं सृष्टानि भूतानि कथं वर्णविभक्तयः ॥ शौचाशौचं कथं तेषां धर्माधर्म विधिः कथम् ॥३॥

कीद्दशो जीवतां जीवः क्क वागच्छंति ये मृताः ॥ अस्माल्लोकादमुं लोकं सर्वं शंसतु मे भवान् ॥४॥

सनंदन उवाच ॥

श्रृणु नारद वक्ष्यामि चैतिहासं पुरातनम् ॥ भृगुणाभिहितं शास्त्रं भरद्वाजाय पृच्छते ॥५॥

कैलासशिखरे द्दष्ट्र दीप्यमानं महौजसम् । भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत ॥६॥

भरद्वाज उवाच ॥

कथं जीवो विचरति नानायोनिषु संततम् । कथं मुक्तिश्च संसाराज्जायते तस्य मानद ॥७॥

यश्च नारायणः स्पष्ट स्वयंभूर्भगवन्स्वयम् ॥ सेव्यसेवकभावेन वर्तेते इति तौ सदा ॥८॥

प्रविशंति लये सर्वे यमीशं सचाराचराः ॥

लोकानां रमणः सोऽयं निर्गुणश्च निरंजनः ॥९॥

अनिर्दश्योऽप्रतर्क्यश्व कथं ज्ञायेत कैर्मुने ॥ कथमेनं परात्मानं कालशक्तिदुरन्वयम् ॥१०॥

अतर्क्यचरितं वेदाः स्तुवन्ति कथमादरात् ॥ जीवो जीवत्वमुल्लंघ्य कथं ब्रह्म समन्वयात् ॥११॥

एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि कृपानिधे ॥ एवं स भगवानन्पृष्टो भरद्वाजेन संशयम् ॥१२॥

महर्षिर्ब्रह्यसंकाशः सर्वं तस्मै ततोऽब्रवीत् ॥ भृगुरुवाच ॥ मानसो नाम यः पूर्वो विश्रुतौ वे महषिंभिः ॥१३॥

अनादिनिधनो देवस्तथा तेभ्योऽजरामरः ॥ अव्यक्य इति विख्यातः शाश्वतोऽथाक्षयोऽव्ययः ॥१४॥

यतः सुषनि भूतानि जायंते च म्रियंति च ॥ सोऽसृजत्प्रथमं देवो महांतं नाम नामतः ॥१५॥

आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ॥ आकाशदभवद्वारि सलिलादग्रि मारुतौ ॥१६॥

अग्रिमारुतसंयोगात्ततः समभवन्मही ॥ ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयंभुवा ॥१७॥

तस्मात्पद्मात्समभवद्रूह्या वेदमयो विधिः ॥ अहंकार इति ख्यातः सर्वभूतात्ममूतकृत ॥१८॥

ब्रह्मा वै स महातेजा य एते पंच धातवः ॥ शैलास्तस्यास्थिसंघास्तु मेदो मांस च मेदिनी ॥१९॥

समुदास्तम्य रुधिरमाकाशमुदरं तथा ॥ पवनश्चैव निश्वासस्तेजोऽग्निनिम्रगाः शिराः ॥२०॥

अग्नीषोमौ च चंद्राकौ नयने तस्य विश्रुते ॥ नभश्वोर्ध्वशिरस्तस्य क्षितिः पदौ भुजौ दिशः ॥२१॥

दुर्विज्ञयो ह्राचिन्त्यात्मा सिद्धैरपि न संशयः ॥ स एष भगवानन्विष्णुरनन्त इति विश्रुतः ॥२२॥

सर्वभूतात्मभूतस्थो दुर्विज्ञेयाऽकृतात्मभिः ॥ अहंकारस्य यः स्पष्टा सर्वभूतवायवै ॥ ततः समभवद्विश्वं पृष्टोऽहं यदिह त्वया ॥२३॥

