TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
एकषष्टितमोऽध्यायः

श्री नारदीयमहापुराणम् - एकषष्टितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


एकषष्टितमोऽध्यायः
सनत्कुमार उवाच ॥
अशोकं शोकनाशार्थं शास्त्रं शांतिकरं शिवम् ॥ निशम्य लभ्यते बुद्धिर्लब्धायां सुखमेधते ॥१॥
हर्षस्थानसहस्त्राणि शोकस्थानशतानो च ॥ दिवसे दिवसे मूढमाविशंति न पंडितम् ॥२॥
अनिष्टसप्रंयोगाच्च विप्रयोगात्प्रियस्य च ॥ मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः ॥३॥
द्रव्येषु समतीतेषु ये गुणास्तान्न चिंतयेत् ॥ ताननाद्रियमाणश्व स्त्रेहन्धाद्विमुच्यते ॥४॥
दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्त्तते ॥ अनिष्टबुद्धितां यच्छेत्ततः क्षिप्रं विराजते ॥५॥
नार्थो न धर्मो न यशो योऽतीतमनुशोचति ॥ अस्याभावेन युज्येत तच्चास्य तु निवर्तते ॥६॥
गुणैर्भूतानि युज्यंते तथैव च न युज्यते ॥ सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥७॥
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ॥ दुःखेन लभते दुःख महानर्थे प्रपद्यते ॥८॥
दुःखोपघाते शारीरे मानसे चाप्युपस्थिते ॥ यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुचिंतयेत् ॥९॥
मैषज्यमेतद्दुः खस्य यदेततन्नानुचिंतयेत् ॥ चिंत्यमानं हि न व्येति भूयश्वाभिप्रवर्द्धते ॥१०॥
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधेः ॥ एतद्विज्ञाय सामर्थ्य न वान्यैः समतामियात् ॥११॥
अनित्यं जीवितं रुपं यौवनं द्रव्यसञ्चयः ॥ आरोग्य प्रियसंवासं न मृध्येत्पंडितः क्कचित् ॥१२॥
नाज्ञानप्रभवं दुःखमेकं शोचितुमर्हति ॥ अशोचन्र्पतिकुर्वीत यदि पश्येदुपक्रमम् ॥१३॥
सुखात्प्रियतरं दुःखं जीविते नात्र संशयः ॥ जरामरणदुःखेभ्यं प्रियमात्मानमुद्धरेत् ॥१४॥
भजंति हि शारीराणि रोगाः शरीरमानसाः ॥ सायका एव तीक्षणाग्राः प्रयुक्तादृडधन्विभिः ॥१५॥
व्याधितस्य चिकित्साभिस्त्रस्यतो जीवितैषिणः ॥ आमयस्य विनाशाय शरीरमनुकृष्यते ॥१६॥
स्त्रंसंति न निवर्तंते स्त्रोतांसि सरितामिव ॥ आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः ॥१७॥
अपयंत्ययमत्यंतं पक्षयोः शुक्लकृष्णयोः ॥ जातं मर्त्यं जरयति निमिषं नावतिष्ठते ॥१८॥
सुखदुःखाभिभूतानामजरो जरयत्यसून् ॥ आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥१९॥
अद्दष्टपूर्वानादाय भावा नपरिशंकितान् ॥ इष्टानिष्टा मनुष्याणां मतं गच्छन्ति रात्रयः ॥२०॥
यो यदिच्छेद्यथाकामं कामानां तत्तवाप्नुयात ॥ यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ॥२१॥
संयताश्वैव दक्षाश्व मतिमंतश्व मानवाः ॥ द्दश्यंते निष्फलाः संतः प्रहीनाश्व स्वकर्मभिः ॥२२॥
अपरे निष्फलाः सन्तोनिर्गुणाः पुरुषाधमाः ॥ आशाभिरप्यसंयुक्ता द्दश्यन्ते सर्वकामिनः ॥२३॥
भूतानामपरः कश्विद्धिंसायां सततोत्थितः ॥ वंचनायां च लोकेषु ससुखेष्वेव जीयते ॥२४॥
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति ॥ कश्वित्कर्माणि कुरुते न प्राप्यमधिगच्छति ॥२५॥
