TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
पञ्चाशत्तमोऽध्यायः

श्री नारदीयमहापुराणम् - पञ्चाशत्तमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


पञ्चाशत्तमोऽध्यायः
सूत उवाच ॥
श्रुत्वा सनंदनस्येत्थं वचनं नारदो मुनिः ॥ असंतुष्ट इव प्राह भ्रातरं तं सनंदनम् ॥१॥
नारद उवाच ॥
भगवन्सर्वमाख्यातं यत्पृष्टं भवतो मया ॥ तथापि नात्मा प्रीयेत श्रृण्वन्हरिकथां मुहुः ॥२॥
श्रूयते व्यासपुत्रस्तु शुकः परमधर्मवित् ॥ सिद्धिं सुमहतीं प्राप्तो निर्विण्णोऽवांतरं बहिः ॥३॥
ब्रह्मन्पंसस्तु विज्ञानं महतां सेवनं विना ॥ न जायते कथं प्राप्तो ज्ञानं व्यासात्मजः शिशुः ॥४॥
तस्य जन्मरहस्यं मे कम चाप्यस्य श्रृण्वते ॥ समाख्याहि महाभाग मोक्षशास्त्रार्थविद्धवान् ॥५॥
सनंदन उवाच ॥
श्रृणु विप्रपवक्ष्यामि शुकोत्पत्तिं समासतः यां श्रुत्वा ब्रह्मतत्त्वज्ञो जायते मानवो मुने ॥६॥
न हायनैर्न वित्तेन न बंधुमिः ॥ ऋषयश्वक्रिरे धर्मं योऽनूचानः स नो महान् ॥७॥
नारद उवाच ॥
अनूचानः कथंब्रह्मन्पुमान्भवति मानद ॥ तन्मे कर्म समाचक्ष्व श्रोतुं कौतूहलं मम ॥८॥
सनंदन उवाच ॥
श्रृणु नारद वक्ष्यामि ह्यनूचानस्य लक्षणम् ॥ यज्ज्ञात्वा सांगवेदनामभिज्ञो जायते नरः ॥९॥
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा ॥ छंदःशास्त्रं षडेतानि वेदांगानि विदुर्बुधाः ॥१०॥
ऋग्वेद्रोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ वेदाश्र्वत्वार एवैंते प्रोत्का धर्मनिरूपणे  ॥११॥
सांगान्वेदान्गुरोर्यस्तु समधीते द्विजोत्तमः ॥ सोऽनूचानः प्रभवति नान्यथा ग्रथकोटिभिः ॥१२॥
नारद उवाच ॥
अंगानां लक्षणं वेदानां चापि विस्तरात् ॥ त्वमस्मासु महाविज्ञः सांगेष्वेतेषु मानद ॥१३॥
सनंदन उवाच ॥
प्रश्रभारोऽयमतुलस्त्वया मम कृतो द्विज ॥ संक्षेपात्कथयिष्यामि सार मेषां सुनिश्वितम् ॥१४॥
स्वरः प्रधानः शिक्षायां कीर्त्तितो मुनिभिर्द्विजैः ॥ वेदानां वेदविद्धिस्तु तच्छृणुष्व वदामि ते ॥१५॥
आर्चिकं गाथिकं चैव सामिकं च स्वरान्तरम् ॥ कृतांते स्वरशास्त्राणां प्रयोक्तव्य विशेषतः ॥१६॥
एकांतरः स्वरो ह्यप्सु गाथासुद्वयतरः स्वर्ह ॥ सामसु त्र्यंतरं विद्यादेतावत्स्वरतोऽन्तरम् ॥१७॥
ऋकसामयजुरंगानि ये यज्ञेषु  प्रयुंजते ॥ अविज्ञानद्धि शिक्षायास्तेषां भवति विस्वरः ॥१८॥
मंत्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ॥ स वाग्वज्रो यजमानं हिनस्ति यथेंद्र्शत्रुः स्वरतोऽपराधात् ॥१९॥
उरः कठः शिरश्वैव स्थानानि त्रीणि वाङ्ये ॥ सवनान्याहुरेतानि साम वाप्यर्द्धतोंऽतरम् ॥२०॥
उरः सप्तविवारं स्यात्तथा कंठस्तथा शिरः ॥ न च शक्तोऽसि व्यक्तस्तु व्यक्तस्तु तथा प्रवाचना ॥२१॥
कठकालापवृत्तेषु तैत्तिराह्ररकेषु च ॥ ऋग्वेदे सामवेदे च वक्तव्यः प्रथमः स्वरः ॥२२॥
ऋग्वेदस्तु द्वितीयेन तृतीयेन च वर्तते ॥ उच्चमध्यमसंघातः स्वरो भवति पार्थिवः ॥२३॥
तृतीय प्रथमक्रुष्टा कुर्वंत्याह्ररकान स्वरान् ॥ द्वितीयाद्यास्तु मद्रांतास्तैत्तिरीयाश्चतुःस्वरान् ॥२४॥ 
प्रथमश्व द्वितीयश्व तृतीयोऽथ चतुर्थकः ॥ मंद्रः क्रुष्टो मुनीश्वर एतान्कुवति सामगाः ॥२५॥
द्वितीयप्रथमावेतौ नांडिभाल्लविनौ स्वरौ ॥ तथा शातपथावेतौ स्वरौ वाजसनेयिनाम् ॥२६॥
एते विशेषतः प्रोक्ताः स्वरा वै सार्ववैदिकाः ॥ इत्येतच्चरितं सर्वं स्वराणां सार्ववैदिकम् ॥२७॥
सामवेदे तु वक्ष्यामि स्वराणां चरितं यथा ॥ अल्पग्रथं प्रभूतार्थं सामवेदांगमुत्तमम् ॥२८॥
तानरागस्वरग्राममूर्च्छनानां तु लक्षणम् ॥ पवित्रं पावनं पुण्यं यथा तुभ्यं प्रकीर्तितम् ॥२९॥
