TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
एकविंशत्यधिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - एकविंशत्यधिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


एकविंशत्यधिकशततमोऽध्यायः
सनातन उवाच॥
अथ व्रतानि द्वादश्याः कथयामि तवानघ॥
यानि कृत्वा नरो लोके विष्णोः प्रियतरो भवेत् ॥१॥

चैत्रस्य शुक्लद्वादश्यां मदनव्रतमाचरेत्॥
स्थापयेदव्रणं कुंभं सिततंदुलपूरितम् ॥२॥

नानाफलयुतं तद्वदिक्षुदंडसमन्वितम्॥
सितवस्त्रयुगच्छन्नं सितचंदनचर्च्चितम् ॥३॥

नानाभक्ष्यसमोपेतं सहिरण्यं स्वशक्तितः॥
ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत् ॥४॥

तत्र संपूजयेद्देवं कामरूपिणमच्युतम्॥
गंधाद्यैरुपचारैस्तु सोपवासो परेऽहनि ॥५॥

पुनः प्रातः समभ्यर्च्य ब्राह्मणाय निवेदयेत्॥
ब्रह्मणान्भोजयेच्चैव तेभ्यो दद्याच्च दक्षिणाम् ॥६॥

वर्षमेवं व्रतं कृत्वा घृतधेनुसमन्विताम्॥
शय्यां तु दद्याद्गुरवे सर्वोपस्करसंयुताम् ॥७॥

कांचनं कामदेवं च शुक्तां गां च पयस्विनीम्॥
वासोभिर्द्विजदांपत्यं पूजयित्वा समर्पयेत् ॥८॥

प्रीयतां कामरूपी मे हरिरित्येवमुच्चरन्॥
यः कुर्याद्विधिनाऽनेन मदनद्वादशीव्रतम् ॥९॥

स सर्वपापनिर्भुक्तः प्राप्नोति हरिसाम्यताम्॥
अस्यामेव समुद्दिष्टं भर्तृद्वादशिकाव्रतम् ॥१०॥

स्वास्तृतां तत्र शय्यां तु कृत्वात्र श्रीयुतं हरिम्॥
संस्थाप्य मंडपं पुष्पैस्तदुपर्प्युपकल्पयेत् ॥११॥

ततः संपूज्य गंधाद्यैर्व्रती जागरणं निशि॥
नृत्यवादित्रगीताद्यैस्ततः प्रातः परेऽहनि ॥१२॥

सशय्यं श्रीहरिं हैमं द्विजग्र्याय निवेदयेत्॥
द्विजान्संभोज्य विसृजद्दक्षिणाभिः प्रतोषितान् ॥१३॥

एवं कृतव्रतस्यापि दांपत्यं जायते स्थिरम्॥
सप्तजन्मसु भुंक्ते च भोगान् लोकद्वयेप्सितान् ॥१४॥

वैशाखशुक्लद्वादश्यां सोपवासो जितेंद्रियः॥
संपूज्य माधवं भक्त्या गंधाद्यैरुपचारकैः ॥१५॥

पक्कान्नं तृप्तिजनकं मधुरं सोदकुंभकम्॥
विप्राय दद्याद्विधिवन्माधवः प्रीयतामिति ॥१६॥

द्वादश्यां ज्येष्ठशुक्लायां पूजयित्वा त्रिविक्रमम्॥
गंधाद्यैर्मधुरान्नाढ्यं करक विनिवेदयेत् ॥१७॥

व्रती द्विजाय तत्पश्चादेकभक्तं समाचरेत्॥
व्रतेनानेन संतुष्टो देवदेवस्त्रिविक्रमः ॥१८॥

ददाति विपुलान्भोगानंते मोक्षं च नारद॥
आषाढशुक्लद्वादश्यां द्विजान्द्वादश भोजयेत् ॥१९॥

मधुरान्नेन तान्पूज्य पृथग्गंधादिकैः क्रमात्॥
तेभ्यो वासांसि दंडांश्च ब्रह्मसूत्राणि मुद्रिकाः ॥२०॥

