TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
सप्तमोऽध्यायः

श्री नारदीयमहापुराणम् - सप्तमोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


सप्तमोऽध्यायः

नारद उवाच ॥

कोऽसौ राक्षस भावाद्धि मोचितः सगरावन्वये ॥ सगरः को मुनिश्रेष्ठ तन्ममाख्यातुमर्हसि ॥१॥

सनक उवाच ॥

श़ृणुष्व मुनिशार्दूल गङ्गामाहात्म्यमुत्तमम् ॥ यज्जस्पर्शमात्रेण पावितं सागरं कुलम् ॥ गतं विष्णुपदं विप्र सर्वलोकोत्तमोत्तमम् ॥२॥

आसीद्रविकुले जातो बाहुर्नाम वृकात्मजः ॥ बुभुजे पृथिवीं सर्वां धर्मतो धर्मतत्परः ॥३॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये च जन्तवः ॥ स्थापिता स्वस्वधर्मेषु तेन बाहुर्विशांपतिः ॥४॥

अश्वमेधैरियाजासौ सप्तद्वीपेषु सप्तभिः ॥ अतर्प्पयद्भमिदेवान् गोभूस्वर्णांशुकादिभिः ॥५॥

अशासन्नीतिशास्रेण यथेष्टं परिपन्थिनः॥ मेने कृतार्थमात्मानमन्यातपनिवारणम् ॥६॥

चन्दनानि मनोज्ञानि बलिं यत्सर्वदा जना . भूषिता भूषणौर्दिव्यैस्तद्राष्ट्रे सुखिनो मुने ॥७॥

अकृष्टपच्या पृथिवी फलपुष्पसमन्विता ॥८॥

ववर्ष भूमौ देवेन्द्रः काले काले मुनीश्वर ॥ अधर्मनिरतापाये प्रजा धर्मेण रक्षिताः ॥९॥

एकदा तस्य भूपस्य सर्वसंपद्विनाशकृत् ॥ अहंकारो महाञ्जज्ञे सासूयो लोपहेतुकः ॥१०॥

अहं राजा समस्तानां लोकानां पालको बली ॥ कर्त्ता महाक्रतूनां च म तः पूज्योऽस्ति कोऽपरः ॥११॥

अहं विचक्षणः श्रीमञ्जिताः सर्वे भयारयः ॥ वेदवेदाङ्गतत्त्वज्ञो नीतिशास्त्र विशारदः ॥१२॥

अजेयोऽव्याहतैश्वर्यो मत्तः कोऽन्योऽधिको भुवि ॥ अहंकारपरस्यैवं जातासूया परेष्वपि ॥१३॥

असूयातोऽभवत्कामस्तस्य राज्ञो मुनीश्वर ॥ एषु स्थितेषु तु नरो विनाशं यात्यसंशयम् ॥१४॥

यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता ॥ एकैकमप्यनर्थाय किमु यत्र चतायम् ॥१५॥

तस्यासूया नु महती जाता लोकविरोधिनी ॥ स्वदेहनाशिनी विप्र सर्वसंपद्विनाशिनीं ॥१६॥

असूयाविष्टमनसि यदि संपत्प्रव ॥ तुषाग्निं वायुसंयोगमिव जानीहि सुव्रत ॥१७॥

असूयोपेतमनसां दम्भाचारवतां तथा ॥ पुरुषोक्तिरतानां च सुखं नेह परत्रच ॥१८॥

असूयाविष्टचित्तानां सदा निष्ठुरभाषिणाम् ॥ प्रियावा तनया वापि बान्धवा अप्यरातयः ॥१९॥

मनोभिलाषं कुरुते यः समीक्ष्य परस्त्रियम् ॥ स स्वसंपद्विनाशाय कुठारो नात्र संशयः ॥२०॥

यः स्वश्रेयोविनाशाय कुर्याद्यत्नं नरो मुने ॥ सर्वेषां श्रेयसं दृष्ट्वा स कुर्यान्मत्सरं कुधीः ॥२१॥

मित्रापत्यगृहक्षेत्र धनधान्यपशुष्वपि ॥ हानिमिच्छन्नरः कुर्यादसूयां सततं द्विजा ॥२२॥

अय तस्याविनीतस्य ह्यसूयाविष्टचेतसः॥ हैयास्तालजंघाश्च बलिनोऽरातयोऽभवन् ॥२३॥

यस्यानुकूलो लक्ष्मीशः सौभाग्यं तस्य वर्द्धत ॥ स एव विमुखो यस्य सौभाग्यं तस्य हीयते ॥२४॥

तावत्पुत्राश्च धन धान्यगृहादयः ॥ यावदीक्षेत लक्ष्मीशः कृपापाङ्गेन नारद ॥२५॥

अपि मूर्खान्धबधिरजडाः शूरा विवेकिनः ॥ श्र्लाघ्या भवन्ति विप्रेन्द्र प्रेक्षिता माधवेन ये ॥२६॥