शिक्षामाहुर्द्विजातीनामृग्यजुःसामलक्षणम् ॥ सप्त स्वरास्त्रयो ग्रामां मूर्छनास्त्वेकविंशतिः ॥३०॥
ताना एकोनपंचाशदित्येतत्स्वरमंडलम् ॥ षङ्जश्व ऋषभश्वैव गांधारो मध्यमस्तथा ॥३१॥
पंचमो धैवतश्वैव निषादः सप्तमः स्वरः ॥ षङ्जमध्यमगांधारास्त्रयो ग्रामाः प्रकीर्तिताह ॥३२॥
भूर्ल्लोकाज्जायते षङ्जो भुवर्लोकाच्च मध्यमः ॥ स्वर्गाभ्राच्चैव गांधारो ग्रामस्थानानि त्रीणि हि ॥३३॥
स्वराणां च विशेषण ग्रामरागा इति स्मृताः विंशतिर्मध्यमग्रामे षङ्जग्रामे चतुर्दश ॥३४॥
तानान्पंचदशेच्छंति गांधारे सामगायिनाम् ॥ नदी विशाला सुसुखी चित्रा चित्रवती सुहा ॥३५॥
बला चाप्यथ विज्ञेया देवानां सप्त मूर्छनाः ॥ आप्यायिनी विश्वभृता चंद्रा हेमा कपर्दिनी ॥३६॥
मैत्री च बार्हती चैव पितृणां सप्त मूर्छनाः ॥ षङ्जे तूत्तरमंद्रा स्याद्दषभे चाभिरुहता ॥३७॥
अश्वक्रांता तु गांधारे तृतीया मूर्च्छना स्मृता ॥ मध्यमे खलु सौवीरा ह्रषिका पंचमे स्वरे ॥३८॥
धैवते चापि विज्ञेया तूत्तरा मता ॥ निषादे रजनी विद्यादृषीणा सप्त मूर्छनाः ॥३९॥
उपजीवंति गंधर्वा देवानाम सप्त मूर्छनाः ॥ पिट्टृणां मूर्च्छनाः सप्त तथा यक्षा न संशयः ॥४०॥
ऋषीणां मूर्छनाः सप्त यास्त्विमा लौकिकाः स्मृताः ॥ षङ्ज प्रीणाति वै देवानृषीन्प्रीणाति चर्षभः ॥४१॥
पितृन् प्रीणाति गांधारो गंधर्वान्मध्यमः स्वरः देवान्पितृनृषींश्वैव स्वरः प्रीणाति पंचमः ॥४२॥
यक्षान्निषादः प्रीणाति भूतग्रामं च धैवतः ॥ गानस्य तु दशविधा गुणवृत्तिस्तु तद्यथा ॥४३॥
रक्तं पूर्णमलंकृत प्रसन्नंव्यक्तं विक्रुष्टं श्लक्ष्णं समं सुकुमारं मधुरमिति गुणास्तत्र रक्तं नाम वेणुवीणास्वराणामेकीभावं रक्तमित्युच्यते पूर्णं नाम पदपदार्थप्रकृतिविकारागमनोपकृत्तद्धितसमासधातुनिपातोपसर्गंस्वरलिंगं वृत्तिवार्त्तिकविभक्त्यर्थवचनानां सम्यगुपपादनं व्यक्तमित्युच्यते विक्रुष्टं नामोच्चैरु च्चारिंत व्यक्तपदाक्षरं विक्रुष्टमित्युच्यते श्लक्ष्णं नाम द्रुतमविलंबितमुच्चनीचप्लुतसमाहारहेलतालोपनयादिभिरुपपादनाभिः श्लक्ष्णमित्युच्यते समंनामवापनिर्वापप्रदेशे प्रत्यंतरस्थानानां समासः सममित्युच्यते सुकुमारं नाम मृदुपदवर्णस्वरंकुहरणयुक्तं सुकुमारमित्युच्यते मधुरं नाम स्वभावोपनी तललित्पदाक्षरगुणसमृद्धं मधुरमित्युच्यते एवमेतैर्दशभिर्गुणैर्युक्तं गानं भवति ॥१॥
भवन्ति चात्र श्लोकाः ॥ शंकितं भीषणं भीतमुद्धुष्टमनुनासिकम् ॥ काकस्वरं मूर्द्धगतं तथा स्थानविवर्जितम् ॥४४॥
विस्वरं विरसं चैव विषमाहतम ॥ व्याकुलं तालहीनं च गीतिदोषाश्वतुर्दश ॥४५॥
आचार्याः सममिच्छति पदच्छेदं तु पंडिताः ॥ स्त्रियो मधुरमिच्छंति विक्रष्टमितरे जनाः ॥४६॥
पद्मपत्रप्रभः षङ्जऋषभः शुकपिंजरः ॥ कनकाभस्तु गांधारो मध्यमः कुंदसन्निभः ॥४७॥
पंचमस्तु भवेत्कृष्णः पीतकं धैवतं विदुः ॥ निषादः सर्ववर्णः स्यादित्येताः स्वरत्येताः स्वरवर्णतोः ॥४८॥
पंचमो मध्यमः षङ्ज इत्येते ब्राह्मणाः स्मृताः॥ ऋषभो धैवत्तश्वापीत्येतौ वै क्षत्रियाविभौ ॥४९॥
गांधारश्व निषादश्च वैश्यावर्द्धैन वै स्मृतो ॥ शूद्रत्वं विधिनार्द्धेन पतितत्वान्न संशयः ॥५०॥
ऋषभो मूर्छिवर्जित धैवतसहितश्व पंचमो यत्र ॥ निपतति मध्यमरागे स निषादं षाङ्जवं विद्यात‍ ॥५१॥
यदि पंचमो विरमते गांधारश्वांतरस्वरो भवति ॥ ऋषभो निषादसहितस्तं पंचममीदृश्म विद्यात् ॥५२॥
गांधारस्याधिपत्येन निषादस्य गतागतैः ॥
धैवतस्य च दौर्बल्यान्मध्यमग्राम उच्यते ॥५३॥
ईषत्पृष्टो निषादस्तु गांधारश्वाधिको भवेत् धैवतः कंपितो यत्र स षडग्राम ईरितः ॥५४॥ 
