TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
त्रिपञ्चाशत्तमोऽध्यायः

श्री नारदीयमहापुराणम् - त्रिपञ्चाशत्तमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


त्रिपञ्चाशत्तमोऽध्यायः
सनंदन उवाच ॥
निरुक्तं ते प्रवक्ष्यामि वेदं श्रोत्रांगमुतमम्‍ ॥ तत्पंचविधमाख्यातं वैदिकं धातुरुपकम्‍ ॥१॥
क्कचिद्वर्णागमस्तत्र क्कचिर्द्वणविपर्ययः ॥ विकारः क्कापि वर्णानां वर्णनाशः क्कचिन्मतः ॥२॥
तथा विकारनाशाभ्यां वर्णानां यत्र नारद ॥ धातोर्योगातिशयी च संयोगः परि कीर्तितः ॥३॥
सिद्धेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात्‍ ॥ गूढोत्मा वर्णविकृतेवर्णनांशात्पृषोदरः ॥४॥
भ्रमरादिषु शब्देषु ज्ञेयो योगो हि पञ्चमः ॥ बहुलं छन्दसीत्युक्तमत्र वाच्यं पुनर्वसु ॥५॥
नभस्वद्‌वृषणश्वैवापरस्मैपदि चापि हि ॥ परं व्यवहिताश्वापि गतिसंज्ञास्तथा हि आ ॥६॥
विभक्तीनां विपर्यासो यथा दध्रा जुहोति हि ॥ अभ्युत्सादयामकेतुर्ध्वनयीत्प्रमुखास्तथा ॥ निष्टर्क्याद्यास्तथोक्ताश्व गृहायेत्यादिकास्तथा ॥७॥
सुप्ति ङुपग्रलिंगनराणां कालहलचस्वरकर्तृयडां च॥ व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि सिद्धयति बाहुलकेन ॥८॥
रात्री विम्बी च कद्रूश्वाविष्टो वाजसनेयिनः ॥९॥
कर्णेभिश्व यशोभाग्य इत्याद्याश्वतुरक्षरम्‍ ॥ देवासोऽथो सर्वदेवतातित्वावत इत्यपि ॥१०॥
उभयाविन माद्याश्वं प्रलयाद्याश्व स्तृंच तथा ॥ अपस्पृधेथां नो अव्यादायो अस्मान्मुखास्तथा ॥११॥
सगर्भ्योस्थापदी ऋत्व्योरजिष्टं त्रिपंचकम्‍ ॥ हिरण्येन नर च परमे व्योमनित्यपि ॥१२॥
उर्विया स्वप्रया वारवध्वाददुहवैवधी ॥ यजध्वैनमेमसि च स्त्रात्वीं गत्वा पचास्थभीः ॥१३॥
गोनांचापरिहूवृत्ताश्वातुरिर्ग्रसितादिका ॥ पश्येदधद्वभूथापि प्रामिणांतित्यत्यवीवृधत्‍ ॥१४॥
मित्रयुश्व दुरस्वा हा हात्वा सुधितमित्यपि ॥ दधर्त्याद्या सवद्धिश्व ससूवेति च धिष्व च ॥१५॥
प्रप्रायं च हरिवतेक्षण्वतः सुपथिंतरः ॥ रथीतरी नसताद्या अम्रर्भुवस्थो इति ॥१६॥
ब्रह्माद्यादेः परस्याप्यौ श्रावयेत्यादिके प्लुते ॥ दाश्वांश्व स्वतवान्यापौत्रिभिष्टुं च नृभिष्टुतः ॥१७॥
अभीषुण ऋतावाहं न्यषीदन्नृणा अपि ॥ चतुर्विद्याद्वाहुलकात्प्रवत्तेरप्रवृत्तितः ॥१८॥
विभाषयान्यथाभावात्सर्वं सिद्धयेच्च वैदिकम्‍ ॥ भूवाद्या धातवो ज्ञेयाः परस्मैपदिनस्स्मृताः ॥१९॥
एधाद्या आत्मनेभाषा उदात्ताः षट्‌त्रिंशसंख्यकाः अतादयोऽष्टत्रिंशच्च परस्मैपदिनी मुने ॥२०॥
कृपूर्वा द्विचत्वारिम्शदुक्ता च ह्यात्मने पदे ॥ उदात्तेतरतु पंचाशत्फक्काद्याः परिकीर्तिताः ॥२१॥