पात्राणि च ददेद्भक्त्या विष्णुर्मे प्रीयतामिति॥
द्वादश्यां तु नभःशुक्ले श्रीधरं पूजयेद्व्रती ॥२१॥

गंधाद्यैस्तत्परो भक्त्या दधिभक्तैर्द्विजोत्तमान्॥
संभोज्य दक्षिणा रौप्यां दत्वा नत्वा विसर्ज्जयेत् ॥२२॥

व्रतेनानेन देवेशः श्रीधरः प्रीयतामिति॥
द्वादश्यां नभस्यशुक्ले व्रती संपूज्य वामनम् ॥२३॥

तदग्रे भोजयेद्विप्रान्पायसैर्द्वादशैव च॥
सौवर्णी दक्षिणां दत्वा विष्णुप्रीतिकरो भवेत् ॥२४॥

द्वादश्यामिषशुक्लायां पद्मनाभं समर्चयेत्॥
गंधाद्यैरुपचारैस्तु तदग्रे भोजयेद्द्विजान् ॥२५॥

मधुरान्नेन वस्त्राढ्यां सौवर्णीं दक्षिणां ददेत्॥
व्रतेनैतेन संतुष्टः पद्मनाभो द्विजोत्तम ॥२६॥

श्वेतद्वीपगतिं दद्याद्देहभोगांश्च वांछितान्॥
कार्तिके कृष्णपक्षे तु गोवत्सद्वादशीव्रतम् ॥२७॥

तत्र वत्सयुतां गां तु समालिख्य सुगंधिभिः॥
चंदनाद्यैस्तथा पुष्पमालाभिः प्रार्च्य ताम्रके ॥२८॥

पात्रे पुष्पाक्षततिलैरर्घ्यं कृत्वा विधानतः॥
प्रदद्यात्पादमूलेऽस्या मन्त्रेणानेन नारद ॥२९॥

क्षीरोदार्णवसंभूते सुरासुरनमस्कृते॥
सर्वदेवमये देवि सर्वदेवैरलंकृते ॥३०॥

मातर्मातर्गवां मातर्गृहाणार्घ्यं नमोऽस्तु ते॥
ततो माषादिसंसिद्धान्वटकांश्च निवेदयेत् ॥३१॥

एवं पञ्च दशैकं वा यथाविभवमात्मनः॥
सुरभि त्वं जगन्माता नित्यं विष्णुपदे स्थिता ॥३२॥

सर्वदेवमये ग्रासं मया दत्तमिमं ग्रस॥
सर्वदेवमये देवि सर्वदेवैरलंकृते ॥३३॥

मातर्ममाभिलषितं सफलं कुरु नंदिनी॥
तद्दिने तैलपक्वं च स्थालीपक्वं द्विजोत्तम ॥३४॥

गोक्षीरं गोघृतं चैव दधि तक्रं च वर्जयेत्॥
द्वादश्यामूर्जशुक्लायां देवं दामोदरं द्विज ॥३५॥

समभ्यर्च्योपचारैस्तु गंधाद्यैः सुसमाहितः॥
तदग्रे भोजयेद्विप्रान्पक्वान्नेनार्कसंख्यकान् ॥३६॥

ततः कुंभानपांपूर्णान्वस्त्राच्छन्नान्समर्चितान्॥
सपूगमोदकस्वर्णांस्तेभ्यः प्रीत्या समर्पयेत् ॥३७॥

एवं कृते प्रियो विष्णोर्जायतेऽखिलभोगभुक्॥
देहांते विष्णुसायुज्यं लभते नात्र संशयः ॥३८॥

नीराजनव्रतं चात्र गदितं तन्निबोध मे॥
सुप्तोत्थितं जगन्नाथमलंकृत्य निशागमे ॥३९॥

अलंकृतो नवं वह्निमुत्पाद्याभ्यर्च्य मन्त्रतः॥
हुत्वा तत्र समुद्दीप्ते रौप्य दीपिकया मुने ॥४०॥