अंतरस्वरसंयुक्तः काकलिर्यत्र दृश्यते ॥ तं तु साधारितं विद्यात्पंचमस्थं तु कैशिकम् ॥५५॥
कैशिकं भावयित्वा तु स्वरेः सर्वेः समंततः ॥ यस्मात्तु मध्यमे न्याससस्मात्कैशिकमध्यमः ॥५६॥
ककलिर्दृश्यते यत्र प्राधान्यं पंचमस्य तु ॥ कश्यपः कैशिकं प्राह मध्यग्रामसंभवम् ॥५७॥
गेति गेयं विदुः प्राज्ञा धेति कारुप्रवादनम् ॥वेति वाद्यस्य संज्ञेयं गंधर्वस्य प्ररोचनम् ॥५८॥
यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः ॥ यो द्वितीयः स गांधारस्तृतीयस्त्वृषभः स्मृतः ॥५९॥
चतुर्थः षङ्ज इत्याहुः पंचमो धैवतो भवेत् ॥ षष्ठो निषादो विज्ञेयः सप्तमः पंचमः स्मृतः ॥६०॥
षङंज मयूरो वदति गावो रंभंति चर्षभम् ॥ अजाविके तु गांधारे क्रौंचो वदति मध्यमम् ॥६१॥
पुष्पसाधारणे काले कोकिला वक्ति पञ्चमम् ॥ अश्वस्तु धैवतुं वक्ति निषादं वक्ति कुंजरः ॥६२॥
कंठादुत्तिष्ठते षङ्जः शिरसस्त्वृषभः स्मृतः ॥ गांधारस्त्वनुनासिक्य उरसो मध्यमः स्वरः ॥६३॥
उरसः शिरसः कंठादुत्थितः पंचमः स्वरः ॥ ललाटाद्धैवतं विद्यान्निषादं सर्वसन्धिजम् ॥६४॥
नासा कंठमुरस्तालुजिह्रादतांश्व संश्रितः ॥ षङिजः सं जायते यस्मात्तस्मात्षङ्ज इति स्मृत ॥६५॥
वायुः समुत्थितो नाभेः कंठशीर्षसमाहतः ॥ नर्दत्यृभवद्यस्मात्तस्मादृअषभ उच्यते ॥६६॥
वायुः समुत्थितो नाभेः कंठशीर्षसमाहतः ॥ वाति गंधवहः पुण्यो गांधारस्तेन हेतुना ॥६७॥
वायुः समुत्थितो नाभेरुरौ ह्रदि समाहतः ॥ नाभिप्राप्तो मध्यवर्ती मध्यमत्व्म समश्च्नुते ॥६८॥
वायुः समुत्थितो नाभेरुरोह्रत्कंठकाहतः ॥ पंचस्थानोत्थितस्यास्य पंचमत्वं विधीयते ॥६९॥
धैवतं च निषादं च र्वजयित्वा तु तावुभौ ॥ शेषान्पंच स्वरांस्त्वन्ये पंचस्थानोत्थितान्विदुः ॥७०॥
पंचस्थानस्थित्वेन सर्वस्थानानि धार्यते ॥ अग्निगीतस्वरःषड्ज ऋषभो ब्रह्मणोच्यते ॥७१॥
सोमेन गीतो गांधारो विष्णुना मध्यमः स्वरः ॥ पंचमस्तु स्वरो गीतस्त्ययैवेति निधारय ॥७२॥
धैवतश्व निषादश्व गीतौ तुंबुरुणा स्वरौ ॥ आद्यंस्य दैवतं षङ्जस्याप्युच्यते बुधैः ॥७३॥
तीक्ष्णदीप्तप्रकाशत्वादृषभस्य हुताशनः ॥ गावः प्रनीते तुष्यंति गांधारस्तेन हेतुना ॥७४॥
श्रुत्वा चैवोपतिष्ठंति सौरभेया न संशयः ॥ सोमस्तु पंचमस्यापि दैवत्म ब्रह्मराट्र्स्मृतम् ॥७५॥ 

निह्रासी यस्य वृद्धिश्व ग्राममासाद्य सोमवतू ॥ अतिसंधीयते यस्मादेतान्पूर्वोत्थितान्स्वरान्‍ ॥७६॥
तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ॥ निषीदंति स्वरा यस्मान्निषादस्तेन हेतुना ॥७७॥
सर्वांश्वभिभवत्येष यदादित्योऽस्य दैवतम्‍ ॥७८॥
दारवी गात्रवीणा च द्वे वीणे गानजा तिषु ॥७९॥
सामनी गात्रवीणा तु तस्यास्त्वं श्रृणु लक्षणम्‍ ॥ गात्रवीणा तु सा प्रोक्ता यस्यां गायंति सामगाः ॥८०॥
स्वरव्यंजनसंयुक्ता अंगुल्यंगुष्ठरंजिता ॥ हस्तौ तु संयतौ धार्यौ जानुभ्यामुपरिस्थितौ ॥८१॥
गुरोरनुकृतिं कुर्याद्यथान्या न मतिर्भवेत्‍ ॥ प्रणवं प्राक्यप्रयुंजेत व्यात्द्दतीस्तदनंतरम्‍ ॥८२॥
सावित्रीं चानुवचनं ततो वै गानमारभेत ॥ प्रसार्य चांगुलीः सर्वा रोपयेत्स्वरमंडलम्‍ ॥८३॥
न चांगुलीभिरंगुष्ठमंगुष्ठेनांगुलीः स्पृशेत ॥ विरला नांगुलीः कुर्यान्मूले चैतां न संस्पृशेत ॥८४॥
अंगुष्ठाग्रेण ता नित्यं मध्यमे पर्वणि स्पृशेत ॥ मात्रद्विमात्रवृद्धानां विभागार्थे विभागवित्‍ ॥८५॥
अंगुलीभिर्द्विमात्रं तु पाणेः सव्यस्य दर्शयेत्‍ ॥ त्रिरेखा यस्य द्दश्येत सिद्धिं तत्र विनिदिंशेत्‍ ॥८६॥
स पर्व इति विज्ञेयः शेषमंतरमंतरम्‍ ॥ पर्वांतरं सामसु च ऋक्षु कुर्यात्तिलांतरम्‍ ॥८७॥