अपराधान्समाचष्टुं पुरुषस्य स्वभावतः ॥ शुक्रमन्यत्र संभूंत पुनरन्यत्र गच्छति ॥२६॥
तस्य योनौ प्रसक्तस्य गर्भो भवति मानवः ॥ आम्रपुष्पपमा यस्य निवृत्तिरुप लभ्यते ॥२७॥
केर्षाचित्पुत्रकानामनुसन्तानमिच्छताम् ॥ सिद्धौ प्रयतमानानां नैवांडमुपजायते ॥२८॥
गर्भदुद्विजमानानां क्रुधादाशीविषा दिव ॥ आयुष्यमान् जायते पुत्रः कथं प्रेतः पितेव सः ॥२९॥
देवानिष्ट्रा तपस्तप्त्वा कृपणैः पुत्रहेतुभिः ॥ दशमासान्परिधृता जायते कुल पांसनाः ॥३०॥
अपरे धनधान्यानि भोगांश्व पितृसंचितान् ॥ विमलानभिजायन्ते लब्ध्वा तैरेव मङुलैः ॥३१॥
अन्योन्य समभिप्रेत्य मैथुनस्य समागमे ॥ उपद्रववाद्दष्टो योनौ गर्भः प्रपद्यते ॥३२॥
स्निग्धत्वादिंद्रियार्थेषु मोहान्मरणमप्रियम् ॥ परित्यजति यो दुःख सुखमप्युभयं नरः ॥३३॥
अत्येति ब्रह्म सोऽत्यन्तं सुखमप्यश्नुते परम् ॥ दुःखमर्था हि त्यज्यंते पालने च न ते सुखाः ॥३४॥
श्रुत्वैव नाधिग मनं नाशमेषां न चिंतयेत् ॥ अन्यामन्यां धनावस्थां प्राप्य वैशेषिकाः नराः ॥३५॥
अतृप्ता यांति विध्वंसं सन्तोषं यांति पंडिताः ॥ सर्वे क्षयांता निचयाः पतनांताः समुच्छ्रयाः ॥३६॥
संयोगा विप्रयोगांता मरणांतं हि जिवितम् ॥ अन्तो नास्ति पिपासायास्तुष्टिस्तउ परमं सुखम् ॥३७॥
तस्मात्संतोषमेवेह धनं शंसन्ति पंडिताः ॥ निमेषमात्रमपि हि योऽधिगच्छान्न तिष्ठति ॥३८॥
सशरीरेष्वनित्येषु नित्यं किमनु चिंतयेत् ॥ भूतेषु भावं संचित्य ये बुद्धया तमसः परम् ॥३९॥ 
न शोचंति गताध्वानः पश्यंति परमां गतिम् ॥ संचिन्वन्नेकमेवैनं कामानवितृप्तकम् ॥४०॥ 
व्याघ्र पशूमिवासाद्य मृत्युरादाय गच्छति ॥ अथाप्युपायं संपश्येहुःखस्यास्य विमोक्षणे ॥४१॥
अशोचन्नारभएन्नैव युक्तश्वाव्यसनी भवेत ॥ शब्दे स्पर्शे रसे रुपे गंधे च परं तथा ॥४२॥
नोपभोगात्परं किंचिद्धनिनो वाऽधनस्य वा ॥ वाक्संप्रयोगाद्धतानां नास्ति दुःखमनामयम् ॥४३॥
विप्रयोगश्व सर्वस्य न वाचा न च विद्यया ॥ प्रणंय परिसंह्रत्य संस्तुतेष्विरेषु च ॥४४॥
विचरेदसमुन्नद्धः स सुखी स च पंडितः ॥ अध्यात्मगतमालीनो निरपेक्षी निरामिषः ॥४५॥
आत्मनैव सहायेन यश्वरेत्स सुखी भवेत् ॥ सुखदुःखविपर्यासो यदा समुपपद्यते ॥४६॥
नैनं प्रज्ञा सुनियंत त्रायते नापि पौरुषम् ॥ स्वभावाद्यत्नमातिष्ठेद्यत्नन्नावसीदति ॥४७॥
उपद्रव इवानिष्टो योनिं गर्भः प्रपद्यते ॥ तानि पूर्वशरीराणि नित्यमेकं शरीरिणम् ॥४८॥
प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् ॥ निर्दग्धं परदेहेन परदेंहे बलाबलम ॥४९॥
विनश्यति विनाशते नावि नावमिवाचलाम् ॥ संगत्या न्यस्तं रेतोबिंदुमचेतनम् ॥५०॥
केन यत्नेन जीवंतं गर्भं त्वमिह पश्यसि ॥ अन्नपानानि जीर्यंते यत्र भक्ष्याश्व भक्षिताः ॥५१॥
तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यति ॥ गर्भे मूत्रपुरिषाणां स्वभावनियता गतिः ॥५२॥
धारणे वा विसर्गे च न कर्तुं विद्यतेऽवशः ॥ प्रभवंत्युदरे गर्भा जायमानास्तथापरे ॥५३॥
आगमेन महान्येषां विनाश उपपद्यते ॥ एतस्माद्योनिसंबंधाद्यो जीवन्परिमुच्यते ॥५४॥
पूजां न लभते कांचित्पुनर्द्वंद्वेषु मज्जति ॥ गर्भस्य सह जातस्य सप्तमीमीदृशीं दशाम् ॥५५॥