गंधपुष्पाद्यर्चितया जनैर्नीराजयेद्धरिम्॥
तत्रैवानुगतां लक्ष्मीं ब्रह्माणीं चंडिकां तथा ॥४१॥

आदित्यं शंकरं गौरीं यक्षं गणपतिं ग्रहान्॥
मातॄः पितॄन्नगान्नागान्सर्वान्नीराजयेत्क्रमात् ॥४२॥

गवां नीराजनं कुर्यान्महिष्यादेश्च मंडलम्॥
नमो जयेति शब्दैश्च घंटाशंखा दिनिःस्वनैः ॥४३॥

सिंदूरालिप्तश्रृङ्गाणां चित्राङ्गाणां च वर्णकैः॥
गवां कोलाहले वृत्ते नीराजनमहोत्सवे ॥४४॥

तुरगांल्लक्षणोपेताम् गजांश्च मदविप्लुतान्॥
राजचिह्नानि सर्वाणि च्छत्रादीनि च नारद ॥४५॥

राजा पुरोधसा सार्धं मंत्रिभृत्यपरः सरः॥
पूजयित्वा यथान्यायं नीरज्य स्वयमादरात् ॥४६॥

शंखतूर्यादिघोषैश्च नानारत्नविनिर्मिते॥
सिंहासने नवे क्लृप्ते तिष्ठेत्सम्यगलंकृतः ॥४७॥

ततः सुलक्षणैर्युक्ता वेश्या वाथ कुलांगना॥
शीर्षोपरि नरेंद्रस्य तया नीराजयेच्छनैः ॥४८॥

एवमेषा महासांतिः कर्तव्या प्रतिवत्सरम्॥
राज्ञा वित्तवतान्येन वर्षमारोग्यमिच्छता ॥४९॥

येषां राष्ट्रे पुरे ग्रामे क्रियते शांतिरुत्तमा॥
नीराजनाभिधा विप्र तद्रोगा यांति संक्षयम् ॥५०॥

द्वादश्यां मार्गशुक्लायां साध्यव्रतमनुत्तमम्॥
मनोभवस्तथा प्राणो नरो यातश्च वीर्यवान् ॥५१॥

चितिर्हयो नृपश्चैव हंसो नारायणस्तथा॥
विभुश्चापि प्रभुश्चैव साध्या द्वादश कीर्तिताः ॥५२॥

पूजयेद्गंधपुष्पाद्यैरेतांस्तंदुलकल्पितान्॥
ततो द्विजाग्र्यान्संभोज्य द्वादशात्र सुदक्षिणाः ॥५३॥

दत्वा तेभ्यस्तु विसृजेत्प्रीयान्नारयणस्त्विति॥
एतस्यामेव विदितं द्वादशादित्यसंज्ञितम् ॥५४॥

व्रतं तत्रार्चयेद्धीमानादित्यान्द्वादशापि च॥
धातामित्रोऽर्यमा पूषा शक्रोंऽशो वरुणो भगः ॥५५॥

त्वष्टा विवस्वान्सविता विष्णुर्द्वादश ईरिताः॥
प्रतिमासं तु शुक्लायां द्वादश्यामर्च्य यत्नतः ॥५६॥

वर्षं नयेद्व्रतांते तु प्रतिमा द्वादशापि च॥
हैमीः संपूज्य विधिना भोजयित्वा द्विजोत्तमान् ॥५७॥

मधुरान्नैः सुसत्कृत्य प्रत्येकं चार्पयेद्व्रती॥
एव व्रतं नरः कृत्वा द्वादशादित्यसंज्ञकम् ॥५८॥

सूर्यलोकं समासाद्य भुक्त्वा भोगांश्चरं ततः॥
जायते भुवि धर्मात्मा मानुष्ये रोगवर्जितः ॥५९॥

ततो व्रतस्य पुण्येन पुनरेव लभेद्व्रतम्॥
तत्पुण्येन रवेन्भित्वा मंडलं द्विजसत्तम ॥६०॥