सौभाग्य तस्य हीयेत यस्यासूयादिलाञ्छनम् ॥ जायते नात्र संदेहो जन्तुद्वेषो विशेषतः ॥२७॥

सततं यस्य कस्यापि यो द्वेषं कुरते नरः ॥ तस्य सर्वाणि नश्यन्ति श्रेयांसि मुनिसत्तम ॥२८॥

असूया वर्द्धते यस्य तस्य विष्णुः पराङ्मुखः ॥ धनं धान्यं मही संपनद्विश्यति ततो ध्रुवम् ॥२९॥

विवेकं हन्त्यहंकारस्त्वविवेकात्तु जीविनाम् ॥ आपदः संभवन्त्येवेत्यहंकारं त्यजेत्ततः ॥३०॥

अहंकारो भवेद्यस्य तस्य नाशोऽतिवेगतः ॥ असूयाविष्टमनसस्तस्य राज्ञः परैः सह ॥३१॥

आयोधनमभूद्धोरं मासमेकं निरन्तरम् ॥ हैहयै स्तालजङघैश्च रिपुभिः स पराजितः ॥३२॥

स तु बाहुस्ततो दुःखी अन्तर्वत्न्या स्वभार्यया ॥ अवाप परमां तुष्टिं तत्र दृष्ट्वा महत्सरः ॥३३॥

असूयोपेतमनसस्तस्य भावं निरीक्ष्य च ॥ सरोगतविहङ्गस्ते लीनाश्चित्रमिदं महत् ॥३४॥

अहो कष्टमहो रूपं घोरमत्र समागतम् ॥ विशन्तस्त्वरया वासमि त्यूचुस्ते विहङ्गमाः ॥३५॥

सोऽवागाह्यसरो भूपः पत्नीभ्यां सहितो मुदा ॥ पीत्वा जलं च सुखदं वृक्षमूलमुपाश्रितः ॥३६॥

तस्मिन्बाहौ वनं याते तेनैव परिरक्षिताः ॥ दुर्गुणान्विगणय्यास्य धिग्धिगित्यब्रुवन्प्रजाः ॥३७॥

यो वा को वा गुणी भर्त्यः सर्वश्र्लाघ्यतरोद्विजः ॥ सर्वसंपत्समायुक्तोऽप्यगुणी निंदितो जनैः ॥३८॥

अपकीर्तिसभो मृत्युर्लोकेष्वन्यो न विद्यते ॥ यदा बाहुर्वनं यास्तस्तदा तद्रागगा जनाः ॥

संतुष्टिं परमां याता दवथौ विगते यथा ॥३९॥

निन्दितो बहुशो बाहुर्मुतवत्काननेस्थितः ॥ निहत्य कर्म च यशो लोके द्वजवरोत्तम ॥४०॥

नास्त्यकीर्तिसमो मृत्युर्नास्ति क्रोधसमो रिपुः ॥ नास्ति निंदासमं पापं नास्ति मोहसमासवः ॥४१॥

नास्त्यसूयासमा कीर्तिर्नास्ति कामसमोऽनलः ॥ नास्मि रागसमः पाशो नास्ति सङ्गसमं विषम् ॥४२॥

एवं विलप्यबहुधा बाहुरत्यन्तदुःखितः ॥ जीर्णाङ्गोमन सस्तापाद् वृद्धभावादभूदसौ ॥४३॥

गते बहुतिथे काले और्वाश्रमसमीपतः ॥ स बाहुर्व्याधिना ग्रस्तो ममार मुनिसत्तम ॥४४॥

तस्य भार्या च दुःखार्ता कनिष्ठा गर्भिणी तदा ॥ चिरं विलप्य बहुधा सह गन्तुं मनो दधे ॥४५॥

समानीय च सैंधांसि चितां कृत्वाति दुःखिता ॥ समारोप्य तमारूढं स्वयं समुपचक्रमे ॥४६॥

एतस्मिन्नन्तरे धी मानौर्वस्तेजोनिधिर्मुनिः ॥ एतद्विज्ञातवान्सर्वं परमेण समाधिना ॥४७॥

भूतं भव्यं वर्त्तमानं त्रिकालज्ञा मुनीश्वराः॥ गतासूया महात्मानः पश्यन्तिज्ञान चक्षुषा ॥४८॥

तपोभिस्तेजसां राशिरौर्वपुण्यसमो मुनिः ॥ संप्राप्तस्तत्र साध्वी च यत्र बाहुप्रिया स्थिता ॥४९॥

चितामारोढुपुघुक्तां तां दृष्ट्वा मुनिसत्तमः॥ प्रोवाच धर्ममूलानि वाक्यानिमुनिसत्तमः ॥५०॥

और्व उवाच ॥

राजवर्यप्रिये साध्वि मा कुरुष्वातिसाहसम् ॥ तवोदरे चक्रवर्ती शत्रुहन्ता हि तिष्ठति ॥५१॥

बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा ॥ रजस्वला राजसुतेनारोहति चिंता शुभे ॥५२॥