वर्चाद्या अनुदात्तेत एकविंशतिरीरिताः ॥ गुपादयो द्विचत्वारिंशदुदात्तेताः समीरिताः ॥२२॥
घिण्यादयोऽनुदात्ततो दश प्रोक्ता हि शाब्दिकैः ॥ अणादयोप्युदात्तेतः सप्तविंशतिधातवः ॥२३॥
अमादयः समुद्दिष्टाश्वतुस्त्रिंशद्धिशाब्दिकेः ॥ द्विसप्ततिमिता मव्यमुखाश्वोदात्तबंधना ॥२४॥
स्वरितेद्धाबुधातुस्तु एक एव प्रकीर्तितः ॥ क्षुधादयोऽनुदात्ततो द्विषपंचाशदुदाह्यताः ॥२५॥
घुषिराद्या उदात्ततोऽष्टशीतिर्धातवो मताः ॥ द्युताद्या अनुदात्ततो द्वाविंशतिरतो मताः ॥२६॥
षितस्त्रयोदश घटादिष्वेनुदत्तेत ईरितः ॥ ततो ज्वलदुदात्तेतो द्विपंचाशन्मितास्त्तथा ॥२७॥
स्वरितंद्राजृसंप्रोक्त स्तनहेभ्राजृतस्त्रयः ॥ अनुदात्तेत अख्याता भाद्युदात्ता इतः स्यमात्‍ ॥२८॥
सहोऽनुदात्तेदेकस्तु रमैकोऽप्यात्मनेपदी ॥ सदस्त्रय उदात्तेतः कुचाद्वदा उदात्त इत ॥२९॥
स्वरितेतः पञ्चशद्धिक्काद्याश्व ततः परम्‍ ॥ स्वरितोच्छिञभृञाद्याश्वत्वार स्वरितेत्ततः ॥३०॥
घेटः परस्मैपदिनः षट्र्चत्वारिं शदुदीरिताः ॥ अष्टादश स्मिङाद्यास्तु आमनेपदिनो मताः ॥३१॥
ततस्त्रयोऽनुदात्तेतः पूङाद्याः परिकीर्तिताः । ह्रपरस्मैपदी चात्मनेभाषास्तुगुपात्रयः ॥३२॥
रबद्यब्दयनुदात्तेतो भिक्ष्विदोदात्त इन्मत्तः ॥ परस्मैपदिनः पंच दश स्कंम्भ्वादयस्तथा ॥३३॥
कितधातुरुदात्तेच्च दानशानोभ यात्मकौ ॥ स्वरितेतः पचाद्यंकाः परस्मैपदिनो मताः ॥३४॥
स्वरिततस्त्रयश्वतौ वदवची परिभाषिणौ ॥ भ्वाद्या एते षडधिंक सहस्त्रं धातवो मताः ॥३५॥
परस्मेपदिनः प्रोक्ता वदाश्वपि हनेति च ॥ स्वरितेतो द्विषाद्यास्तु चच्वारो धातवो मताः ॥३६॥
चक्षिडेकः समाख्यातो धातुरत्रात्मनेपदी ॥ इरादयोऽनुदात्तेतो धातवस्तु त्रयोदश ॥३७॥
आत्मनेपदिनौ प्रोक्तौ षूड्रशीड्रद्वौ शाब्दिर्कैर्मुने ॥ परस्मैपदिनः प्रोक्ताः षुमुखाः सप्त धातवा ॥३८॥
स्वरितेदुर्णुञाख्यातो धातुरेको मुनीश्वर ॥ घुमुखास्त्रय उद्दिष्टाः परस्मैपदिनस्तथा ॥३९॥
ष्टुञेकस्तु समाख्यातं स्मृतो नारद शाब्दिकैः ॥४०॥
अष्टादश राप्रभृतयः परस्मैपदिनः ॥ स्मृताः ॥ इङ‌ङात्मनेपदी प्रोक्तो धातुर्नारद केवलः ॥४१॥
विदाद यस्तु चत्वारः परस्मैपदिनो मताः ञिष्वप्शये समुद्दिष्टः परस्मैपदिकस्तथा ॥४२॥
परस्मैपदिनश्वैव ते मयोक्ताः स्यमादयः ॥ दीधीङ्‌वेवीड्‍ स्मृतौ धातू आत्मनेपदिनौ मुने ॥४३॥
प्रथादयस्त्रयश्वापि उदात्तेतः प्रकीर्तिताः ॥ चर्करीतं च हुडः प्रोक्तोऽनुदात्तेन्मुनिसत्तम ॥४४॥
त्रिसप्तति समाख्याता धातवोऽदादिके गणे ॥ दादयो धातवो वेदाः परस्मैदिनो मताः ॥४५॥
स्वरितद्वै भृञाख्यात उदात्तद्धाक्‍ प्रकीर्तितः ॥ माङ्‍हाङ्‌द्वाव नुदात्तेतौ स्वरितेद्दानधातुषु ॥४६॥