निरंजनं निरा कारं निर्द्वंद्वं ब्रह्म चाप्नुयात्॥
अत्रैवाखंडसंज्ञं च व्रतमुक्त द्विजोत्तम ॥६१॥

मूर्तिं निर्माय सौवर्णीं जनार्दनसमाह्वयाम्॥
अभ्यर्च्य गन्धपुष्पाद्यैस्तदग्रे भोजयेद्द्विजान् ॥६२॥

द्वादश प्रतिमासं तु नक्ताशीः स्याज्जितेंद्रियः॥
ततः समांते तां मूर्तिं समभ्यर्च्य विधानतः ॥६३॥

गुरवे धेनुसहितां दद्यात्संप्रार्थयेत्तथा॥
शतजन्मसु यत्किंचिन्मयाखंडव्रतं कृतम् ॥६४॥

भगवंस्त्वत्प्रसादेन तदखंडमिहास्तु मे॥
ततः संभोज्य विप्राग्र्यान्सखंडाढ्यैस्तु पायसैः ॥६५॥

द्वादशैव हि सौवर्णीं दक्षिणां प्रददेन्नमेत्॥
इति कृत्वा व्रतं विप्र प्रीणयित्वा जनार्दनम् ॥६६॥

सौवर्णेन विमानेन याति विष्णोः परं पदम्॥
पौषस्य कृष्णद्वादश्यां रूपव्रतमुदीरितम् ॥६७॥

दशम्यां विधिवत्स्नात्वा गृह्णीयाद्गोमयं व्रती॥
श्वेताया वैकवर्णाया अन्तरिक्षगतं द्विज ॥६८॥

अष्टोत्तरशतं तेन पिंडिकाः कल्प्य नारद॥
शोषयेदातपे धृत्वा पात्रे ताम्रेऽथ मृन्मये ॥६९॥

एकादश्यां सोपवासः समभ्यर्च्य विधानतः॥
सौवर्णीं प्रतिमां विष्णोर्निशायां जागरं चरेत् ॥७०॥

सुमंगलैर्गीतवाद्यैः स्तोत्रपाठैर्जपादिभिः॥
ततः प्रभाते द्वादश्यां तिलपात्रोपरि स्थिताम् ॥७१॥

अंबुपूर्णे घटे न्यस्य पूजयेदुपचारकैः॥
ततोऽग्निं नवमुत्पाद्य काष्ठसंघर्षणादिभिः ॥७२॥

तं समभ्यर्च्य विधिवदेकैकां पिंडिकां सुधीः॥
होमयेत्सतिलाज्यां च द्वादशाक्षरविद्यया ॥७३॥

वैष्णव्याथ च पूरणां च शतमष्टोत्तर ततः॥
भोजयेत्पायसैर्विप्रान्प्रीत्या सुस्निग्धमानसः ॥७४॥

सहितां च घटेनैव प्रतिमां गुरवऽपेयेत्॥
विप्रेभ्यो दक्षिणां शक्त्या दत्वा नत्वा विसर्जयेत्॥
नरो वा यदि वा नारी व्रतं कृत्वैवमादरात् ॥७५॥

लभते रूपसौभाग्यं नात्र कार्या विचारणा॥
सहस्ये शुक्लपक्षे तु सुजन्मद्वादशीव्रतम् ॥७६॥

स्नात्वा विधानेन गृह्णोयाद्वार्षिकव्रतम्॥
पीत्वा गश्रृंगवार्यादौ तां च कृत्वा प्रदक्षिणम् ॥७७॥

प्रतिमासं ततः शुक्लेद्वादश्यां दानमाचरेत्॥
घृतप्रस्थं तच्चतुष्कं क्रमाद्वीहेर्यवस्य च ॥७८॥

द्विरक्तिकं हेम तिलाढकार्द्धं पयसां घटम्॥
रौप्यस्य माषमेकं च तृप्तिकृन्मिष्टपक्वकम् ॥७९॥