स्वरान्मध्यमपर्वसु सुनिविष्टं निवेशयेत्‍ ॥ न चात्र कंपयेत्किंचिदंगस्यावयवं बुधः ॥८८॥
अधस्तनं मृदं न्यस्य हस्तमात्रे यथाक्रमम्‍ ॥ अभ्रमध्ये यथा विद्युद्दश्यते मणिसूत्रवत्‍ ॥८९॥
पृषच्छेदविवृत्तीनां यथा बालेषु कर्तरी ॥ कूर्मोऽगानि च संत्द्दत्य चेतोदृष्टिं दिशन्मनः ॥९०॥
स्वस्थः प्रशांतो निर्भीको वर्णानुच्चारयेदुधः ॥ नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेत्‍ ॥९१॥
निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिंतयेत्‍ ॥ सम्यक्प्रचारयेद्वाक्यं हस्तेन च मुखेन च ॥९२॥
यथैवोच्चारयेद्वर्णांस्तथैवैनां समापयेत्‍ ॥ नात्याहन्यान्न निर्हण्यान्न प्रगायेन्न कंपयेत्‍ ॥९३॥
समं सामानि गायेत व्योग्नि स्वेन गतिर्यथा ॥ यथा सुचरतां मार्गो मीनानां नोपलभ्यते ॥९४॥
आकाशे वा विहंगाना तद्वत्स्वरगता श्रुतिः ॥ यथा दधिनि सर्पिः स्यात्काष्टस्थो वा यथाऽनलः ॥९५॥
प्रयत्नेनोपलभ्येत तद्वत्स्वरगता श्रुतिः ॥ स्वरात्स्वरस्य संक्रामं स्वरसंधिमनुल्बणम्‍ ॥९६॥
अविच्छिन्नं समं कुर्यात्सूक्ष्मच्छायातपोपमम्‍ ॥ अनागतमतिक्रांतं विच्छिन्नं विषमाहतम्‍ ॥९७॥
तन्वंतमस्थितांतं च वर्जयेत्कर्षणं बुधः॥ स्वरः स्थानाच्चुतो यस्तु स्वं स्थानमतिवर्तते ॥९८॥
विस्वरं सामगा बूयुर्विरक्तमिति वीणिनः ॥ अभ्यासार्थेद्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम्‍ ॥९९॥
शिष्याणामुपदेशार्थं कुर्यादूवृत्तिं विलंबिताम्‍ ॥ गृहीतग्रथं एवं तु ग्रंथोच्चारणशैक्षकान्‍ ॥१००॥
हस्ते नाध्यापयोच्छिष्यान्‍ शैक्षेण विधिना द्विजः ॥ क्रुष्टस्य मूर्द्धनि स्थानं ललाटे प्रथमस्य तु ॥१०१॥
भ्रुवोर्मध्य द्वितीयस्य तृतीयस्य तु कर्णयोः ॥ कंठस्थानं चतुर्थस्य मंद्रस्य रसनोच्यते ॥१०२॥
अतिस्वरस्य नीचस्य नीचस्य ह्रदि स्थानं विधीयते ॥ अंगुष्ठस्योत्तमे व्रुष्टो ह्यंगुष्ठं प्रथमः स्वरः ॥१०३॥
प्रदेशिन्यां तु गांधार ऋषभस्तदनंतरम्‍ ॥ अनामिकायां पङ्जस्तु कनिष्ठायां तु धैवतः ॥१०४॥
तस्याधस्ताच्च योन्यास्तु निषादं तत्र निर्दिशेत ॥ अपर्वत्वादमध्यत्वा दव्ययत्वाच्च नित्यशः ॥१०५॥
मंद्रो हि मंदीभूतस्तु परिवार इति स्मृतः ॥ क्रुष्टेन देवा जीवंति प्रथमेन तु मानुषाः ॥१०६॥
पश्वस्तु द्वितीयेन गंधर्वाप्सरसत्वनु ॥ अंधजाः पितरश्वैव चतुर्थस्वरजीविनः ॥१०७॥
मंद्रत्वेनोपजीवंति पिशाचासुरराक्षसाः ॥ अतिस्वरेण नीचेन जगत्स्थावरजंगमाः ॥१०८॥
सर्वाणि खलु भूतानि धार्यंते सामिकैः स्वरैः ॥ दीप्तायताकरुणानां मृदुमध्यमयोस्तथा ॥१०९॥
श्रुढीनां यो विशेषज्ञो न स आचार्य उच्यते ॥ दीप्ता मंद्रे द्वितीय च प्रचतुर्थे तथैव च ॥११०॥
अतिस्वरे तृतीये च क्रुष्टे तु करुणा श्रुतिः ॥ श्रुतयो या द्वितीयस्य मृदुमध्यायताः स्मृताः ॥१११॥
तासामपि तु वक्ष्यामि लक्षणानि पृथक्‍ पृथक्‍ ॥ आयतात्वं भवेन्नीच मृदुता तु विपर्यये ॥११२॥
स्वे स्वरे मध्यमात्वं तु तत्समीक्ष्य प्रयोजयेत्‍ ॥ द्वितीये विरत या तु क्रुष्टुश्व परतो भवेत्‍ ॥११३॥
दीप्तां तां तु विजानीयात्प्राथम्येन मृदुः स्मृतः ॥ अत्रैव विरता या तु चतुर्थेन प्रवर्तते ॥११४॥
तथा मंद्रे भवेद्दीप्ता साम्नश्चैव समापने ॥ नातितारश्रुतिं कुर्यात्स्वरयोर्नापि चांतरे ॥११५॥
तं च ह्रस्वे च दीर्घे च न चापि घुटिसज्ञके ॥ द्विविधा गतिः पदांस्थितसंधिः सहोष्मभिः ॥११६॥
स्थानेषु पंचस्वेतेषु विज्ञेय घुटिसंज्ञकम्‍ ॥ स्वरांतराविरतानि ह्रस्व दीर्घघुटानि च ॥११७॥
स्थितिस्थानेष्वशेषाणि श्रुतिवत्स्वरतो वदेत्‍ ॥ दीप्तामुदात्ते जानीयाद्देप्तां च स्वरिते विदुः ॥११८॥