भरद्वाज उवाच ।

गगनस्य दिशां चैव भूतलस्थानिलस्य च ॥ कान्यत्र परिमाणानि संशयं छिंधि तत्त्वतः ॥२४॥

भृगुरुवाच ॥

अनंतमेतदाकाशं सिद्धदैवसोवतम् ॥ रम्यं नानाश्रयाकीर्णं यस्यांतो नाधिगम्यते ॥२५॥

ऊर्ध्वं गतेधस्तात्तु चंद्रादित्यौ न पश्यतः ॥ तत्र देवाः स्वयं दीप्ता भास्कराभाग्निवर्चसः ॥२६॥

ते चाप्यन्तं न पश्यंति नभसः प्रथितौजसः ॥ दुर्गमत्वादनंतत्वादिति मे वद मानद ॥२७॥

उपरिष्टोपरिष्टात्तु प्रज्वलद्धिः स्वयंप्रभैः ॥ निरुद्धमेतदाकाशं ह्यप्रमेयं सुरैरपि ॥२८॥

पृथिव्यंते समुद्रास्तु समुद्रांते तमः स्मृतम् ॥ तमसोंऽते जलं प्राहु र्जलस्यांतेऽग्रिरेव च ॥२९॥

रसातलांते सलिल जलांते पन्नगाधिपाः ॥ तदंते पुनकाशमाकाशांते पुनर्जलम् ॥३०॥

एवमंतं भगवतः प्रमाणं सलिलिस्त च ॥ अग्रिमारुतयोयेभ्यो दुर्ज्ञेयं दैवतैरपि ॥३१॥

अग्निमारुततोयानां वर्णा क्षितितलस्य च ॥ आकाशसद्दशा ह्येते भिद्यंते तत्त्वदश नातू ॥३२॥

पठंति चैव मुनयः शास्त्रेषु विविधेषु च ॥ त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा ॥३३॥

अद्दश्यो यस्त्वगम्यो यः कः प्रमाण मुदीरयेत् ॥ सिद्धानां देवतानां च परिमीता यदा गतिः ॥३४॥

तदागण्यमनंतस्य नामानंतोति विश्रुतम् । नामधेयानुरुपस्य मानसस्य महात्मनः ॥३५॥

यदा तु दिव्यं यद्रूपं ह्रसते वर्द्धते पुनः ॥ कोऽन्यस्तद्वेदितुं शक्त्यो योऽपि स्यात्ताद्विधोऽपरः ॥३६॥

ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ॥३७॥

भरद्वाज उवाच ॥

पुष्करो यदि संभूतो ज्येष्ठं भवति पुष्करम् ॥ ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे ॥३८॥

भृगुरुवाच ॥

मानसस्येह या मूर्तिर्ब्रह्यत्वं समुपागता ॥ तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ॥३९॥

कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः॥ तस्य मध्ये स्थितो लोकान्सृजत्येष जगद्विधिः ॥४०॥

भरद्वाज उवाच ॥

प्रजाविसर्गं विविधं कथं स सृजति प्रभुः ॥ मेरुमध्ये स्थितो ब्रह्मा तद्वहिर्द्विजसत्तम ॥४१॥

भृगुरवाच ॥

प्रजाविसर्गं विविधं मानसो मनसाऽसृजत ‍ ॥ संरक्षणार्थं भूतानां सृष्टं प्रथ मतो जलम् ॥४२॥

यत्प्राणाः सर्वभूतानां सूष्टं प्रथमतो जलम् ॥ यत्प्राणाः सर्वभूतानां वर्द्धते येन च प्रजाः ॥४३॥

परित्यक्ताश्च नश्यंति तेनेदं सर्वमावृतम् । पृथिवी पर्वता मेघा मूर्तिमतश्च ये परे ॥ सर्वं तद्वारुणं ज्ञेयमापस्तस्तंभिरे पुनः ॥४४॥

भरद्वाज उवाच ॥

कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ ॥ कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान् ॥४५॥

भृगुरुवाच ॥

ब्रह्मकल्पे पुरा ब्रह्यर्षीणां समागमे ॥ लोकसंभवसंदेहः समुत्पन्नो महात्मनाम् ॥४६॥

तेऽतिष्ठन्ध्यानमालंब्य मौनमास्थाय निश्चलाः ॥ त्यक्ताहाराः स्पर्द्धमाना दिव्य्म वर्षशंत द्विजाः ॥४७॥

तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत् ॥ दिव्या सरस्वती तत्र संबभूव नभस्तलात् ॥४८॥

पुरास्तिमितकशमनंततमचलोपमम् ॥ नष्टचंद्रार्कपवनं प्रसुप्तमिव संबभौ ॥४९॥

ततः सलिलमुत्पन्नं तमसीव तमः परम॥ तस्माच्च सलिलोत्पीडादुदतिष्ठत मारुतः ॥५०॥

यथाभवमच्छिद्रं निः शब्दमिव लक्ष्यते ॥ तच्चांभसा पूर्यमांण सशब्दं कुरुतेऽनिलः ॥५१॥

तथा सलिलसंरुद्धे नभसोंऽतं निरंतरे ॥ भित्त्वार्णवतलं वायुः समुत्पतति घोषवान् ॥५२॥

एषु वै चरते वायुर्णवोत्पीडसंभवः ॥ आकाशस्थानमासाद्य प्रशांति नाधिग्च्छति ॥५३॥

तस्मिन्वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः ॥ प्रादुरासीदूर्ध्वशिखः कृत्वा निस्तिमिरं तमः ॥५४॥

अग्निः पवनसंयुक्तः खं समाक्षिपते जलम् ॥ तदग्निवायुसंपर्काद्धनत्वमुपद्यते ॥५५॥

तस्याकाशं निपतितः स्त्रेहात्तिष्ठति योऽपरः ॥ स संघातत्वमापन्नो भूमित्वमनुगच्छति ॥५६॥

रसानां सर्वगंधानां स्नेहानां प्राणिनां तथा ॥ भूमिर्यो निरियं ज्ञेया यस्याः सर्व्म प्रसूयते ॥५७॥

भरद्वाज उवाच ॥ य एते धातवः पंच रक्ष्या यानसृजत्प्रभुः ॥ आवृता यैरिमे लोकां महाभूता भिसंज्ञितैः ॥५८॥

यदाऽसृजत्सहस्त्राणि भूतानां स महामतिः ॥ पश्चात्तेष्वेव भूतत्वं कथं समुपपद्यते ॥५९॥

भृगुरुवाच ॥

अमितानि महाष्टानि यांति भूतानि संभवम् ॥ अतस्तेषां महाभूतशब्दोऽयमुपपद्यते ॥६०॥

चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः ॥ पृथिवी चात्र संघातः शरीरं पांचभौतिकम् ॥६१॥

इत्यतः पंचभिर्युक्तैयुक्तं स्थावरजंगमम् ॥ श्रोत्रे घ्राणो रसः स्पर्शो दृष्टिश्चेंद्रियसंज्ञिताः ॥६२॥

भरद्वाज उवाच ॥ पंचभिर्यादि भूतैस्तु युक्ताः स्थावरजंगमाः ॥ स्थावराणाम न दृश्यंते शरीरे पंच धातवः ॥६३॥

अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः ॥ वृक्षाणां नोपलभ्यते शरीरे पंच धातवः ॥६४॥

न श्रृण्वंति न पश्यंति न गंधरसवेदिनः ॥ न च स्पर्श हि जानंति ते कथं पंच धातवः ॥६५॥

अद्रवत्वादनग्रिवादभूमि त्वादवायुतः ॥ आकाशस्याप्रमेयत्वादृक्षाणां नास्ति भौतिकम् ॥६६॥

भृगुरवाच ॥

घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः ॥ तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते ॥६७॥

ऊष्मतो म्लायते पर्ण त्वक्फलं पुष्पमेवं च ॥ शीर्यते चापि स्पर्शस्तेनात्र विद्यते ॥६८॥

वाय्वग्र्यशनिनिर्घोषैः फलं पुष्पं विशीर्यते ॥ श्रोत्रेण गुह्यते शब्दस्तस्माच्छृण्वंति पादपाः ॥६९॥