छत्रं माषार्धहेम्नश्च प्रस्थं फाणितमुत्तमम्॥
चंदनं पलिकं वस्त्रं पंचहस्तोन्मितं तनुम् ॥८०॥

एवं तु मासिकं दानं कृत्वा प्राश्य यथाक्रमम्॥
गोमूत्रं जलमाज्यं वा पक्त्वा शाकं चतुर्विधम् ॥८१॥

दधियुक्तं च यावान्नं तिलाज्यं शर्करान्विताम्॥
दर्भांबुक्षीरमुदितं प्राशनं प्रतिमासिकम् ॥८२॥

एवं कृतव्रतो वर्षं सौवर्णीं प्रतिमां रवेः॥
कृत्वा वै ताम्रपात्रस्थां न्यस्याभ्यर्च्य विधानतः ॥८३॥

गुरवे धेनुसहितां प्रत्यर्प्य प्रणमेत्पुरः॥
विप्रान्द्रादश संभोज्य तेभ्यो दद्याच्च दक्षिणाम् ॥८४॥

एवं कृतव्रतो विप्र जन्माप्नोत्युत्तमे कुले॥
निरोगो धनधान्याढ्यो भवेच्चाविकलेद्रियः ॥८५॥

माघस्य शुक्लद्वादश्यां शालग्रामशिलां द्विज॥
अभ्यच्य विधिवद्भक्त्या सुवर्णं तन्मुखे न्यसेत् ॥८६॥

तां स्थाप्य रौप्यपात्रे तु सितवस्त्रयुगावृताम्॥
प्रदद्याद्वेदविदुषे तं हि संभोजयेत्ततः ॥८७॥

पायसान्नेन खंडाज्यसहितेन हितेन च॥
एवं कृत्वैकभक्तः सन्विष्णु चिंतनतत्परः ॥८८॥

वैष्णवं लभते धाम भुक्त्वा भोगानिहेप्सितान्॥
अंत्ये सितायां द्वादश्यां सौवर्णीं प्रतिमां हरेः ॥८९॥

अभ्यर्च्य गंधपुष्पाद्यैर्दद्याद्वेदविदे द्विज॥
द्विषट्कसंख्यान्विप्रांश्च भोजयित्वा च दक्षिणाम् ॥९०॥

दत्वा विसर्जयेत्पश्चात्स्वयं भुंजीत बांधवैः॥
त्रिस्पृशोन्मीलिनी पक्षवर्द्धिनी वंजुली तथा ॥९१॥

जया च विजया चैव जयंती चापराजिता॥
एता अष्टौ सदोपोष्या द्वादश्यः पापहारिकाः ॥९२॥

श्रीनारद उवाच॥
कीदृशं लक्षणं ब्रह्मन्नेतासां किं फलं तथा॥
तत्सर्वं मे समाचक्ष्व याश्चन्याः पुण्यदायिकाः ॥९३॥

सूत उवाच॥
इत्थं सनातनः पृष्टो नारदेन द्विजोत्तमः॥
प्रशस्य भ्रातरं प्राह महाभागवतं मुनिः ॥९४॥

सनातन उवाच॥
साधु पृष्टं त्वया भ्रातः साधूनां संशयच्छिदा॥
वक्ष्ये महाद्वादशीनां लक्षणं च फलं पृथक् ॥९५॥

एकादशी निवृत्ता चेत्सूर्यस्योदयतः पुरा॥
तदा तु त्रिस्पृशा नाम द्वादशी सा महाफला ॥९६॥

अस्यामुपोष्य गोविन्दं यः पूजयति नारद॥
अश्वमेधसहस्रस्य फलं लभते ध्रुवम् ॥९७॥

यदारुणोदये विद्धा दशम्यैकादशी तिथिः॥
तदा तां संपरित्यज्य द्वादशीं समुपोषयेत् ॥९८॥

तत्रेष्ट्वा वासुदेवाख्यं सम्यक्पूजाविधानतः॥
राजसूयसहस्रस्य फलमुन्मीलिते लभेत् ॥९९॥