अनुदात्ते मृदुर्ज्ञेया गंधर्वाः श्रुतिसंपदे ॥ उदात्तश्वानुदात्तश्च स्वरितप्रचिते तथा ॥११९॥
निघातश्वेति विज्ञेयः स्वरहेदश्व पंचधा ॥ अत ऊर्ध्वं प्रवक्ष्यामि आचि कस्य स्वरत्रयम्‍ ॥१२०॥
उदात्तश्वानुदात्तश्व तृतीयः स्वरितः स्वरः ॥ य एवोदात्त इत्युक्तः स एव स्वरितात्परः ॥१२१॥
प्रचयः प्रोच्यते तज्ज्ञैर्न चात्रान्यत्स्वरांतरम्‍ ॥ वर्णस्वरोऽतीतस्वरः स्वरितो द्विविधः स्मृतः ॥१२२॥
मात्रिको वर्ण एवं तु दीर्घस्तूच्चरितादनु ॥ स तु सप्तविधो ज्ञेयः स्वरः प्रत्य यदर्शनात्‍ ॥१२३॥
पदेन तु स विज्ञेयो भवेद्यो यत्र यादृशः ॥ सप्तस्वरान्प्रंयुजीत दक्षिणं श्रवणं प्रति ॥१२४॥
आचार्यैर्विहितं शास्त्रं पुत्रशिष्य हितैषिभिः उच्चादुच्चतरं नास्ति नीचान्नीचतरं तथा ॥१२५॥
वैस्वर्यस्वारसंज्ञायां किंस्थानः स्वार उच्यते ॥ उच्चनीचस्य यन्मध्ये साधारणमिति श्रुतिः ॥१२६॥
तं स्वारं स्वारंसंज्ञायां प्रतिजानंति शैक्षिकाः ॥ उदात्ते निषादगांधारावनुदात्ते ऋषभधैवतो ॥१२७॥
स्वरितप्रभवा ह्येते षडूजमध्यमपंचमाः ॥ यत्र कखपरा ऊष्मा जिह्यामूलप्रयोजनाः ॥१२८॥
तानप्याज्ञान्मात्राप्रकृत्यैव तु सा जात्यः क्षैप्रोऽभिनिहित स्वैरव्यजनं एव च ॥१२९॥
तिरोविरामः प्रश्लिष्टोऽपादवृत्तश्व सप्तमः ॥ स्वराणामहमेतेषां पृथग्वक्ष्यामि लक्षणम्‍ ॥१३०॥
उद्दिष्टानां तथा न्यायमुदाहणमव च ॥ सपकारं सवं वापि ह्यक्षरं स्वरितं भवेत्‍ ॥१३१॥
न चोदात्तं पुरो यस्य जात्यः स्वारः स उच्यते ॥ इउवर्णो यदोदात्तावापद्येते पवौ क्कचित्‍ ॥१३२॥
अनुदात्तं प्रत्यये तु विद्यात्क्षैप्रस्यलक्षणम्‍ ॥ एओआभ्यामुदात्ताभ्यामकारो निहितश्व यः ॥१३३॥
अकारो यत्र लुंपति तमभिनिहितं विदुः ॥ उदात्तपूर्वे यत्किंचिच्छदसि स्वरितं भवेत्‍ ॥१३४॥
एष सर्वबहुस्वारस्तैरव्यंजन उच्यते ॥ अवग्रहात्परं यत्र स्वरितं स्यादनंतरम्‍ ॥१३५॥
तिरोविरामं तं विद्यादुदात्तो यद्यवग्रहः ॥ इकारं यत्र पश्येयुरिकारेणैव संयुतम्‍ ॥१३६॥
उदात्तमनुदात्तेन प्रश्लिष्टं तं विचारय ॥ स्वर चेत्स्वरितं यत्र विवृता यत्र संहिता ॥१३७॥
एतत्पदांतवृत्तस्य लक्षणं शास्त्रनोदितम्‍ ॥ तान्यः स्वारः स जात्येन श्रुत्यग्रे क्षैप्र उच्यते ॥१३८॥
ते मन्वताभिनिहितस्तैरव्यञ्जन ऊतये ॥ तिरोविरामो विष्कषिते प्रश्लिष्टो हीईगोवर्णः ॥१३९॥
पादवृत्तः कंदविदे स्वराः सप्तैवमादयः ॥ उच्चादेकाक्षरात्पूर्वात्स्वरं यद्यदिहाक्षरम्‍ ॥१४०॥
स्वाराणां जात्यवर्जानामेषा प्रकृतिरुच्यते ॥ चत्वारस्त्वादितः स्वाराह कंषंपुंश्फुतिशास्त्रतः ॥१४१॥
उदात्ते चैकनीचे वा जुह्रोऽन्गिस्तन्निदर्शनम्‍ ॥ इकारांते पदे पूर्व उकारे परतः स्थिते ॥१४२॥
ह्रस्व्म कंपं विजानीयान्मेधावी नात्र संशयः ॥ इकारांते पद चैवोकारद्वयं परे पदे ॥१४३॥
दीर्घं कंपं विजा नीयाच्छाग्धूष्विति निदर्शनम्‍ ॥ त्रयो दीर्घास्तु विज्ञेया ये च संध्यक्षरेषु वै ॥१४४॥
मन्या यथा न इंद्राभ्यां शेषा ह्रस्वाः प्रकीर्तिताः ॥ अनेकाना मुदात्तानामनुदात्तः प्रत्ययो यदि ॥१४५॥
शिवकंप विजानीयादु दात्तः प्रत्ययो यदि ॥ यत्र द्विप्रभृतीनि स्युरुदात्तान्यक्षराणि तु ॥१४६॥
नीचं वोच्चं च वोच्चं च परतस्तत्रोदात्तं विधुर्बुधाः ॥ न रेफं वा हकारे वा द्विर्भावो जायते क्कचित्‍ ॥१४७॥
न च वर्गद्वितीयेषु न चतुर्थे कदाचन ॥ चतुर्थं तु तृतीयने द्वितीयः प्रथमेथ तु ॥१४८॥
आद्यमंत्यं च मध्यं च स्वाराक्षरेण पीडयेत ॥ अनंत्यश्व भवेत्पूर्वी ह्यंतश्व परतो यदि ॥१४९॥
तत्र मध्ये यमस्तिष्टित्स्ववर्णः पूर्ववणयोः ॥ वर्गांत्यान्‍ शषसैः सार्द्धमंतस्थैवापि संयुतान्‍ ॥१५०॥