वल्ली वेष्टयते वृक्षान्सर्वतश्चैव गच्छति ॥ नह्यदृष्टश्च मार्गोऽस्ति तस्मात्पश्यंति पादपाः ॥७०॥

पुण्यापुण्यैस्तथा गंधैर्धूपैश्च विविधैरपि ॥ अरोगाः पुष्पिताः संति तस्माज्जिघ्रंति पादपाः ॥७१॥

सुखदुःखयोर्ग्रहणाच्छिन्नस्य च विरोहणात् ॥ जीवें पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥७२॥

तेन तज्जलमदत्ते जरयत्यग्रिमारुतौ ॥ आहारपरिणामाच्च रुहो वृद्धिश्च जायते ॥७३॥

जगमानां च सर्वेषां शरीरे पंच धातवः ॥ प्रत्येकशः ॥ प्रभिद्यंते यैः शरीरं विचेष्टते ॥७४॥

त्वक् च मांसं तथास्तीनि मज्जा स्त्रायुश्च पंचमः ॥ इत्येतदिह संघातं शरीरे पृथिवीमये ॥७५॥

तेजो ह्याग्रिस्तथा क्रोधश्चक्षु रुष्मा तथैव च ॥ अग्निर्जनयते यच्च पंचाग्रेयाः शरीरिणः ॥७६॥

श्रोत्रं घ्राणं तथास्यं च ह्रदयं कोष्टमेव च ॥ आकाशात्प्राणिनामेते शरीरे पंच धातवः ॥७७॥

श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च ॥ इत्यापः पंचधा देहे भवंति प्राणिनां सदा ॥७८॥

प्राणात्प्रीणयते प्रानी व्यानाद्यायच्छते तथा ॥७९॥

गच्छत्यपानोऽधश्चैव समानो ह्रद्यवस्थितः उदानादुच्छृसितीति पञ्च ( प्रति ) भेदाच्च भाषते ॥ इत्येव वायवः पंच वेष्टयंतीह देहिनम् ॥८०॥

भूमेर्गंधगुणान्वेत्ति रसं चादूभ्यः शरीवान्॥ तस्य गंधस्य वक्ष्यामि विस्तराभिहितान्गुणान् ॥८१॥

इष्टश्चानिष्टगंधश्च मधुरः कटुरेव च ॥ निर्हारी संहतः स्त्रिग्धो रुक्षो विशद एव च ॥८२॥

एवं नवविधो ज्ञेयः पार्थिवो गंधविस्तरः ॥ ज्योतिः पश्यति चक्षुर्भ्यः स्पर्शं वेत्ति च वायुना ॥८३॥

शब्दः स्पर्शश्च रुपं च रसश्चापि गुणाः स्मृताः ॥ रसज्ञानं तु वक्ष्यामि तन्मे निगदतः श्रृणु ॥८४॥

रसो बहुविधः प्रोक्त ऋषिभिः प्रथितात्मभिः ॥ मधुरो लवणस्तिकः कषायोऽम्लः कटुस्तथा ॥८५॥
एष षडिधविस्तारो रसो वारिमयः स्मृतः ॥ शब्दः स्पर्शश्च रुपञ्च त्रिगुणं ज्योतिरुच्यते ॥ ८६॥

ज्योतिः पश्यति रुपाणि रुपं च बहुधा स्मृतम् ॥ ह्रस्वी दीर्घस्तथा स्थूलतुरस्त्रोऽवृत्तवान् ॥८७॥

शुल्कः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा ॥ कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदु दारुणः ॥८८॥
एवं षोडशविस्तारो ज्योतीरुपगुणः स्मृतः तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् ॥८९॥

तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् ॥ षड्रजो ऋषभगामधारौ मध्यमो धैवतस्तथा ॥९०॥

पंचमश्चापि विज्ञेयस्तथा चापि निषादवान् ॥ एष सप्तविधः प्रोक्तो गुण आकाशसंभवः ॥९१॥

ऐश्वर्य्यण तु सर्वत्र स्थितोऽपि पटहादिषु ॥ मृदंगभेरीशंखानां स्तनयित्नो रथस्य च ॥९२॥