वाणितिराद्यास्त्रय्श्वापि स्वरितेत उदाह्रताः घृमुखा द्वादश तथा परस्मैपदिनो मताः ॥४७॥
द्वाविंश तिरिहोद्दिष्टा धातवा ह्यादिके गणे ॥ परस्मैपदिनः प्रोक्ता दिवाद्याः पंचविंशतिः ॥४८॥
आत्मनेपदिनौ धातू षूङ्‌दूङ्‌द्वावपि नारद ॥ ओदितः पृङ्‌मुखाः सप्त आत्मनेपदिनो मताः ॥४९॥
आत्मनेपदिनो विप्र दीङ्‍मुखास्तिवह कीर्तिताः ॥ स्यतिप्रभृतयो वेदाः परस्मैपदिनो मता ॥५०॥
जन्यादयः पंचदशः आत्मनेपदिनो मुने ॥ मृषाद्याः स्वरितेतस्तु धातवः पंच कीर्तिताः ॥५१॥
एकादश पदाद्यास्तु ह्यात्मनेपदिनो मताः ॥राधोः कर्मक एवात्र वृद्धौ स्वादिचुरादिके ॥५२॥
उदात्तेतस्तुदाद्यास्तु त्रयोदश समीरिताः ॥ परस्मैपदिनोऽष्टात्र रधाद्याः परिकीर्तिताः ॥५३॥
समाद्याश्वाप्युदात्तेतः षट्‌चत्वारिंशदुदीरिताः ॥ चत्वारिशच्छतं चापि दिवादौ धातवो मताः ॥५४॥
खादयः स्वरितेत्तोंका धातवः परिकीर्तिताः ॥ सप्ताक्यातो दुनेतिस्तु परस्मैपदिनो मुने ॥५५॥
अष्टिघावनुदात्तेतौ धातू द्वौ परिकीर्तितौ ॥ परस्मैदिनस्त्वत्र तिकाद्यास्तु चतुर्दश ॥५६॥
द्वात्रिंशद्धातवः प्रोक्ता विप्रेन्द्र स्वादिके गणे ॥ स्वरितेतः षडाख्यातास्तुदाद्या मुनिसत्तम ॥५७॥
ऋष्युदात्तेज्जुषीपूर्वा अत्मनेपदिनोर्णवाः ॥ व्रश्वादय उदात्तेतः प्रोक्ता पंचाधिकं शतम्‍ ॥५८॥
गूर्यदात्तेदिहोद्दिष्टो धातुरेको मुनीश्वर ॥ णूमुखाश्वैव चत्वारः परस्मैदिनो मताः ॥५९॥
कुडाख्यातोनुदातेच्च कुटाद्याः पूर्तिमागताः ॥ पृड मृड चात्मनेभाषौ षट्‌ परस्मैपदे रिपेः ॥६०॥
आत्मनेपदिनो धातू दृङ्‌धृङ्‌द्वौ चाप्युदाह्रतौः॥ प्रच्छादिषोडशाख्याताः परस्मैपदिनो मुने ॥६१॥
स्वरितेतः षट्‌ ततश्व प्रोक्ता मिलमुखा मुने ॥ कृतीप्रभृतय श्वापि परस्मैपदिनस्त्रयः ॥६२॥
सप्त पंचाशदधिकास्तुदादौ धातवः शतम्‍ ॥ स्वरितेतो रुधोनंदा परस्मैभाषितः कृती ॥६३॥
ञिइंधीतोऽनुदातेतस्त्रयो धातव ईरिताः ॥ उदात्ततः शिषपिषरुधाद्याः पंचविंशत्तिः ॥६४॥
स्वरितेतस्तनोः सप्त धातवः परिकीर्तिताः ॥ मनुवन्वात्मनेभाषौ स्वरिते त्कृञुदाह्रतः ॥६५॥
ततो द्वौ कीर्तितौ विप्र धातवो दश शाब्दिकैः ॥ क्रयाद्याः सप्तोभयेभाषाः सौत्राः स्तंम्भदिकास्तथा ॥६६॥
परस्मैपदिनः प्रोक्ताश्वत्वारोऽपि मुनीश्वर ॥ द्वाविंशातिरुदात्तेतः क्रुधाद्या धातवो मताः ॥६७॥
वृङ्‌ङत्मनेपदी धातुः श्रंथाद्याश्वैंकविंशतिः ॥ परस्मै पदिनश्वाथ स्वरितेद्रह एव च ॥६८॥
क्र्यादिकेषु द्विपंचाशद्धातवः कीर्तिता बुधैः ॥ चुराद्या धातवो ञ्यंता षट्‌त्रिंशदधिकं शतम्‍ ॥६९॥
चित्याद्यष्टादशाख्याता आत्मनेपदिनो मुने ॥ चर्चाद्या आधृषीयास्तु प्युंता वा परिकीर्तिता ॥७०॥