दृष्ट्रा यमा निवर्तंते अदेशिकमिवाध्वगाः ॥ तृतीयश्व चतुथर्श्व चतुर्थादिपरं पदम्‍ ॥१५१॥
द्वौ तृतीयौ हकारश्व हकारादिपरं पदम्‍ ॥ अनुस्वारोपधामूला तान्‍ क्कचित्क्रमतः परम्‍ ॥१५२॥
रहपूर्व संयुते चाप्युत्तरं क्रमतेऽक्षरम्‍ ॥ संयोगो यत्र दृश्येत व्यंजंज विरते पदे ॥१५३॥
पूर्वांगमादितः कृत्वा परांगादो निवेशयत्‌ ॥ संयोग स्वरितं यत्र उद्वातः प्रतनं तथा ॥१५४॥
पूर्वांग तद्विजानीयाद्येनारंभः परं हि तत्‍ ॥ संयोगात्तु विजानीयात्परं संयोगनायकम्‍ ॥१५५॥
संयुक्तस्य तु वर्णस्य तत्परं पूर्वमक्षरम्‍ ॥ अनुस्वारः पदांतश्व क्रमजं प्रत्यये स्वके ॥१५६॥
स्वरभक्तिस्तथा रेफः पूर्वपूर्वांगमुच्यते ॥ पादादौ चापादादौ सयोगावग्रहेषु च ॥१५७॥
यशब्द इति विज्ञेयो योऽन्यः सयइति स्मृतः ॥ पादादावप्यविच्छेदे संयोगान्ते च तिष्ठताम्‍ ॥१५८॥
वर्जयित्वा रहपाणामुपादेशः प्रदृश्यते ॥ स्वसंयुक्तो गुरुर्ज्ञेयः सानुस्वाराग्निमः स्फुटः॥ अणुशेषी ह्रिगो युगलादिरविस्फुतः ॥१५९॥
यदुदात्तमुदात्तं तद्यत्स्वरितं तत्पदे भवति ॥ यन्नी चं नीचमेव तद्यत्प्रचयस्थं तदपिनीचम्‍ ॥१६०॥
अग्निः सुतो मित्रमिदं तथा वयमयावहाः ॥ प्रियं घृतं चित्तमतिशब्दस्तु नीचतः ॥१६१॥
अक्केष्वेव सुतेष्ववे यज्ञेषु कलशेषु च ॥ शतेषु सपवित्रेषु नीचादुच्चार्यते श्रुतिः ॥१६२॥
हारिवरुणवरेण्येषु धारापुरुषेषु स्वरतिरेफः ॥ विश्वानरोनकाश्व शेषास्तुस्वरिता नराः ॥१६३॥
द्वौ वरुणौ वस्वरत उदुत्तमंत्वं वरुणधार चौरुधारामुरुधारेस्वदोहते ॥ मात्रिकं वा द्विमात्रं वा स्वर्यते यदिहाक्षरम्‍ ॥ तस्यादितोऽर्द्धमात्रं वै शेषं तु परतो भवेत्‍ ॥ अदीर्घं दीर्घवत्कुर्याद्दिस्वरं यत्प्रयुज्यते ॥१६४॥
कंपोत्स्वरिताभिगीतं ह्रस्वकर्षणमेव च ॥ निमेषकोला मात्रा स्याद्विद्युत्कालेति चापरे ॥१६५॥
ऋक्स्वरा तुल्ययोगा वा कैश्विदेवमुदीर्यते ॥॥१६६॥
समासेऽवग्रहं कुर्यात्पदं चात्रानुसंहितम्‍ ॥ येतीक्षरादिकरणं पदांतस्येति तं विदुः ॥१६७॥
(सर्वत्र मित्रपुत्रसखिशब्दा अहिशतक्रतोखग्राह्याः ॥ आदित्यविप्रजातवेधाश्व सत्पतिगोपतिवृत्रहासमुद्राश्व ॥ स्वरयुपुवोदेवयवश्वारितं देवतातपे) चिकितिश्व धचैव नावगृह्रंति पंडिताः ॥ विवृतयश्वतस्त्रो वै विज्ञेया इति मे मतम्‍ ॥१६८॥
अक्षराणां नियोगेन तासां नामानि मे श्रृणु ॥ ह्रस्वादिवत्सानुसृता वत्सानुसारिणी चाग्रे ॥१६९॥
पाकवत्युभयोर्ह्रस्वा दीर्घा वृद्धा पिपीलिकाः ॥ चतसृणां विवृतीना मंतंर मात्रिक्म भवेत्‍ ॥१७०॥
अर्द्धमात्रिकमन्येषामन्येषामणुमात्रिकम्‍ ॥१७१॥
आपद्यते मकारो रेफोष्मसु प्रत्ययेऽप्यनुस्वारम्‍ ॥ पवेषु परसवर्णं स्पर्शेषु चोत्तमापतिम्‍ ॥१७२॥
नकारांते पदे पूर्वे स्वरे च परतः स्थिते ॥ अकारं रक्तमित्याहुस्तकारेण तु रज्यते ॥१७३॥
नकारांते पदे पूर्वे व्यंजनैश्व यवोहिषु ॥ अर्द्धमात्रा तु पूर्वस्य रज्यते त्वणुमात्रया ॥१७४॥
नकारस्वरसंयुक्तश्वतुर्युक्तो विधीयते ॥ रेफो रंगश्व लोपश्व सानुस्वारोऽपि वा क्कचित्‍ ॥१७५॥
ह्रदयादुत्तिष्ठते रंगः कांस्येन तु समन्वितः॥ मृदुश्वैव द्विमात्रश्व दधन्वंइति निदर्शनम्‍ ॥१७६॥
यथा सौराष्ट्रिका नारी अरां इत्यभिभाषते ॥ एवं रंगः प्रयोक्तव्यो नारदैतन्मतं मम ॥१७७॥
स्वरा गडदबाश्वैव ङ्णनमाः सहोष्मभिः ॥ चतुर्णां पदजातीनं पदांता दश कीर्तिताः ॥१७८॥
स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च ॥ व्यंजना न तु वर्तन्ते यत्र तिष्ठति स स्वरः ॥१७९॥
स्वरप्रधानंअ त्रिअस्वर्यमाचार्याः प्रतिजानते ॥ मणिवद्वयंजनं विद्यात्सूत्र वच्च स्वरे विदुः ॥१८०॥