एवं बहुविधाकारः शब्द आकाशसंभवः॥ वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥९३॥

उष्णः शीतः सुखं स्त्रिग्धो विशद एव च ॥ तथा खरो मृदुः श्लक्ष्णो लघुर्गुरुतरोऽपि ॥९४॥

शब्दस्पर्शौ तु विज्ञेयौ द्विगुणौ वायुरित्युत ॥ एवमेकादशविधो वायव्यो गुण उच्यते ॥९५॥

आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह ॥ अव्याहश्चैतयते नवेत विषमा गतिः ॥९६॥

आप्यायंते च ते नित्यं धातस्तैस्तु धातुभिः ॥ आपोऽग्निर्मारुतश्चैव नित्य जाग्रति देहिषु ॥९७॥

मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिताः ॥ पार्थिवं धातुमासाद्य यथा चेष्टयते बली ॥९८॥

श्रितो मूर्द्धानमग्निस्तु शरीरं परिपालयेत् ॥ प्राणो मूर्द्धनि वाग्नौ च वर्तमानो विचेष्टति ॥९९॥

स जंतुः सर्वभूतात्मा पुरुषः स सनातनः ॥ मनो बुद्धिरहंकारो भूतानि विषयश्च सः ॥१००॥

एवं त्विह स सर्वत्र प्राणैस्तु परिपाल्यते ॥ पृष्ठस्तु समानेन स्वाम स्वां गतिमुपाश्रितः ॥१०१॥

वस्तूमूलं गुदं चैव पावकं समुपाश्रितः ॥ वहन्मूत्रं पुरीषं वाप्यपानः परिवर्तते ॥१०२॥

प्रयत्नेकर्मनियमे य एकस्त्रिषु वर्तते ॥ उदान इति तं प्राहुरध्यात्मज्ञानकोविदाः ॥१०३॥

संधिष्वपि च सर्वेषु संनिविष्टस्तथानिलः ॥ शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ॥१०४॥

बाहुष्वग्निस्तु विततः समानेन समीरितः ॥ रसन्बाहृँश्च दोषांश्व वर्तयन्नति चेष्टेत् ॥१०५॥

अपानप्राणयोर्मध्ये प्राणापानसमीहितः ॥ समन्वितस्त्वधिष्ठानं सम्यक् पचति पावकः ॥१०६॥

आस्यं हि पायुपर्यंतमंते स्याद्ध द्संज्ञिते ॥ रेतस्तस्मात्प्रजायंते सर्वस्त्रोतांसि देहिनाम् ॥१०७॥

प्राणानां सन्निपाताच्च सन्निपातः प्रजायते ॥ ऊष्मा चाग्नरिति ज्ञेयो योऽन्नं पर्चति देहिनाम् ॥ १०८॥

अग्निवेगवहः प्राणो गुदांते प्रतिहन्यते ॥ स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥१०९॥

पक्काशयस्त्वधो नाभ्या ऊर्ध्व मामाशयः स्मृतः ॥ नाभिमूले शरीरस्य सर्वे प्राणाश्च संस्थिताः ॥११०॥

प्रस्थिता ह्रदयात्सर्वे तिर्यगूर्द्धमधस्तथा ॥ वहंत्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः ॥१११॥

एष मार्गोऽपि योगानां येन गच्छंति तत्पदम् ॥ जितक्लमाः समा धीरा मूर्द्धन्यात्मानमादधन् ॥११२॥

एवं सर्वेषु विहितप्राणापानेषु देहिनाम् ॥ तस्मिन्समिध्यते नित्यमग्निः स्थाल्यामिवाहितः ॥११३॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभर द्वाजसंवादे जगदुत्पत्तिवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥४२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:01:07.3170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जमिनीस मिळणें

  • सर्वस्‍वी नाश होणें 
  • जमीनदोस्‍त होणें 
  • भयंकर खलावणें. 
RANDOM WORD

Did you know?

what is the history behind " HARI MERE HALAR KI LAKARI" made by Surdasji?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.