अदंता धातवश्वैव चत्वारिंशत्तथाष्ट च ॥ पदाद्यास्तु दश प्रोक्ता धातवो ह्यात्मनेपदे ॥७१॥
सूत्राद्या अष्ट चाप्यत्र ञ्यन्ता प्रोक्ता मनीषिभिः ॥ धात्वर्थे प्रातिपदिकाद्वहुलं चेष्ठवन्मतम्‍ ॥७२॥
तत्करोति तदाचष्टे हेतुमत्यपि णिर्मतः ॥ धात्वर्थे कर्तृकाणाच्चित्राद्याश्वापि धातवः ॥७३॥
अष्ट संग्राम आख्यातोऽनुदात्तेच्छाब्दिकैर्बुधैः ॥ स्तोमाद्याः षोडश तथा अदंतस्यं निदर्शनम्‍ ॥७४॥
तथा बाहुलाकादन्ये सौत्रलौकिकवैदिकाः ॥ सर्वे सर्वगणीयाश्व तथानेकार्थवाचिनः ॥७५॥
सनाद्यंता धातवश्व तथा वै नामधातवः ॥ एवमानंत्यमुद्धाव्यं धातूनामिह नारद ॥ संक्षेपोऽयं समुद्दिष्टो विस्तरस्तत्र तत्र च ॥७६॥
ऊदृदंतैर्यैति रुक्ष्णुशीङ्‌स्त्रु नुक्षुश्विडीडुश्रिभिः ॥ वृड्‌वृञ्भ्यां च विनैकाचोऽजंतेषु निहताः स्मृताः ॥७७॥
शक्लपच्‌मुचार्रवचचविचसिचप्रछित्यज्‍निजिर भजः ॥ भञ्जभुजभ्रस्जम्‍ जयजयुजरञ्जविजिर्‌ स्वञ्जिसृजः ॥७८॥
अद्‍क्षुद्‌खिद्‌छिद‌तुदिनुदः पद्यभिद्‌विद्यतिर्विनद्‌ ॥ शदूसदी स्विद्यतिस्स्कन्दिर हदी क्रुधुक्षुधिबुध्यती ॥७९॥
बंधिर्युधिरुधीराधिव्यध्‌शुधः साधिसिध्यती ॥ मन्यहन्नाप्‌क्षिप्‌छुपितप्‌तिपस्तृप्यतिदृप्यती ॥८०॥
लिब्‌लुव्वपूशप्‌स्वपूसृपियभरभलभगम्‌नम्‍ यमो रभिः क्रिशिर्दंशिदिशी दृश्‌मृश्‌रिशरुशलिशविशस्पृशः कृषिः ॥८१॥
त्विष‌तुष‍दुपुष्यपिष्‌विष्‌शिष्‌शुषश्लिष्यतयो घसिः वसतिर्दहदिहिदुहो नह्‌मिह‌रुहलिहवहिस्तथा ॥८२॥
अनुदात्ता हलंतेषु धातवो द्वयधिकं शतम्‍ ॥ चाद्याअ निपाता गवयः प्राद्या दिग्देशकालजाः ॥८३॥
शब्दाः प्रोक्ता ह्यनेकार्थाः सर्वलिंगा अपि द्विज ॥ गणपाठः सूत्रपाठो धातुपाठस्तथैव च ॥८४॥
पाठोनुनासिकानां च परायणमिहोच्यते ॥ शब्दाः सिद्धा वैदिकास्तु लौकिका श्वापि नारद ॥८५॥
शब्दपारायणं तस्मात्कारणं शब्दसंग्रहे ॥ लघुमार्गेण शब्दानां साधूनां संनिरुपणम्‍ ॥८६॥
प्रकृतिप्रत्ययादेशलोपा गममुखैः कृतम्‍ ॥ इत्थमेतत्समाख्यातं निरुक्त किंचिदेव ते ॥ कात्स्न्येन व क्तुमानं त्यात्कोऽपिशक्तो न नारद ॥८७॥
इति श्रीबृहन्नारदीयपुराण पूर्वभागे बृहदुपाख्याने द्वितीयपादे निरुक्तलक्षण निरुपणं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:24:03.7570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

श्यामवय

  • n. वसिष्ठकुलोत्पन्न एक गोत्रकार । 
RANDOM WORD

Did you know?

पितापुत्र अथवा भाउ भाउ एकाच नक्षत्रावर जन्मले असता त्याचे काय परिणाम होतात? उपाय काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site