प्राप्नुवंति ततः पंच न भवंति शतायुषः ॥ नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः ॥५६॥
व्याधिभिश्व विवध्यंते व्याघ्रैः क्षुद्रमृगा इव ॥ व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलंधनम् ॥५७॥
वेदना नापकर्षंति यतमानाश्विकित्सकाः ॥५८॥
ते चापि विविधा वैद्याः कुशला संमतौषधः ॥ व्याधिभिः परिकृष्यंते मृगा व्याघ्रैरिवार्दिताः ॥५९॥
ते पिबंति कषायांश्व सर्पीषि विविधानि च ॥ दृश्यंते जरया भग्ना नागैर्नागा इवोत्तमाः ॥६०॥
कैर्वा भुवि चिकित्स्येंत रोगार्त्ता मृगपक्षिणः ॥ श्वापदाश्व दरिद्राश्व प्रायो नार्ता भवंति ते ॥६१॥
घोरानपि दुराधर्षान्नृपतीनुग्रतेजसः ॥ आक्रम्य रोग आदत्ते पशून्पशुपचो यथा ॥६२॥
इति लोकमनाक्रंदं मोहशोकपरिप्लुतम् ॥ स्त्रोतसा महता क्षिप्रं ह्रियमाणं बलीयसा ॥६३॥
न धनेन न राज्येन नोग्रेण तपसा तथा ॥ स्वभावा ह्य तिवर्तंते ये निर्मुक्ताः शरीरिषु ॥६४॥
उपयपरि लोकस्य सर्वो भवितुमिच्छति ॥ यतते च यथाशक्ति न च तद्वर्तते तथा ॥६५॥
न म्रियेरन्नजीर्ये रन्सर्वे स्युः सार्वकामिकाः ॥ नाप्रियं प्रतिपद्येरेन्नुत्थानस्य फलं प्रति ॥६६॥
ऐश्वर्यमदमत्ताश्व मानान्ममदेन च ॥ अप्रमत्ताः शठाः क्रूरा विक्रांताः पर्युपासते ॥६७॥
शोकाः प्रतिनिवर्तंते केषांचिदसमीक्षताम् ॥ स्वं स्वं च पुनरम्येषां न कंचिदतिगच्छति ॥६८॥
महच्च फलवैषम्यं दृश्यते कर्मसांधिषु ॥ वहंति शिबिकामन्ये यांत्यन्ये शिबिकारुहः ॥६९॥
सर्वेषामृद्धिकामानामन्ये रथपुरः सराः ॥ मनुजाश्व गतश्रीकाः शतशो विविधाः स्त्रियः ॥७०॥
द्वंद्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः ॥ इदमन्यत्परं पश्य नात्र मोहं करिष्यसि ॥७१॥
धर्मं चापि त्यजा धर्मं त्यज सत्यानृतां धियम् ॥ सर्वं त्यक्ता स्वरुपस्थः सुखी भव निरामयः ॥७२॥
एतत्ते परमं गुह्यमाख्यातमृषिसत्तम ॥ येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः ॥७३॥
सनंदन उवाच ॥
इत्युक्ता व्यासतनयं समापृच्छय महामुनिः ॥ सनत्कुमारः प्रययौ पूजितस्तेन सादरम् ॥७४॥
शुकोऽपि योगिनां श्रेष्ठः सम्यग्ज्ञात्वा ह्यवस्थितिम् ॥ ब्रह्मणः पदमन्वेष्टुमुत्सुकः पितरं ययौ ॥७५॥
ततः पित्रा समागम्य प्रणम्य च महामुनिः ॥ शुक्रः प्रदक्षिणीकृत्य ययौ कैलासपर्वतम् ॥७६॥
व्यासस्तद्विरहाद्दूनः पुत्रस्नेहसमावृतः ॥ क्षणैकं स्थीयतां पुत्र इति चक्रोश दुर्मनाः ॥७७॥
निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः ॥ मोक्षमेवानुसंचित्य गत एव परं पदम् ॥७८॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे एकषष्टितमोऽध्यायः ॥६१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:36:05.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

नेपाल

  • पु. १ एक सारक वनस्पति २ एक देश ; हिंदुस्थानचा एक भाग . नेपाळेश्वर भाळलग्न चिखला कस्तूरिका मानिती . काकान्योक्ति . [ सं . नेपाल ] 
RANDOM WORD

Did you know?

घरातील देव्हारा पूर्व पश्चिम कां ठेवतात, इतर दिशा कां वर्ज्य?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.