दुर्बलस्य यथा राष्ट्रं हरते बलवान्नृपः ॥ दुर्बलं व्यजनं तद्वद्धरेत बलवान्स्वरः ॥१८१॥
उभावश्व विवृत्तिश्व शषसा रेफ एव च ॥ जिह्रामूलमुपध्मा च गतिरष्टविधोष्मणः ॥१८२॥
स्वरप्रत्ययाविवृतिः संहितायां तु या भवेत्‍ ॥ विसर्गस्तत्र मंतव्यस्तालव्यश्वात्र जायते ॥१८३॥
संध्यक्षरे परे संधौ प्राप्तलुप्तौ यवौ यदि ॥ व्यञ्जनाख्या विवृत्तिस्तु स्वराख्या प्रतिसंहिता ॥१८४॥
ऊष्मांतं विरते यत्र संभावो भवति क्कचित्‍ ॥ विवृत्तिर्यां भवेत्तत्र स्वराख्यां तां विनिर्द्दिशेत्‍ ॥१८५॥
यद्योभावप्रसंधानमृकारादिपरं पदम्‍ ॥ स्वरांतं तादृशं विद्याद्यदन्यद्य्वक्त मूष्मणः ॥१८६॥
प्रथमा उत्तमाश्वैव पदांतेषु यदि स्थिताः ॥ द्वितीयं स्थानमापन्नाः शषसप्रत्यया यदि ॥१८७॥
प्रथमानूष्मसंयुक्तान द्वितीया निव दर्शयेत्‍ ॥ न चैतन्प्रतिजानीयाद्यथा मत्स्यः क्षुरोप्सराः ॥१८८॥
छंदोमानं च वृत्तं च पादस्थानं त्रिकारणम्‍ ॥ ऋचः स्वच्छंदवृत्तास्तु पादास्त्वक्षरमानतः ॥१८९॥
ऋग्वर्य्यान्‍ स्वरभक्तिं च छन्दोमानेन निर्द्दिशेत्‍ ॥ प्रत्ययेत सहारेफ्गमिमीते स्वरभक्तया ॥१९०॥
ऋवर्णे तु पृथग्रेफः प्रत्ययस्तु वृथा भवेत्‍ ॥ विद्याल्लघुमृकारं तु यदि तूष्माणसंयुतः ॥१९१॥
ऊष्मणैव हि संयुक्त ऋकारो यत्र पीड्यते ॥ गुरुवर्णः स विज्ञेयस्तृचं चात्र निदर्शनम्‍  ॥१९२॥
ऋषभं च गृहीतं च बृहस्पतिं पृथिव्यां च ॥ निऋतिपंचमा ह्यत्र ऋकारा नात्र संशयः ॥१९३॥
शषसह रादौ रेफः स्वरभक्तिर्जायते द्विपदसंधौ ॥ इउवर्णाभ्यां हीना क्कचिदेकापदाक्रमवियुक्ता ॥१९४॥
स्वरभक्तिर्द्विधा प्रोक्ता ऋकारे रेफ एव च ॥ स्वरोदा व्यञ्जनोदा च विहिताक्षर चिंतकैः ॥१९५॥
शषसेषु स्वरोदयां हकारे व्यञ्जनोदयाम्‍ ॥ शषसेषु विवृतां तु हकारे संवृतां विदुः ॥१९६॥
स्वरभक्तिं प्रयुंजानस्त्रीन्दोषान्परिवर्जयेत्‍ ॥ इकारं चाप्युकारं ग्रस्तदोषं तथैव च ॥१९७॥
संयोगपर छपरं विसर्जनीयं द्विमात्रकं चैवा ॥ अथ सान्तिक च नङ्‌मसानुस्वारं घुटंत ॥१९८॥
यस्याः पादः प्रथमो द्वादशमात्रस्तथा तृतीयोऽपि ॥ अष्टादशो द्वितीयः समापन्नः पञ्चदशमात्रः ॥ यस्या लक्षणमुक्त या त्वन्या सा स्मृता विपुला ॥१९९॥
अक्षराणां लघुह्रस्वमसंयोगपरं यदि ॥ तत्ससंयोगोत्तरं विद्यादुरुदीर्घाक्षराणि तु ॥२००॥
विवृत्तिर्यत्र दृश्येत स्वारस्यैवाग्रतः स्थितः ॥२०१॥
गुरुस्वारः सविज्ञेयः क्षैप्रस्तत्र न विद्यते ॥ अष्टप्रकारं विज्ञेयं पदानां स्वरलक्षणम्‍ ॥२०२॥
अतोदात्तमाद्युदात्तमुदात्तमनुदातं नीचस्वरितम्‍ ॥ मध्योदात्तं द्विरुदात्तमित्येता अष्टौ पदसंज्ञा ॥२०३॥
अग्निः सोमः प्रवो वीर्यं हविषा स्वर्वनस्पतिः ॥ अंतर्मध्यमयोताम्युदमनुनिपात्य आद्यात्स्वरितमुपसर्गे द्विन्नीचमाख्यात इति स्वरितत्पराणि यानि स्युर्द्धारापक्षराणि तु ॥ सर्वाणि प्रचयास्थान्यु पोदात्तं निहन्यते ॥२०४॥
प्रचयो यत्र दृश्येत तत्र हन्यात्स्वरं बुधः ॥ स्वरितः केवलो यत्र मृदुस्तत्र निपातर्यत्‍ ॥२०५॥
पंचविधमाचार्यकं नाम सुखं न्यासः करणं प्रतिज्ञोच्चारणा ॥ अत्रोच्यते श्रेयः खलु वैश्याः प्रतिज्ञातोच्चारना यस्य कस्यचिद्वर्णस्य करणं नोपलभ्यते प्रतिज्ञा तत्र वोढव्याकरणं हि तदात्मकम्‍  ॥२०६॥
तुंबुरुभवाद्विशिष्टविश्वावस्वादयश्व गंधर्वाः ॥ सामसु निभृतं करणं स्वरसौक्ष्म्यान्नैव जानीयुः ॥२०७॥
कौक्षेयाग्निं सदा रक्षेदश्रीपादर्शनं हेतुम्‍ ॥ जीर्णो हारः प्रबुद्धः खलूषसिन्ब्रह्म चिंतयेत्‍  ॥२०८॥
शरद्विषुवतोतीतादुषस्युत्थानमिष्यते ॥यादद्वांसतिकी रात्रिर्मध्यमा पर्युपस्थिता ॥२०९॥
आम्रपालाशबिल्वानामपामार्गशिरीषयोः ॥ वाग्यतः प्रातरुत्थाय भक्षयेद्द्तधावनम्‍  ॥२१०॥