यदोदये तु सवितुर्याम्या त्वेकादशीं स्पृशेत्॥
तदा वंजुलिकाख्यां तु तां त्यक्त्वोपोषयेत्सदा ॥१००॥

अस्यां संकर्षणं देवं गंधाद्यैरुपचारकैः॥
पूजयेत्सततं भक्त्या सर्वस्याभयदं परम् ॥१०१॥

एषा महाद्वादशी तु सर्वक्रतुफलप्रदा॥
सर्वपापहरा प्रोक्ता सर्वसंपत्प्रदायिनी ॥१०२॥

कुहूराके यदा वृद्धे स्यातां विप्र यदा तदा॥
पक्षवर्द्धनिका नाम द्वादशी सा महाफला ॥१०३॥

तस्यां संपूजयेद्देवं प्रद्युम्नं जगतां पतिम्॥
सर्वैश्वर्य्यप्रदं साक्षात्पुत्र पौत्रविवर्धनम् ॥१०४॥

यदा तु धवले पक्षे द्वादशी स्यान्मधान्विता॥
तदा प्रोक्ता जया नाम सर्वशत्रुविनाशिनी ॥१०५॥

अस्यां संपूजयेद्देवमनिरुद्धं रमापतिम्॥
सर्वकामप्रदं नॄणां सर्वसौभाग्यदायकम् ॥१०६॥

श्रवणर्क्षयुता चेत्स्याद्द्वादशी धवले दले॥
तदा सा विजया नाम तस्यामचेद्गदाधरम् ॥१०७॥

सर्वसौख्यप्रदं शश्वत्सर्वभोगपरायणम्॥
सर्वतीर्थफलं विप्र तां चोपोष्याप्नुयान्नरः ॥१०८॥

यदा स्याच्च सिते पक्षे प्राजापत्यर्क्षसंयुता॥
द्वादशी सा महापुण्या जयंती नामतः स्मृता ॥१०९॥

यस्यां समर्च्चयेद्देवं वामनं सिद्धिदं नृणाम्॥
उपोषितैषा विप्रेंद्र सर्वव्रतफलप्रदा ॥११०॥

सर्वदानफला चापि भुक्तिमुक्तिप्रदायिनी॥
यदा तु स्यात्सिते पक्षे द्वादशी जीवभान्विता ॥१११॥

तदापराजिता प्रोक्ता सर्वज्ञानप्रदायिनी॥
अस्यां समर्चयेद्देवं नारायणमनामयम् ॥११२॥

संसारपाशविच्छित्तिकारकं ज्ञानसागरम्॥
अस्यास्तूपोषणादेव मुक्तः स्याद्विप्र भोजनः ॥११३॥

यदा त्वाषाढशुक्लायां द्वादश्यां मैत्रभं भवेत्॥
तदा व्रतद्वयं कार्य्यं न दोषोऽत्रैकदैवतम् ॥११४॥

श्रवणर्क्षयुतायां च द्वादश्यां भाद्रशुक्लके॥
ऊर्ज्जे सितायां द्वादश्यामंत्यभे च व्रतद्वयम् ॥११५॥

एताभ्योऽन्त्र विप्रेंद्र द्वादश्यामेकभुक्तकम्॥
निसर्गतः समुद्दिष्टं व्रतं पातकनाशनम् ॥११६॥

एकादश्या व्रतं नित्यं द्वादश्याः सहितं यतः॥
नोद्यापनमिहोद्दिष्टं कर्त्तव्यं जीविताविधि ॥११७॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने पूर्वभागे चतुर्थपादे द्वादशमासस्य द्वादशीव्रतनिरूपणं नामैकविंशत्यधिकशततमोऽध्यायः ॥१२१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-05-08T04:03:52.5600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

एखाद्याला बरें मागणें

  • चांगलें व्हावें अशी इच्छा करणें. 
RANDOM WORD

Did you know?

श्रीयंत्र स्थापना व मुहूर्त याबद्दल माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site