ब्रह्महत्यादिपापानां प्रोक्ता निष्कृतिरुत्तमैः॥ दम्भिनो निंदकस्यापि भू्रणघ्नस्य न निष्कृतिः॥५३॥

नास्तिकस्य कृतघ्नस्य धर्मोपेक्षाकरस्य च ॥ विश्वासघातकस्यापि निष्कृतिर्नास्ति सुव्रते ॥५४॥

तस्मादेतन्महत्पापं कर्त्तुं नार्हसि शोभने ॥ यदेतद्दुःखमुत्पन्नं तत्सर्वं शांतिमेष्याति ॥५५॥

इत्युक्ता मुनिना साध्वी विश्वस्य तदनुग्रहम् ॥ विललापातिदुःखार्ता समुह्यधवपत्कजौ ॥५६॥

और्वोऽपि तां पुनःप्राह सर्वशास्त्रार्थकोविदः॥ मारोदीराज तनये श्रियमग्य्रे गमिष्यासि ॥५७॥

मा मुं चास्रंभाहाभागेप्रेतो दाह्योऽद्य सज्जनैः॥ तस्माच्छो कं परित्यज्य कुरुकालोचितांक्रियाम् ॥५८॥

पंडिते वापिमूर्खे वा दरिद्रे वाश्रियान्विते ॥ दुर्वुत्ते वा सुवृत्तेवा मृत्योःसर्वत्र तुल्यता ॥५९॥

नगरे वा तयामन्ये दैन्यमत्रातिरिच्यते ॥६०॥

यद्यत्पुरातनं कर्मतत्तर्देवेह युज्यते ॥ कारणं दैवमेवात्र मन्ये सोपाधिका जनाः ॥६१॥

गर्भे वा बाल्यभावे वा यौवने वापि वार्द्धके ॥ मृत्योर्वशं प्रयातव्यं जन्तुभिः कप्रलानने ॥६२॥

हन्ति पाति च गोविन्दो जन्तून्कर्मवशो स्थितान् ॥ प्रवादं रोपयन्त्यज्ञा हेतुमात्रेषु जन्तुषु ॥६३॥

तस्माद्दुःखं परित्यज्य सुखिती भव सुव्रते ॥ कुरु पत्युश्च कर्माणि विवेकेन स्थिरा भव ॥६४॥

एतच्छरीरं दुःखानां व्याधीनामयुतै र्वृतम् ॥ सुखाभासं बहुक्लेशं कर्मपाशेन यन्त्रितम् ॥६५॥

इत्याश्वास्य महाबुद्धिस्तया कार्याण्यकारयत् ॥ त्यक्तशोका च सा तन्वी नता प्राह मुनीश्वरम् ॥६६॥

किमत्र चित्रं यत्सन्तः परार्थ्ज्ञफलकाङ्क्षिणः ॥ नहि द्रुमाश्च भोगार्थं फलन्ति जगतीतले ॥६७॥

योऽन्यदुःखानि विज्ञाय साधुवाक्यैः प्रबोधयेत् ॥ स एव विष्णुस्सत्त्वस्थो यतः परहिते स्थितः ॥६८॥

अन्य दुःखेन यो दुःखी योऽन्यहर्षेण हर्षितः ॥ स एव जगतामीशो नररूपधरो हरिः ॥६९॥

सद्भिः श्रुतानि शास्त्राणि परदुःखविमुक्तये ॥ सर्वेषां दुःखनाशाय इति सन्तो वदन्ति हि ॥७०॥

यत्र सन्तः प्रवर्त्तंते तत्र दुःखंन बाधते वर्तते यत्र मार्तण्डः कथं तत्र तमो भवेत् ॥७१॥

इत्येवं वादिनी सा तु स्वपत्युश्चापराः क्रियाः ॥ चकार तत्सरस्तीरे मुनिप्रोक्तविधानतः ॥७२॥

स्थिते तत्र मुनौ राजा देवराडिव संज्वलन् ॥ चिताम ध्याद्विनिष्क्रम्य विमानवरमास्थितः ॥

प्रपेदे परमं धाम नत्वा चौर्वं मुनीश्वरम् ॥७३॥

महापातकयुक्ता वा युक्ता वा चोपपातकैः ॥ परं पदं प्रायन्त्येव महद्भिखलोकिताः ॥७४॥

कलेवरं वा तद्भस्म तद्धमं वापि सत्तम ॥ यदि पश्यति पुण्यात्मा स प्रयाति परां गतिम् ॥७५॥

पत्युःकृतक्रिया सा तु गत्वाश्रमपदंमुनेः ॥ चकार तस्य शुश्रूषां सपत्न्या सह नारद ॥७६॥

इति श्री बहुन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहा त्म्यं नाम सप्तमोऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:22:24.6570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चिलपे

  • पु. अने . लांकडाचे ढलपे ; सालपा . 
RANDOM WORD

Did you know?

जपाची संख्या १०८ का ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.