खादिश्व कदम्बश्व करवीरकरंजयोः ॥ सर्वे कंटकिनः पुण्याः क्षीरिणश्व यशस्विनः ॥२११॥
तेनास्य करणे सौक्ष्म्य़ं माधुर्यं चोप जायते ॥ वर्णांश्व कुरुते सम्यक्प्राचीनौदवथिर्यथा ॥२१२॥
त्रिफलां लवणाख्येन भक्षयेच्छिष्यकः सदा ॥ अग्निमेधाजन्येषा स्वरवर्णकरी तथा ॥२१३॥
कृत्वा चाअश्यकान्धर्माञ्जाठरं पर्युपास्य च ॥ पीत्वा मधुं घृंत चैव शुचिर्भूत्वा ततो वदेत्‍ ॥२१४॥
मंद्रेणोपक्रमेत्पूर्वं सर्वशा खास्वयं विधिः ॥ सप्तमंत्रानतिक्रम्य यथेष्टां वाचमुत्सृजेत्‍  ॥२१५॥
न तां समीरयेद्वाचं न प्राणमुपरोधयेत ॥ प्राणानामुपरोधेन वैस्वर्यं चोपजायते ॥ स्वरव्यंजनाधुर्यं लुप्यतें नात्र संशयः ॥२१६॥
कृतीर्थादागतं दग्धमवणैश्व भक्षितम्‍ ॥२१७॥
न तस्य परिमोक्षोऽस्ति पापाहेखि किल्बिषात्‍ ॥२१७॥
सुतीर्थादागतं जग्धुं स्वाम्नांत सप्रतिष्टितम्‍ ॥ सुस्वरेण स्ववक्रेण प्रयुक्तं ब्रह्म राजति ॥२१८॥
न कारालो न लंबोष्ठो न च सर्वानुनासिकः ॥२१८॥
गद्नदो बद्धजिह्रश्व प्रयोगान्वक्तुमर्हति ॥२१९॥
एकचित्तो निरुद्धांतः स्त्रातो गानविवज्जितः ॥ स तु वर्णान्प्रयुंजीत दंतोष्ठं यस्य शोभनम्‍ ॥२२०॥
पञ्च विद्यां न गृह्यंति चंडा स्तब्धाश्व ये नराः ॥ अलसाश्व सरोगाश्व येषां च विसृतं मनः ॥२२१॥
शनैर्विद्यां शनैरर्थानारोहेत्पर्वतं शनैः ॥ शनैरध्वसु वर्तेत योजनान्न परं ब्रजेत ॥२२२॥
योजनानां सहस्त्रं तु शनैर्याति पिपीलिका ॥ अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति ॥२२३॥
नहि पापहता वानी प्रयोगान्वक्तुमर्हति ॥ बधिरस्येव जल्पस्य विदग्धा वामलोचना ॥२२४॥
उपांशुचरितं चैव योऽधीते वित्रसन्निव ॥ अपि रुपसहस्त्रेषु संदेहेष्वेव वर्तते ॥२२५॥
पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ ॥ राजते न सभामध्ये जारगर्भैव कामिनी ॥२२६॥
अञ्जनस्य क्षयं दृष्ट्रा वल्मीकस्य तु संचयम्‍ ॥ अंवध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु ॥२२७॥
यत्कीटैः पांशुभिः श्लक्ष्णैर्वल्मीकः क्रियते महान्‍ ॥ न तत्र बलसामर्थ्य मुद्योगस्तत्र कारणम्‍ ॥२२८॥
सहस्त्रगुणिता विद्या शतशः परिकीर्तिता ॥ आगमिष्यति जिह्यग्रे स्थलान्निमिवोदकम्‍ ॥२२९॥
हयानामिव जात्यानामर्द्ध रात्रर्द्धशायिनाम्‍ ॥ नहि विद्यार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति ॥२३०॥
न भोजनविलंबी स्यान्न च नारीनिवधनः ॥ समुद्रमपि विद्यार्थी वज्रेद्द्धरुडंहंसवत्‍ ॥२३१॥
अहिरिव गणाद्धीतः साहित्यान्नकादिव ॥ राक्षसीभ्य एव स्त्रीभ्यः स विद्यामधिगच्छति ॥२३२॥
न शठाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः ॥ न लोकरवा दीना न च स्वस्वप्रतीक्षकाः ॥२३३॥
यथा खनन्खनित्रेण भूतलं वारि विंदति ॥ एवं गुरुगतां विद्यां शुश्रूषुरधिगच्छाति ॥२३४॥
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ॥ अथवा विद्यया विद्या ह्यन्यथा नोपपद्यते ॥२३५॥
शुश्रूषारहिता विद्या यद्यपि मेधागुणैः समुपयाति ॥ वन्ध्येव यौवनवती न तस्य साफल्यवति भवति ॥२३६॥
इति दिङ्‌मात्रमुद्दिष्टं शिक्षाग्रंथं मया तव ॥ ज्ञात्वा वेदां गमांद्य तु ब्रह्मभूयाय कल्पते ॥२३७॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चाशत्तमोऽध्यायः ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:21:26.8500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कौत्स II.

  • n. भृगुकुल का गोत्रकार । 
RANDOM WORD

Did you know?

मनुष्याच्या जीवनात स्नानाचे महत्त्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.